________________
१७६
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेबामणेभ्यो विशेषेण चातिथिभ्यस्तथैव च । पश्चागुञ्जन्ति पुण्यास्ताः प्रजाः सर्वा द्विजोत्तमाः३६ यज्ञैश्चान्यैर्यजन्ते च तर्पयन्ति जनार्दनम् । तेनान्नेनैव देवेशं तृप्तिं गच्छन्ति देवताः॥ ३७ पुनर्वर्षति पर्जन्यः प्रेषितो माधवेन च । तस्मात्पुण्या महौषध्यः संभवन्ति सुपुण्यदाः॥ ३८ सस्यजातानि सर्वाणि पृथोः प्रभृति नान्यदा। ततोऽन्नेन प्रजाः सर्वा वर्तन्तेऽद्यापि नित्यशः ॥ ३० ऋषिभिश्चैव मिलितैर्दुग्धा चेयं वसुंधरा । पुनर्विप्रेर्महाभागः सत्यवद्भिः सुरैस्तथा ॥ ४० सोमो वत्सस्वरूपोऽभूदोग्धा देवगुरुः स्वयम् । अर्ज भीरं पयःकल्यं येन जीवन्ति चामराः॥ ४१ तेषामन्नेन पुण्येन सर्वे जीवन्ति जन्तवः । सत्यपुण्यैः प्रवर्तन्ते ऋषिदुग्धा वसुंधरा ॥ ४२ अथातः संप्रवक्ष्यामि यथा दुग्धा वसुंधरा । [*पितृभिश्च पुरा वन्सविधिना येन वै तदा ॥ ४३ मुपात्रं राजतं कृत्वा स्वधाक्षीरं द्विजोत्तमाः । परिकल्प्य यमं वत्सं दोग्धा चान्तक एव च] ४४ नागः सर्पस्ततो दुग्धा तक्षकं वत्समेव च । अलाबुपात्रमादाय विषं श्रीरं द्विजोत्तमाः ॥ ४५ नागानां तु तथा दोग्धा धृतराष्ट्रः प्रतापवान । सर्पा नागा द्विजश्रेष्ठास्तेन वर्तन्ति चातुलाः॥४६ [*नागा वर्तन्ति तेनापि ह्यत्युग्रेण द्विजोत्तमाः । विषेण घोररूपेण साथैव भयानकाः ॥ ४७ तेनैव वर्तयन्त्युग्रा महाकाया महाबलाः] । नदाधारास्तदाचारास्तद्वीर्यास्तत्पराक्रमाः॥ ४८ अथातः संप्रवक्ष्यामि यथा दुग्धा वसुंधरा । असुरेनवैः सर्वेः कल्पयित्वा द्विजोत्तमाः॥ ४९ पात्रमत्रानसदृशमायसं सर्वकामिकम् । क्षीरं मायामयं कृत्वा सर्वारातिविनाशनम् ॥ ५० तेषामभूत्स वै वत्सा विरोचनः प्रतापवान । [*ऋत्विन्द्विमा दैत्यानां मधुर्दोग्धा महाबलः ॥५१ तयाऽऽदिमायया दैत्याः प्रवर्तन्ते महाबलाः । महाप्रज्ञा महाकाया महातेजःपराक्रमाः॥] ५२ तलं पौरुषं तेषां तेन जीवन्ति दानवाः । तयेते स्युरथाद्यापि सर्वे मायाविदो द्विजाः॥ [*वर्तन्त्यमितप्रज्ञास्ते तदेषाममितं बलम् ] ॥ तथा तु दुग्धा यक्षैः सा सर्वाधारा सुमेदिनी। [इति शुश्रुम विप्रेन्द्राः पुरा कल्पे महात्मभिः]॥ अन्तर्धानमयं क्षीरं अयस्पात्रेषु विस्तरे । वैश्रवणो महामाज्ञस्तदा वन्सः प्रकल्पितः ॥ ५५ पिता मणिधरस्यापि प्राज्ञो बुद्धिमतां वरः। [*दोग्धा रजतनाभस्तु तस्याश्चाऽऽमीन्महामतिः॥ सर्वज्ञः सर्वधर्मज्ञो यक्षराजसुतो बली । अष्टवाहुमहातेजा द्विशीर्षः सुमहातपाः ॥ ५७ यक्षा वर्तन्ति तेनापि सर्वदेव द्विजोत्तमाः । पुनदुग्धा त्वियं पृथ्वी राक्षसैश्च महावलैः ॥ ५८ तथा चैपा पिशाचैश्च मारुतैर्दुष्टचारिभिः । उत्प्लुतं तत्र कपालं शावं पात्रमयं कृतम् ॥ ५९ सुप्रजां भोक्तुकामास्ते तीव्रकोपपराक्रमाः] । दाग्धा रजतनाभस्तु तपामासीन्महाबलः ॥ सुमाली नाम वत्सश्च शोणितं क्षीरमेव च ॥ रक्षासि यातुधानाश्च पिशाचाश्च महाबलाः । तेन यक्षाश्च जीवन्ति भूतसंघाश्च दारुणाः॥ ६१
___ * एतच्चिदान्तर्गतः पाठः क, ख, ग घ ड च.छ झ ट.ड द. पुस्तकस्थः । * एतचिहान्तगत: पाट: क. ख.ग. घ.ड च. झ.ट.ड. पुस्तकस्थः । * एतांचनान्तर्गतः पाटः क ख. ग १. इ. च.छ.झ.ट ड. द. पुस्तकस्थः । * एतचिहनान्तर्गतः पाठः क. ख ग. घ. ड. च. छ.स. ट ड.द. पुस्तकस्थः । * एतचिहनान्तर्गत. पाठः क.ख.ड.च.छ.झ.ट.ड.ढ. पुस्तकस्थः । * एतचिहनान्तर्मतः पाठः क. ख, ग, घ. दु, च. छ. स. ट. ह. द. पुस्तकस्थः ।
१ क. ख. ग. घ. ङ. छ. झ. ट. ड. द. पृथुर्वैन्यः प्रजापतिः । त'। २ क. ख, च. छ. झ. 'त्यवद्भिस्तपोऽमलेः । सो'। ग घट. त्यमन्त्रीस्तथा बलः । सो। ३ क. ख.च. स. ड. तेषां सत्येन । ४ ङ. सर्वना'। ५ क ख. ङ. च. छ. झ. ड. ढ. तदाहारा।६ क. ख. च. रु. झ. 'त्रमात्मन्न । ७ ग. घ. ट. उत्पत्यां सुमृतं पा' । ८ क. ख. ग. घ. इ. च. छ. ट. ड. ढ. 'सि तानि सर्वाणि पि।