________________
१५४
महामुनिश्रीव्यासमणीत
[ २ भूमिखण्डेअभयो भयनाशाय पापनाशाय ज्ञानवान् । एकश्च ब्रह्मरूपेण तमस्मि शरणं गतः ॥ २० व्याधीनां नाशनायैव य औषधस्वरूपवान् । निरामयो निरानन्दस्तमस्मि शरणं गतः ॥ २१ अचलांवालयेल्लोकानपापो ज्ञानमेव च । तमस्मि शरणं प्राप्तः किं भयं मे करिष्यति ॥ २२ साधूनामपि सर्वेषां पालकः पद्मनाभकः । पाति विश्वं च विश्वात्मा तमस्मि शरणं गतः ॥ २३ यो मे मृगेन्द्ररूपेण भयं दर्शयतेऽग्रतः । तमहं शरणं प्राप्ता नरसिंहं भयापहम् ॥ २४ यमापनो महाकायो रणे हस्ती समागतः । गजलीलागतं देवं शरणागतवत्सलम् ॥ २५ गैणपं ज्ञानसंपन्नं सुपाशाङ्कुशधारिणम् । कालास्यं गजतुण्डं च शरणं सुगतोऽस्म्यहम् ॥ २६ हिरण्याक्षमहर्तारं वाराहं शरणं गतः । स्वास्तु वामनाः कृराः प्रेताः कृप्माण्डकादयः ।। वामनं तं प्रपन्नोऽस्मि शरणागतवत्सलम् ॥
२७ मृत्युरूपधराः सर्वे दर्शयन्ति भयं मम । अमृतं तं प्रपन्नोऽस्मि किं भयं मे करिष्यति ॥ २८ [*ब्रह्मण्यो ब्रह्मदो ब्रह्मा ब्रह्मज्ञानमयो हरिः। शरणं तं प्रपन्नोऽस्मि किं भयं मे करिष्यति] २९ अभयो यो हि जगतो भीनिघ्नो भीतिदायकः। ['भयरूपं प्रपन्नोऽस्मि किं भयं मे करिष्यति]॥३० तारकः सर्वपुण्यानां नाशकः सर्वपापिनाम् । तमहं शरणं प्राप्ती धर्मरूपं जनार्दनम् ॥ ३१ झञ्झावातो महाचण्डो वपुर्दयति में भृशम् । शरणं तस्य गन्ताऽस्मि सदा गतिरयं मम ।। ३२ अतिशीतं चातिवर्षमातपस्तापदायकः । एषां रूपेण यो देवस्तस्याहं शरणं गतः ॥ ३३ कालरूपा अमी प्राप्ता भयदा मम चालकाः । हरिस्वरूपिणामषां प्रगतः शरणं मदा ॥ ३४
यं सर्वदेवं परमेश्वरं हि निकवलं ज्ञानमयं प्रधानम् ।।
वदन्ति नारायणमादिमिद्धं सिद्धेश्वरं तं शरणं प्रपद्ये ॥ इति ध्यायंस्तुवन्नित्यं केशवं क्लंशनाशनम् । भक्त्या तेन समानीतस्तदाऽऽन्महृदये हरिः ॥ ३६ उद्यम विक्रमं तस्य स दृष्ट्वा सांमशर्मणः । आविर्भूय हपीकेशस्तमुवाच प्रहर्पयन ॥ सोमशर्मन्महापाज्ञ श्रूयतां भार्यया सह । वासुदेवोऽस्मि विप्रेन्द्र वरं वरय सुव्रत ॥ ३८ श्रुत्वोदितं स विप्रेन्द्र उन्मील्य नयनद्वयम् । दृष्ट्वा विश्वश्वरं देवं घनश्याम महोदयम् ।। ३९ सर्वाभरणशोभाढ्यं मर्वायुधममन्वितम् । दिव्यलक्षणसंपन्नं पुण्डरीकनिभेक्षणम् ॥ पीतेन वाससा युक्तं राजमानं सुरश्वरम् । [वनयसमारूढं शङ्खचक्रगदाधरम् ।। ४१ ब्रह्मादीनां सुधातारं जगतोऽस्य महायशाः । विश्वरूपं सदारूपं रूपातीतं जनार्दनम् ॥ ४२ हर्षेण महताऽऽविष्टो दण्डवत्पणिपत्य च । श्रिया युक्तं भासमानं सूर्यकाटिसमप्रभम् ॥ ४३ बद्धाञ्जलिपुटो भूत्वा तया सुमनया मह । जय देव जगन्नाथ जय मानद माधव ॥ ४४ जय योगीश योगीन्द्र जय यज्ञपत हरे । जय यज्ञश येशन्न जय शाश्वत मर्वग ।।
२७
* क.ख. ग. घ. ड. च. झ. ड ढ. पुस्तकस्थाऽय पाट। । क. ख. इ. च. छ झ. ड. ढ. पुस्तकस्थाऽयं पाठः । * क. ख. ग. घ. ड. च. छ. ज. स. ट. ह. द. पुस्तकस्थाऽय पाठः।
१गघ. ज. ट. ड. 'ह नतोऽस्म्यह। ३. छ. झ.ढ. हं नमाम्यह ।। २६. झ. ढ. 'म् । मदमत्ती महाकायो वनह।३ क. ख. ग. घ. . च. छ. ज. झ. ट. इ. ८. गजास्यं । ४ क. ख. ड. च. छ. झ. द. ति। मारकः सर्वलोकानां । ग. घ. ज.ट. ड. ति । तारकः सर्वलोकानां । ५ञ.म् । सुरारण या हि रण वर्धारयतेऽद्धतम् । ६ क. ख. ग. इ. च. छ. स. ट. ह. द. प्रहृष्टवान् । ७क. ख. च. छ. झ. ढ. विश्वस्यास्य सदाऽतीत रूपातीत जगद्गुरुम् । ८ क. ख..च. छ. ज. स. ट. इ. ढ. 'य जयत्युवाचव ज। ९ क. ख. ग. घ. च. छ. झ. ड. ढ. यज्ञाङ्ग ।