________________
३४ चतुस्त्रिंशोऽध्यायः ]
पद्मपुराणम् । तस्मान्मुमुक्षुनियतो वसेद्वै मरणान्तकम् । वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ॥ ५३ किंतु विना भविष्यन्ति पापोपहतचेतसः । ततो नैवाऽऽचरेत्पापं कायेन मनसा गिरा॥ ५४ एतद्रहस्यं देवानां पुराणानां च सुव्रते । अविमुक्ताश्रयज्ञानं न कश्चिद्वेत्ति तत्त्वतः ॥ ५५
नारद उवाचदेवतानामृषीणां च शृण्वतां परमेष्टिनाम् । देवदेवेन कथितं सर्वपापविनाशनम् ॥ ५६ यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः । यथेश्वराणां गिरिशः स्थानानामेतदुत्तमम् ॥ ५७ यैः समाराधितो रुद्रः पूर्वस्मिन्नेकजन्मनि । ते विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् ॥ ५८ कलिकल्मषसंभूता येषामपहता मतिः । न तेषां वेदितुं शक्यं स्थानं तत्परमेष्ठिनः ॥ ५९ ये स्मरन्ति सदा कालं वदन्ति च पुरीमिमाम् । तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥६० यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः। नाशयेत्तानि सर्वाणि देवः कालतनुः शिवः॥ ६१ आगच्छेत्तदिदं स्थानं सेवितं मोक्षकाङक्षिभिः । मृतानां च पुनर्जन्म न भूयो भवसागरे ॥ ६२ तस्मात्सर्वप्रयत्नेन वाराणस्यां वसेन्नरः। योगी वाऽप्यथवाऽयोगी पापी वा पुण्यकृत्तमः ॥ ६३ न लोकवचनात्पित्रोन चैव गुरुवादनः । मनिने क्रमणीया स्यादविमुक्तगति प्रति ॥
इति श्रीमहापुगणे पान आदिग्पण्डे वाराणमीमाहात्म्ये त्रयस्त्रिंशोऽध्यायः ॥३३॥
आदिनः श्लोकानां समयङ्काः-१८५७
अथ चतुस्त्रिंशोऽध्याय ।
नारद उवाचतत्रदं विमलं लिङ्गमाङ्कारं नाम शोभनम् । यस्य स्मरणमात्रेण मुच्यने सर्वपातकः ॥ एनन्परतरं ज्ञानं पञ्चायननमुत्तमम् । मेवितं मुनिभिनित्यं वाराणस्यां विमोक्षणम् ॥ तत्र साक्षान्महादेवः पञ्चायतनविग्रहः । रमत भगवान्द्रो जन्तूनामपवर्गदः ॥ यत्तत्पाशुपतं ज्ञानं पञ्चायतनमुच्यते । तदेतद्विमलं लिङ्गमोङ्कारं ममुपस्थिनम् ॥ शान्त्यतीता तथा शान्तिर्विद्या चैवापरावरा । प्रतिष्ठा च निवृत्तिश्च पश्चात्म लिङ्गमश्वरम् ॥ ५ पञ्चानामपि देवानां ब्रह्मादीनां समाश्रयम् । ओङ्कारवोधकं लिङ्गं पश्चायतनमुच्यते ॥ संस्मरेदेश्वरं लिङ्गं पञ्चायतनमव्ययम् । देहान्ने तत्परं ज्योतिरानन्दं विशते बुधः ॥ तत्र देवर्षयः पूर्व सिद्धा ब्रह्मर्पयस्तथा । उपास्य देवमीशानमापुरन्तः परं पदम् ॥ मत्स्योदर्यास्तटे पुण्ये स्थानं गुह्यतमं शुभम् । गोचर्ममात्रं राजेन्द्र ओंकारेश्वरमुत्तमम् ॥ कृत्तिवासेश्वरं लिङ्गं मध्यमेश्वरमुत्तमम् । विश्वेश्वरं तथोंकारं कन्दपेश्वरमेव च ॥ एतानि गुह्यलिङ्गानि वाराणस्यां युधिष्ठिर । न कश्चिदिह जानाति विना शंभीरनुग्रहात् ॥ ११ कृत्तिवासेश्वरस्यैव माहात्म्यं शृणु पार्थिव । तस्मिन्स्थाने पुरा दैत्यो हस्ती भूखा शिवान्तिकम् ॥१२ ब्राह्मणान्हन्तुमायातो यत्र नित्यमुपासते । तेषां लिङ्गान्महादेवः प्रादुरासीत्रिलोचनः ॥ रक्षणार्थ महादेवो भक्तानां भक्तवत्सलः । हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः॥ १४ वासस्तस्याकरोत्कृतिं कृत्तिवासेश्वरस्ततः । तत्र सिद्धिं परां प्राप्ता मुनयो हि युधिष्ठिर ॥ १५
१ ट. देव्य दे।