________________
३२६
महामुनिश्रीव्यासप्रणीतं —
[२ भूमिखण्डे
वामदेव उवाच
त्वामहं विष्णुधर्मज्ञं विष्णुभक्तं नरोत्तम । जाने ज्ञानेन राजेन्द्र दिव्येन चोल भूमिपम् ॥ निरामयोऽसि वै राजन्भार्यया मियया सह ।।
३२
राजोवाच --
निरामयोऽस्मि भगवन्प्राप्तो विष्णोः परं पदम् । मया हि परया भक्त्या वासुदेवो जनार्दनः ३३ आराधितो जगन्नाथ भक्त्या प्रीतः सुरेश्वरः । कस्मात्तत्र न पश्यामि तं देवं कमलापतिम् ॥ ३४ क्षुधा मे बाधते चात्र तृष्णाऽतीव सुदारुणा । ताभ्यां शान्ति न गच्छामि सुखं विन्दामि नैव च एतन्मेsकारणं [दुःखं संजातं मुनिसत्तम । तन्मे त्वं कारणं] ब्रूहि प्रसादसुमुखो भव ॥ ३६
वामदेव उवाच
भवान्भक्तोऽसेि राजेन्द्र श्रीकृष्णस्य सदैव हि । आराधितस्त्वया भक्त्या परया मधुसूदनः ३७ भक्त्योपचारैः स्ानाद्यैर्गन्धपुष्पादिभिस्तथा । न पूजितोऽथ नैवेद्यैः फलैश्व जगतां पतिः || ३८ दशमीं प्राप्य राजेन्द्र सदैव हि त्वया कृतम् । एकभक्तं न दत्तं तु ब्राह्मणाय सुभांजनम् ॥ ३० एकादशी च संप्राप्य न कृतं भोजनं त्वया । विष्णुमुद्दिश्य विप्राय न दत्तं भोजनं त्वया ॥४० अन्नदानं विशेषेण कदा दत्तं न हि त्वया । अन्नं चामृतरूपेण पृथिव्यां संस्थितं सदा ॥। ४१ ओषध्यस्तु महाराज नानाभेदास्तु ताः शृणु । कटुतिक्तकषायाश्च क्षाराम्लमधुरास्तथा ।। fararaiपस्कराः सर्वा नानारूपाश्च भूतले । अमृताज्जज्ञिरे सर्वा औषध्यः पुष्टिहेतवः ॥ ४३ अन्नमेव तु संस्कृत्य ओषधीर्व्यञ्जनान्विताः । देवेभ्यां [ विष्णुरूपेभ्य इति संकल्प्य दीयते । पितृभ्यो] विष्णुरूपेभ्यो हस्ते च ब्राह्मणस्य च ॥
४२
४४
४५
४८ ४९.
1
५१
अतिथिभ्यस्ततो दत्वा परिजनं प्रभोजयेत् । स्वयं तु भुज्यते पश्चात्तदन्नममृतोपमम् ॥ प्रेत्य दुःखं न तस्यास्ति सुखमेव हि केवलम् । ब्राह्मणाः पितरो देवाः क्षेत्ररूपाश्च भूपते ।। ४६ यथा हि कर्षकः कश्चित्सुकृषि कुरुते सदा । तद्वन्मर्त्यः कृषिं कुर्यात्क्षेत्र विप्राख्यकं नृप ।। ४७ स्वभावलाङ्गलेनापि ब्रह्मतादेन नोदयत् । दृषभौ तु मतौ नित्यं बुद्धिश्चैव तपस्तथा ।। सत्यज्ञानानुभावीशः शुद्धात्मा च प्रतोदकः । विप्रं चैव महाक्षेत्र नमस्कारैविसर्जयेत् । स्फोटयेत्कल्मषं नित्यं कर्षको हि यथा नृप । क्षेत्रस्य उद्यमे युक्तो विष्णुकामः प्रसाधयेत् ||५० तद्वाक्यैश्च महापुण्यैः शुभैर्विप्रान्प्रसादयेत् । पर्वतीर्थाप्तिकालश्च घनरूपोऽभिवर्षणे ।। पशुकामो भवेत्क्षेत्री ततः क्षेत्र मवापयेत् । तद्भूप प्रशस्ताय विप्राय परिदीयते ।। क्षेत्र उप्तस्य बीजस्य यथा क्षेत्री प्रभुञ्जते । फलमेव महाराज तथा दाता भुनक्ति च ।। प्रेत्य चात्रैव नित्यं च तृप्तो भवति नान्यथा । ब्राह्मणाः पितरो देवाः क्षेत्ररूपा न संशयः ५४ मानवानां महाराज बेपतां प्रददति च । फलमेव न संदेही यादृशं तादृशं ध्रुवम् ।। [t कटुकाद्धि न जायेत राजन्मधुर एव च । तद्वच्च मधुराख्याच्च न जायेत्कटुकः सदा ॥ यादृशं वपते बीजं तादृशं फलमश्रुते । न वापयति यः क्षेत्रं न स भुञ्जति तत्फलम् ॥ तद्वद्देवाश्च विप्राश्च पितरः क्षेत्ररूपिणः । दर्शयन्ति फलं राजन्दत्तस्यापि न संशयः ] ॥
५२
५३
५५
५६
५७
५८
*
• एतच्चिहान्तर्गतः पाठः क. ख. ङ च छ झ ट पुस्तकस्थः । + एतच्चिहान्तर्गतः पाठः क. ख. ड. च. छ. झ ८. पुस्तकस्थः । + क. ख. घ ङ च छ झ ट ठ ड ढ पुस्तकस्थोऽयं पाठः ।
१८. द्वद्विष्णुप्रपन्नाय । क. ख. ङ. च. छ. झ. ढ. 'द्वद्धि सुप्रसन्नाय । २ क. ख. ङ. च. छ. द. वापिता ।