________________
२१९
४७ सप्तचत्वारिंशोऽध्यायः ]
पद्मपुराणम् । अहं कन्या सुरूपा वै सर्वालंकारशोभिता । मां दृष्ट्वा तु ततो लोकाः सर्वे स्वजनवर्गकाः ॥ १५ मामेवं याचमानास्ते विवाहार्थं वरानने । याचिताऽहं द्विजैः सर्वैर्न ददाति पिता मम ॥ ११ स्नेहाच्चैव महाभागे सुमोहाच महामतिः । न दत्ताऽहं तदा तेन पित्रा 'चैव महात्मना ॥ १७ संप्राप्तं यौवनं बाल्ये मयि भावसमन्वितम् । रूपं मे तादृशं दृष्ट्वा मम माता सुदुःखिता ॥ १८ पितरं मे ह्युवाचाथ कस्मात्कन्या न दीयते । त्वं कस्मै मुद्विजायैव ब्राह्मणाय महात्मने ।। १९ देहि कन्यां महाभाग संप्राप्ता यौवनं त्वियम् । वेमुदत्तो द्विज श्रेष्ठः प्रत्युवाच द्विजोत्तमः ॥ २० मातरं मे महाभागां श्रूयतां वचनं मम । महामोहेन मुग्धोऽस्मि सुताया वरवणिनि ॥ २१ यो मे गृहस्थो विमो वै भविष्यति शुभे शृणु । तस्मै कन्यां प्रदास्यामि जामात्रे च न संशयः२२ [*मम प्राणात्प्रिया चेर्य सुदेवा नात्र संशयः । एवमुक्त्वा मदर्थ स विरराम पिता मम।।] २३ कौशिकस्य कुले जातः सर्वविद्याविशारदः । ब्राह्मणानां गुणैर्युक्तः शीलवान्गुणवाशुचिः॥२४ वेदाध्ययनसंपन्नं पठमानं हि सुस्वरम् । भिक्षार्थ द्वारमायान्तं पितृमातृविवर्जितम् ॥ २५ तं दृष्ट्वा समनुप्राप्तं रूपवन्तं महामतिम् । तं पप्रच्छ पिता चैवं को भवान्दै भविष्यसि ॥ २६ किं ते नाम कुलं मोत्रमाचारं वद सांप्रतम् । समाकर्ण्य पितुर्वाक्यं वसुदत्तमुवाच सः॥ २७ कौशिकस्यान्वये जातो वेदवेदाङ्गपारगः । शिवशर्मेति मे नाम पितृमातृविवर्जितः ॥ २८ सन्ति मे भ्रातरश्चान्ये चत्वारो वेदपारगाः। [ 'एवं कुलं समाख्यातमाचारं कुलसंभवम्॥२९ एवं सर्व समाख्यातं पितरं शिवशर्मणा । शुभे लग्ने तिथौ प्राप्ते नक्षत्रे भगदेवते ॥ ३० पित्रा दत्ताऽस्मि सुभगे तस्मै विप्राय वै तदा । पितृगेहं वसाम्येका तेन सार्धं महात्मना ॥ ३१ नेव शुश्रूषितो भर्ता मया स पापया तदा । पितृमातृसुंद्रव्येण गर्वेणापि प्रमोहिता ॥ १२ अङ्गसंवाहनं तस्य न कृतं हि मया कदा । रतिभावेन स्नेहेन वचनेन मया शुभे ॥ ऋरबुद्ध्या हि दृष्टोऽसौ सर्वदा पापया मया । पुंश्वलीनां प्रसङ्गेन तद्भावं हि गता शुभे॥ ३४ मातापित्रोश्च भर्तुश्च भ्रातृणां हितमेव च । न करोम्यहमेवापि यत्र तत्र व्रजाम्यहम् ॥ ३५ एवं मे दुष्कृतं दृष्ट्वा शिवशर्मा पतिर्मम । स्नेहाच्छ्शुरवर्गस्य मम भर्ता महामतिः॥ ३६ न किंचिदते सोऽपि भमते दुष्कृतं मम । वार्यमाणा कुटुम्बन अहमेव सुपापिनी ॥ ३७ तस्य शीलं विदित्वा ते साधुत्वं शिवशर्मणः । पिता माता त्विमे सर्वे मम पापेन दुःखिताः।।३८ भर्ता मे दुष्कृतं दृष्ट्वा तस्य गृहाद्विनिर्गतः । तं देशं ग्राममेवं हि परित्यज्य गतस्ततः ॥ ३९ गते भर्तरि मे तातः संजातश्चिन्तयाऽन्वितः । मम दुःखेन दुःखात्मा यथा रोगेण पीडितः॥४० मम माता उवाचैव भर्तारं दःखपीडितम् । कस्माञ्चिन्तयसे कान्त वद दुःखं ममाग्रतः॥ ४१ वसुदत्त उवाचैनां मातरं मम संमुखः । सुतां त्यक्त्वा गतो विमो जामाता शृणु वल्लभे॥ ४२ इयं पापसमाचारा निघृणा पापचारिणी । अनया हि परित्यक्तः शिवशर्मा महामतिः ॥ ४३
* एतचिहान्तर्गतः पाठो ग. घ. हु. छ. स.ट. पुस्तकस्थः। एतचिहान्तगत: पाठी ग. घ. ज.ट. ह. पुस्तकस्थः ।
१ ज. मम । २ ग, घ ज. ट. 'ल्ये वयमा चस। ड. ल्ये मदभा। ३. 'ते। यौवनस्था त्वया कान्त बा। ४ ज. म् । तच्छ्रत्वा वसुदत्तोऽसौ प्र । ५ ट. वासुदेवो। ६ ज. 'यं वसुदेवा न सं। ७ ग. घ. इ. छ. स. वसुदत्तः । 2. वासुदेवः । ८ ड. 'वान्रूपवा । ९८. सस्वरम् । १० ८. ज. द. महामतिः । ११ ज. म् । पप्रच्छ च कुलं शील कन्यादानार्थमेव त।१२ ग. घ. ज.मे पित' । १३ ग. घ. ज. ट. 'मुभद्रेण । १४ ज. 'ता भ्रातरश्च म । १५ ग. घ. ज. ट. ड. 'याऽपि । १६ ग, घ, ज. ट. महामुनिः ।