________________
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेअनाचारां महापापां ज्ञात्वा वीरोऽपि नन्दनः । स तां त्यक्त्वा महापाज्ञ उपयेमे महामतिः॥७ अन्यवैश्यस्य वै कन्यां तया सह प्रवर्तते । धर्माचारेण पुण्यात्मा सत्यधर्ममतिः सदा ॥ ८ निरस्ता तेन सा चित्रा एवं सा भ्रमते महीम् । दुशनां संगतिं प्राप्ता नराणां पापिनां सदा।।९ दूतीकर्म चकाराय सा तेषां पापनिश्चया । गृहभङ्गं चकाराथ साधूनां पापकारिणी ॥ १० साध्वी नारी समाहूय पापवाक्यैः प्रलोभयेत् । मनोभङ्गं चकाराथ वाक्यः प्रत्ययदायकैः ॥११ साधूनां सा स्त्रियं भत्त्वाऽप्यन्यस्मै परिदापयेत् । एवं गृहशतं भग्नं चित्रया पापचिन्तया ॥१२ संग्रामं सा महादुष्टाऽकारयत्पतिपुत्रकैः । मनांसि चालयेत्पापा पुरुषाणां स्त्रियः प्रति ॥ १३ अकारयच्च संग्राम यमग्रामविवर्धनम् । एवं गृहशतं भक्त्वा पश्चात्सा निधनं गता ॥ १४ त्रासिता यमराजेन बहुदण्डैः सुनन्दन । भुञ्जापिता यातनाश्च रौरवादिषु वै तदा ॥ १५ पाचिता रोरवे चित्रा चित्राः पीडाः प्रदर्शिताः । यादृशं क्रियते कर्म तादृशं परिभुञ्जते ॥ १६ [तया गृहशतं भग्नं चित्रया पापचित्तया । तस्य कर्मविपाकोऽयं तया भुक्तो द्विजोत्तम ॥ १७ यस्मादृहशतं भग्नं तस्मादुःखं भुनक्ति वै । विवाहसमये प्राप्ते देवं च पाकतां गतम् ॥ भर्ता विवाहसमये यतो मृत्यु समागतः ॥ यत्संख्याकं गृहं भग्नं तत्संख्याका वरा मृताः । स्वयंवरे नदा वन्स विवाहे चैकविंशतिः ॥ १९ एतत्ते सर्वमाख्यातं तस्यास्तु पूर्वचेष्टितम् । तया पापं कृतं घोरं गृहभङ्गारख्यमेव च ॥ २०
उज्ज्वल उवाचप्लक्षद्वीपस्य भूपस्य दिवोदासस्य सा सुता । केन पुण्यप्रभावन तया प्राप्तं महत्कुलम् ॥ २१ एवं मे संशयस्तात वर्तते प्रब्रवीतु मे । एवं पापसमाचारा कथं जाता नृपात्मजा ॥ २२
कुञ्जल उवाचचित्रायाश्चेष्टितं पुण्यं सर्व ते प्रवदाम्यहम् । यत्कृतं हि तया पूर्व तच्छृणुष्व महामते ॥ २३ कश्चित्सिद्धः समायातो भ्रममाणो महीतलम् । कुचेलो वस्त्रहीनश्च कक्षाधारः सुदण्डकः ॥ २४ कौपीनेन समायुक्तो दिग्वासाः पाणिपात्रकः । गृहद्वारं समाश्रित्य चित्रायाः परिमंस्थितः॥२५ स मौनी सर्वमुण्डश्च जितात्मा विजितेन्द्रियः । निराहारो जिताहारः सर्वतत्त्वार्थदर्शकः ॥ २६ दूराध्वानपरिश्रान्तश्चिन्तयाऽऽकुलमानसः । श्रमेण विद्यमानश्च तृष्णार्तश्च सुपुत्रक ॥ २७ चित्राद्वारं समागत्य च्छायामाश्रित्य संस्थितः । तया दृष्टी महात्माऽमौ चित्रया श्रमपीडितः २८ सेवा चक्रे दैवदिष्टा तस्य चैव महात्मनः । पादप्रक्षालनं कृत्वा दत्त्वा चाऽऽसनमुत्तमम् ॥ २९ आस्यतामासने विप्र सुखेनापि सुकोमले । क्षुधापनदिनार्थ हि भुज्यतामनमुत्तमम् ।। स्वेच्छया परितुष्टश्च शीतलं तूदकं पिब ॥ एवमुक्त्वा तथा कृत्वा देववत्पूज्य तं सुत । अङ्गसंवाहनं कृत्वा नाशितः श्रम एव च ॥ ३१ एवं तया सत्कृतस्तु भुक्त्वा पीत्वा द्विजोत्तम । सिद्धस्तस्यै प्रसन्नोऽभूत्सर्वतत्त्वार्थदर्शकः ॥ ३२ कियत्कालं स धर्मात्मा तस्या गेहे स्थिरोऽभवत् । स्वेच्छया चाऽऽगतः पुत्र यथा योगी तथा गतः
* एतचिहान्तर्गतः पाठः क.ख.घ.ड.च.छ.स.ट. ट. इ. . एसकस्थः ।
१ घ. ङ. ट. ठ. स. द. शासिता । २ क. ख. घ. ड. च. छ. स. ट. ठ. ड. द. ताः । दिव्यादेव्या मयाऽऽख्यातं यथा मे पृच्छितं त्वया । ए।३ क. ख. घ. ड. च. छ. स. ठ. ड. द. 'न्त आतपाकु' । ड, 'न्त आर्तव्याकु । ४ ग. ज. न. ट. म्रियमाणश्च । ५ क.ख. घ. इ. घ. छ. स. ए. टड.द. कृपां ।