________________
२४२ महामुनिश्रीव्यासप्रणीतं
[२ भूमिखण्डेतया रत्या समायातो यत्राऽऽस्ते पतिदेवता । प्रत्युवाच महाभागां सुकलां सत्यचारिणीम्।।२१ पूर्व दूतीसमक्षं ते प्रीतिस्तु पहिता मया । कस्मान्न मन्यसे भद्रे भज मां त्वमिहाऽऽगतम् ॥ २२
सुकलोवाचरक्षायुक्ताऽस्मि भद्रं ते भर्तुः पुत्रैर्महात्मभिः । एकाकिनी सहायैश्च नैव कस्य भयं मम ॥ शुरैश्च पुरुषाकारैः सर्वत्र परिरक्षिता ॥ नातिप्रस्तावये वक्तुं व्यग्रा कर्मणि तस्य च । यावत्मस्पन्दते नेत्रं तावत्कालं महामने ॥ २४ भवान्न लजते कस्माद्रममाणो मया सह । भवान्को हि समायातो निर्भयो मरणादपि ॥ २९
इन्द्र उवाचत्वामेवं हि प्रपश्यामि वनमध्ये समागताम् । ममाख्यातास्त्वया शूरा भर्तुश्च ननयाः पुनः ॥ कथं पश्याम्यहं तावदर्शयस्व ममाग्रतः॥ सुकलोवाच
निजगृहमपवर्गस्याऽऽधिपत्ये निवेश्य धृतिमतिगतिबुद्ध्याख्येस्तु संन्यस्य सत्यम् ।। __ अचलसकलधर्मो नित्ययुक्ता महात्मा शमदमसहधर्मात्मा सदा मां जुगोप ॥. ___ मामेवं परिरक्षते दमगुणस्तस्तैः सुधर्मः सदा सत्यं पश्य समागतं मम पुरः शान्तिक्षमाभ्यां युतम् ॥ __सत्याख्यस्तु महाबलः पृथुयशा यां मां न मुञ्चन्कदा
बद्ध्वा मां दृढबन्धनः सुनियतं पुण्यत्वमेवं गतः ॥ रक्षायुक्ताः कृताः सर्वे सत्यार्थाः शृणु सांप्रतम् । धर्मलोभातिगाः सर्वे दमबुद्धिपराक्रमाः ॥ २९. मामेवं हि परीक्षन्ते किं मां प्रार्थयसे बलात् । को भवानिर्भयो भृत्वा दृत्या साध समागतः३. सत्यधर्ममुखाः पुण्या ज्ञानाद्याः प्रबलाः सुताः। मम भर्तुः सहायाश्च ते मां रक्षन्ति वै सदा ३९ अहं रक्षापरा नित्यं दमशान्तिपरायणा । न मां जेतुं समर्थश्व अपि साक्षाच्छचीपनिः ॥ ३२ यदि वा मन्मथो वाऽपि समागच्छति वीर्यवान् । दंशिताऽहं सदा सत्यमत्या कष्टेन सर्वदा ३३ निरर्थकास्तस्य बाणा भविष्यन्ति न संशयः। त्वामेवं हि हनिप्यन्ति धर्माद्यास्ते महाबलाः।।३४ दूरं गच्छ पलायस्व माऽत्र तिष्ठ ममाग्रतः । वार्यमाणो यदा तिष्ठभस्मीभृता भविष्यसि ॥ ३५ भ; विना निरीक्षेत मम रूपं यदा भवान् । यथा दारु दहेद्वहिस्तथा धक्ष्यामि नान्यथा ।। ३६ एवमुक्तः सहस्राक्षो मन्मथं प्राह संमुखम् । पश्य पौरुषमेतासां युध्यस्व निजपौरुषः ॥ ३७ यथाऽऽगतास्तथा सर्वे महाशापभयातुराः । स्वं स्वं स्थानं महाराज इन्द्रायाः प्रययुस्तदा ॥३८ गतेषु तेषु सर्वेषु सुकला सा पतिव्रता । स्वगृहं पुण्यसंयुक्ता पतिध्यानेन चाऽऽगता ॥ ३९ स्वगृहं पुण्यसंयुक्तं सर्वतीर्थमयं तदा । सर्वयज्ञमयं राजन्संप्राप्ता पतिदेवता ॥ इति श्रीमहापुराणे पाझे भूमिखण्डे वेनोपाख्याने मुकलाचरितेऽष्टपश्चाशत्तमोऽध्यायः ॥ ५८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-६२४०
२८
१ क. ख. ग. घ. 3. च. छ. झ. ट. ड. ढ. इत्या । २ ग. घ. ह. म् । ज्ञातिख्यातिम । ३ क. ख. ग. घ. . च. छ. स. ट. ड., 'त्यसत्या '।