________________
२८
२१ एकविंशोऽध्यायः ] पद्मपुराणम् ।
१६१ दुःखानलैर्विविधमोहमयैः सुधूमैः शोकैवियोगमरणान्तकसंनिभैश्च ॥ दग्धोऽस्मि कृष्ण सततं मम देहि मोक्षं ज्ञानाम्बुनाऽथ परिषिच्य सदैव मां त्वम् ॥ मोहान्धकारपटले महतीव गर्ने संसारनाम्नि सततं पतितं हि कृष्ण । कृत्वा तरी मम हि दीनभयातुरस्य तस्माद्विकृष्य शरणं नय मामितस्त्वम् ॥ २५ त्वामेव ये नियतमानसभावयुक्ता ध्यायन्त्यनन्यमनसा पदवीं लभन्ते । नत्वैव पादयुगलं [ *च महत्सुपुण्यं ये देवकिंनरगणाः परिचिन्तयन्ति ॥ २६ नान्यं वदामि न भजामि न चिन्तयामि त्वपादपद्मयुगलं ] सनतं नमामि ।। एवं हि मामुपगतं शरणं च रक्ष दूरेण यान्तु मम पातकसंचयास्ते ॥
दामोऽम्मि भृत्यवदहं नव जन्म जन्म त्वत्पादपद्मयुगलं सततं नमामि ॥ २७ यदि कृष्ण प्रसन्नोऽसि देहि मे वर मुत्तमम् । मम तो पितरौ कृष्ण सकायो नय मन्दिरे ॥ आत्मनश्च कलत्रं च मया सह न संशयः॥
श्रीकृष्ण उवाचएवं ते परमः कामो भविष्यति न संशयः । तस्य तुष्टो हुपीकेशो भक्त्या तस्य प्रतोषितः ॥२९ प्रयातो वैष्णवं लोकं दाहालयवर्जितम् । सुत्रनेन समं नौ द्वौ सुमनामोमशर्मकौ ॥ ३० यावत्कल्पद्वयं प्राप्त तावदै सुव्रतो द्विजः । बुभुजे पुण्यजाल्लोकान्भोगांश्चैव महामनाः॥ ३१ देवकायाथेमत्रैव कश्यपस्य गृहे पुनः । अवतीर्णो महाप्राज्ञो वचनात्तस्य शाङ्गिणः ॥ ३२ ऐन्द्रं पदं हि यो भुते विष्णोश्चैव प्रसादतः । वमुदत्तति विख्यातः सर्वदेवनेमस्कृतः ॥ [*ऐन्द्रं पदं हि यो भुड़क्ते सांप्रतं वासवो दिवि ॥ एतत्ते सर्वमाख्यानं सृष्टिसंबन्धकारणम् । अन्यच्चैव प्रवक्ष्यामि यत्पृच्छसि महामते ॥ ३४
__व्यास उवाचधर्माङ्गदो महापाज्ञो रुक्माङ्गदसुतो बली। आये कुनयुगे प्राप्ते सृष्टिकाले स वासवः ॥ नत्कथं देवदेवेश बन्यो धर्माङ्गदो भुवि ।। अन्यो धर्माङ्गदो राजा किंवाऽयं त्रिदशाधिपः । एतं मे संशयं जानं तद्भवांश्छेत्तुमर्हति ॥ ३६
ब्रह्मोवाचहन्त ते कीर्तयिष्यामि सर्वसंदेहनाशनम् । देवस्य लीला सृष्ट्यर्थ वर्तते द्विजसत्तम ।। ३७ यथा वाराश्च पक्षाश्च मासाश्च ऋतवो यथा । संवत्सराश्च मनवो यथा यान्ति युगानि च ॥ ३८ नथा कल्पाः समायान्ति बजाम्येवं जनार्दनम् । अहमेव महापाज्ञ मयि यान्ति चराचराः ॥३९ पुनः सृजति योगात्मा पूर्ववद्विश्वमेव हि । पुनश्चाहं पुनर्वेदाः पुनस्ते देवता द्विजाः ॥ ४० तथा भूपाश्च ते सर्वे प्रजाश्चैव नथाऽखिलाः । प्रभवन्ति महाभाग विद्वांस्तत्र न मुह्यति ॥ ४१ पूर्वकल्पे महाभागो यथा रुक्माङ्गदो नृपः । तथा धर्माङ्गदश्वायं संजातः ख्यातिमान्दिन ॥ ४२
Mm
* ग. घ. ज.ट.ड, पुस्तकस्थोऽयं पाठः । * क ख ग घ. दु, च. छ. झ.ट.ड.ढ. पुस्तकस्थोऽयं पाठः।
१ क, ख. हु. च. छ. झ. ट. ड. ढ. कृपा।२क. ख. ग, घ, ङ. च. छ, झ... ट. 3. ध्यानेन ज्ञानमः ।। क. ख. ग. घ. इ. च. छ. स.ट. हि काममपि परय मेऽद्य कृष्ण हूँ। ४ क. ख. ग. घ. डा.च. छ.. ड. ढ. 'चमहादव म । ५ क. ख, ग, घ, ङ, च. छ. ड, ढ, रुक्माङ्गदो। ६ क.ख. ग. घ..च. छ. झ.ट.इ. द. तात । ७क. ख. ग.घ. ड.च.छ.श. ड.. 'त्मा मत्पर्व विश्व। ८ क.स. घ. द.च. छ. झ.ट. ड. व स्वचरित्रे समाविलाः ।