________________
१०० शततमोऽध्यायः]
पापुराणम् । स्वर्ग यास्यन्ति राजेन्द्र वैष्णवं गतिदायकम् । त्रिकालमेककालं वा स्नातो जपति ब्रामणः।।२४ यं यं तु वाञ्छते काम स स तस्य भविष्यति । क्षत्रियो जयमामोति धनधान्यैरलंकृतः ॥ २५ वैश्यो भविष्यति श्रीमान्शूद्रः सुखमवामुयात् । अथ यः श्रावयेत्स्तोत्रं पापान्मुक्तो भविष्यति ॥ श्रावको नरकं घोरं कदाचित्रैव पश्यति । मम स्तोत्रप्रसादाच सर्वसिद्धो भविष्यति ॥ २७ भुञ्जानेषु च विप्रेषु श्राद्धकाले तु यः पठेत् । पितरो वैष्णवं लोकं तृप्ता यास्यन्ति भूपते ॥ २८ तर्पणान्ते जपं कुयोड्राह्मणो वाऽपि क्षत्रियः । पिबन्ति चामृतं तस्य पितरो दृष्टमानसाः ॥ २९ होमे च यज्ञमध्ये च भावाजपति मानवः । तत्र विघ्ना न जायन्ते सर्वसिद्धिर्भविष्यति ॥ ३० विषमे दुर्गसंस्थाने सिंहव्याघ्रभयेषु च । चौराणां संकटे प्राप्ते तत्र स्तोत्रमुदीरयेत् ॥ ३१ तत्राभयं महाराज स्तोत्रपाठाद्भविष्यति । अशेषेष्वेव दुर्गेषु राजद्वारे गते नरे ॥ वासुदेवाभिधानस्य अयुतं जपते नरः । ब्रह्मचर्येण च स्नातः क्रोधलोभविवर्जितः ॥ द्विलक्षं बिल्वकै)मं घृतगुग्गुलसंयुतम् । वासुदेवं प्रपूज्यैव कुर्यात्मयतमानसः॥ स्तोत्रं प्रति ततो देयो होमो ध्यानेन मानवैः । तेषां सुभृत्यवतित्वं पार्थ नैव त्यजाम्यहम् ॥३५ कलौ युगेऽपि संप्राप्ते स्तोत्रे दास्यं प्रयास्यति । वेदभङ्गप्रसङ्गेन यस्य कस्य न दीयते ॥ ३६ सर्वकामसमृद्धार्थः सर्वदेव भविष्यति । एवं हि सफलं स्तोत्रं मया भूप कृतं शृणु ॥ ३७ ब्रह्मणा निर्मितं स्तोत्रं जप्तं रुद्रेण वै पुरा । ब्रह्महत्याविनिर्मुक्त इन्द्रो मुक्तश्व किल्बिषात् ॥३८ देवाश्च ऋषयः सर्वे सिद्धविद्याधरांरगाः । जपित्वा स्तोत्रमेतत्तु सिद्धिमापुर्यथेप्सिताम् ।। ३९ पुण्यो धन्यः स वै दाता पुत्रवान्हि भविष्यति । मम स्तोत्रं पठेद्यस्तु नात्र कार्या विचारणा॥४० आगच्छ त्वं स्त्रिया सार्ध मम स्थानं नृपोत्तम । हस्तावलम्बनं दत्तं हरिणा तस्य भूपतेः ॥ ४१ नेदुर्दुन्दुभयस्तत्र गन्धर्वा ललितं जगुः । ननृतुश्वाप्सर श्रेष्ठाः पुष्पवृष्टिं प्रचक्रिरे ॥ देवाश्च ऋषयः सर्वे वेदस्तात्रः स्तुवन्ति ते । ततो दयितया साध जगाम नृपतिर्हरिम् ॥ ४३
तं स्तूयमानं सुरसिद्धसंधैः स विज्वलः पश्यति हृष्टमानसः ॥ समागतस्तिष्ठति यत्र वे पिता माता च वेगेन महाप्रभावः ॥ इति श्रीमहापुगणे पाझे मिखण्डे वनोपाख्याने गुरुतीर्थ नवनवतितमोऽध्यायः ॥ ७९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-८००१
श्र
अथ शततमोऽध्यायः ।
विष्णुरुवाचनर्मदायास्तटे रम्ये वटे तिष्ठति वै पिता । विज्वलोऽपि समायातः पितरं प्रणिपत्य सः ।। १ वासुदेवाभिधानस्य स्तोत्रस्यापि महामतिः । समाचष्टे स धर्मात्मा महिमानं पितुः पुरः॥ २ यथा विष्णुः समागत्य ददौ तस्मै वरं शुभम् । तत्सर्व कथयामास सुमसभेन चेतसा ।। ३ कुञ्जलोऽपि च वृत्तान्तं समाकर्ण्य च भूपतेः । हर्षेण महताऽऽविष्टः पुत्रमालिनय विज्वलम् ॥४ आह पुण्यं कृतं वत्स त्वया राशि महात्मनि । उपकारं महत्पुण्यं वासुदेवस्य कीर्तनात् ॥ ५
१८. अन्त्यजः शृणुयात्स्तो । २ इ. वैरिणां । ३ क. स. उ. च. छ. स. इ. "तः । तिलतब्दुलकहोम दशांघमाज्यमिश्रितम् । ठ.द.तः । तिलतण्डुलकहोम गुडगुग्गुलसंयुतम् । ४ क. ख. र.च. छ....।