________________
८३ व्यशीतितमोऽध्यायः ] पद्मपुराणम् ।
२९५ एवं श्रुत्वा वचस्तासां प्रजानां पृथिवीपतिः । हर्षेण महताऽऽविष्टः प्रजा वाक्यमुवाच ह ॥ १३ आगच्छन्तु मया साधं सर्वे लोकाः सुपुण्यकाः । नृपो रथं समारुह्य तया वै कामकन्यया ॥१४ रथेन हंसवर्णेन चन्द्रबिम्बानुकारिणा । चामरैय॑जनैश्चापि वीज्यमानो गैतव्ययः ॥ १५ केतुना तेन पुण्येन शुभ्रेणापि महायशाः । शोभमानो यथा देवो देवराजः पुरंदरः॥ १६ ऋषिभिः स्तूयमानश्च [*वन्दिभिश्चारणैस्तथा । प्रजाभिः स्तूयमानश्च ] ययातिनहुषात्मजः १७ प्रजाः सर्वा मुदा युक्ताः समायाता नरेश्वरम् । गजैर रयैश्वान्यैः प्रस्थिताश्च दिवं प्रति ॥ १८ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये पृथग्जनाः । सर्वे ते वैष्णवा लोका विष्णुध्यानपरायणा: तेषां तु केतवः शुक्ला हेमदण्डैरलंकृताः। [ शङ्खचक्राङ्किताः सर्वे सदण्डाः सपताकिनः॥ २० प्रजान्देषु भासन्ति पताका मारुतेरिताः । दिव्यमालाधराः सर्वे शोभितास्तुलसीदलैः ॥ २१ दिव्यचन्दनदिग्धाङ्गा दिव्यगन्धानुलेपनाः । दिव्यवस्वकृताशोभाः सर्वाभरणभूषिताः॥ २२ सर्वे लोकाः मुरूपास्ते राजानमनुजग्मिरे प्रजानां च सहस्राणि लक्षकोटिशतानि च ॥ २३ अर्वखर्वसहस्राणि ते जनाः परिजग्मिरे । तेन राज्ञा समं सर्वे वैष्णवाः पुण्यकारिणः ॥ विष्णुध्यानपराः सर्वे जपदानपरायणाः ॥
सुकर्मोवाचएवं ते प्रस्थिताः सर्वे हर्षेण महनाऽन्विताः । पुरुं पुत्रं महाराजः स्वराज्ये प्रतिषिच्य तम् ॥२५ इन्द्रलोकं जगामाथ ययातिः पृथिवीपतिः । तेजसा तस्य पुण्येन धर्मेण तपसा तदा ॥ ते जनाः प्रस्थिताः सर्वे वैष्णवं लोकमुत्तमम् ॥ ततो देवाः सगन्धर्वाः किन्नराचारणास्तथा । सहिता देवराजेन आगताः संमुखं तदा ॥ तैः सहापि च सर्वैश्च पूजयन्तो नृपोत्तमम् ॥
२७ इन्द्र उवाचस्वागतं ते महाभाग मम गेहं समाविश । अत्र भोगान्प्रभुक्ष्व त्वं दिव्यान्पुण्यान्मनोरमान्।।२८
राजोवाचसहस्राक्ष महाराज तव पादाम्बुजं वयम् । नमस्कृत्वा वजामोऽद्य ब्रह्मलोक सनातनम् ॥ २९ देवेः प्रस्तूयमानश्च ब्रह्मलोकं जगाम ह । पद्मयोनिर्महातेजाः सार्ध मुनिवरैस्तदा ॥ ३० आतिथ्यं च चकारास्य अादिभिः सुविस्तरैः । उवाच विष्णुलोकं हि प्रयाहि त्वं स्वकर्मणा ब्रह्मणा भाषितश्चैवं जगाम शिवमन्दिरम् । चक्र आतिथ्यपूजां च शंकरश्चोमया सह ॥ ३२ शिवः संपूज्य तं चापि राजानमिदमब्रवीत् । कृष्णभक्तोऽसि राजेन्द्र ममापि सुप्रियो भवान् ३३ स्थातव्यमत्र राजेन्द्र त्वयैव मम मन्दिरे । सर्वभोगान्प्रभुक्ष्व त्वं सुदुष्पाप्या हि मानुषैः॥ ३४ अन्तरं नास्ति राजेन्द्र मम विष्णोन संशयः । योऽसी विष्णुः स्वरूपेण स च रुद्रो न संशयः॥ रुद्रो यः स च वै विष्णुर्जानीहि त्वं नरेश्वर । [* उभयोरन्तरं नास्ति तस्मादेवं वदाम्यहम्॥३९ विष्णुभक्तस्य पुण्यस्य स्थानमेवं न संशयः । तस्मादत्र महाराज स्थातव्यं हि त्वयाऽनघ]॥ ६७
* एतचिहान्तर्गतः पाठो ड. पुस्तकस्थः । एतचिहान्तर्गतः पाट: क.ख. इ. च. छ. स. ह. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. घ. ङ. च. छ. स. ट. ठ. इ. इ. पुस्तकस्थः ।
-- - ----- -- - - --- १ क. ख. घ. ड. च. छ. झ. ट. ठ. ड.इ. दिव्यं । २ घ. च. स. ट. इ. इ. नराधिपः ।
-
--