________________
पञ्चमोऽध्यायः ]
पद्मपुराणम् ।
१९
'वर्षसहस्राणि तत्राऽऽयुर्द्विजसत्तमाः । कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः || १८ दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु । सुदर्शनो नाम महाअम्बूवृक्षः सनातनः ।। सर्वकामफलः पुण्यः सिद्धचारणसेवितः । तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ।। २० योजनानां सहस्रं च शतं च द्विजसत्तमाः । तथा माल्यवतः शृङ्गे पूर्वे पूर्वानुगान्तकाः ॥ २१ योजनानां सहस्राणि पञ्चाशन्माल्यवान्द्विजाः । महारजतसंज्ञास्ते जायन्ते तत्र मानवाः ।। २२ ब्रह्मलोभच्युताः सर्वे सर्वे च ब्रह्मवादिनः । तपस्तप्यन्ति ते दिव्यं भवन्ति ह्यूर्ध्वरेतसः ।। २३ रक्षणार्थ तु भूतानि प्रविशन्ति दिवाकरम् । पष्टिस्तानि सहस्राणि षष्टिरेव शतानि च । अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् । षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ||
२४
इति श्रीमहापुराणे पाद्म आदिखण्डे चतुर्थोऽध्यायः ॥ ४ ॥ आदितः लोकानां समश्यङ्काः - १६३
अथ पनमोऽध्यायः ।
ऋषय ऊचु:
वर्षाणां चैव नामानि पर्वतानां च सत्तम । आचक्ष्व नो यथातत्रं ये च पर्वतवासिनः ||
9
२५
सूत उवाच -
I
६
दक्षिणेन तु तस्य निपस्योत्तरेण तु । वर्ष रमणकं नाम जायन्ते तत्र मानवाः ॥ शुक्लाभिजनसंपन्नाः सर्वेऽतिप्रियदर्शनाः । निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः || दश वर्षसहस्राणि शतानि दश पञ्च च । जीवन्ति ते महाभागा नित्यं मुदितमानसाः ॥ दक्षिणेन तु नीलस्य निपधस्योत्तरेण तु । वर्षे हिरण्मयं नाम यत्र हैरण्वती नदी ॥ यत्र चायं महाप्राज्ञाः पक्षिरापतगोत्तमः । यक्षानुगा विप्रवरा धन्विनः प्रियदर्शनाः ॥ महावास्तत्र जना विमा मुदितमानसाः । एकादश सहस्राणि वर्षाणां ते तपोधनाः ॥ आयुष्मप्रमाणं जीवन्ति शतानि दश पञ्च च । गृङ्गाणि च विचित्राणि त्रीण्येव द्विजपुङ्गवाः ॥ ८ एकं मणिमयं तत्र तथैकं रुक्ममद्भुतम् । सर्वरत्नमयं चैकं भवनैरुपशोभितम् ।। तत्र स्वयंप्रभा देवी नित्यं वसति शैण्डिनी । उत्तरेण तु शृङ्गस्य समुद्रान्ते द्विजोत्तमाः ।। वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् । न तु तत्र सूर्यगतिर्न जीर्यन्ति च मानवाः ॥ चन्द्रमाश्च सनक्षत्री ज्योतिर्भूत इवाssवृतः ॥
७
९
१०
११
१२
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः । पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ।। अनिष्पन्ना नष्टगन्धा निराहारा जितेन्द्रियाः । देवलोकच्युताः सर्वे तथा विरजसो द्विजाः ॥ १३ अयोदश सहस्राणि वर्षाणां ते द्विजोत्तमाः । आयुष्प्रमाणं जीवन्ति नरा धार्मिकपुङ्गवाः ॥ १४ क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः । हरिर्वसति वैकुण्ठः शकटे कनकामये ।। अष्टचक्रं हि तद्यानं भृतयुक्तं मनोजवम् । अग्निवर्ण महातेजो जाम्बूनदविभूषितम् ॥
१५
१६
}
१ ख . वानगा । २ ख. . शृङ्गिणी । ट. दण्डिनी ।