________________
१४२ महामुनिश्रीव्यासप्रणीतं
[१ भूमिखण्डेएताः सर्वाः समायाता स्त्रीरूपास्तु द्विजोत्तम]।बुद्धिः प्रज्ञा दया श्रद्धा मेधासत्कृतिशान्तयः॥६१ पश्चामयस्तथा पुण्याः साङ्गा वेदास्तु ते तदा । स्वस्वरूपधराश्चैते सर्वे सिद्धिं समागताः ॥ ६२ अग्न्याधानादयः पुण्या अश्वमेधादयस्तथा । रूपलावण्यसंयुक्ताः सर्वाभरणभूषिताः ॥ ६३ दिव्यमालाम्बरधरा दिव्यगन्धानुलेपनाः । किरीटकुण्डलोपेता दिव्याभरणभूषिताः ॥ दीप्तिमन्तः स्वरूपास्ते तेजोज्वालाभिरावृताः । एवं धर्मः समायातः परिवारसमन्वितः । यत्र तिष्ठति दुर्वासाः क्रोधनः कालवत्तथा ॥ ६५
धर्म उवाचकस्मात्कोपः कृतो विप्र भवांस्तपःसमन्वितः । क्रोधो हि नाशयच्छ्रेयस्तप एव न संशयः॥ ६६ सर्वनाशकरं तस्मात्क्रोधं तपसि वर्जयेत् । स्वस्था भव द्विज श्रेष्ठ उत्कृष्टं तपसः फलम् ॥ ६७
दुर्वासा उवाचभवान्को हि समायात एतैर्द्विजवरैः सह । एता नार्यः प्रतिष्ठन्ति सुरूपाः समलंकृताः ॥ कथयस्व ममाग्रे त्वं विस्तरण महामते ।।
धर्म उवाच-~अयं ब्राह्मणरूपेण सर्वतेज समन्वितः । दण्डहस्तः सुप्रसन्नः कमण्डलुधरस्तथा ॥ ६९ तवाग्रे ब्रह्मचर्याख्यः सोऽयं पश्य समागतः। अन्यं पश्य त्वमेवं च दीप्तिमन्तं द्विजोत्तमम् ॥७० कपिलं पिङ्गलाक्षं च सत्यमेनं द्विजोत्तम । तादृशं पश्य धर्मात्मन्वश्वदेवसमप्रभम् ॥ ७१ यत्तपो हि त्वया विष सर्वदेव समाश्रितम् । एनं पश्य महाभाग तव पार्श्व समागतम् ॥ ७२ प्रसन्नवाग्दीप्तियुक्तः सर्वजीवदयापरः । दम एव तथाऽऽयातो यः पोषयति सर्वदा ॥ ७३ जटिलः कर्कशः पिङ्गो ह्यतितीव्री महाप्रभुः । नाशको हि स पापानां खड़हस्ता द्विजोत्तमः ।।७४ [दम एष समायातः पश्य पश्य द्विजोत्तमः । अभिशान्ता महापुण्या नित्यक्रियासमन्वितः॥७५ नियमस्तु समायातस्तव पार्वे द्विजोत्तमः । अनिशुक्लां महादीप्तः शुद्धस्फटिकसंनिभः ॥ ७६ पयःकमण्डलुकरो दन्तकाष्ठधरो द्विजः । शाच एप समायाता भवतः संनिधाविह ॥ ७७ अतिसाध्वी महाभागा सत्यभूपणभूपिता । सर्वाभग्णाभाङ्गी शुश्रृपयं समागता ॥ अतिधीरा प्रमन्नाङ्गी गौरी प्रहसितानना । पद्महस्ता इयं धात्री पद्मनेत्रा सुपद्मिनी ॥ दिव्यैराभरणैर्युक्ता क्षमा प्राप्ता द्विजोत्तम । अनिशान्ता सुप्रतिष्ठा बहुमङ्गलसंयुताः ।। दिव्यरत्न कृताशोभा दिव्याभरणभूषिता । तव शान्तिर्महाप्राज्ञ ज्ञानरूपा समागता ।। परोपकार करणा बहुसत्यसमाकुला । मितभापा सदवासी प्रशंयं ते समागता ॥ प्रसन्ना सा क्षमायुक्ता संवाभरणभूपणा । पद्मासना सुरूपा सा श्यामवर्णा यशस्विनी ।। ८३ ['अहिंसेयं महाभागा भवन्तं तु समागता । तप्तकाश्चनवर्णाङ्गी रक्ताम्बरविलासिनी] ॥ ८४
७९
* झट. पुस्तकम्थाऽय पाट: । क ख. च. छ. झ, इ. पस्नकस्थाऽय पाट: ।
१ क. ख. च. छ. झ.ट. "दा। नवं रूप परास्नत्र धर्म साध स । २ क. च छ.झ. 'ताः । सुभगा नाम पुण्यात्मा । सभावो नाम पुण्यात्मा । अ। ३. घ. ह.ट. माल्याम्ब । ४ क. ख ग घ. द. च. छ. ज झ.ट. १.१. सप्त। ५ ज. दान । ६ क. ख. च. छ. झ. वहिनः । झ. जस्ट: । ७ घ. छ. ज. झ. आतशा । ८ ग. घ. छ. ज. ट. झ ६. 'कर इन्द्रका । ९ क. ख. ग. घ. उ. च. छ. ज. झ. ट. वासावकल्का ते। १० क. ख. च. छ. झ. श्वेताभरणभूषिता । ११च. पद्मानना।