________________
२६०
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे -
९२
९४
९.८
१००
यथा यथा स्वभावस्य महाभागे मुदावहम् । परित्यक्ता यथा भार्या भावहीना न कामयेत् ॥८८ तस्माद्विविधमन्नाद्यं भक्ष्याणि सुरभीणि च । स्वभावेन नरस्तस्माद्भावः सर्वत्र कारणम् 11 ८९ चित्तं शोधय यत्नेन किमन्यैर्बाह्यशोधनैः । भावतः शुचिः शुद्धात्मा स्वर्ग मोक्षं च विन्दति ॥९० ज्ञानामलाम्भसा पुंसः सद्वैराग्यमृदा पुनः । अविद्यारागविण्मूत्रलेपो नश्येद्विशोधनैः ॥ ९१ एवमेतच्छरीरं हि निसर्गादशुचि विदुः । अध्यात्मसारनिःसारं कदलीसारसंनिभम् ॥ ज्ञात्वैवं देहदोषं यः प्राज्ञः स शिथिलो भवेत् । सोऽतिक्रामति संसारं दृढग्राहीव तिष्ठति ॥ ९३ एवमेतन्महाकष्टं जन्मदुःखं प्रकीर्तितम् । पुंसामज्ञानदोषेण नानाकर्मवशेन च ॥ गर्भस्थस्य मतिर्याssसीत्संजातस्य प्रणश्यति । संमूर्च्छितस्य दुःखेन यांनियत्रप्रपीडनात् ॥ बाह्येन वायुना तस्य मोहंसङ्गेन देहिनाम् । स्पृष्टमात्रेण घोरेण ज्वरः समुपजायते ॥ तेन ज्वरेण महता महामोहः प्रजायते । संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः ॥ स्मृतिभ्रंशात्तस्य पूर्वकर्मज्ञानसमुद्भवा । रतिः संजायते पूर्णा जन्तोस्तत्रैव जन्मनि ॥ रक्तो मूढश्च लोकोऽयमकार्ये संप्रवर्तते । न चाऽऽत्मानं विजानाति न परं न च दैवतम् ॥ ९९ न शृणोति परं श्रेयः सति चक्षुषि नेक्षते । समे पथि शनैर्गच्छन्स्खलतीव पदे पढ़े ॥ स्वापं सुप्तो न जहाति बोध्यमानो बुधैरपि । संसारे क्लिश्यते तेन नरो लोभवशानुगः । गर्भस्मृतेरभावे च शास्त्रमुक्तं शिवेन च । नानादुःखविनाशाय स्वर्गमोक्षमसाधनम् ।। येन त्वस्मिञ्शिवे ज्ञाते धर्मकर्मार्थसाधने । न कुर्वत्यात्मनः श्रेयस्तदत्र महदद्भुतम् ॥ अव्यक्तेन्द्रियवृत्तित्वाद्वाल्ये दुःखं महत्पुनः । इच्छन्नपि न शक्क्रांति वक्तुं कर्तुं च संत्कृतम् ।। १०४ भुङ्क्ते तेन महद्दुःखं बॉल्येन व्याधिनाऽन्यथा । वाल्यरोगैश्च विविधैः पीडाबालग्रहैरपि ।। १०२ तृड्बुभुक्षापरीताङ्गः कचिद्गच्छति तिष्ठति । विमृ॑त्र॒मज्जनार्थं च मोहाद्वालः समाचरेत् ।। १०६ [*कौमारः कर्णवेधेन मातापित्रांश्च लॉलनम् । अक्षराध्ययनाद्यैश्च दुःखं स्यागुरुशासनम् ॥ १०७ अन्यत्रेन्द्रियवृत्तिश्च कामर (गप्रयोजनात् । रोगावृतस्य सततं कुतः सौख्यं च यौवने ॥ ईर्षया सुमहद्दुःखं मोहाद्दुःखं सुजायते ] । तत्र स्यात्कुपितस्यैव रागां दुःखाय केवलम् ।। १०९ रात्रौ न कुरुते निद्रां कामाग्निपरिखेदितः । दिवा वाऽपि कुतः सौख्यमर्थोपार्जन चिन्तया ।। ११० व्यवायाश्रितदेहस्य ये पुंसः शुक्रविन्दवः । [न ते सुखाय मन्तव्याः स्वेदजा इव बिन्दवः] ।। १११ कृमिभिः पीड्यमानस्य कुष्ठिनः पामरस्य च । कण्डूयनाभितापेन यत्सुखं स्त्रीषु तद्विदुः ।। ११२ यादृशं मन्यते सौख्यमर्थोपार्जनचिन्तया । तादृशं स्त्रीषु मन्तव्यमधिकं नैव विद्यते । ११३ मर्त्यस्य वेदना सैव यां विना चित्तनिर्वृतिः । ततोऽन्योन्यं पुरा प्राप्तमन्ते सैवान्यथा भवेत् ।। ११४
१०१
1
१०२
१०३
१०८
१७
९५
९६
९७
* एतचिहान्तर्गतः पाठः क. ख. घ. इ. च. छ. झ. ड. ट. पुस्तकस्थः । * एतच्चिह्नान्तर्गतः पाठः क. ख. ङ. च. ड. ट. पुस्तकस्थः ।
१ क. ख. घ ङ च छ झ ट ट गमुदाहृतम् । प । २ड. उदाहृतः । ३ च. छ. झ. दृ त् । नाद्याद्वि ं । ४ क. ख. ङ. च. छ. झ. ट. अभावेन । ५ क. ख. छ. झ. ड. 'हसंज्ञेन । ६ घ ड द्वारेण । ७ क. ख. ङ. च. छ. झ. ड. ट. तूर्णे । ८ क. ख. ङ च छ ड द वक्रो । ९ क. ख. ङ. च. छ. झ. ड. द. 'दे । सत्यां बुद्धी न जानाति । १० क. स्व. घ. ङ. च. छ. झ. ट ड ढ च । तद्दुःखकथनार्थाय । ११ ड. संस्कृतं । १२ क. ख. घ. ड. च. ड. द. दत्तं । १३ क. ख. घ. ड. व. छ. झ. ड. ट. लौल्येन । १४ ङ. छ. झ. ८. 'त्रभक्षणाद्यं च । १५ क. ख. ङ. च. छ. झ. ८. ताडनम् । १६ क ख. ङ. च. झ. ढ. प्रमत्तेन्द्रियवृत्तिश्च । १७ क. ख. घ. ङ. च. छ. झ. ट. ढ. 'मिभिस्ताड्य 1 १८
T शाला।
77