________________
२५० महामुनिश्रीव्यासपणीत
[ २ भूमिखण्डेनागभोगस्य पर्यके यः शयीत स केशवः । अस्याहं वैष्णवी शक्तिः कालरात्रिरिह द्विज ॥ ४५ मामेवं विद्धि विप्रेन्द सर्वमायासमन्विताम् । महामाया पुराणेषु जगन्मोहाय कीर्तिता ॥ ४६ इत्युक्त्वा सा गता देवी अन्तर्धानं हि पिप्पल । तस्यां देव्यां गतायां तु मार्कण्डेयो ह्यपश्यत४७ तस्य नाभ्यां समुत्पन्न पङ्कजं हाटकप्रभम् । तस्माज्जज्ञे महातेजा ब्रह्मा लोकपितामहः ॥ ४८ वस्माद्धि जज्ञिरे लोकाः सर्वे स्थावरजङ्गमाः । इन्द्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः ॥ ४९ [*अर्वाचीनं स्वरूपं तु दर्शितं हि मया नृप । अर्वाचीनः शरीरोऽयं पराचीनो निराश्रयः ५० यदा स दर्शयेत्कायं कायरूपा भवन्ति ते । अर्वाचीनास्ततः सर्वे ब्रह्माद्याः पिप्पलाखिलाः५१ ['अर्वाचीना अमी लोका ये भवन्ति जगत्रये । पराचीनः स विश्वात्मा यं प्रपश्यन्ति योगिनः मोक्षरूपं परं स्थान परब्रह्मस्वरूपकम् । अव्यक्तमक्षरं हंसं शुद्धं सिद्धिसमन्वितम् ॥ पराचीनस्य यद्वृत्तं विद्याधर तवाग्रतः । सर्वमेव समाख्यातमन्यन्कि ते वदाम्यहम् ॥ ५४
विद्याधर उवाच - कस्मादेतन्महाज्ञानमुद्भुतं तव सुव्रत । अर्वाचीनगति विद्वान्पराचीनगति तथा ॥ त्रैलोक्यस्य परं ज्ञानं त्वय्येवं परिवर्तते । तपसी नैव पश्यामि परां निष्ठां हि सुव्रत ॥ स्वप्रभावं वदस्वेवं केन ज्ञानं तवाखिलम् ।।
सुकर्मोवाचएतदेव न जानामि न कृतं कायशोषणम् । यजनं याजनं धर्म न ज्ञानं तीर्थसाधनम् ॥ ५७ न मया साधितं चान्यत्पुण्यं किंचित्सुकर्मजम् । स्फुटमेकं प्रजानामि पितृमातृप्रपूजनम् ॥ ५८ उभयोस्तु स्वहस्तेन मातापित्रोचं पिप्पल । पादप्रक्षालनं पुण्यं स्वयमेव करोम्यहम् ॥ ५० अङ्गसंवाहनं स्नानं भोजनादिकमेव च । त्रिकालोपासनं भीतः साधयामि दिने दिने ॥ ६० पादोदकं तयोश्चैव मातापित्रोदिने दिने । भक्त्या भावेन विन्दामि पूजयामि स्वभावतः ॥ ६१ गुरू मे जीवमानो तो यावत्कालं हि पिप्पल । तावत्कालं तु मे लाभो ह्यतुलश्च प्रजायते ॥ ६२ त्रिकाले पूजयाम्येतो भावशुद्धन चेतसा । स्वच्छन्दलीलासंचारी वर्ताम्यवं हि पिप्पल ॥ ६३ किं मे चान्येन तपसा किं मे कायस्य शोषणः। किं मे सुतीर्थयात्राभिरन्यैः पुण्येश्च सांप्रतम् ।। मखानामेव सर्वेषां यत्फलं प्राप्यते बुधः । [*तत्फलं तु मया दृष्टं पितुः शुश्रूषणादपि ॥ ६५ मातुः शुश्रूषणं तद्वत्पुत्राणां गतिदायकम् । सर्वधर्मस्य सर्वस्वं सारभृतं जगत्रये ॥ ६६ पुत्रस्य जायते लोको मातुः शुश्रूषणादपि । पितुः शुश्रूषणे तद्वमहत्पुण्यं प्रजायते ॥ ६७ तत्र गङ्गा गया तीर्थ तत्र पुष्करमेव च । यत्र माता पिता तिष्ठेत्पुत्रस्यापि न संशयः ॥ ६८ अन्यानि तत्र तीर्थानि पुण्यानि विविधानि च । भजन्तं तानि पुत्रस्य पितुः शुश्रूषणादपि ॥६९ पितुः शुश्रूषणात्तस्य दानस्य तपसः फलम् । सत्पुत्रस्य भवद्विप नान्यत्कर्म ममाश्रयेत् ॥ ७० पितुः शुश्रूषणात्पुण्यं पुत्रः प्रामोत्यनुत्तमम् । सुकर्मणस्तु सर्वत्र इह चैव परत्र च ॥ ७१
* एतचिह्नान्तर्गतः पाठः क. ख. घ. ङ. च. छ. झ. ट. ड. द. पुस्तकस्थः । एतच्चिद्वान्तर्गतः पाट: क. ख. घ.
ड.च. छ. झ. ट. ड. ढ. पुस्तकस्थः । * एतामहान्तर्गत: पाठोड, झ.. पुस्तकस्थः ।
१क. ख. घ. ड. च. छ. झ. ट. ड. द. रित्युच्यते । मा । २ ख. विद्यात्परा । ३ घ. ट. ड. 'य्येव । ४ घ. ट. ड. श्च तत्पर । पा। ५ क. ख. ड. च. छ. झ. ढ. काले ध्यानसंलीनः सा । ६ ख. ड. च. छ. ढ. वन्दामि । ७ क. ख, ड. च. छ. झ. द. द्विजैः ।