________________
२९२ महामुनिश्रीव्यासमणीत
[ २ भूमिखण्डेन मना न तपो दानं न मित्राणि न बान्धवाः। शन्कुवन्ति परित्रातुं नरं कालेन पीडितम् ॥३३ प्रयः कालकृताः पाशाः शक्यन्ते न निवर्तितम् । विवाहो जन्म मरणं यथा यत्र च येन च ३४ यथा जलधरा व्योन्नि भ्राम्यन्ते मातरिश्वना । तथेदं कर्मयुक्तेन कालेन भ्रामितं जगत् ॥ ३५
सुकर्मोवाचकालोऽयं कर्मयुक्तश्च यो नरैः समुपासितः । कालस्तु प्रेरयेत्कर्म तं तं कालः करोति सः ॥ ३६ उपद्रवाघातदोपाः सर्पाश्च व्याधयस्ततः । सर्वे कर्मप्रयुक्तास्ते प्रचरन्ति च मानुपम् ॥ ३७ मुखस्य हेतवो ये च छुपायाः पुण्यमिश्रिताः । ते सर्वे कर्मसंसक्ता न पश्येयुः शुभाशुभम् ॥३८ कर्मदा यदि वा लोके कर्मसंबन्धिवान्धराः । कर्माणि चोदयन्तीह पुरुपं मुखदुःखयोः ॥ ३९ सुवर्ण रजतं चापि यथा रूपं निवध्यते । तथा निवध्यते यस्तु स्वकर्मणि वशानुगः॥ ४० पश्चैतानि विसृज्यन्ते गर्भस्थस्यैव देहिनः । आयुः कर्म च वित्तं च विद्या निधनमेव च ॥ ४१ यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ ४२ देवत्वमथ मानुष्यं पशुत्वं पक्षिता तथा । तिर्यक्त्वं स्थावरत्वं च प्राप्यते वै स्वकर्मभिः॥ ४३ यथा कृतं तथा भुङ्क्ते नित्यं विहितमात्मना । आत्मना विहितं दुःखमात्मना विहितं सुखम् ।।४४ गर्भसंज्ञामुपादाय भुङ्क्ते वे पूर्वदेहिकम् । संत्यजन्ति स्वकं कर्म न कचिन्पुरुषा भुवि ॥ १५ वित्तेन प्रज्ञया वाऽपि समर्थाः कर्तुमन्यथा । स्वकृतान्युपभुञ्जन्ति दुःखानि च सुखानि च ॥ हेतुं प्राप्य नरो नित्यं कर्मपाशैश्च वध्यंत ॥ यथा धेनुसहस्रषु वत्सो विन्दति मातरम् । तथा शुभाशुभं कर्म कर्तारमनुगच्छनि ॥ ४७ उपभोगाइते तस्य नाश एव न विद्यते । प्राक्तनं बन्धनं कर्म कोऽन्यथा कर्तुमर्हति ॥ सुशीघ्रमपि धावन्तं विधानमनुधावति । [* शेते सह शयानन पुरा कर्म यथाकृतम् ।। उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति । करोति कुर्वतः कर्म च्छायेवानुविधीयते ] ॥ ५० यथा छायातपो नित्यं संबद्धौ च परस्परम् । तद्वत्कर्म च कर्ता च सुसंबन्धौ परस्परम् ॥ ५१ ग्रहा रोगा विषाः सर्पा डाकिन्यो राक्षसास्तथा । पीडयन्ति नरं पश्चात्पीडितं पूर्वकर्मणा ॥ ५२ येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव च । स तत्र वदध्वा बन्धन बलादेवन नीयते ॥ ५३ देवं प्राहुर्हि भूतानां सुखदुःखोपपादने । अन्यत्र संचितं कर्म जाग्रतः स्वपतोऽपि वा ॥ ५४ अन्य मुच्यते देवाद्वन्धमेवं जिघांसति । शस्त्राग्निविपदुर्गेभ्यो रक्षितव्यं च रक्षति ॥ ५५ अरक्षितं भवेत्सत्यं देवं तमेव रक्षति । देवेन नाशितं यत्तु तस्य रक्षा न दृश्यते ॥ ५६ यथा पृथिव्यां बीजानि उप्तानि च धनानि च । तथैवाऽऽत्मनि कर्माणि तिष्ठन्ति प्रभवन्ति च ।। तैलक्षये यथा दीपो निर्वाणमधिगच्छति । [*कर्मक्षयात्तथा जन्तुः शरीरानाशमृच्छति ॥ ५८ कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिदाहृतः । विविधाः प्राणिनामस्य स्मृता रोगाश्च हेतवः॥ ५९ तथा मम विपाकोऽयं पूर्व कृतस्य नान्यथा । संप्राप्तो नात्र संदेहः स्त्रीरूपी देवसंज्ञकः ॥ ६० मम गेहे समायाता नाटका नटनर्तकाः । तेषां सङ्गप्रसङ्गेन जरा कायं समाश्रिता ॥ ६१ सर्व कर्मकृतं मन्ये यन्मे संभावितं ध्रुवम् । तस्मात्कर्म प्रधानं च उपायाश्च निरर्थकाः॥ ६२ * एतञ्चिह्नान्तर्गतः पाठः क. ख. घ. दु. च. छ. झ. ड. ट. पुस्तकस्थः । एतञ्चिद्वान्तर्गतः पाठी ड. छ. झ. पुस्तकस्थः।
१क ख. ड. च. द. ते जन्तुः स्व । २ क. ख. ड. च. छ. झ. ह. द. बलेन । ३ क.ख. घ. ङ. च. छ. स. ट... न्यथा चिन्त्यते । ४ छ. झ. था पपद्यत देवमेवं जि।
४८