________________
१९० महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेजगाम तत्र वेगेन मायाचलितमानसः । दोलासंस्था विपश्यैव वीणादण्डकधारिणीम् ॥ १६ हास्यमानां सुगायन्ती पूर्णचन्द्रनिभाननाम् । मोहितस्तेन गीतेन रूपेणापि महायशाः॥ १७ तस्या लावण्यभावेन मन्मथस्य शराहतः । आकुलव्याकुलो जातो मुनिपुत्रो द्विजोत्तमाः ॥ १८ प्रलपत्यतिमाहेन जृम्भते च पुनः पुनः । स्वेदः कम्पोऽथ संतापस्तस्याङ्गे जायते क्षणात् ॥ १९ मुह्यते च महामोहैरानः स्खलितमानसः । वपमानस्ततः शुष्को दूयमानः समागतः ॥ २० तामालोक्य विशालाक्षी मृत्योः कन्यां यशस्विनीम् । अथांवाच महात्मा स सुनीयां चारुहासिनीम्।। का त्वं कस्य वरारोहे सखीभिः परिवारिता । केन कार्येण संप्राप्ता केन त्वं प्रेषिता वनम् ।।२२ तवाङ्ग सुन्दरं सर्व समाभाति वरानने । समाचक्ष्व ममाद्यैव प्रसादसुमुग्वी भव ।। २३ मायामोहेन संमुग्धस्तस्याः कर्म न विन्दति । मार्गणमन्मथस्यापि परिविद्धो महामुनिः ॥ २४ एवंविधं महद्वाक्यं समाकये महामतः । नोवाच किंचित्सा विप्रं समालोक्य सखीमुखम् ॥ २५ रम्भायाः सा सुनीथा तु संज्ञया परितोषिता । समुवाच ततो रम्भा सादरं तं द्विजोत्तमम् २६ इयं कन्या महाभागा मृत्योश्चापि महात्मनः । सुनीथा सुपसिद्धेयं सर्वलक्षणसंयुता ॥ २७ पतिमन्वेषते बाला धर्मवन्तं तपोनिधिम् । शान्तं दान्तं महाप्राज्ञं वेदविद्याविशारदम् ॥ २८ तामुवाच ततस्त्वङ्गो रम्भामप्सरसां वराम् । मया चाऽऽराधितो विष्णुः सर्वविश्वमयो हरिः २९ तेन दत्तो वरी मह्यं पुत्राख्यः सर्वसिद्धिदः । तनिमित्तमहं भद्रे सुतार्थ नित्यमेव च ॥ ३० कस्यचित्पुण्यवीर्यस्य कन्यामकामचिन्तयम् । सर्दवाहं न पश्यामि सुशुभामान्मनः कचित् ॥३१ इयं धर्मस्य वै कन्या धर्माचारा वरानना । मामेव हि भजन्वषा यदि कान्तमिहेच्छति ॥ ३२ यं यमिच्छदियं बाला तं तं दानि न संशयः । देयं वाऽदयमवापि त्वस्याः मंगमकारणात् ।। ३३ एवमेव त्वया देयं रम्भोवाच द्विजोत्तमम् । [*विप्रेन्द्र त्वं शृणुष्वव मम वाक्यं च सांप्रतम् ॥ ३४ एषा नैव त्वया त्याज्या धर्मपन्नी मदव हि । अस्या दोपगुणों चैव ग्राद्यो नैव कदा त्वया ॥ इत्यर्थे प्रत्ययं विप्र प्रत्यक्षं परिदर्शय ।। स्वहस्तं देहि विप्रन्द्र सत्यप्रत्ययदायकम् । एवमस्तु मया दत्ता ह्यस्या हस्ता न संशयः ।। ३६
सूत उवाचएवं संबन्धिकं कृत्वा सत्यपत्ययकारकम् । गान्धर्वेण विवाहेन सुनीथामुपयमिवान् ।। ३७ तस्मै दत्त्वा सुनीयां तां रम्भा हृष्टन चतसा । मा तां चाऽऽमत्रयित्वावै गता गेहं स्वकं पुनः॥ प्रहृष्टचेतसः सख्यः स्वस्थानं प्रतिजग्मिरे । गतासु तासु मर्वासु सखीपु द्विजसत्तमः ॥ ३९ रेमे त्वजस्तया सार्ध प्रियया भार्यया सह । तस्यामुत्पाद्य पुत्रकं सर्वलक्षणसंयुतम् ॥ ४० चकार नाम तस्येवं वेनाख्यं तनयस्य हि । वध स महातजाः सुनीथातनयस्तदा ॥ ४१ वेदशास्त्रमधीत्येव धनुर्वेदं गुणान्वितम् । सर्वासां सांऽपि मेधावी विद्यानां पारमेयिवानं ॥ ४२ स तस्य तनयो वेनः शिष्टाचारेण वर्तते । स वनो ब्राह्मणश्रेष्ठाः क्षत्राचारपरोऽभवत् ।। ४३ दिवि चेन्द्रो यथा भाति सर्वतेजःसमन्वितः । स भात्येवं महाप्राज्ञः स्वबलेन पराक्रमः ॥ ४४
* एञ्चिद्वान्तर्गतोऽयं पाठो झ. पुस्तकस्थः । क. ख. ङ. च. छ. झ. ढ. स्ततस्तुङ्गो । २ क.ख.च.छ.झ. महामुनेः । ३ क.ख.ग. घ. इ. च. छ. झ. ट. ड. द. 'यं श्रृयतां द्विजसत्तम । रम्भोवाच-एषा । ४ क. ख. ड. च. छ. झ. द. मे तुङ्ग । ५ क.ख.इ.च.छ.झ.द. 'न् । तुङ्गम्य । ८. 'न् । अगस्य । ६ क. ख. ड. च. छ. झ. द. 'मः । चाक्षप ।
W