________________
२१८ महामुनिश्रीव्यासमणीत
[ २ भूमिखण्डेपतिस्तपोधनो विप्रः सती भार्या पतिव्रता । सुसत्यो भूपतिधर्मो मम गेहं न संशयः॥ ५ यत्राहं वृद्धिसंतुष्टा त(टस्त)त्र वासो हि ते भवेत् । तत्र पुण्यं समायाति श्रद्धया सह क्रीडते ॥६ क्षमा शान्तिसमायुक्तमायाति मम मन्दिरम् । संतोषश्च दमश्चैव दया सौहृद एव च ॥ ७ मज्ञायुक्तः स निर्लोभो यत्राहं तत्र संस्थितः । शुचिप्रभावस्तत्रैव अमी वै सत्यबान्धवाः ॥ ८ अस्तेयमप्यहिंसा च तितिक्षा बुद्धिरेव च । मम गेहे समायान्ति धन्यतां शृणु धमेराट् ॥ ९ गुरुणा च पितृभ्यां च विष्णुर्लक्षम्या समन्वितः । मद्नेहं तु समायान्ति देवाश्चाग्निपुरोगमाः॥१० मोक्षमार्ग प्रकाशेद्यो ज्ञानौदार्यसमन्वितः । एतेः सार्ध वसाम्येव मतीषु धर्मवत्सु च ॥ ११ साधुष्वेतेषु सर्वेषु गृहरूपेषु मे सदा । भक्तेनापि कुटुम्बेन वसाम्येव त्वया सह ॥ १२ समर्थाः साधुरूपास्ते वेधसा मे गृहाः कृताः । संचरामि महाभाग स्वच्छन्देन बलीयसा ॥ १३ ईश्वरश्च जगत्स्वामी त्रिशूली वृषवाहनः । मम गेहस्वरूपेण वर्तते शिवसंगतः ॥ तदहं संस्थितो याचे गृहरूपं महेश्वरम् । सदनं शंकराख्यं मे नाशितं मन्मथेन वै ॥ १५ विश्वामित्रं महात्मानं तपन्तं तप उत्तमम् । मेनकां हि समाश्रित्य कामो नाशितवान्पुरा ॥ १६ सती पतिव्रताऽहल्या गौतमस्य प्रिया शुभा । सत्याच चालिता तेन मन्मथेन दुरात्मना ॥ १७ मुनयः सत्यधमेशा नानास्त्रियः पतिव्रताः। सस्पृहाश्च कृताः सर्वा दीपिताः कामवह्निना ॥ १८ दुर्धरो दुःसहः पापी योऽतिसत्येषु निष्ठुरः । मामेव पश्यते नित्यं कथितः कुत्र तिष्ठति ॥ १० स मां ज्ञात्वा समायाति बाणपाणिर्धनुर्धरः । नाशयेन्मद्गृहं पापा वीतिहोत्रेश्च नामकैः ॥ २० पापलेशाश्व ये कूटा अन्ये पाषण्डसंश्रयाः । ते तु बुद्ध्याऽहिताः सर्वे सत्यगेहं विशन्ति हि॥२१ सेनाध्यक्षैरसत्यैस्तु च्छमना तेन साधितः । पातयेन्मर्दयद्गहं पापः शस्त्रैर्दुरात्मभिः २२ मामेवं ताडयत्मायो महाबलमनोभवः । अस्य नाना प्रदग्धोऽहं शून्यतां हि व्रजामि वै ॥ २३ नूतनं गृहमिच्छामि स्त्रियं सत्यं च भूपतिम् । कृकलस्यापि वैश्यस्य पियेयं शिवमङ्गला ॥ २४ सदहं सुकुलाख्यं मे दग्धुं पापः समुत्थितः । अयमेष सहस्राक्षः कामेन सहितो बली ॥ २५ कामस्य कारणात्कस्मात्पूर्ववृत्तं न विन्दति । अहल्यायाः प्रसङ्गेन मन्दपुंस्त्वं प्रजग्मिवान् ॥२६ पौरुषं हि ततो नष्टं सत्यस्यैव प्रधर्षणात् । नष्टः कामस्य दोषेण सुरराट् तत्र संस्थितः ॥ २७ भुक्तवान्दारुणं शापं दुःखेन महताऽन्वितः । कृकलस्य मियामेतां सुकलां धर्मचारिणीम् ॥ एष हर्तुं सहस्राक्ष उद्यतः कामसंयुतः ॥ कथमेतेन इन्द्रेण न प्रयाति तथा कुरु । धर्मराज महाप्राज्ञ भवान्मतिमतां वरः ॥
धमेराज उवाचऊन तेजः करिष्यामि कामस्य मरणं तथा । उपायः स मया दृष्टो येनाचैव विनश्यति ।। ३० प्रयात्वेषा महामज्ञा शकुनीरूपधारिणी । भर्तुरागमनं पुण्यं शब्देनाऽऽख्यातु वै यतः॥ ३१ शकुनस्य प्रभावेन भर्तुश्चाऽऽगमनेन च । हृष्टा पुष्टाऽभविष्यत्सा स्थिरचित्ता न संशयः ॥ ३२ प्रज्ञा च प्रेषिता तेन गता सा मुकलाग्रहम् । प्रकुर्वती महच्छन्दं हृष्टं दैवज्ञमेव च ॥ ३३ [*पूजिता मानिता पुण्या धूपगन्धादिभिस्तदा । ब्राह्मणं पृच्छती ज्ञानं केदेष्यति पतिर्मम]।। ३४
* एतचिहान्तर्गतः पाठः क. ख. ग. घ. ङ. च. छ. ज. झ. ट. ड. द. पुस्तकस्थः । १ क. ख. छ. स. ढ. 'दा । उक्ते । २ ट. कुपितः । ३ ग. 'ध्यक्षोऽसत्यस्तु । ४ ग. घ. ज. ट. इ. येद्देह । ५ ड. 'येत्पापोमा ६ क.ख.ग.घ.ङ.च.छ.स.ट.ड.ढ. धाना । ७ ट.तः । यथा चैते। ८ क.ख.ड.च.छ. प्रज्ञा । ९ग. ह. किमेष्यति।
०
..