________________
११२ महामुनिश्रीव्यासप्रणीत
[ १ आदिखण्डेअपि चेत्सुदुराचारः सर्वधर्मबहिष्कृतः । ऑदिखण्डं समाकर्ण्य पूयते नात्र संशयः ॥ ११ सर्व पुराणमाकर्ण्य यत्फलं लभते नरः । तत्सर्व समयामोति श्रुत्वा पाझमहो द्विजाः॥ १२ समग्रं पाप्रमाकर्ण्य यत्फलं समवामुयात् । आदिखण्डमिदं श्रुत्वा तत्फलं लभते नरः ॥ १३ माघे मासि प्रयागे तु स्नात्वा प्रतिदिनं नरः । यथा पापात्प्रमुच्येत तथा हि श्रवणाद्भवेत् ॥ १४ दत्ता तेन स्वर्णतुला दत्ता चैव धराऽखिला। कृतं वितरणं तेन दरिद्रे यत्कृतमृणम् ॥ १५ हरेर्नामसहस्राणि पठितानि ह्यभीक्ष्णशः । सर्वे वेदास्ताँऽधीतास्तत्तत्कर्म कृतं तथा ॥ १६ अध्यापकाश्च बहवः स्थापिता वृत्तिदानतः । अभवं भयलोकेभ्यो दत्तं तेन तथा द्विजाः॥ १७ गुणवन्तो ज्ञानवन्तो धर्मवन्तोऽनुमानिताः । मेषकर्कटयोर्मध्ये तायं दत्तं सुशीतलम् ॥ १८ ब्राह्मणार्थे गवार्थे च प्राणास्त्यक्ताश्च तेन हि । अन्यानि च सुकर्माणि कृतानि तेन धीमता ॥ १९ येनाऽऽदिखण्डं सदसि श्रुतं संश्रावितं तथा । ऑदिग्वण्डं समाधीन्य नानाभोगान्समश्नुते ।। २० अतः परमनारीणां सुरवसुप्तः प्रबुध्यते । किङ्किणीरवमंनादेस्तथा मधुरभाषणः ॥ २१ इन्द्रस्यार्धासनं भुत इन्द्रलोके वसेच्चिरम् । ततः सूर्यस्य भवनं चन्द्रलोकं ततो व्रजेत् ॥ २२ सप्तर्षिभवने भोगान्भुक्त्वा याति ततो ध्रुवम् । ततश्च ब्रह्मणो लोकं प्राप्य तेजोमयं वपुः॥ तत्रैव ज्ञानमासाद्य निर्वाणं परमृच्छति ॥ सद्भिः सह वसेद्धीमान्सत्तीर्थे स्नानमाचरेत् । कुर्यादव सदालापं सच्छास्त्रं शृणुयान्नरः ॥ २४ तत्र पानं महाशास्त्रं सर्वान्नायफलप्रदम् । आदिरखण्डं च तन्मध्ये महापुण्यफलपदम् ॥ २५
भजध्वं गोविन्दं नमत हरिमेकं सुरवरं __ गमिप्यध्वं लोकानतिविमलभोगानतितराम् ।। शृणुध्वं हे लोका वदन हरिनामैकमतुलं यदीच्छावीचीनां सुखतरणेमिष्टानि लभत ।।
इति श्रीमहापुगणे पाद्म आदिखण्डे द्विपष्टितमोऽध्याय. ॥ २८ ॥ इति महामुनिश्रीव्यासप्रणीते महापुगणे पाद्म आदिममादिखण्डं समाप्तम् ।
आदितः श्लोकानां समष्ट्यङ्काः-६१६०
अ. आदिस्वर्ग। २ अ. 'दिस्वामि' । ३ ख. म. 'था ज्ञाता । ४ अ. "दिस्वर्ग: स । ५ अ. धृतः । ६ म. 'वि तस्तथा । ७. आदिस्वर्ग। ८ म. "दिस्वर्ग च । ९ ज.'ण इष्टा।