Page #1
--------------------------------------------------------------------------
________________
अच्युतग्रन्थमालायाः पञ्चमं पुष्पम्
श्री सदानन्दविद्वद्विरचितः
प्रत्यक्तत्त्वचिन्तामणिः
स्वोपज्ञस्वप्रभासमेतः
प्रथमो भागः
प्रकाशनस्थानम्
अच्युतग्रन्थमालाकार्यालयः,
काशी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________
प्रकाशकः श्रेष्ठिप्रवरः श्रीगौरीशङ्करगोयनकाः, अच्युतग्रन्थमाला-कार्यालयः,
काशी।
मुद्रकः श्री अपूर्वकृष्णवसुः इंडियनप्रेस, लिमिटेड,
बनारस-बांच
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________
अच्युतग्रन्थमालायाः पञ्चमं पुष्पम्
श्रीसदानन्दविद्वद्विरचितः खोपज्ञस्वप्रभाख्यव्याख्यासंवलितः
प्रत्यक्तत्त्वचिन्तामणिः
प्रथमो भागः
काशिकश्रीजोखीराममटरूमल्लगोयनका-संस्कृतमहाविद्यालय-पुस्तकालयाध्यक्षेण अच्युतग्रन्थमालाध्यक्षेण च साहित्याचार्य
श्रीकृष्णपन्तशास्त्रिणा
सम्पादितः
प्रकाशनस्थानम्
अच्युतग्रन्थमालाकार्यालयः,
काशी
संवत् १९५८]
[प्रथमावृत्तिः १५००
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________
श्रीः
भूमिका
जयति सतिलक: प्रत्यक्तत्त्वचिन्तामणि म अद्वैतवेदान्तस्यामुद्रितपूर्व किमप्यपूर्व ग्रन्थरत्नम् । तस्येमं प्रथमभागमच्युतग्रन्थमालायां संग्रथ्य सर्वसुलभतां नयतामस्माकमहो प्रमोदभरः। मन्ये द्वितीयोऽप्यस्य भागस्तूर्ण प्रकाशमुपैष्यतीति। ग्रन्थरत्नस्यास्य रचयिता मुकुन्दपदारविन्दमकरन्दास्वादरतमनामधुपो ब्रह्मानन्दास्वादलुब्धस्तत्रभवान् विपश्चितामपश्चिम: सदानन्दः। वेदान्तसारनिर्मातु:सदानन्दादयमन्यः। तिलकमपि अस्यैव विदुषः कृतिः । विद्वद्वन्दवन्दितपदारविन्दः कदायं महीमण्डलं मण्डयामासेत्यनुयोगेऽमुकवत्सरेऽस्य जनिर्जातेति समाधिदुरभिधः । परन्त्वस्माद् ग्रन्थान्तिमात्पद्यात्
वेदान्ततत्त्वमधिगम्य गुरोः श्रुतेश्च
रामात्परं न किमपीति सदैकबुद्धिः । विद्वन्मणिहि शिवलाल इति प्रतीत
स्तेनाहमीरित इमं कृतवान् निबन्धम् ॥ इदमवगम्यते यद् शिवलालमहोदयेन प्रेरितो ग्रन्थकर्त्ता ग्रन्थमिममारचितवानिति । शिवलालनामानस्तावदनेके पुरुषधौरेयाः समभूवन् । (१) अद्भुतसंग्रहटीकाप्रभमनोरमाटीकाप्रणेता एकस्तावद् शिवलालः । (२) जातिशाङ्कय॑नाम्नां धर्मशास्त्रनिबन्धस्य रचयिताऽपर: शिवलालशुक्लः । (३) श्यामलारहस्यनिर्माता तृतीय: शिवलाल: । (४) सिद्धान्तबिन्दुप्रदीपिकाप्रणेता तुरीयः शिवलालशर्मा। वाल्मीकिरामायणस्य सुन्दरीटीकाया रामार्चनसोपानस्य च निर्माता पञ्चम: शिवलालपाठक इत्यादयः। एषु को ग्रन्थकृतोऽस्य प्रेरक: शिवलाल इति गवेषणायां क्रियमाणायां 'रामात्परं न किमपीति सदैकबुद्धिः' इति विशेषणेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________
( २ ) अन्तिमो रामार्चनसोपानादिप्रणेता शिवलालपाठक एवास्य प्रेरक इति विज्ञायते। अस्य महाभागस्य विषये गणकतरङ्गिण्यामित्थमुट्टङ्कितमस्ति
त्रिस्कन्धज्योतिषशास्त्रपारदृश्वा पुराणेतिहासतत्त्ववेत्ता तन्त्रविद्यैककुशलो वेदान्तादिदर्शनेष्वपि प्रौढिमान् महाभागोऽयं निखिले भारते वर्षे परां प्रतीतिमुपगतो रामाराधनप्रधानकृतिः कृती काश्यामसीसङ्गमे न्यवसत् । अस्यैव तनयो रामानन्दपाठकः पुरा काशिकराजकीयपाठशालायां सर्वविद्वन्मूर्धन्यत्वेन नियुक्त आसीत् । स यदा तत्र नियुक्तिमुपगतस्तस्मिन्नेवावसरे पुत्रार्जिताङ्गलधनधान्याशनभिया गृहं विहाय श्रीसीतारामचरणारविन्दमकरन्दलुब्धचित्तो विरक्तिमुपागमत् । ज्यौतिषादिविद्याकलापेषु परं प्रावीण्यमुपगतोऽप्ययं वास्तुविद्यायामसाधारणी चातुरीमादधाति स्म। सङ्गीतविद्यारसिकोऽयं सङ्गीतकलाकुशलस्य कस्यचिद्वालकस्य गानेन सन्तुष्टस्तं वास्तुविद्यामपाठयत् । तवंश्या अद्यावधि काश्यां कर्णघण्टासविधे शिल्पचतुरा वास्तुविद्यानिपुणाश्च विद्यन्ते । वाल्मीकिरामायणस्य सुन्दरी नाम टीका रामार्चनसोपानश्च विदुषानेन रचितौ । गोस्वामितुलसीदासकृतगन्थेषु विदुषोऽस्य परा प्रोतिरासीद् । एतच्छोधिता तुलसीदासकृतविनयपत्रिका काश्यां ज्योतिर्विद्वरश्यामाचरणशर्मसद्मनि अद्यापि वरीवर्ति । तत्रास्ति पद्यमिदम्
शोधिता शिवलालेन भूबाणवसुचन्द्रके।
___ वर्षे गीतावलिरियं श्रीसीतारामतुष्टये ॥ अस्य निधनसमयो न ज्ञायते। विनयपत्रिकाशोधनकाले १८५१ वैक्रमाब्दे यद्यस्य वय: षष्टिवर्षासन्न कल्प्यते तदा जन्म १७६१ वैक्रमाब्दे समभूदिति ज्ञायते । __ भारत वर्षेऽयमतीव प्रख्यातो विविधविद्यातत्त्वकुशलः सिद्धरूपश्वासीदिति वृद्धेभ्यः सर्वत्र श्रूयते इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________
( ३ )
अस्यैव महाभागस्य समकालिकोऽयं ग्रन्थकारः विक्रमवत्सरस्याष्टादशशतकान्ते जनिमलभतेति ज्ञायते ।
महाभागस्यास्य तत्त्वविवेकोपरि एका टोकाप्युपलभ्यते । एवं ( १ ) प्रत्यक्तत्त्वचिन्तामणि:, (२) तट्टीका, (३) तत्त्वविवेकटीका चेति तिस्रोऽस्य कृतथा विदुषामुदमावहन्त्यस्तत्कीर्त्तिलतालबालरूपेण विद्यन्ते । अद्वैतमतावलम्बी सदानन्दमहोदयोऽक्षरशी भगवन्तं श्रीशङ्कराचार्यमनुसरतीति निम्नाम्नातपद्येनावगम्यते—
सारात्सारं निगमजलधेरुद्धृतं शास्त्रमेतद्
वेदान्ताख्यं सुभगमुनिना न्यायतः सन्निबद्धम् । तत्सारांशं यतिवरगिरा लब्धमादाय कुर्वे
प्रत्यकचिन्तामणिमतिमुदा श्रीपतिप्रीतिकामः ॥ अस्य पद्यस्य व्याख्यामातन्वता ग्रन्थकृता स्पष्टीकृतमिदम्निगमो वेदः स एव दुःखगाहादिगुणविशिष्टतया जलधिः समुद्रस्तस्मात्सारप्रतिपादकतया सारभूतादपि सारभूतब्रह्माद्वैतपरमेतच्छास्त्र' वेदान्ताख्यं सुभगमुनिना शोभनैश्वर्यविशिष्टेन सकलवेदार्थावगन्त्रा भगवता व्यासेनोद्धृतं वेदसमुदायान्निष्कृष्योपनिषद्भागः पृथक्कृतः सम्यगध्यायादिरूपेण स्थापितस्तमपि संगृह्य न्यायतः 'अथातो ब्रह्मजिज्ञासा' इत्यादिन्यायरूपेण सम्यनिबद्धं शारीरकमीमासाख्यं शास्त्र सूत्ररूपं कृतं तत्सारांशं यतिवरगिरा यतीनां परमहंसानां मध्ये वरः साक्षाद्भगवतः पशुपतेरवतारतया वेदान्ताब्जभास्करो विनष्टप्रायब्रह्मविद्यासम्प्रदायाविर्भावहेतुर्भगवान् भाष्यकार : श्रीशङ्कराचार्यनामा तस्य गीः श्रुतिस्मृतिसूत्रभाष्यरूपा तया तत्प्रसादान्तदध्ययनादिना लब्धं स्वबुद्धारूढमादाय तदेव मूलतया गृहीत्वा प्रत्यकू चिन्ता - मणिं प्रत्यकूतत्वं ब्रह्मैक्यं वेदान्तप्रमेयं यत् तद्विषयिणी चिन्ता चिन्तनप्रकारश्च तयोर्मणिरिव मणिः सर्वार्थभासकतया स्वरूपप्रकाशकस्तद्वद्बोधजनक एतन्नामको ग्रन्थस्तं कुर्वे इति सम्बन्ध इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________
अत: शाङ्करभाष्यस्य पद्यमय: संक्षेप एवायं ग्रन्थ इत्युक्त यदि स्यात्तहि व्याहृतिरियं नार्हति वाच्यताम् ।
अस्य ग्रन्थस्य संशोधनाधारभूता नातिशुद्धा एकव मातृका। सा च तत्रभवतां काशिकराजकीयसंस्कृतपाठशालाप्रधानाध्यक्षाणां ग्रन्थमालाया अस्याः प्राणभूतानां पण्डितप्रवरगोपीनाथकविराजमहोदयानामनुकम्पया सरस्वतीभवनग्रन्थागारादधिगता। अद्यावधि ध्वान्तविलीनस्य ग्रन्थस्यास्य प्रकाशने तेषामासीन्महानभिनिवेशः, अतः पाठकमहोदयानामस्माकञ्चापश्चिमान् धन्यवादान त एवार्हन्ति सन्तः । ___ तामेकामेव मातृकामवलम्ब्य शोधनकर्मणि प्रवृत्तोऽहं यावन्तं परिक्लेशमसहं विपश्चितामनुभूतचरस्य तस्योल्लेखस्य नावावश्यकता । तथापि मदीयशेमुषीदोषेण शीशकातरसंयोजकानामनवधानतया च नास्त्यत्र स्खलितानामभावः । अतो गुणैकपक्षपातिनो विद्वन्मूर्धन्याः सादरमभ्यर्थ्यन्ते यदत्र जातानि स्खलितानि संक्षम्य अनुगृह्णन्तु जनमिममिति । ___टोकायामुद्धृतानां श्रुत्यंशानां पौर्वापर्य्यपालोचनेऽङ्कानां निर्देशमन्तरा कठिनतापतेदनुसन्धातृणामिति यथाशक्ति श्रुत्यध्यायादिसूचका अङ्का अप्यऽत्र सन्निवेशिताः । व्यापारोऽयं कियानपि उपकारी विदुषां यदि स्यात्तदा श्रमो मे साफल्यमुपैष्यति ।
इदमन्यच्चात्र वक्तव्यं यद् ग्रन्थस्यास्य संशोधने प्रवृत्तस्य मम सन्दिग्धस्थलेषु परामर्शदानेन साहाय्यं विदधाना: काशिकश्रीजोखीराममटरूमल्लगोयनकासंस्कृतमहाविद्यालयाध्यक्षा: पण्डितवर्याश्चण्डीप्रसादशुक्लमहोदया अपि अनेकशो धन्यवादानहन्तीति शम् । काशी
सतामाश्रवः श्रीरामनवमी सं० १९८८
श्रीकृष्णपन्तः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणिविषय-सूची
प्रत्यकतत्त्वविचाराभिधं प्रथम प्रकरणम् ... मुकुन्दस्मरणरूपं मङ्गलम् मुकुन्दाश्रयणरूपं मङ्गलम् वागधिदेव्याद्याधारे भगवति प्रणतिः ग्रन्थप्रतिपाद्यम् स्वौद्धत्यनिरास: तत्त्वंपदार्थोक्यनिरूपणम् आत्मबुद्धेः श्रीकृष्णपरायणताप्रतिपादनम् ग्रन्थस्यास्य सम्प्रदायमूलकत्वम् ... ग्रन्थमहिमा मुमुक्षून प्रति हितोपदेशः निष्ठात्रयप्रदर्शनपुरस्सरं शास्त्रारम्भणम् अधिकारिनिरूपणम् . ब्रह्मज्ञानादेव संसारबन्धः ... ब्रह्मवैमुख्यमेव सर्वानर्थहेतु: ज्ञानाभावादेव संसारसिन्धौ पात: दु:खभोगश्च भगवत एवाश्रयणीयत्वम् हरिपदभजनस्य संसारोच्छेददक्षत्वम् भक्तेरवश्यकर्त्तव्यत्वम् भक्तियोगोपायस्य विषयवैराग्यस्य आवश्यकता
२७ भक्तेः परम्परया सर्वानोन्मूलनदक्षत्वम्.
.... २७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________
( ६ )
भक्तस्त्रैविध्यप्रतिपादनपुरस्सरं मानसभक्तिनिरूपणम्...
कायिकभक्तिनिरूपणम्
वाचिकभक्तिनिरूपणम्
उक्तत्रिविधभक्तिफलम्
...
...
आचार्य्याल्लब्धस्योपदेशस्य साधीयस्त्वम् प्राचार्यमुपगतस्य मुमुक्षोः कर्त्तव्यजातम् मुमुक्षुणा कर्त्तव्या: प्रश्ना:
शास्त्रे गुरुशिष्यरूपेण वादिप्रतिवादिरूपेण च प्रतीतयो - स्तत्वप्रतिपादन त्योः पूर्वस्याः श्रेष्ठ्यम् तत्त्वश्रवणाय शिष्यस्याभिमुखीकरणपूर्वकं त्वं पदार्थस्य निर्वचनं तदज्ञानहेतुकमेव प्रपञ्चसत्यत्वम् अहङ्काराध्यासस्याप्यनर्थमूलत्वम्
प्रत्यक्तत्वविचारे प्रवृत्तिः
लिङ्गदेहात्त्वंपदार्थस्य विवेकः
अभ्यासस्यैव संसृतिपातकारणता
शास्त्रारम्भस्य साफल्यम्
- देहाभ्यासे सति कथं वैराग्यमित्यत्र समाधिः मुकुन्दपदारविन्दभजनाद् वैराग्यसिद्धिस्ततो महावाक्य
श्रवणादिपरायणता
...
ततस्तत्त्वसाक्षात्कारस्तस्य फलच
त्वं पदार्थशोधनम्
चार्वाक मतस्य यत्वं महर्षिमतस्योपादेयत्वम्
स्थूलदेहाद् विवेचिते त्वंपदार्थे भ्रान्तेर्विनाशस्तत:
बुद्धेर्विज्ञानशब्दवाच्याया अपि त्वंपदार्थस्य विवेक: स्थूलसूक्ष्मदेहधर्मेभ्योऽपि तस्य पार्थक्यम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
पृष्ठ
२८
२६
३०
३१
३२
३३
३३
३५
३६
३७
३८
४०
४१
४२
४३
४५
४६
४७
४८
५०
५३
www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________
वैधर्म्यप्रदर्शनपुरःसरं पुनः स्थूलदेहात्तस्य विवेचनम् ...
" " सूक्ष्मदेहात्तस्य विवेचनम् ... जाग्रत्वप्नयोः सर्वबुद्धिवृत्त्यवभासकतया साक्षिण:
सिद्धिः
सुषुप्तौ सर्वबुद्धिवृत्तिलयप्रकाशकत्वेनापि तस्य सिद्धिः तस्य स्वप्रकाश्यत्वं मानान्तरनिरपेक्षत्वं च तस्यैक्ये वादिनो विप्रतिपत्तयः ... वादिविप्रतिपत्तीनां खण्डनम् ... विद्याऽविद्यानिबन्धनो भेदाभेदव्यवहार: प्रत्यक्षानुमानयो त्मभेदावगाहित्वमपि तु अनात्म
भेदावगाहित्वम् अन्त:करणादिधर्माणामात्मनि अध्यस्तत्वम् तस्यैकत्वेऽपि अन्तःकरणभेदादनेकदेहिनां व्यवहार
साङ्क भाव: देहबुद्धवाद्युपाधिनिष्ठो भेद आत्मनि तु भेदासम्भवः श्रुतेरपि न भेदे तात्पर्य किन्तु अभेदे एव स्वप्नदृष्टान्तेन सर्वशरीरेष्वैकात्मसिद्धिः योगिन: कायव्यूहदृष्टान्तेनापि तस्याः समर्थनम् अन्त:करणभेदात् सिद्धस्य भेदस्य नात्मविषयत्वम् असङ्गे ब्रह्मणि मायाकृतः प्रपञ्चाध्यास: अध्यस्तस्य जगतो व्यापृतेरपि मिथ्यात्वम् जन्ममृत्युरूपस्य बन्धस्य आत्मनि कल्पितत्वमेव पूर्वोक्तस्यार्थस्यैव संक्षेपः ब्रह्मबोधेनाज्ञानेऽपबाधिते स्वपदावस्थिति:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________
( ८ )
स्वपदावस्थितिरूपाया मुक्तेर्निर्णयापक्रमः बौद्धाभिमत मुक्तिस्तन्निरासश्च
योगाचाराभिमतमुक्तिस्तन्निरासश्च
आर्हताभिमतमुक्तिस्तन्निरासश्च
कणादाभिमतमुक्तिस्तन्निरासश्च
प्राभाकराभिमतमुक्तिस्तन्निरासश्व
भाट्टाभिमतमुक्तिस्तन्निरासा
वेदान्तसिद्धमर्थमन्यथयतामेकदेशिनामभिमता मुक्तिस्त
निरासश्च
वेदान्तज्ञम्मन्यानां केषांचित् सम्मता मुक्तिस्तन्निरासश्च वेदान्तसम्मता मुक्तिः तस्या उपादेयत्वम्
...
...
तत्र प्रमाणभूतानां श्रुतिवाक्यानामर्थत: प्रदर्शनम् तत्त्वज्ञानान्मुक्तेः स्वतः सिद्धिर्न तत्र कारणान्तरापेक्षा तादृशमुक्तिप्राप्त्युपायः
तत्त्वज्ञानाधिकारी
तत्त्वज्ञानेन सर्वज्ञान सिद्धि:
प्रकरणान्ते सर्वाधिष्ठानस्य सर्वोपास्यस्य कृष्णस्यानुसन्धानम् तत्त्वज्ञानपूर्वक मोक्षप्रदातृत्वेनापि तस्यानुसन्धानम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
...
पृष्ठ
७५
७६
७६
७७
...
७८
७६
८०
८०
८१
८२
श्रवणविधिमयूखाभिधं द्वितीयं प्रकरणम् ८८ - ११०
प्रकरणारम्भे मङ्गलाचरणव्याजेन संक्षेपेण शास्त्रार्थ -
प्रदर्शनम्
अङ्गिन: श्रवणस्य विधिमुपपादयितुं भूमिकारचनम्
श्रवणस्य फलवत्त्वकथनम्
तत्साधकानां प्रमाणवचनानामुपन्यासः -
*
८४
८४
८५
८५
८६
८६
#
८६
६१
६१
www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________
श्रवणलक्षणम्
मननलक्षणम् निदिध्यासनलक्षणम् मनननिदिध्यासनयोः फलम् सोपपत्तिकं श्रवणस्य प्राधान्यम् मननध्यानयोस्तदङ्गत्वम्
( ∈ )
ज्ञानस्य क्वचिददृष्टजन्यत्वेऽपि सम्प्रदायविरोधः
श्रवणविधिस्वीकारे
मननश्रवणादीनां समुदितानां फलम् ब्रह्म ैक्याकारवृत्तेर्नित्यत्वमनित्यत्वं वेति शङ्का तत्परिहारश्च प्रत्यगभिन्नस्य ब्रह्मण एव अज्ञानतत्कार्यनिवर्त्तकत्वम्... श्रवणे पुराणस्यापि सम्मतिः
श्रवणे विधिर्न सम्भवतीति पूर्वपक्षरूपेण आक्षेपः विध्यसम्भवप्रदर्शनायैव विकल्पद्वयम्
तत्र अपूर्वविधिपरिहारः
तत्रोपपत्तिः परिसंख्याविधि परिहार:
व्यतिरेकाभावात् नियमविधेरपि परिहारः तत्रोपपत्तिः
व्यतिरेकाभावात् नियमविधेरपि परिहार:
व्यतिरेकाभावोपपादनम्
परत्वञ्चेति वाक्यभेदः
पूर्वपक्षोपसंहारः
श्रवणे विधेः कैमुत्येन साधनम् अध्ययनवत् श्रवणेऽपि कल्पकसाम्यकथनम्
: :
...
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
वेदान्तानां विधिपरत्वं ब्रह्म
844
⠀⠀ : : :
...
::
...
...
...
पृष्ठ
६२
६२
८३
८३
८३
८३
६५
६
६६
६६
६
६७
६७
६७
हद
६८
६८
€€
€€
हर्ट
१००
१००
१००
www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________
(१०)
पृष्ठ
१०१ १०२
१०२
१०३
१०३ १०४
ब्रह्मज्ञानस्यादृष्टजन्यत्वम् यथा वेदाध्ययने स्मृत्युक्तप्रत्यवायान्यथानुपपत्तेरपि तत्क
ल्पकत्वं तथा श्रवणेऽपि प्रत्यवायस्मृत्यन्यथानुपपत्ति
स्तत्कल्पिकास्त्विति साम्येन समाधानम् । नियमविध्यसम्भवशङ्का तत्समाधानम् प्रकारान्तरेऽपि साम्यम् सम्प्रदायविरोधपरिहारः ज्ञाने विधेर्निराकरणे कारणम् ... श्रवणे विधिस्वीकारे दोषाभाव: उपक्रमोपसंहाराभ्यां तत्त्वप्रतिपादनपरे वेदान्तवाक्ये -
वान्तरवाक्यैः श्रवणादिविधानं किमर्थ इत्या.
शङ्क्य, द्विधा विकल्प्य, समाधानम् अथ प्राभाकराणामपरितोष: स्यादिति प्रकारान्तरसमा
श्रयणम् तेनापि तेषामपरितोष प्रकारान्तरम् 'तस्माद् ब्राह्मण: पाण्डित्यम्' इति वाक्यस्य श्रवणविधा
यकत्वम् तत्र शङ्का समाधिश्च पुनरपि तस्यैव स्पष्टीकरणम् श्रवणविधेरुपसंहारः श्रवणविधिप्रतिपादनफलम् प्रात्मविद्याया: संसारबन्धनिराकरणहेतुत्वम् प्रमातृत्वादिभ्रमस्य आत्माविद्याविवर्त्तत्वम् प्रथममात्मनि अहङ्काराध्यास: ....
१०४
१०४ १०५
::::::::
१०७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________
१०८
१०६
ततोऽहङ्कारोपहिते चैतन्ये प्राणादीनामध्यासः ततः __ संसारस्य दाढ्यम् वासनाजालवृत्तस्यात्रासक्तिः संसृतिनिवृत्तये श्रवणादा प्रवृत्तस्याजसा ज्ञानलाभ: ... तत्त्वज्ञानेन सकार्याज्ञानस्य बाधे स्वपदावस्थिति: ... प्रकृतोपसंहार: प्रकरणान्ते ससाधनज्ञानाप्तये भगवदाश्रयस्यापेक्षणीय
त्वमिति निर्देशपूर्वकं स्वयमपि तदाश्रयणम्
प्रत्यकस्वप्रकाशत्वसाधकमयूखाभिधं तृतीयं प्रकरणम्
...१११-१३८
१११ ११२
स्वेष्टदेवतानमस्कारव्याजेन प्रकरणप्रतिपाद्यस्यार्थस्य
संक्षेपेण निर्देश: प्रारिप्सितप्रकरणस्यासाधारणप्रमेयसूत्रणम् आत्मतत्त्वज्ञानेनैव मोक्षसिद्धिः ... आत्मनः स्वप्रकाश्यत्वं घटादिवत्प्रमाणाधीनसिद्धि
कत्वं वेति दर्शयितुं तत्र प्रमाणमस्ति न वेति विकल्पनम् सति प्रमाणे तस्यानात्मता असति प्रमाणे तस्यानृतत्त्वाद् शशशृङ्गतुल्यत्वम् ... स्वप्रकाशे आत्मनि नो विकल्पावसर इति दर्शयितुं __ भूमिकारचनम् आत्मनः प्रमाणानपेक्षतेत्युपपादनम् उतार्थस्यैव स्पष्टीकरणम्
११४
११५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________
( १२ )
स्वप्रतीतपेक्षितस्य प्रमाणस्य प्रतीतिमात्रं कार्य्यं जड
भानं वा ? इति विकल्पनम्
तत्राद्यस्य दूषणम्
स्वप्रकाशस्य प्रमाणस्य प्रमाणान्तर नैरपेक्ष्येणैव प्रमेय
सिद्धौ प्रवृत्तिः
एतस्यैव पूर्वपक्षमुखेनेोपपादनम् पूर्वपक्षस्यानुगमपुरस्सरं समाधानम् स्वप्रकाश्यस्यात्मनः कैमुत्येनान्यानपेक्षत्वप्रदर्शनम्
प्रमाणप्रवृत्तेः प्रागपि श्रात्मन: प्रमातृसाक्षिरूपेण सिद्ध
त्वात् न तदपेक्षा
आत्मनः प्रमाणापेक्षत्वे युक्तिविरोध:
प्रमाणमन्तरा कथमात्मसिद्धिरिति वदतामुपहास:
फलितेोक्तिः
प्रमाणेनात्मनोऽसिद्धिरिति दूषणं व्याघातात् व्याघातस्य निरूपणम्
अत श्रात्मनः सत्यत्वम्
तत्र प्रमाणत्वेन श्रुतेरुपन्यासः
प्रमाणेन वस्तुसत्ता जायते ज्ञायते वेति विकल्प्य
आद्यस्य दूषणम्
वस्तुसत्ता सति प्रमाणे ज्ञायते इत्यस्य समाधानम् तत्र श्रुतेः प्रमाणत्वेनोपन्यास: आत्मन एव सर्वप्रमाणविषयत्वमिति कथनम् आत्मनोज्ञातत्वोपपादने भूमिका
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
:
...
पृष्ठ
११६
११७
११७
११७
११८
११८
११८
११-६
.११६
१२०
१२०
१२०
१२१
१२२
१२२
१२३
१२३
१२४
www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________
( १३ )
पृष्ठ
१२४
१२४
१२५ १२५ १२६
१२६
१२६
१२७
व्यवहारयोग्ये प्रतीचि नास्तीति व्यवहारोऽधिष्ठाना
ज्ञानजन्य एव अज्ञाते आत्मन्येव प्रमाणस्य फलवत्त्वम् एतस्य स्पष्टीकरणम् जडेऽज्ञातत्वाभावोपपादनम् ... घटे ज्ञातत्वव्यवहारस्तु आत्माध्यासनिबन्धनः घटाद्यधिष्ठानस्य चिदात्मन एव अज्ञानावृतत्वम् प्रमाणाधिपतेस्तस्य प्रमाणत्वेन असत्यत्वकथनं हठ
मात्रमूलम् आत्मन: सर्वप्रमाणगोचरत्वे तस्य श्रुतिमात्रगम्यत्वं ___ व्याहन्येतेति शङ्का तस्याः समाधि: उपनिषद्विषयेऽज्ञानविषयत्वं न सम्भवतीति शङ्का ... दिवान्धादिदृष्टान्तेनोक्तशङ्काया: निरास: आत्मनि वेदान्तवाचां प्रवृत्तिः अज्ञाननिवृत्तय इति
कथनम् . तस्यैव स्पष्टीकरणम् आत्माकारवृत्त्युत्पादकत्वेन वेदान्तानामात्मविषयत्वम् तत्साधकानुमानप्रमाणप्रदर्शनम् ... ... अनुमानस्यास्य श्रुतिमूलकत्वकथनपूर्वकं निर्मूलत्व
निरास: आत्मन: स्वप्रकाशकत्वासम्भवस्तद्विरुद्धानुभवविषयत्वात्
इति शङ्का पूर्वपक्षोपसंहारः उक्तशङ्कायाः समाधानम् अज्ञानकृतस्य बन्धस्यात्मन्यध्यस्तत्वकथनम्
१२७ १२८
१२८ १२६
१२६
तत्स
१३०
१३०
१३१
१३२
१३३
.. १३७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________
ä
ã
ã
( १४ )
पृष्ठ प्रकरणान्ते भगवतोऽनुसन्धानम् ...
१३८ प्रत्यगात्मनि संमृतिनिराकरणमयूखाभिधं
चतुर्थ प्रकरणम् ... ...१३८-१८१ प्रकरणारम्भे स्वेष्टदेवतानुसन्धानव्याजेन संक्षेपेण प्रकरणप्रतिपाद्यार्थस्य प्रदर्शनम् ...
१३६ ज्ञानोच्छेद्यत्वं विशुद्ध ब्रह्मण्यज्ञानकल्पितस्य जगत:
१४० प्रत्यक्षादिसिद्धविश्वस्य अज्ञानकल्पितत्वमसहमानस्य .
वादिन आक्षेपः युक्त्यन्तरेण पुनराक्षेपः प्रपञ्चमिथ्यात्ववादिनं प्रति बाधकत्वोक्तिः आत्मसाक्षात्कारादनन्तरं संसारमिथ्यात्वावगम: किं
प्रागेवेति विकल्प्याद्यस्य दूषणम् ... ज्ञानात्प्रागेव संसारस्य मिथ्यात्वावगमपक्षस्य दूषणम् शास्त्रजन्यस्य परोक्षज्ञानस्य संसारबाधनासामर्थ्यम् शास्त्रारम्भान्यथानुपपत्तेरपि संसारसत्यत्वसाधकत्वम् १४४ पूर्वपक्षोपसंहारः
१४४ उक्तपूर्वपक्षसमाधानं विस्तरेण ...
१४५ जगतो मिथ्यात्वे 'तमेतं वेदानुवचनेन' इत्यादिशास्त्रानर्थ
क्यशङ्काया वारणम् ... मिथ्यापदार्थस्यापि व्यवहारसाधकत्वम् द्वैतस्य प्रतीतिमात्रशरीरत्वोपपादनम् द्वैतस्य प्रतीतिशरीरमात्रत्वे सोऽयं घट इति प्रत्यभिज्ञा न ___स्यादिति शङ्कायाः समाधिः ... जाग्रदादिदशासु प्रपञ्चभेदसाधनम्... प्रत्यभिज्ञाया भ्रमत्वसाधिकाया युक्तेः श्रुतिप्रमाणकत्वम्
o
१५३
४
.
0
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________
( १५ )
पृष्ठ
१६५
१६६
१६७
१६८
सुप्तोत्थितस्य पुन: प्राणादेः सृष्टिर्भवतीत्यत्र प्रमाणा
पन्यासः दृष्टान्तदाान्तिकयोवैषम्यशङ्का ... तत्परिहार: तयो: साम्यनिरूपणम् प्रपञ्चमिथ्यात्वं न केवलया युक्त्या अपि तु श्रुति
प्रमाणेनापि प्रपञ्चविषयकज्ञानसाधनेन्द्रियाणां प्रामाण्याभाव: ... घटादावज्ञातत्वादिव्यवहारस्याप्यन्यथासिद्धत्वम् ... आत्मविषयत्वेनेन्द्रियाणां प्रामाण्यं तु दुरभिधेयम् ... यथा स्वाप्नजगतीन्द्रियगणकृतस्य व्यवहारस्य भ्रान्ति
मूलकत्वं तथा जाग्रजगत्यपि ... फलितोक्तिः अनेन जगतोऽत्यन्ततुच्छत्वं हेयत्वं च प्रपञ्चस्याविद्यकत्वमसहमानस्याशङ्का . तत्समाधिः । अज्ञानस्य प्रपञ्चकारणत्वे श्रुतिप्रामाण्योपन्यास: जगतः सत्यत्वासम्भवः ब्रह्मणो जगत्कारणत्वाभाव: अदृष्टादीनामज्ञानोपहितचैतन्येऽध्यस्तत्वम् ब्रह्मकारणत्ववादिनीनां श्रुतीनां तात्पर्यम् विदुषां मतम् विद्वदविद्वदनुभवयोर्भेदः ... मुमुक्षुभिरनात्मदृष्टिमनादृत्यात्मदृष्टिसमाश्रय: कार्य: ... अज्ञानपरिकल्पितस्य जगतो ब्रह्मस्पर्शे सामर्थ्यम् ...
१७० १७१
१७२ १७३
१७३
१७४ १७४ १७५
१७६
१७७
१७८
१७८
१७६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________
पृष्ठ
१८३
१८४
सर्वानर्थशान्तये तत्त्वज्ञानस्य प्रयत्नेन सम्पाद्यत्वम् ... १७६ प्रकरणान्ते शरण्यत्वेन भगवत: समाश्रयणम्
१८० प्रतिकर्मव्यवस्थामयखाभिधं पञ्चमं प्रकरणम१८२-२.४३ प्रकरणारम्भे मङ्गलाचरणव्याजेनाभिधेयप्रयोजनयोर्दशनम् ...
१८२ अज्ञानस्यैवात्मानात्मनोरन्योन्याध्यासद्वारा सकलानर्थ
कारणत्वम् अध्यासस्याप्रमाणिकत्वनिरासेन सर्वव्यवहारसाधकत्वम् । तत्त्वज्ञाननिवर्त्यस्याध्यासस्य स्वरूपम् स्वप्रकाशे प्रत्यगात्मन्यपि स्वाविद्यया सत्यानृतमिथुनी____ करणरूपोऽध्यास: चिदात्मनि सर्वानर्थहेतुरहङ्काराध्यास: अविषये अध्यास इत्याक्षेपः प्रमातृत्वादिना सविकल्पे ब्रह्मणि अहङ्काराध्यासासम्भवः
१८७ पूर्वपूर्वप्रमातृत्वाध्यासस्योत्तरोत्तरप्रमातृत्वाध्यासं प्रति___ कारणत्वं किं न स्यादिति शङ्का
१८७ प्रमातृत्वादिव्यवहारस्य दुरुपपाद्यत्वान्नाध्याससम्भव: अध्यासेऽन्यथानुपपत्तिः । अनुपपत्तेरेवोपपादने वेदान्तिसांख्ययोर्मते प्रतिकर्मव्यवस्थानुपपत्तिः
१८८ तार्किकमतेऽपि प्रतिकर्मव्यवस्थानुपपत्तिः तस्या एव स्पष्टीकरणम् उपपत्त्यनन्तरेऽतिप्रसङ्गः
१८६ अतिप्रसङ्गस्यैव प्रदर्शनम्
१६०
१८६ १८६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________
ज्ञानस्य गुणत्वमाशङ्क्य तन्निरास: ज्ञानस्य क्रियात्वपक्षेऽपि दूषणम् परिहारान्तराशङ्का
तदूषणम्
( १७ )
दूषणम् ज्ञानस्योपाधिकत्वपक्षे
...
शरीरावच्छिन्नात्मप्रदेशसमवायि ज्ञानमित्यस्मिन् पक्षे
त्वमित्याशङ्का
दूषणम्
अत एव तार्किकमते व्यवस्थाभावः ...
अभिचार क्रियावज्ज्ञान क्रियाया अपि अतिशयजनक -
तस्या दूषणम्
संयोगपरम्पराया नियामकत्वकल्पनम्
:
तदूषणम्
अनयैव दिशा तस्या अणुपरिमाण देहपरिमाणपक्षयोरपि
...
दूषणम् पूर्वपक्षोपसंहारः
तार्किकमते प्रतिकर्म्मव्यवस्थाभावे स्वसम्मतिप्रदर्शन
पूर्वकं पूर्वपक्षस्य समाधानम्
वेदान्तिमते व्यवहारदशायां प्रतिकर्म्मव्यवस्थासिद्धि
निरूपणम्
तत्रोपोद्घातः प्रतिकर्म्मव्यवस्थासिद्धौ मायाया हेतुत्वम्
मायाया ब्रह्मनियतृत्वम्
शुद्धस्यापि ब्रह्मणो मायोपहितत्वेन परमेश्वरत्वम् तस्य जगज्जन्मादिनिदानत्वेऽपि मायाविकारैरसंस्पृष्टत्वम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
पृष्ठ
१-६०
१६०
१-६०
१६१
१८१
१८१
१८२
१८२
१-८२
१६२
१८३
१८३
१-६३
१-८४
१-६४
१-६४
१८५
१८५
१-६६
१६७
www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________
( १८ )
तस्यैवाविद्योपहितस्य स्वरूपावृत्त्या जीवत्वम् एकस्यैव चैतन्यस्य जीवत्वमीश्वरत्वं जगत्त्वञ्च प्रमात्रादिभेदेन त्रिप्रकारस्य विश्वस्य स्वात्मचैतन्येन
स्फुरणम् सर्वगस्यापि चैतन्यस्य स्वाश्रयस्वविषयाज्ञानावृत्या परि
च्छन्नत्वेन जडत्वेन च भानम्
...
उपोद्घातसमाप्ति:
प्रत्यक्षस्थले ऽन्तःकरणस्य नेत्रादिद्वारा निर्गत्य विषया
कारपरिणामः
उक्तार्थस्यैव स्पष्टीकरणम्
...
...
अत्र दृष्टान्तः
तत्तदाकारांशमात्रे जलदृष्टान्तः, मनसस्तु न स्यन्दनमपि
तु सूर्यरश्मिवत्स्फुरणम्
परिणममानस्यान्तःकरणस्य त्रैविध्यम्
त्रिविधस्वरूपनिरूपणम्
उपाधिभेदेनान्त:करणावच्छिन्नचैतन्यस्य भेदभाक्तम्
तस्यैव स्पष्टीकरणम्
अत एव अहं जानामीति विशिष्टव्यवहारस्य सिद्धि:... तयोरन्योन्यस्मिन्नन्योन्याध्यासस्तदैक्याध्यासप्रयुक्त एव
अत्रोपपत्तिः
अन्तःकरणेनावरणविनाशश्चेत्तदा घटज्ञानेन मोक्षः, आत्मगतातिशयश्चेदात्मनो विकारित्वमित्याशङ्क्य
समाधानप्रतिज्ञा
प्रतिज्ञातार्थस्य विवरणम्
...
444
Shree Sudharmaswami Gyanbhandar-Umara, Surat
::
...
पृष्ठ
१८७
१६८
१-६८
१-६८
२००
२००
२००
२०१
२०१
२०२
२०२
२०२
२०३
२०३
२०४
२०४
२०४
२०४
www.umaragyanbhandar.com
Page #23
--------------------------------------------------------------------------
________________
( १६ )
पृष्ठ
२०४
२०५
२०५
२०६
.
२०६
अन्त:करणेन तूलाज्ञानस्य विनाश: मूलाज्ञानस्यतु प्रत्य
ब्रह्मैक्यज्ञानादेव आत्मनोऽपरिणामित्वादहङ्कतेर्जडत्वात् ते मते प्रमाता
नैव सिद्धेपदिति शङ्काया अनुवादपूर्वकं निरास: चैतन्यस्य सर्वगत्वे प्रतिकर्मव्यवस्था ते मते न सिद्ध्ये
दिति शङ्कोत्थापनम् तत्परिहारः अन्त:करणावच्छिन्नस्यैव सुखदुःखसम्बन्धभानं ततो न .. भोगसङ्करः व्यवस्थापरिच्छिन्नस्येन्द्रियस्य युगपत्सर्वजगता सम्बन्धी
योगाभ्यासमन्तरेणासम्भवः एवं प्रतिकर्मव्यवस्थासिद्धिः ... परिच्छिन्नस्यान्त:करणस्य सूर्यरश्मिवत्सर्वव्यापी परि
णाम: किन्न स्यादित्याशङ्क्य समाधानम् योगिनस्तु तथा सामग्रीसम्पादनाद् युगपत्सर्वपदार्था
वगम: अन्त:करणोपाधि: विषयोपरागसिद्धये विषयप्रकाशन
सिद्धये वा कथ्यत इति विकल्प्य प्रथमस्य दूषणम् द्वितीयपक्षस्य दूषणम् स्वप्रकाशस्यात्मनोऽभिव्यक्त ये तदपेक्षाभाव: उपाधिसंसर्गाभावे सर्वगया चिता सम्बद्धस्य जगतो युग
पद्भानप्रमङ्गस्तथा च प्रतिकर्मव्यवस्थानुपपत्ति: शङ्कापरिहारः
... सर्वज्ञत्ववज्जीवस्य किचिज्ज्ञत्वमपि न स्यादिति शङ्का ... उक्तशङ्कानिरास:
२०६
२०७
२०७
२०८
२०८
२०८
२०८
२०६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #24
--------------------------------------------------------------------------
________________
( २० )
उक्तदिशा ब्रह्मस्वरूपं जीव: सर्वदा कथं जानीयादिति
शङ्का
तत्र हेतु: तच्छङ्कापरिहार:
...
...
कार्येण मनसा स्वोपादानस्याज्ञानस्य दुरुद्धरत्वम् पूर्वपक्षोपसंहार: समाधानपतिज्ञा च प्रतिज्ञातस्यैव विवरणम्
तत्र दृष्टान्त:
दृष्टान्तान्तरम्
चित्सम्बन्धादेव विषयावभाससिद्धौ उपाधेर्वैयर्थ्यमित्यु
...
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
शङ्कानिरास:
ब्रह्म औपाधिकोपरागाद् विशेष:
जीवस्य तथात्वाभावः
अत्र फलितेोक्तिः
अन्तःकरणप्रतिबिम्बो जीवः इत्यस्मिन् पक्षे सुतरां व्यव
स्थासिद्धि:
...
विषयानुभवस्य ब्रह्मचैतन्यरूपत्वेऽपि जीवे ।पाध्यन्त:करणपरिणामे विषयव्यापिन्यभिव्यक्तत्वाज्जीवचैतन्यत्वमपि ब्रह्मणोऽन्तःकरणसंसृष्टत्वेऽपि ब्रह्माकारपरिणतान्त:करवृत्त्यभावाद् न जीवस्य सदा ब्रह्मभानम् अन्तःकरणमात्रस्य ब्रह्मचैतन्याभिव्यक्तासामर्थ्यम् जीवाकाराहवृत्तिरूपेण परिणते ऽन्तःकरणे जीवाभिव्यक्ति: अन्तःकरणप्रतिबिम्बितो जीवः इति पक्षेऽपि प्रतिकर्म
व्यवस्थाया निराकुलत्वम्
8
२०६
२०६
२१०
२१०
२१०
२११
२११
२११
२१२
२१२
२१२
२१३
२१३
२१३
२१४
२१४
२१४
२१४
www.umaragyanbhandar.com
Page #25
--------------------------------------------------------------------------
________________
( २१ )
पृष्ठ
२१५
२१५
अविद्योपाधिको जीव इति पक्षेऽपि व्यवस्थाया नानुपपत्ति: वेदान्तिमते प्रतिकर्मव्यवस्थायाः सर्वथा निराकुलत्व
मिति फलितोक्तिः पूर्वपूर्वाहङ्कारादिकृतप्रमातृत्वादिसंस्कारेण सविकल्पके
चैतन्ये सविकल्पकाध्यासस्य सम्भव: अनाद्यनिर्वाच्याविद्यावृतचैतन्ये न कम्यापि व्यवहार.
म्यासम्भावना एकस्यापि चैतन्यस्य अन्त:करणाद्युपाधिभेदेन भेदभानम विज्ञानवादिमतप्रवेशाशङ्का तहूषणम् विज्ञानवादिमतविवेचनम् तन्मतात् स्वमतस्य वैलक्षण्यम् म्वमते व्यवहारदशायां विषयाणां स्थायित्वम् संविदा नित्यत्वसाधनम् विषयसंविदार्भेदः विषयसंविदो दे विज्ञानमतसाङ्कर्यनिरास: उपाधिभेदेन चितः प्रमात्रादिभेदस्तेन व्यवहारसिद्धिः संविच्छब्दस्य निर्वचनम् ... चितोऽभिव्यञ्जकवृत्तेः वृत्त्यवच्छिन्नस्य चैतन्यस्य चतु__ रादिजन्यत्वे हेतुः, वृत्तिरेव ज्ञानमित्यत्र समाधि: वृत्तिरूपज्ञानस्य मनोधर्मत्वं श्रुतिसिद्धमिति प्रतिपादनम् निर्धर्मक आत्मनि प्रमात्रादिधर्माणामविद्याकल्पितत्वम् तत्त्वबोधोदयपर्यन्तं प्रमातृत्वादीनां व्यवहारे बाधि
तत्वम् अत्र प्रमाणत्वेन साम्प्रदायिकवचनोपन्यास: ...
२१७ २१८ २१८ २१६ २२० २२०
२२१. २२२ २२२
२२२
२२३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #26
--------------------------------------------------------------------------
________________
( २२ )
चैतन्यस्यैक्येऽपि विषयाद्युपाधिभेदेनैव लौकिकव्यवहारविषय भेदः ब्रह्मबोधे जाते उपाधीनां बाधाच्चैतन्यावशेष:
विलये एव लौकिकघटादिज्ञानस्यापि सिद्धिः उपाधीनां विद्यमानदशायां तदुपहितस्य चैतन्यस्य कथं भेद इति शङ्कायाः समाधिः
ज्ञानस्य साक्षात्त्वे इन्द्रियजन्यत्वस्य न प्रयोजकता ज्ञानगतप्रत्यक्षत्वे घटावच्छिन्नचैतन्याभेदस्य
जकत्वम्
विषयगत प्रत्यक्षत्वे प्रमात्रभेदस्य प्रयोजकत्वम् प्रमातृचैतन्यविषयचैतन्ययोरैक्यम्
...
प्रयो
अनुमानादिस्थले प्रत्यक्षलक्षणातिव्याप्तिवारणम् वृत्तिविषये वृत्त्यन्तरानङ्गीकारेऽपि लक्षणस्य नाव्याप्तिः अत्र पञ्चपाद्याः सम्मतिः
साम्प्रदायिकसम्मतिः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
चितेरेव स्वाध्यस्त विश्वस्यावभासकत्वम्
अन्तःकरणवृत्तीनां जडानां न तथात्वम्
इन्द्रियाणां तत्सन्निकर्षाणां च वैयर्थ्याभावनिरूपणम्. वृत्तीनां चातुर्विध्यनिरूपणेन तत्तत्सन्निकर्षस्य तत्रानुपयोगस्तदवस्थ इति शङ्काया वारणम्
...
उक्तेऽर्थे ऽभियुक्तवचनम्
ज्ञानस्य द्वैविध्यनिरूपणपूर्वकं सविकल्पकलक्षणम् निर्विकल्पकलक्षणम्
वाक्यजज्ञानस्य निर्विकल्पकत्वाभावनिवारणम् उपक्रमादिभिरद्वितीयब्रह्मण एव वाक्यतात्पर्यविषयत्वम्
...
पृष्ठ
२२३
२२४
२२४
२२४
२२५
२२५
२२६
२२६
२२६
२२७
२२८
२२८
२२८
२२६
२२८
२३०
२३०
२३०
२३१
२३२
www.umaragyanbhandar.com
Page #27
--------------------------------------------------------------------------
________________
( २३ )
و
له سد س
سد
पनम्
...
३
سد س بد
شد
३
२३४
२३५ २३५
तत्त्वमस्यादिवाक्यचयस्याखण्डार्थत्वम् तत्त्वमस्यादिवाक्यानामखण्डार्थत्वस्य निर्वचनम् अत्र चित्सुखाचार्यस्य सम्मतिः ... उक्तस्य ज्ञानस्य प्रकारान्तरेण द्वैविध्यनिरूपणम् अन्त:करणस्य विशेषणत्वोपाधित्वनिबन्धनो जीव
ब्रह्मणोर्भेदः जडस्यान्त:करणस्य विषयावभासकत्वाभाव: अन्त:करणभेदेन जीवसाक्षिणो भेदः पूर्वापरविरोधसमाधानम् प्रतिकर्मव्यवस्थास्थले चैतन्यस्योपाधिकृतो भेदः वस्तु
तस्तु न कोपि मायाया विशेषणत्वोपाधित्वाभ्यामीशतत्साक्षिणार्भेद
हेतुत्वम् मायाया एकत्वसाधने श्रोतवचनोपन्यास: अत्र स्मृतिवचनस्याप्युपन्यास: ... एकत्वश्रुतीनामेव प्राबल्यप्रदर्शनम् ... ईश्वरसाक्षिण: परमेश्वराद् भेदप्रदर्शनम् साक्षिद्वैविध्यनिरूपणात् प्रत्यक्षज्ञानस्य द्वैविध्यम् वेदान्ते प्रत्यक्षादिभेदेन प्रमाया: षड्डिधत्वम् तस्याः संक्षेपेण निरूपणे हेतुः प्रकृतोपसंहारः वादिमतेष्वनास्था अविद्याध्यासकृत एव सर्वः प्रमाणप्रमेयादिव्यवहार इति
प्रदर्शनम् मुमुक्षुकर्तव्योपदेशः .
M Mm
ر
२३७
२३७
२३७
२३८ २३८
२३६
२३६
२३६
२३६
... २४०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #28
--------------------------------------------------------------------------
________________
( २४ )
पृष्ठ
२४०
२४४
२४७
मुमुक्षुलक्षणम् मुमुक्षुभिर्यत् कर्त्तव्यम्
२४१ प्रकरणार्थस्योपसंहारः
२४२ प्रकरणान्ते मङ्गलरूपस्य भगवतः स्मरणम्
२४२ तत्त्वम्पदार्थविचारमयूखाभिधं षष्ठं प्रकरणम् २४४-२८१ प्रकरणारम्भे तत्त्वंपदार्थस्य स्वरूपतटतटस्थलक्षणाभ्या
मभिधानम् अखण्डवाक्यार्थस्य ब्रह्मक्यस्यानुसन्धानपूर्वकं शास्त्रार्थस्य संक्षेपेण प्रदर्शनम् ...
२४५ तत्पदस्य स्वरूपलक्षणम् ...
२४६ " तटस्थलक्षणम् ... उक्तस्यैव दृष्टान्तेन दृढीकरणम् सजातीयविजातीभेदशून्यस्यापि ब्रह्मणो मायासंवलितत्वेन जगजन्मादिकारणत्वम्
२४८ विवर्त्तवादस्य श्रेष्ठ्यम
२५१ आकाशादिजन्मक्रमप्रदर्शनम्
२५३ त्रिगुणात्मकमायाजन्यत्वादाकाशादीनां त्रिगुणात्मक.
प्रतिपादनपूर्वकं सूक्ष्मशरीरोत्पत्तिप्रदर्शनम् सूक्ष्मशरीरोत्पत्तिप्रकार: ... इन्द्रियादीनामधिष्ठातृदेवतानां प्रदर्शनम् कारणशरीरं तदभिमानिद्वैविध्यं च उक्तस्य पुन: स्पष्टीकरणम्
२५७ स्थूलभूतोत्पत्तिप्रदर्शनपूर्वकं ब्रह्माण्डोत्पत्तिप्रदर्शनम् ... ततश्चतुर्दशभुवनोत्पत्तिस्तदन्तरमनेकभूतोत्पत्तिश्च ... २५६ स्थूलशरीरद्वैविध्यम्
२५६
२५५ २५६
२५७
२५८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #29
--------------------------------------------------------------------------
________________
( २५ )
समष्टौ व्यष्टौ च जीवात्मनेश्वर संप्रवेशात्तयोर्भेदाभावः
ब्रह्मणः स्थितिहेतुत्वम्
चतुर्विधप्रलये सुषुप्तिरूप नित्यप्रलयस्य निरूपणम्
अन्तःकरणस्य द्वे शक्ती
नित्यप्रलयः सुषुप्तिरित्यत्राप्रामाण्यशङ्काव्युदासः
...
नित्य प्रलयस्योपसंहारः
प्राकृत प्रलयो द्वितीय:
नैमित्तिक स्तृतीयः
ब्रह्मसाक्षात्कारनिमित्त आत्यन्तिक प्रलयस्तुरीयः
प्रलयक्रमः
विपरीतक्रमः
जगज्जन्म स्थितिलय हेतुत्वरूपस्य
ब्रह्मणास्तटस्थलक्षणस्य
सिद्धि:
वेदान्तैर्ब्रह्मणि जगत्कारणत्वेन प्रतिपाद्यमाने ब्रह्म सप्रपञ्च स्यादिति शङ्काया निरास: तत्पदार्थनिरूपणेोपसंहारः
प्रतिबिम्बेश्वरवादः
...
...
ईश्वर चैतन्यजीवचैतन्ययारुपाधिकृतो भेदः तयोः व्यापकत्वपरिच्छिन्नत्वभेदेऽपि
तत्तदुपाधि
कृत एव
पक्षेत्र विरोधबाहुल्यात् पक्षान्तराश्रयणम् बिम्बप्रतिबिम्बवादः
पक्षस्यास्य युक्तियुक्तत्वम् पक्षस्यास्य निर्दोषत्वम्
श्रस्मिन् मते जीवेश्वरयेोरैक्य प्रकारः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
:
...
:
पृष्ठ
२६०
२६१
२६२
२६३
२६३
२६४
२६४
२६५
२६६
२६६
२६७
२६७
२६८
२६८
२६६
२६-६
२७०
२७०
२७१
२७१
२७२
२७२
www.umaragyanbhandar.com
Page #30
--------------------------------------------------------------------------
________________
( २६ )
नीरूपस्य ब्रह्मणः कथं प्रतिबिम्बभाव इति वादिशङ्का
निरास:
मतान्तरप्रदर्शनम् सपरिकरस्य त्वंपदार्थस्य निरूपणे जाग्रलू लक्षणम् तत्रातिव्याप्तिशङ्कापरिहार:
स्वप्नलक्षणम्
सुषुप्तिलक्षणम्
सृतिमूर्च्छयोः सुषुप्तावेवान्तर्भावः अविद्यायाः सर्वसंसारानर्थभानकारणत्वम्
अविद्याया निर्वचनम् विद्याप्रयुक्ताभ्यासादेव ब्रह्मणि जीवत्वस्य जायदाद्य
...
विक्षेपाख्याशुद्धिनिरासापायः
अज्ञानाख्याशुद्धिनिरासोपायः
...
...
वस्थानां चावभास: तत्प्रयुक्तविषयाभिलाषनिगडबद्धजीवस्य संसार सिन्धु
पातावश्यंभावित्वम्
...
तन्निवृत्तये परमपुरुषार्थसाधनभूमेर्भगवद्भक्तेर्मुमुक्षुभि
राश्रयणीयत्वम् त्वम्पदार्थस्याशुद्धेस्त्र्यैविध्यं तन्निरासापायश्च कृष्णपादारविन्दार्पितयज्ञतपोदानादीनां पापाख्याशुद्धि
क्षय हेतुत्वमधोक्षजे भक्तिजनकत्वं च
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
त्वम्पदार्थपरिशोधनेन तत्पदार्थेन सहैक्यं ततो
मोक्ष:
विशुद्धे तत्पदार्थे मायाविद्योपाधिपरिकल्पितो जीवब्रह्मादिभेदः उपाधौ निवृत्ते भेदनिवृत्तिः
...
पृष्ठ
२७३
२७४
२७५
२७५
२७५
२७६
२७६
२७६
२७७
२७७
२७८
२७८
२७-८
२८०
२८१
२८२
२८२
२८३
www.umaragyanbhandar.com
Page #31
--------------------------------------------------------------------------
________________
( २७ )
पृष्ठ
२८४
२८४
२८५
२८५
२८६
त्वम्पदार्थे जायदादीनामुपाधिपरिकल्पितत्वम् धर्माणामुभयत्र कल्पितत्वसाम्येऽपि उपाधितारतम्या
त्तयोर्विशेष: त्वम्पदार्थे ज्ञानेन वैपरीत्याध्यासः ... उपाधिद्वयपरित्यागेन स्वयमेवाखण्डवाक्यार्थसिद्धिः ... अविद्यानिवर्त्तके तत्त्वसाक्षात्कारे सति दृश्यात्यन्ताभा
वोपलक्षितस्वरूपावस्थानलक्षणा मुक्तिः तस्या एव सर्वशास्त्रविचारफलत्वम् सर्वप्रयत्नसम्पाद्य
त्वञ्च तस्याः पुष्कलं साधनं वैराग्यमेव ... भक्तिवैराग्यसम्पन्नस्यैवात्राधिकारः ...
आत्मबोधार्थ तत्त्वंपदार्थविचारस्यावश्यकत्वम् देहादिषु स्वात्मबुद्धिं विहाय जडसाक्षिणोऽजडस्य सततं
चिन्तनम् उक्तस्यार्थस्य पुनर्दृढीकरणम् ... सप्तमप्रकरणे वक्ष्यमाणस्य प्रमेयस्य बीजविक्षेप: ... वेदान्तजन्यसाक्षात्कारवत: कृतकृत्यत्वं सकलानर्थेभ्यो
निस्तारश्च प्रकरणान्ते भगवतो वासुदेवस्य नमनम्
२८७
२८८ २८८
२८८
२८६
२८६
२६०
२६१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #32
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #33
--------------------------------------------------------------------------
________________
प्रत्यक् तत्त्वचिन्तामणिः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #34
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #35
--------------------------------------------------------------------------
________________
श्रीगणेशाय नमः । श्रीमत्सदानन्दविद्वद्विरचितः
स्वप्रभाख्यव्याख्यासंवलितः
प्रत्यक्तत्त्वचिन्तामणिः।
मेघश्यामं निरवधिरसं पीतवासो दधानं कान्त्याक्रान्तत्रिभुवनवपुर्येयपादारविन्दम् । सत्यज्ञानामितसुखमवाग्गोचरं बुद्धयतीतं भक्त्या सिद्धयै स्वमपिकलये श्रीमुकुन्दं स्मितास्यम् ॥१॥
नन्दालये क्लिसितं श्रुतिभिर्विमृग्यं
ब्रह्मादिवन्द्यचरणं नवमेघवर्णम् । संसारतापशमनं सुपुमर्थमाद्यं
कृष्णं श्रये दलितमोहमयान्धकारम् ॥ १ ॥ आनन्दकन्दममृतायनमीशितारं
श्रीलक्ष्मणाग्रजमखण्डकलाभिरामम् । अज्ञानरावणरिपुं सुकुमारदेहं
सीतापतिं हनुमताश्रितमाश्रयेऽन्तः ॥ २॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #36
--------------------------------------------------------------------------
________________
४
प्रत्यकतत्त्वचिन्तामणैौ
नत्वा साम्बं शिवं श्रीगणपतिममरैर्वन्द्यपादारविन्दं
मार्तण्डं भ्रान्तिखण्डं गुरुमतिसुहृदं शारदां संविदीशाम् । व्यासं वेदाब्जभानुं यतिवर ममर प्रार्थ्यवेदान्तभाष्यं व्याख्यां चिन्तामणेः श्रीहरिपदरतये स्वप्रभाख्यां प्रकुर्वे ॥ ३ ॥
कृपामृतरसापारावारं सर्वसुहृत्सखम् । श्रीमुकुन्दमहं वन्दे तत्पदाम्भोजभक्तये ॥ ४ ॥
प्रारिप्सितग्रन्थस्य निर्विघ्नपरिसमाप्तिप्रचयगमनादिसिद्धये विशिष्ट - शिष्टाचारानुमितश्रुतिस्मृतिप्रमाणकं स्वेष्टदेवतानुसन्धानात्मकं मङ्गलमाचरन्नर्थाच्छास्त्रीयाभिधेयप्रयोजने दर्शयति श्रोतृप्रवृत्तिसिद्धये - मेघश्याममित्यादिना पद्यत्रयेण । अस्मिन् वेदान्तप्रकरणे तत्त्वंपदार्थतत्त्वं तदैक्यवाक्यार्थतत्त्वच प्रतिपाद्यते विषयः । तज्ज्ञानाच्च तद्गताऽविद्यातत्कार्यात्मसंसारबन्धबाधः, स्वरूपपरमानन्दाविर्भावः प्रयोजनमिति स्थितिः । तदुभयमिह मङ्गलाचरणव्याजेन पद्यत्रये - खादी संगृह्णाति मेघश्याममित्यादिना । श्रीमुकुन्दं कलये, इत्यन्वयः । श्रिया ब्रह्मविद्यया मुक्तिं ददाति निजभक्तेभ्य इति श्रीमुकुन्दः,
" ददामि बुद्धियोगं तं येन मामुपयान्ति ते । ” ( गो० १० । १०) इति भगवद्वचनात् ।
स वासुदेवो भगवान् कृष्णः सर्ववेदान्ततात्पर्यविषयस्तत्पदार्थस्तं कलये -- निरतिशयसैौन्दर्यमाधुर्य्य सौष्ठवाद्यनन्तकल्याणगुणाभिरामं भक्तानुग्रहार्थं गृहीतलीलाविग्रहं सगुणं भगवन्तमनुसन्दधे । तद्गुणसौन्दर्यलुब्धचेतस्तया तद्दास्यमेवाङ्गीकरोमीत्यर्थः । स्वमपीत्यत्रापिशब्देन स्वं स्वात्मत्वेन शास्त्राचार्यप्रसादादभिव्यक्तमपि तदित्थंभूतगुणाकर्षितचेतस्तया तदीयदास्यसख्यादिरसास्वादनेन च प्रतिक्षणं तमेव भगवन्तं निर्द्धनः कुतश्चिद् भाग्याल्लब्धं चिन्तामणिमिवान्तः कलये इति द्योत्यते । एतदेवोपपादयंस्तत्र हेतुमाह — भक्त्येति । भक्त्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #37
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । भक्तिद्वारा, सिद्ध्यै भक्तानां मोक्षसिद्धयं । वस्तुतः सत्यज्ञानाद्यात्मकमेव मेघश्यामं नवधनरमणीयकान्तिमद्वपुषं निरवधिरसमपरिच्छिन्नशृङ्गारादिनवरसाधारं कान्त्या सर्वसौन्दर्यसारसर्वस्वभूतयाऽऽक्रान्तं वशीकृतत्रिभुवनं येन तद्वपुर्दधानम् । दधानमित्यस्य पीतवासादधानमित्यत्राप्यन्वयः। ध्येये अवश्यं ध्यातव्ये पादारविन्दे यस्य तं स्मितेन मन्दहसितेन निजभक्तानुग्रहसूचकेनोपलक्षितमास्यं मुखारविन्दं यस्य तं कलय-इति सम्बन्धः। एवमनन्तकल्याणगुणगणनिलयं भगवन्तमनुसन्धाय तमेवाखण्डवाक्यार्थभूतमनुसंदधानोऽखण्डवाक्यार्थसिद्धये तत्पदार्थ शोधयति-सत्यज्ञानामितसुखमिति । "अानन्दादय: प्रधानस्य” (ब्र० सू० ३ । ३।११) इति न्यायेन "सत्यं ज्ञानमनन्तं ब्रह्म" ( तै० २।१) "विज्ञानमानन्दं ब्रह्म” (३।
। २८ ) इति श्रुत्याः परस्परैकवाक्यतामभिप्रेत्य सत्येत्यादिभिः सुखपदस्य समास:। सत्यमनृतशून्यव्यावृत्तं बाधाभावोपलक्षितस्वरूपं सत्तात्मकमिति यावत् । ननु सत्यमपि तत् तमोवज्जडं किन्न स्यादित्यत आह-ज्ञानेति । ज्ञानं स्वप्रकाशम् , अप्रकाशजडविलक्षणत्वनिर्देशसामर्थ्यात्। "तद्देवा ज्योतिषां ज्योतिः” ( बृ० ४ । ४ । १६ ) "तस्य भासा सर्वमिदं विभाति" ( कौ० २। ५ । १५) इत्यादिश्रुतेः । ननु सत्यज्ञानात्मकमपि परिच्छिन्न स्यादित्यत आह–अमितेति । अमितशब्दोऽनन्तपदपर्याय: स चाविद्याध्यस्तदेशकालवस्तुभ्यः परमात्मन: परिच्छेदं व्यावर्त्तयत्येव, नञ्पदप्रयोगात् ।
तदुक्तम्- 'तत्रानन्तोऽन्तवद्वस्तुच्यावृत्त्यैव विशेषणम्” इति । इतराणि तु पदानि स्वार्थापरित्यागेनैव स्वं विरोध्यर्थव्यावृत्तं ब्रह्म लक्षयन्ति । तदुक्तम्- ''स्वार्थार्पणप्रणाड्या च परिशिष्टौ विशेषणम्” इति । परिशिष्टौ सत्यज्ञानशब्दावित्यर्थः। ननु सत्यज्ञानानन्तमपि ब्रह्म न प्रेप्सागोचरः, सुखदुःखाभावतत्साधनानामन्यतमत्वाभावात् । न तावस्वसुखदुःखाभावसाधनं ब्रह्म, स्वस्मिन्सुखदुःखयोर्नित्यनिवृत्तत्वात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #38
--------------------------------------------------------------------------
________________
प्रत्यकूतत्त्वचिन्तामणैौ
"शरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः " ( छा० ८ । १२ । १) इति श्रुतेः । नाप्यन्यगतसुखादिसाधनं ब्रह्म, अन्येषां दृष्टादृष्टसुखदुःखप्राप्तिपरिहारयोलौकिकवैदिक साधनेभ्य एव सिद्धेः । तस्मान्न सुखादिसाधनं ब्रह्म, नापि दुःखाभावरूपम् ; भावात्मक स्वभावताविरोधात् । नापि सुखात्मकम्, तथात्वे प्रमाणाभावात् । इत्यत आहसुखमिति । आनन्दस्वरूपम् । न च ब्रह्मण आनन्दात्मत्वे प्रमाणाभाव: । “ विज्ञानमानन्दं ब्रह्म" (बृ० ३ । ९ । २८ ) " आनन्दो ब्रह्मेति व्यजानात् " ( तै० ३ । ६) " आनन्दरूपममृतं यद्विभाति” (मुण्ड०२।७) “यो वै भूमा तत्सुखम् " ( छा० ७।२३ । १) " को ह्येवान्यात् क: प्राण्याद्यदेष आकाश आनन्दो न स्यात्" ( तै० २।७) इत्यादिश्रुतीनां प्रमाणत्वात् । न च प्रियाप्रियास्पर्शित्वश्रुतिविरोधः, तस्या वैषयिकप्रीतिनिषेधपरत्वादिति भावः । एवं सति सत्यज्ञानानन्तसुखं श्रीमुकुन्दं स्वं प्रत्यगभिन्नं कलये - इति ब्रह्मात्मनो: सामानाधिकरण्येन तत्त्वंपदार्थयोरैक्यं वाक्यार्थो निरूपितो भवति । एतेषाञ्च पदानां श्रीमुकुन्दपदेन प्रत्येकं प्रथममन्वितानां पश्चात्सामानाधिकरण्येन परस्परमपि सम्बन्धसिद्धि: । "अरुया पिङ्गाच्या गवैकहायन्या सोमं क्रीणाति" इत्यत्र क्रयवाचिपदान्वितानामरुणादिपदानामिव परस्परान्वयः । न चैकार्थत्वे सत्यादिपदानां पर्यायतापत्तिरयौगपद्यञ्चेति वाच्यम्, प्रवृत्तिनिमित्तभेदात्; व्यावर्त्यभेदाच्चाक्तदोषानवकाशात् । एवं विधिमुखेनानृतजडपरिच्छिन्नदुःखरूपानात्मधर्मविलक्षणं श्रीमुकुन्दपदवाच्यं ब्रह्मेति निरूप्येदानों "नेति नेति" (बृ० २ । ३ । ६) "अस्थूलम् ” (बृ० ३ । ८ । ६) "यतो वाचो निवर्त्तन्ते” ( तै० २ । ८ ) इत्यादिश्रुतिमाश्रित्य निषेधमुखेन सकलनिषेधावधिभूतं सत्यस्य सत्यं ब्रह्मेति दर्शयति – प्रवाग्गोचरमिति । वाग्गोचरो न भवति यस्तम्, तत्र हेतु: - बुद्धातीतमिति । नहि बुद्धानारूढं वस्तु वक्तुं शक्यते । "नैव वाचा न मनसा " (क० २ । ६ । १२) “यद्वाचानभ्युदितम् ” ( के० १ । ४) “ यन्मनसा न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #39
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
मनुते" ( कं० १ । ५ ) इत्यादिश्रुतेरित्यर्थः । अत इदं फलितम्सत्यज्ञानानन्तानन्दैकरसं मुकुन्दपदवाच्यं ब्रह्म तत्पदलक्ष्यम्, स्वमिति पदस्य निर्विशेषप्रत्यक्चैतन्यमात्रनिष्ठतया त्वंपदलक्ष्यपरत्वम् । तथा च ब्रह्मात्मपदयोः सामानाधिकरण्यादैक्यवाक्यार्थ सिद्धिरित्युक्तम् तदेवं वाक्यार्थभूतं स्वं स्वात्मानं श्रीमुकुन्दं कलये । भक्त्या इत्यत्राप्यनुषज्यते । परप्रेमास्पदत्वेनात्यन्तानुरागेणानुसन्दधे इति सम्बन्धः । "भक्तानां भक्तिसिद्धार्थं सच्चिदानन्दविग्रहम् । आविर्भावयतीशानो यस्तमेवं हरिं भजे ॥"
एवं सगुणनिर्गुणस्वरूप एक एव भगवान्मुकुन्दां ध्येयो ज्ञेयश्चेति सिद्धम् । तेन वाक्यार्थभूतमखण्डचैतन्यात्मकं ब्रह्माज्ञातत्वेन शास्त्रस्य विषयः । श्रीमन्मुकुन्दकृपाकटाक्षनिरीक्षणेन ज्ञातं सत्तदेव प्रयोजनमिति सूचितम् । तज्ज्ञातुकामो भगवद्भक्तिपरिशोधितान्त:करणो भगवत्प्रसादलब्धविवेकवैराग्यादिसाधनचतुष्टयसम्पन्नोऽधि
कारी । सत्यज्ञानानन्तानन्दैकरसः श्रीमुकुन्द एवानेन ग्रन्थेन प्रतिपाद्यस्तेन प्रतिपाद्यप्रतिपादकभाव: सम्बन्धश्च ध्वनित इति सर्वमनवद्यमिति ॥ १ ॥
यत्पादाब्जस्मृतिरभयदा शान्तिदान्त्यादिहेतुर्यद्धाम्नेदं स्फुरति सकलं कल्पितं यत्र सत्ये । यं विश्वं सम्प्रविशति लये सर्वशक्तिप्रतिष्ठं
तं श्रीकान्तं स्वपदरतिदं संश्रये कृष्णमीशम् ॥२॥
एवं सगुण निर्गुणभगवदनुसन्धानमुखेन ब्रह्मणः स्वरूपलक्षणमभिधायेदानीं स्मर्तॄणामभयप्रदातृत्वादिगुणैरलङ्कृतं भगवन्तमनुसन्दधानो जगज्जन्मादिहेतुत्वं ब्रह्मणस्तटस्थल क्षणमपि दर्शयति — यत्पादाब्जस्मृ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #40
--------------------------------------------------------------------------
________________
८
प्रत्यकूतत्वचिन्तामयौ
तिरिति । यस्य पादाम्भोजयोः स्मृतिः स्मरणं शान्तिदान्त्यादिसकलसाधनकारणं सती अभयदा अभयशब्दवाच्यं सर्वानर्थनिवृत्त्युपलक्षितनिरतिशयानन्दस्वरूपाविर्भावलक्षणं मोक्षं ददातीति तथा तं कृष्णं सदानन्दघनं श्रीकान्तं लक्ष्मीपतिं स्वपदरतिदं स्वात्मत्वेनाभिमतं यत्पदं “तद्विष्णेाः १ परमं पदम् ” ( क० १ । ३ । ६) इत्यादिश्रुतेः । तद्विषया रतिस्तत्परता तां ददाति स्वभक्तेभ्य इति तमीशं मायातत्कार्यविश्वाधिष्ठानत्वेन सर्वस्येशितारं परमेश्वरपदाभिधेयं संश्रये - सम्यगसम्भावनादिनिरासेन प्रपद्ये, शरणं व्रजामीत्यर्थः । तस्य सर्वाधिष्ठानत्वेनेश्वरत्वमेव दर्शयति — यद्धाम्नेति ।
यत्र यस्मिन्नधिष्ठानभूतमायोपहितचैतन्ये सत्ये ऽविद्यमानमायातत्कार्ययो: सत्ताप्रदत्वेन कालत्रयेऽप्यबाध्यस्वरूपे इदं दृश्यजातं सकलं स्थूलसूक्ष्ममूर्त्तामूर्त्तरूपं हिरण्यगर्भादिचतुर्विधभूतग्रामान्तं जगत्सर्गकाले रजौ सर्प इव, मरुमयूखेषु सलिलमिव, व्योम्नि गन्धर्वनगर मिवात्यन्तमसम्भाव्यं कल्पितमारोपितम् ; स्थितिकाले यद्धाम्ना यत्स्वरूपचैतन्य प्रकाशेन सकलं स्फुरति - नानाव्यवहारास्पदत्वेन विचित्रा - कारं विभाति; लये प्रलयकाले यं सर्वविनाशावधिभूतं सर्वाः शक्तयो यस्या मायायाः सा सर्वशक्तिस्तस्याः प्रतिष्ठा परिसमाप्तिर्यस्मिन्नवधिभूते तं तथाभूतं तत्त्वं विश्वमध्यस्तं संप्रविशति तिरोभावेन यद्भावमेवाप्नोतीत्यर्थः । अनेनाभिन्ननिमित्तोपादानभावेन जगज्जन्मादिकारणत्वं ब्रह्मणस्तटस्थलक्षणं प्रदर्शितमिति ॥ २ ॥
.
वाग्देवी यन्मुखसरसिजे यत्पदाब्जे स्थिता श्रीह्रदिन्यान्तर्हृदि जलरुहे संविदालिङ्गिता यः ।
१ - राहोः शिर इतिवत् पष्ठी । २ - श्रतस्मिंस्तद्बुद्धिरध्यासः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #41
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । ब्रह्मेशनामरपतिमुखैर्यः सुरैर्वन्दिताघ्रि
स्तं प्रत्यञ्च श्रुतिमतिमतं नौमि वैकुण्ठनायम् ॥३॥
एवं खरूपतटस्थलक्षणाभ्यां भगवन्तमनुसंधायेदानी ग्रन्थकर्ता प्रार्थनीयशब्दलालित्यादिगुणाधिष्ठातृदेव्याधारत्वेन ब्रह्मादिवन्दनीयत्वेन प्रत्यगात्मत्वेन चानुस दधानो भगवन्तं नमस्यति-वाग्देवीति । वागधिष्ठात्री देवी द्योतनात्मिका शक्तिः सरस्वती यन्मुखसरसिजे यस्य शब्दब्रह्मयानेबदनारविन्द स्थिता सदाऽव्यभिचरितरूपेण वरीवति । यत्पदाब्जे यस्य सर्वसौन्दर्यसारसर्वस्वभूतस्य भगवत: पदारविन्दे श्रीः सर्वशृङ्गारादिरसाधिष्ठात्री देवता रमा स्वलावण्यविभूत्यादेिगर्व विहाय कर्मकरीब चाञ्चल्यादिदोषविनिमुक्ताऽव्यभिचरितरूपेण स्थिता स्थायीभाव प्राप्ता । हादिन्या आहादः पञ्चक्लेशविनिर्मुक्तं यत्सखं तदानशक्तिः शरणागतदोलजनोद्धरणादिशोलरूपा ह्रादिनी तया संविदा अनवच्छिन्नज्ञानरूपया अन्तहदि कमले भक्तानुग्रहव्यग्रे आलिङ्गित आश्लिष्टोऽनवच्छिन्नानन्दकन्दो भगवान् अत एव चतुराननपञ्चाननसहस्रनयनादिदेवैर्वन्दितावडघ्रा चरणसरोजे यस्य सः। अनेन निरुप. चरितब्रह्माद्यधीशोपास्यत्वेन परमेश्वरत्वमत्रैव पर्यवसन्नमिति ध्वनितम् । तं प्रत्यञ्चं चरमवृत्त्यारूढः सन् भक्तानां प्रतिकूलभूताविद्यात कार्यबन्धमञ्चति हिनस्तीति प्रत्यङ तम् ,
"तेपामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदोपेन भास्वता ।।" (गी० १०११) इति भगवचनात् ! यद्वा, जडानृतदुःखात्मभूतेभ्यो देहादिभ्यः प्रातिलोम्येन सच्चिदानन्दस्वरूपेणाञ्चति प्रकाशते इति प्रत्यङ तम, "क्षेत्रज्ञञ्चापि मां विद्धि","अहमात्मा गुडाकेश ! सर्वभूताशयस्थितः'' इत्यादिभगवद्वचनात् । तं प्रत्यगात्मभूत श्रुतिमतिमतं श्रुतिवाक्यजन्या मति: श्रुतिमतिस्तया मत साक्षात्कृतम् । यद्वा, श्रुतिजन्या म
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #42
--------------------------------------------------------------------------
________________
१०
प्रत्यक्तत्वचिन्तामणौ
तिर्येषान्ते श्रुतिमतयो व्यासवशिष्ठप्रभृतयस्तेषां मतं सर्ववेदतात्पर्यविषयत्वेनाभिमतम् । यद्वा, श्रुतिमतिभ्यां श्रवणमननाभ्यां मतं विनि. चितं वैकुण्ठनाथं निजभक्तानुप्रहार्थं प्रादुर्भावितस्य वैकुण्ठलोकस्य नाथ: साक्षान्निजभक्तेभ्यो दातृत्वेन स्वामी तं नौमि प्राह्वीभावेनाश्र - यामीत्यर्थः ॥ ३ ॥
यो ब्रह्माण सृजति जगतां नाथ प्रात्मा सुहृद्यो यं वेदान्तैर्विदुरविषयं सर्वबाधावधित्वात् । सन्तः सन्तं सकलहृदिगं येन विश्वं समस्तं व्याप्तं तं श्रीपतिमघहरं स्ताम्यहं वासुदेवम् ॥४॥
इत्थं मङ्गलं शास्त्रार्थसंग्रहश्च विधायेदानीं विस्तरेण शास्त्रार्थं निरूपयिष्यन्सर्ववेदान्तप्रतिपाद्य सर्वनिषेधावधिभूतं प्रत्यगभिन्नं भगवन्तं वासुदेवमेतद्ग्रन्थप्रतिपाद्यत्वेन प्रदर्शयश्चिकीर्षितं प्रतिजानीते - य इति । अहं तं वासुदेवं स्वामीत्यन्वयः । तत्स्वरूपनिरूपणपरं ग्रन्थं करोमीत्यर्थः । चित्तस्य श्रीवासुदेवानुसन्धानरूपभक्तिविच्छेदपरिहाराय तत्प्रेमप्रेरितः संस्तदनुसंधानरूपग्रन्थकरणे प्रवृत्तोऽस्मीत्यभिप्रायः । ननु जगत्स्रष्टृत्वेन प्रसिद्धं चतुर्मुखं विहाय किमिति वासुदेवस्तवने प्रवृत्तिरिति तत्राह — यो ब्रह्माणमिति । ब्रह्मणोऽपि जनकत्वेन स्वतन्त्रतया प्रसिद्धो भगवान्वासुदेव एव सर्वस्रष्टेत्यर्थः । "यो ब्रह्माणं विदधाति पूर्व यो वै वेदाँश्च प्रहिणोति तस्मै f तं ह देवमात्मबुद्धिप्रकाशं मुमुत्तुर्वै शरणमहं प्रपद्ये " ( श्वे० ६ । १८ ) इति श्रुतेः । तथापि जगत्स्वामित्वेन प्रसिद्धानिन्द्रादीन्विहाय कथं वासुदेव एव स्तूयते इत्यत आह-- जगतां नाथ इति । तथा च भगवता वासुदेवस्यैव निरुपचरितलोकस्वामित्वं नेन्द्रादीनाम् । यतस्तेषां खण्डमण्डलपतीनामिव परतन्त्रतया परिच्छिन्नैश्वर्यवत्त्वम् । तन्नि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #43
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
११
;
सन्तस्तत्प्रसाद
यन्ता भगवानेवाखण्डैश्वर्य्यनिधिरित्यर्थः, "एको वशी" ( कठ ० ५ । १२) "एष सर्वस्येशानः” (बृ० ५ : ६ । १ ) इत्यादिश्रुतेः । " भीष्मास्माद्वातः पवते भीष्मोदेति सूर्यः भोष्मास्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम:' ( तै० २१६ ) इति श्रुतेश्च । ननु तर्हि राजादिवत्सर्वदण्डानुग्रहकत्त्वं तस्य स्वप्रयोजनकं स्यात्, तथा च स्वतन्त्रत्वनित्यतृप्तत्वयोः क्षतिरित्याशङ्कयाह - सुहृदिति । प्रत्युपकाराकाङ्क्षां विनैव सर्वोपकर्त्ता, तस्य निवृत्या स्वप्रयोजनाका क्षाविरहात् स्वतन्त्रत्वसिद्धिरित्यर्थः तथापि स च सर्वनियामकत्वेन राजादिवत्सर्वनियम्यवर्गाद्भिन्न एव स्यात्, तथा च कथं तस्य प्रत्यगभिन्नवन्तुनिष्ठुवेदान्तप्रतिपाद्यत्वमित्यत आह-- आत्मेति । सर्वभूतानां स एव प्रत्यगात्मत्यर्थः । ननु सर्वभूतानां स एवात्मेति कुतो विनिश्चितमिति तत्राह--यं वेदान्तैरिति । तर्हि वेदान्तप्रमाणपरिच्छेद्यतया भास्यत्वे नानात्मत्वापत्तिरित्याशङक्याह प्रविषयमिति । लब्धतत्त्वज्ञाना यसविषयं विदुरित्यन्वयः । वेदान्तजन्यवृत्तिव्याव्यतया तस्य फलव्याप्यत्वानङ्गोकारान्न तथात्वमित्यर्थः । "यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्” ( के० २ । ३ ) इति श्रुतेः । कथं तर्हि वेदान्तास्तं प्रतिपादयन्तीति तत्राह - सर्वबाधावधित्वादिति । सर्वस्य कार्यकारणरूपस्य प्रपञ्चस्य बाधावधित्वेनेत्यर्थः । सर्वेषां बाधानामवधित्वात्परम्पराविश्रान्तिस्थानत्वादिति वार्थः । तथा चातव्यावृत्त्या सर्वदृश्य निषेधे तदवधिभूततत्त्वं नेति नेतीत्यादिवेदान्तैः प्रतिपाद्यते इति भावः । नन्वेतादृशं तत्त्वं दुर्ज्ञेयं कथं प्रतिभारूढं स्यादिति तत्राहसकलहृदिगं सन्तमिति । प्रत्यगात्मतयैव प्रतिपत्तव्यं न तु भेदेनेत्यर्थः । नानाभेदप्रतिभासात्कथं भेदप्रतिपत्तिरित्याशङ्क्याह- येन विश्वं समस्तं व्याप्तमिति : सर्वांनुस्यूततत्त्वापरिज्ञानविलसितेाऽय ं भेदप्रतिभासस्तत्त्वज्ञानेन तस्य बाधाद् भेदप्रतिपत्तिः स्यादेवेत्यर्थः । नन्व
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #44
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणौ नादिभवसञ्चितानेकदुरितप्रतिबन्धेन कथं तत्स्वरूपं सुवेद्यं स्यादित्यत आह-अघहरमिति। तथा च भगवद्विमुखानां तथात्वेऽपि तं भजतां स एव सकलाचं हरतीत्यर्थः। न केवलमघनाशकत्वेनैव तद्भजनमावश्यकमपि तु विवेकज्ञानाद्यैश्वर्यप्रदत्वेनापीत्याह-श्रीपतिमिति । श्रियाः सकलसुकृतफलभूतापाङ्गनिरीक्षणायाः सकलासाधारणगुणगणालङ्कताया रमाया अनन्यविभूतेरधिपतित्वादेव स्वभक्तानामनायासेनैव सर्वदैव सम्पत्प्राप्तिहेतुभूतमित्यर्थः । तथा च सकलदुरितक्षयहेतुभूतसकलसुकृततत्फलभूतदैवसम्पत्प्राप्तिफलकीपतिभजनमेवादरेण नित्यं मुमुक्षुभिः कर्तव्यत्वेनाश्रयणीयमिति भावः ॥ ४ ॥
कः स्तोतुं श्रीपतिमतिगुणं मादशोद्धा क्षमः स्याद्वाचा वाचस्पतिरपि भयाद्वक्तुमीष्टे न धाष्टोत् । यं वेदान्ता अपि सुचकिताः प्राहुरेतस्य कीर्ती भक्तयावेशाद् व्यवसितमतिस्तीर्थकीर्तेरयाहम् ॥५॥
स्तैौमीत्युक्तः प्राप्तमौद्धत्य वारयन्नत्यगाधगुणमाहात्म्यभगवत्स्तुती स्वस्यानधिकारञ्च प्रदर्शयन् भगवद्भक्तमावेशेन तत्र प्रवृत्ति दर्शयति--- क इति । मादृशो जनः कः श्रीपतिमतिगुणमतिशयेन गुणाः सहस्रमुखादिभिरपि प्रत्यहं तद्वर्णनपरैः सर्वज्ञकल्पैरपीयन्त इति परिच्छेत्तुमशक्या यस्य तमद्धा साक्षाद्वाचा परिच्छिन्नेन वागिन्द्रियेण स्तोतु स्तुति कर्तुं क्षमः समर्थः स्यादित्यन्वयः। महतां मनसाप्यनवगाह्यमाहात्म्य भगवन्तं वाचा स्तोतुं मादृशाऽत्यन्तपरिच्छिन्नकरण: कथमपि समर्थो न भवतीत्यर्थः। भगवतोऽनवगाह्यमाहात्म्यं विशदयति-वाचस्पतिरपीति। वाचामधिष्ठात्री देवता श्रीसरस्वती तस्याः पतिनियन्तृत्वेन प्रसिद्धो भगवाँश्चतुर्मुखा यं भगवन्तं व वचनेन प्रति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #45
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
१३
पादयितुं घाष्ट्र्यात् स्वप्रागल्भ्यात् नेष्टं समर्थो न भवतीत्यर्थः । अपि तु भयादेव तत्कङ्कय्र्यमनुसृत्यैव कश्विदेव स्ववाचां सार्थक्याय वक्तुमीष्टे । ननु “सर्वे वेदा यत्पदमामनन्ति " (क० १ । १ । १५) इत्यादिश्रुत्या वेदैस्तत्प्रतिपादनं क्रियत एव तद्द्वारा ब्रह्मादीनामपि तत्प्रतिपादनसामध्येमच्या हतमस्त्येव कथं न तत्र ब्रह्मणः सामर्थ्यमित्याशङ्क्याह-- -यं वेदान्ता अपीति । वेदानामन्ता अवसानभागास्तच्छिभागस्थानापन्नवेदान्ता उपनिषदोऽपि य वासुदेवमभिधावृत्त्या प्रतिपादयितुं सुचकिता अत्यन्तभीता अतद्व्यावृत्त्या कथविलक्षण्या प्राहुः प्रतिपादयन्ति, पर्यवस्यन्तीत्यर्थः । तद्द्वारा ज्ञानवतां ब्रह्मादीनां साक्षातत्प्रतिपादने कथं सामर्थ्य स्यादिति भावः । ननु तर्हि स्तोमीति कथं प्रतिज्ञातमित्यत आह-प्रथेति 1 यद्यपि ब्रह्माद्यनवगाह्यमाहात्यस्य भगवत: स्तुती माशी वराकोऽत्यन्तानधिकारी तथाप्यहं भक्तयावेशाद् भक्तिर्भजनं भगवति तत्परत्वं तदावेशान्निमित्तादेव न तु लाभपूजाख्यात्यादिनिमित्तादित्यर्थः । एतस्य स्वत एवापरोक्ष्यभूतस्य प्रत्यगभिन्नस्य श्रीविष्णोः कीर्ते तत्स्वरूपनिरूपणलक्षणायां स्तुता व्यवसितमतिः व्यवसिता व्यवसायं निश्चयं प्राप्ता मतिर्यस्य सः । ardastsयेपामधिकारियां किं फलमिति तत्राह -- तीर्थ कीर्तेरिति । तीर्घरूपा श्रोतृवादिपावनकर्त्री कीर्तिर्यस्य तस्य ! तथा च परमपुरुषार्थसाधनसम्पत्सिद्धये भगवत्कीर्तिरवादर्तव्येति भावः ॥ ५ ॥ शुद्ध वस्त्वद्वयमविदितं वधुमिष्टं स्वधाम स्वान्तस्थं तद्विमलममृतं प्रत्यगानन्दरूपम् । बुद्धयारूढं फलति मुकलाज्ञानबाधादखण्डं श्रीकृष्णाख्यं जयति सततं कीर्तिरेवास्ति विष्णोः ॥६॥
सा कीर्तिः किस्वरूपा स्यादित्याकाङ्क्षायां कीर्तिस्वरूपकथनव्याजेन सकलवेदान्तशास्त्रप्रमेयभूतं तत्त्वंपदार्थत्वं वाक्यार्थ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #46
--------------------------------------------------------------------------
________________
प्रत्यक् तस्त्वचिन्तामयौ
-
भूततदैक्यत्वश्च सफलं संक्षेपेण निरूपयति-शुद्धमिति । विष्णोव्यपनशीलस्य प्रत्यगभिन्नस्य श्रीकृष्णस्यैवैषा कीर्तिरस्तोत्यन्वयः । एषा केत्यपेचायामाह - शुद्धमिति । शुद्ध मायातत्कार्यसम्पर्कशून्य वस्त्वनारोपितं तत्वमद्रय द्वितीयवर्जितं तत्पदलक्ष्य ब्रह्म प्रविदितं शास्त्रस्य विषयत्वेन प्रतिपाद्यमत एव शास्त्रप्रमाणजनिताखण्डाकारवृत्त्या बोद्धुं स्वात्मत्वेन ज्ञातुमिष्टं प्रेप्सागोचरो भवतीत्यर्थः । एवं तत्पदलक्ष्यं प्रतिपाद्य त्वंपदलक्ष्य निरूपयति -- स्वान्तस्थ मिति । स्वान्तमन्तःकरणं तत्र तत्साक्षितया तिष्ठतीति स्वान्तस्थमन्तःकरणोपहितं तद्ब्रह्मैव त्वंपदलक्ष्यम् । नन्वन्तःकरणसम्बन्धात् तस्य तद्धर्मभाक्त स्यादित्यत आह — विमलमिति । अन्तःकरणस्योपाधित्वेनं तटस्थत्तया वस्तुकीटावप्रवेशात्तद्धर्ममलसम्पर्करहितं तत्साक्षितया न तद्धर्मभाग्भवतीत्यर्थः । ननु साक्षिणि प्रमाणमस्ति न वा । अस्ति चेत् तर्हि तस्य परिच्छेद्यतया दृश्यस्यानात्मत्वं स्यात्, नास्ति चेत् तर्हि खपुष्पादिवदलीकत्वापत्तिरित्याशङ्कक्याह - स्वधामेति । स्वप्रकाशमित्यर्थः । तथा च सकलप्रमाणादिवस्तुभासकस्य साक्षिणः प्रमाणाभावेनालीकत्वापादनं कथं युक्तिपथमवतरेदिति भावः । ननु तथापि कदाचित्तस्य नाशः स्यादित्यत आह— अमृतमिति । अविनाशिस्वभावमित्यर्थः । निःसाचिकस्य नाशस्यानुपपत्तेर्न साक्षिणोऽमृतस्य नाशशङ्कावकाश इति भावः । एवं त्वंपदलक्ष्य' निरूप्याखण्डवाक्यार्थं निरूपयति--- प्रत्यगानन्दरूपमिति । वेदान्तजन्यवृत्त्यारूढं सत् प्रतिकूलमज्ञानतत्कार्यं त्यजतीति प्रत्यक् त्वंपदलक्ष्यमानन्दरूपं तत्पदलक्ष्य प्रत्यक् च तदानन्दरूपञ्च प्रत्यगानन्दरूपं प्रत्यगभिन्नाद्वयानन्दं ब्रह्मेत्यर्थः । ननु कथं प्रत्यगेवानन्दरूपं स्यात्तदुपाधेर ज्ञानतत्कार्यस्य सत्त्वादित्याशङ्क्याह-सकलाज्ञानबाधादिति । कलाभिः स्वकार्यवगै: सह वर्त्तते इति सकलं सकलञ्च तदज्ञानं सकलाज्ञानं तस्य बाघो निरसनं
ू
१४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #47
--------------------------------------------------------------------------
________________
१५
प्रथमं प्रकरणम् । • तस्मादित्यर्थः । कथं तन्निरसनमित्यत अाह--बुद्ध्यारूढमिति । वेदान्तवाक्यविचारजन्यबुद्धिवृत्त्यारूढं सञ्चैतन्य यदा फलति तदा सकलाज्ञानबाधः स्वतः सिद्ध एव भवतीत्यर्थः । एवं शास्त्रार्थ निरूप्य तत्फलभूतं दृश्यानोच्छेदोपलचितं निरतिशयानन्दाविर्भावं मोक्ष दर्शयति-~-अखण्डं श्रीकृष्णाख्यमिति श्रीकृष्णाख्यमखण्डं वस्तु सततं जयति सर्वोपरि वरीवर्ति--नित्यमुक्तस्वभावं सच्चिदानन्दघनं त्रिविधपरिच्छेदशून्य निजभक्तान्तःकरणे प्रतिफलितं सत्सततं प्रकाशते इत्यर्थः। तथा च सकलवेदान्तप्रमेयभूतं श्रीकृष्णाख्यं ब्रह्मैव तत्त्वमस्यादिवाक्यजन्यान्त:करणवृत्ती समारूडं सकलमज्ञानं तत्कार्यञ्च विनिवर्त्य निरतिशयानन्दपदे स्वभक्तमभिषेच्यत्तीति भावः ॥ ६॥
ध्यायं ध्यार्य नवधनरुचि सर्वसौन्दर्यसारं
स्मारं स्मारं व्रजपतिगृहे चेष्टितं तन्मुरारः। पायं पायं हरिगुणसुधा सत्पयाधेः समुत्यां
भूयो भूयो यदुपतिपदे धावतीयं मतिम ॥७॥ भक्तवावेशादित्युक्तं पूर्व तद्विवृणोति याय ध्यायमिति नवबनरुचिं मुरारमुरनामासुरस्य हन्ता श्रीकृष्यो मुरारिरिति सर्वपुराणेतिहासादा प्रसिद्धम् । स च जगत्पालनाय कृतावतारो भगवान् वासुदेवस्तस्य नूतनजलधररुचिवद्रुचिं कान्तिं सर्वसौन्दर्यसारञ्चन्द्रकन्दर्पपद्मादयो यत्सौन्दर्यलवासासेन कान्तिमन्तो लोके उपमानं गतास्तादृशों सर्वसौन्दर्यसारसर्वस्वभूतां कान्तिं ध्यायौं ध्यायं पुन:पुनरतिशयेन ध्यात्वा, "अाभोषणे णमुल " ( पा० सू० ३ । ४ । २२) "नित्यवीप्सयोः” ( पा० सू० ८।१ । ४) इति द्विवचनम् । तस्यैव भगवता मुकुन्दस्य ब्रजपतिगृहे सकल श्रुतिसारग्राहिसुरमुनि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #48
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणौ सुजनप्रादुर्भावभूमजस्य पतिः पालकतया प्रसिद्धो हरिभक्तमुकुटचूडा. मणिः श्रीनन्दाख्यो गोपाधिपतिस्तस्य गृहे निवासभूमौ गोकुले वृन्दावने च यच्चेष्टितं सकल विश्वाधीशब्रह्मादिजनकत्वेऽपि शिशुत्व. नाटनम्, सर्वभूतसमत्वेऽपि विश्वपालनार्थ धर्मप्रतिपक्षिपूतनाद्यनेका. सुरसंहरणम्, निजानन्दतृप्तत्वेऽपि पयोदधिनवनीताद्यभ्यवहरणम्, शिवसनकादिसमाधिभाग्यत्वेऽपि वयस्यैर्विहरणम्, असाम्यानधिकैश्वाधिपतित्वेऽपि वत्सगवाद्यनुसरणम्, सर्वसौहार्दनिधित्वेऽपि ब्रह्मेन्द्रादिदर्पहरणम्, निरतिशयानन्दस्वभावत्वेनात्मारामाराध्यत्वेऽपि गोपवधूभिः साकं रासक्रीडादिभिर्विहरणमित्यादिरूपं तच्चेष्टितं स्मारं स्मारं पुन: पुनरतिशयेन स्मृत्वा, हरिगुणसुधां भक्तानामविद्यादि हरतीति हरि: गजेन्द्रनरेन्द्रद्रुपदजादिशरणागतार्तिहरणशीलत्वेन प्रसिद्धस्तस्य गुणाः कारुण्यशरण्यकृतज्ञत्वादयोऽनन्त. रसार्णवास्त एव सुधाश्रवणस्मरणकीर्तनादिना जननमरणादिभयध्वंसपुर:सरपरमपुरुषार्थमोक्षामृतदानेन परमामृतस्वरूपास्तादृशी हरिगुणसुधां सत्पयोधेः समुत्थां सन्तो ब्रह्मात्मसाक्षात्कारवन्तः सारग्राहिणो व्यासबाल्मीकिप्रभृतयः सद्वस्तुपर्यवसायिनो वेदाश्च त एव क्षीराब्धिरूपास्ततो विचारमथननिष्पन्नां पुनः पुनरतिशयेन पीत्वा श्रवणादिभिस्तत्स्वादुतामनुभूयेत्यर्थः भूयो भूयः पुनः पुनरिय मम मतिर्मदीया निश्चयात्मिका चेतावृत्तिरिदमेव तत्त्वं नातः परं किमपि तत्त्वमिति सम्यनिश्चित्यैव यदुपतिपदे यदुवंशस्य देवसमूहावतारभूतस्य कंसपरितापितस्य पति: कंसादिदुष्टनिवहणेन पालकस्तस्य श्रीकृष्णस्य पदे पदारविन्दे धावति गङ्गाप्रवाहसरणिरिव सिन्धावप्रतिबन्धेन तत्रैव पर्यवसानभूमौ पर्यवसन्ना सती निमग्ना भवतीत्यर्थः ।। ७ ।।
सारात्मारं निगमजलधेरुद्धृतं शास्त्रमेतद्वेदान्ताख्यं सुभगमुनिना न्यायतः सनिबद्धम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #49
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । तत्साराशं यतिवरगिरा लब्धमादाय कुर्वे प्रत्यकचिन्तामणिमतिमुदा श्रीपतिप्रीतिकामः॥८॥
इदानीं निर्मूलत्वशङ्कानिवारणायास्य ग्रन्थस्य सम्प्रदायमूलकत्वकीर्तनपुरःसरं नामता निर्दिशन् स्वचिकीर्षितं प्रतिजानीते-सारा. दिति ! निगमो वेदः स एव दुरवगाहादिगुणविशिष्टतया जलधि: समुद्रस्तस्मात्सारप्रतिपादकतया साररूपादपि साक्षात्सारभूतब्रह्माद्वैत. परमेतच्छास्त्रं वेदान्ताख्य सुभगमुनिना शोभनैश्वर्यविशिष्टेन सकलवेदार्थावगन्त्रा भगवता व्यासेनाद्धृत वेदसमुदायानिष्कृष्योपनिषद्भाग: पृथक्कृतः सम्यगध्यायादिरूपेण स्थापितस्तमपि संगृह्य न्यायत: "अथातो ब्रह्मजिज्ञासा' (ब्र० सू० १ । १ । १) इत्यादिन्यायरूपेण सम्यनिबद्ध शारीरकमीमासाख्यौं शास्त्र सूत्ररूपं कृतमित्यर्थः । तत्साराश तस्य शासनस्यापि साराशं यतिवरगिरा यतीनां परमहंसानां मध्ये वरः साक्षाद् भगवत: पशुपतेरवतारतया वेदान्ताब्जभास्करो विनष्टप्रायब्रह्मविद्यासम्प्रदायाविर्भावहेतुर्भगवान् भाष्यकारः शङ्कराचार्यनामा तस्य गी: श्रुतिस्मृतिसूत्रभाष्यरूपा तया तत्प्रसादात्तदध्ययनादिना लब्ध स्वबुद्धवारूढमादाय तदेव मूलतया गृहीत्वा प्रत्यक्चिन्तामणि प्रत्यक्तत्त्वं ब्रह्मैक्यं वेदान्तप्रमेय यत्तद्विषयिणी चिन्ता चिन्तनमनुसन्धान प्रत्यकतत्त्वञ्च तद्विषयिणी चिन्ता चिन्तनप्रकारश्च तयोर्मणिरिव मणिः सर्वार्थभासकतया स्वरूप प्रकाशकस्तदवबोधजनक एतन्नामको ग्रन्थस्तं कुर्वे इति सम्बन्धः एतेन स्वकपोलकल्पितत्वमेतद्ग्रन्थस्य नास्तीति दर्शितम् । करिष्यमाणग्रन्थे स्वस्योत्साह दर्शयति-अतिमुदेति। ग्रन्थकरणप्रवृत्ती प्रवर्तकमाह-श्रीपतिप्रीतिकाम इति । लक्ष्मीकान्तस्य श्रीकृष्णस्य प्रीतिरेव कामो यस्य सः। यद्वा, श्रोपती या प्रीतिरनुरागप्रेमभक्तिरत्यादिशब्दवाच्या तद्विषयः कामोऽभिलाषो यस्य सः। एतेन श्रीकृष्णेऽव्यभिचारिणी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #50
--------------------------------------------------------------------------
________________
१८
प्रत्यक्तत्त्वचिन्तामणी रतिरेव परमपुरुषार्थाद् मोक्षादप्यभ्यहितत्वादादरणोयेति दर्शितमिति भावः ॥ ८॥
यद्वीक्ष्यासौ जनिमृतिभयागारसंसारभार
त्यक्त्वा ब्रह्माद्यसुखनिधौ क्रीडतीशानभक्त्या। प्रत्यक्तत्त्वं श्रुतिभिरुदितं यद्विचारान्मुमुक्षु -
र्जानात्येतत्स्वयमत इमं ग्रन्थमीक्षेत भक्त्या ॥८॥ श्रोतरुच्युत्पादनाय करिष्यमाणग्रन्थं महीकरोति-यद्वोक्ष्यति । असौ मुमुक्षुरीशानस्य भगवतः श्रीकृष्णस्य भक्त्या नवधा. रूपयाऽधिकारी भूत्वा, यत्प्रत्यक्तत्व अतिभिः वेदान्तैरुदितं प्रतिपादितं तं वीक्ष्य साक्षात्कृत्य, जनिमृतिभयागारभूतं संसारभारं दुःसहभारवद्वोढुमशक्य त्यक्त्वा ज्ञानेनाज्ञाननाशादपबाध्य, ब्रह्माद्वयसुखनिधौ क्रीडति । तदेतत् प्रत्यक्तत्त्वं यद्विचाराद्यस्य प्रत्यक्तत्त्वचिन्तामणिग्रन्थस्य पौर्वापर्यालोचनया स्वयमनायासेन जानाति साक्षात्करोति । अतो भक्त्या आदरेण इमं चिन्तामणिनामकं ग्रन्थमीक्षेत पौर्वापर्यालोचनया विचारयेदित्यर्थः ॥ ६॥
त्यत्तवा चिन्तां भवभयफलां भोगनिष्ठां कनिष्ठां
दोषाविष्टां सुमतिहरिणीमत्यनिष्टां बहिःस्थाम् । प्रत्यनिष्ठां भवमृतिहरांसद्भिरिष्टां वरिष्ठां
शास्त्रोद्दिष्टां भज सुखफलां भक्तिमृष्टां बलिष्ठाम्॥१०॥ एवं चिकीर्षितं प्रतिज्ञाय तत्फलश्च प्रदर्श्य मुमुक्षूणां हितमुपदिशति-त्यक्त्वेति। हे मुमुक्षो! भोगनिष्ठा चिन्तां त्यक्त्वा प्रत्यङ निष्ठां चिन्तां भजेति सम्बन्धः। भोगनिष्ठायाश्चिन्तायास्त्याज्यत्वे हेतुगर्भ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #51
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । विशेषणानि षट् । प्रथमेन विशेषणेन तस्या भोगनिष्ठायाश्चिन्तायाः संसारानर्थहेतुत्वम्, द्वितीयेनात्यन्तकुत्सितविषयत्वानिकृष्टत्वम्,तृतीयेन सकलपापहेतुभूतकामादिदोषविशिष्टत्वम्, चतुर्थेन शास्त्राचार्योपदेशजनितप्रज्ञाविनाशकत्वम्, पञ्चमेनासुरीत्वादनिष्टकरयोनिहेतुत्वम् , पष्ठेन विवेकिजनधिकृतत्वेन हेयत्वं दर्शितमिति विवेकः । प्रत्यनिष्ठायाश्चिन्ताया अवश्यकर्त्तव्यत्वे हेतुगर्भविशेषयानि सप्तोपादेयत्वात् । प्रथमंन सर्वानर्थनिवृत्तिहेतुत्वम, द्वितीयेन सज्जनरिष्टत्वेन स्वीकृतत्वम् , तृतीयेन श्रेष्ठविषयत्वाद्वरिष्ठत्वम, चतुर्थेन प्रामाणिकत्वम, पञ्चमेन निरतिशयसुखाविर्भावहेतुत्वम्, षष्ठेन प्रबल - साधनजन्यत्वम्, सप्तमेनाबाधितवस्तुविषयत्वादबाधितत्वं स्वप्रतिपक्षिनाशने प्रबलत्वञ्च दर्शितमिति विवेकः। अक्षरार्थस्तु निगदव्याख्यातः ॥ १०॥ बेधा निष्ठा श्रुतिभिरुदिता कर्म भक्तिश्च बोधः
कापीशाचनमधिफलं चित्तशुद्धयेकहेतुः। भक्तिस्तज्जा हरिपदरतिः प्रेमदााद्विरागः
तत्त्वज्ञानं जनयति हुढं मुक्तिरेतेन जन्ताः ॥११॥
एवं शास्त्रस्योपोद्वातं* सपरिकरमुपवयेदानी शास्त्रमारभतेत्रेधेति । एकैवनिष्ठा वेदतात्पर्यविषयीभूता तत्राधिकारिभेदेन साध्यसाधनभेदं परिकल्प्य त्रेधेत्युक्तिः : एकस्यैव वस्तुनो ज्ञेयध्येयसम~रूपेण वेदतात्पर्यविषयत्वात् । न वस्तुतो निष्ठात्रयमिति द्रष्टव्यम् । तत्रादौ कर्मनिष्ठास्वरूपं तत्फलञ्च संक्षिप्य दर्शयति-ईशार्चन मिति । भगवदाराधनलक्षणं नित्यनैमित्तिकाद्यनुष्ठानं कर्मस्वरूपमित्यर्थः । अधिफलमधिकं मोक्षफलात्परम्परया ज्ञानमेव फलं यस्य तत् । साक्षा
*--चिन्ता प्रकृतसिद्धयर्थामुपोद्धात प्रचक्षते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #52
--------------------------------------------------------------------------
________________
२०
प्रत्यक्तत्त्वचिन्तामा त्फलमाह-चित्तशुद्धर कहेतुरिति । भक्तिनिष्ठामाह-भक्तिरिति । तज्जा तस्याश्चित्तशुद्धः सकाशाज्जायत इति तज्जा। भक्तिं प्रति तस्या हेतुत्वमित्यर्थः।
"तावत्कर्माणि कुर्वीत न निर्विघेत यावता। मत्कथाश्रवणादा वा श्रद्धा यावन्न जायते ॥ (भा० ११ । २०६८) इत्यत्र वैराग्यादिप्रवृत्तिहेतुत्वमिव भक्तिं प्रत्यपि चित्तशुद्धेर्हेतुत्वमुक्तम् । भक्तेः स्वरूपमाह-हरिपदरतिरिति । भगवत्पदारविन्दे तत्परत्वं भक्तेः स्वरूपमित्यर्थः । तत्फलमाह-प्रेमेति । प्रेमदाय प्रेमप्रकर्ष एव भक्तर्मुख्यं फलं तस्या अवान्तरफलमाह-विराग इति । यथा यथा हरिपदप्रेमप्रकर्षस्तथा तथा तदन्यविषयेभ्यो विरागस्तथातथा तत्त्वज्ञानदायम् । एतेन तहाढर्येन जन्तारधिकारिणो जीवत एव संसारबन्धान्मुक्तिरित्यर्थः ॥ ११ ।।
शुद्धस्वान्ताः प्रशमकरणा वीतरागा विमाना
वेदान्तोक्तौ भगवति गुरौ श्रद्दधाना अहिंस्राः। स्वच्छाचारा निपुणमतयो नित्यमोक्षप्सवो ये
तेवीक्ष्येमं परमममृतं प्राप्नुवन्त्यात्मबोधात्॥१२॥ एवं निष्ठात्रयं सफलं संक्षेपेण निरूप्येदानीम् “अथातो ब्रह्मजिज्ञासा (ब्र० सू० १। १।१) इति सूत्रस्थाथशब्दार्थानन्त-- पेक्षितसाधनचतुष्टयरूपाण्यधिकारिविशेषणानि दर्शयस्तेषामधिकारिणामेतद्ग्रन्थविचारो ब्रह्म क्यसाक्षात्कारपर्यवसायो नेतरेषामिति दर्शयति-शुद्धस्वान्ता इति। शुद्धमीश्वराराधनलक्षणेन धर्मेण निर्दोष स्वान्तमन्तःकरणं येषान्ते तथोक्ता:। अनेन कर्मणां चित्तशुद्धिद्वारा ज्ञानोपयोगो दर्शित:, "कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्त्तते" इति स्मृतेः। अत एव प्रशान्तानि शमदमाभ्यां निग्रहणोपरतानि बाह्यान्यभ्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #53
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
२१ न्तराणि च करणानि येषान्ते : अनेन शमादिसम्पदुपलक्षिता। राग ऐहिकामुष्मिकभोगस्तदुपायेच्छा स विगतो येभ्यस्ते । अनेनेहामुत्रार्थफलभोगविराग उक्त: । विगतो मानः स्वस्मिन्पूज्यत्वादिबुद्धिर्येभ्यस्ते । अदम्भित्वादेरप्युपलक्षणमेतत् । वेदान्तोक्तौ तत्त्वमस्यादिवाक्यपु भगवति श्रीकृष्णे गुरावात्मतत्त्वोपदेष्टरि च श्रद्दधानाः श्रद्धा आस्तिक्य तद्वन्त इत्यर्थः । अहिंस्रा: सर्वभूतानुकम्पया मनोवाकायैः परद्रोहशुन्याः। अनेनोपरतिशब्दितः संन्यास उक्तः। स्वच्छोऽत्यन्त निर्भल: यथाशास्त्रमाचाशे येषान्ते । अनेन स्वधर्मनिष्ठत्वं दर्शितम् । नित्यानित्यवस्तुविवेचनचतुरा मतिर्येषान्ते । अनेन नित्यानित्यवस्तुविवेकसम्पदुक्ता। नित्यो यो मोक्षपदार्थस्तन्मात्राभिलाषिणों नित्यमोक्षप्लवः । अनेन मुमुक्षुत्वमुक्तम् । उक्तलक्षण सम्पन्ना य मुमुक्षवः “प्रदीप्तशिरा इव जलराशि विविक्षुः” इति पञ्चपादि. कोक्तलक्षणोत्कटसच्चिदानन्दाद्वयत्वात्मलाभरूपमोक्षेच्छाशालिनः पुरुषधौरेयास्ते इमं परमपुरुषार्थोपाय प्रत्यत्त त्वचिन्तामणिनामक ग्रन्थं वीक्ष्य पौवापर्येणावलोक्य तद्विचारजनितप्रत्यगात्मबोधात्तत्त्वसाक्षा. काररूपात्परमं निरतिशयममृतं कैवल्याख्यौं पदं प्राप्नुवन्ति तद्रपा एव भवन्तीत्यर्थः । अनेन अथातो ब्रह्मजिज्ञासा" (ब्र० सू० १११।१ ) इति शास्त्राद्यसूत्रस्थायशब्दानन्तर्येण योग्य. वात्साधनचतुष्टयसम्पत्तिरवावधित्वेनापेक्ष्यते । न वेदाध्ययनमात्रं धर्मजिज्ञासायामिवेति सूचनेन धर्मब्रह्मजिज्ञालयोभित्राधिकारित्वमपि दर्शितं बोध्यम् ।। १२ । ब्रह्मैवाने परमममतं केवलं तत्त्वमासी
न्मायाशक्त्याश्रितमकलनं सृष्टिकाले समस्तम् । तस्माज्जातं विषमरचनं भूतमात्रादिहेतु
स्वस्वाविद्यादिभिरविरलंभोक्तभोग्यादिविश्वम्॥१३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #54
--------------------------------------------------------------------------
________________
२२
प्रत्यक्तत्त्वचिन्तामणी इदानी संसारबन्धनस्य तत्त्वज्ञाननिवर्त्यत्वसिद्धये ब्रह्माज्ञानान्मायादिशब्दवाच्यादेव संसारोत्पत्तिरिति दर्शयति-ब्रह्म ति । अग्रे सृष्टः पूर्व ब्रह्म वासीदिति सम्बन्धः। कार्यब्रह्मादिशङ्काव्यावृत्त्यर्थमाहपरममिति । तस्य द्वितीयसंसर्गशङ्कावारणायाह-केवलमिति । अध्यस्तत्वशङ्काव्यावृत्त्यर्थमाह-तत्त्वमिति। अनारोपितस्वरूपमित्यर्थः । मुक्तैरधिगम्यत्वदर्शनायाह-अमृतमिति। एवं शुद्ध वस्तुतत्त्वं निरूप्य तस्याध्यस्तविश्वाधिष्ठानत्वयोग्यतानिरूपणपुर:सरम् 'अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते' इति न्यायेन ततो विश्वोत्पत्तिप्रकारं दर्शयति-मायेति । अघटितघटनापटीयसी अनाद्यनिर्वाच्याऽज्ञानाविद्यादिशब्दवाच्या माया शक्तिवत्परतन्त्रतया शक्तिस्तयाश्रितं शबलितं वस्तुतोऽकलन सकलकल्पनाशून्यमपि सृष्टिकाले तस्मादभिन्ननिमित्तोपादानान्मायाशवलाद्ब्रह्मणः सकाशाद्भोक्तारोऽन्तःकरणोपाधिका जीवा भोग्य शब्दादिविषयजातम् । आदिपदेन भोगालयभोगभूम्यादयो गृह्यन्ते। भूतमात्राः शब्दादितन्मात्रपदवाच्यानि प्रपञ्चीकृतव्योमादीनि पञ्चसूक्ष्मभूतानि, आदिपदात्तान्येव स्थूलानि पञ्चीकृतानि, तेषां सर्वत्र तुल्यत्वेऽपि स्वस्वाविद्याकामकर्मादिभिर्विषमा विचित्रा रचना यस्य विश्वस्य तदविरलं जीवैस्तत्कर्मादिभिश्च निविलं समस्तं निःशेषं जातमुत्पन्नमित्यर्थः । एतदुक्तं भवति वस्तुतो ब्रह्मकमेवाद्वितीयमसंगोदासीनमकादिरूपं दुर्घटघटनापटीयसी मायामादाय "मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्" ( श्वे० ४।१०) इत्यादिश्रुतिसिद्धाध्यस्तविश्वाधिष्ठानत्वेन कारणतां भजते। यदि कारणसमसत्ताकं कार्यमभ्युपगतं स्यात्तदाऽसंगादासीनं केवलं नित्यकूटस्थं ब्रह्मकथमभिन्ननिमित्तोपादानरूपं कारणं स्यात् ? मिथ्याभूतन्तु कार्य्यम विकृतरज्ज्वादौ सर्पादिवदज्ञानादविकृतेऽपि वस्तुन्यध्यस्यमानं वस्तुतो नाधिष्ठानं स्पृशति, अद्वितीयवस्तुन एव श्रूयमाणजगत्कारणत्वनिर्वाहाय कल्प्यमानामाया धर्मिग्राहकमानादुपजीव्यानुसाराञ्च मिथ्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #55
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
२३
भूतैव सिद्ध्यतीति न तत्कृतेन जगत्कारणत्वेन ब्रह्मणो विकारित्वम् । तथा च भाष्यम् – यत्र हि यदध्यासस्तद्गतेन गुणेन दोषेण वा अणुमा - त्रेणापि न स सम्बध्यत इति ।। १३ ।।
स्वात्मानन्दादमितपदतो ब्रह्मणो निर्विकारादात्माविद्यावृतमतितया प्रच्युताः स्वप्नदृग्वत् । जीवाः कर्माद्यमितनिगडा देहमात्राभिमाना मायाबद्धा जनिमृतिसृतो विभ्रमन्त्याकुलाङ्गाः ॥१४॥
इदानीं जीवानां ब्रह्मपदात्प्रच्युतिरेव सर्वानर्थहेतुरिति वदन् वैराग्यादिसिद्धये स्वात्माज्ञानहेतुकं संसृतिसिन्धुपातं संप्रकारं वर्णयति — स्वात्मानन्दादिति द्वाभ्याम् । स्वस्वरूपानन्दादपरिच्छिन्न पदात्कूटस्थाद्ब्रह्मणः स्वात्माज्ञानेनाच्छादित विवेकदृष्टितया स्वप्नदृष्टिवद् जीवाः प्रच्युताः सन्तो जनिमृतिसृती संसरणमार्गे संसारसिन्धुचक्रे विभ्रमन्तीत्यन्वयः | अत्यन्तपारवश्यं दर्शयति – मायाबद्धा इति । अत एव देहमात्राभिमानाः परिच्छिन्नदेहादावयमहमस्मीत्यहङ्कारिय इत्यर्थः । बन्धनसामग्री दर्शयति — कर्माद्यमिति । कर्माणि सञ्चितादीनि, आदिपदात्कामद्वेषाभिनिवेशादियहणम्, तैरमितास्तत्त्वज्ञानं विना कालापरिच्छेद्या निगडा बन्धका नानादेहभावना येषान्ते । यद्वा, कर्मादीन्येवामितानि बन्धनानि येषान्ते । ननु शास्त्रादीनां तत्त्वज्ञानसाधनानामपि संसारे सत्त्वात्तान्यादाय कथं ते बन्धमोक्षखोपायमनुतिष्ठन्तीत्याशङ्क्याह - प्राकुलाङ्गा इति । प्राकुलानि तत्तन्मनेोरथादिभिरङ्गानि बुद्धिमनः प्राणेन्द्रियादीनि येषान्ते तथा । शास्त्रार्थत्रह्म क्यविचार क्षणमप्यवकाशं न लभन्त इत्यर्थः ॥ १४ ॥
संसाराब्धौ प्रचुरभयदे कामकर्माद्यगाधे भ्रान्त्यावर्ते जडरतिजले जन्ममृत्युप्रवाहे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #56
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी तृष्णाग्राहे नरकगहने द्वेषरागादिन मिथ्याध्यासादिह निपतिता नैव शान्ति लभन्ते॥१५॥
संसारं सिन्धुरूपकेण वर्णयंस्तत्र निरूपिताना विश्रान्त्यभावमाह-संसाराब्धाविति। प्रलयसिन्धुवत्प्रचुरभयदेऽत्यन्तदुःसहयातनादिभयदायके, कामकर्मादिभिरत्यन्तागाधे, भ्रान्तिर्मिथ्याज्ञानमधऊर्ध्वभ्रमणहेतुतया आवर्तो यस्मिन् । जडेषु देहादिष्वहङ्कारास्पदेषु पुत्रकलत्रवित्तगृहादिषु ममत्वास्पदेषु रति: स्नेहादिरूपैव जलं यस्मिन् । जन्ममृत्युपरम्परैव प्रवाहो यस्मिन् । तृष्णैव लोभादिशब्दवाच्या प्रा. होऽधाकर्षकत्वसाम्याद्यस्मिन् । नरक एव गहनं संकटप्रदस्थानं यस्मिन् । द्वेष: परानिष्टचिन्तनं, रागः विषयेष्वासक्तिः, आदिपदेने
ादयो गृह्यन्ते, त एव नका: संसृतिसिन्धौ निमज्जनहेतवा यस्मिन् । इत्थंभूते संसाराब्धौ अनिर्वाच्यदेहाद्यात्मत्वाध्यासानिपतिता: निमजनोन्मजनादिभिर्धमन्तो नैव विश्रान्तिसुखं क्षणमपि लभन्त इत्यर्थः ॥ १५ ॥
कश्चित्पुण्यप्रकृतिरनघोऽधीत्य वेदं यथावद्
बुध्वास्यार्थ तदुदितममौ धर्ममीशार्चनाख्यम् । कुर्वन्कृष्णे प्रवणधिषणा भक्तियोगेन नित्यं प्रेम्णाविष्टो जयति सुमतिर्वैभवं प्राप्य बौद्धम् ॥१६॥
संसाराब्धिपातहेतुरात्माज्ञानमित्युक्तं तत्राज्ञानं तत्कार्यभूतं कर्मादि च जडत्वात्परतन्त्रं तदाश्रया जीवा अप्यज्ञतया ततोऽपि परतन्त्रतरास्तन्नियामकः सर्वज्ञः सर्वशक्तिः परमेश्वरः। एष ह्यवे साधु कर्म कारयति । तं यमेभ्यो लोकेभ्य उन्निनीषते, एष एवासाधु कर्म कारयति । तं यमेभ्यो लोकभ्योऽधो निनीषते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #57
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
२५ "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि भायया ।"
(गी० १८ । ६१ ) "मत्त स्मृतिर्ज्ञानमपाहनञ्च' । (गी० १५ । १५)
"दैवी ह्यषा गुणमयी मम माया दुरत्यया।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते !" (गी० ७ १ १४ ) “पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययो' (ब्र० सू० ३ । २ । ५) “फलमत उपपत्तेः' (७० सू० ३ : २ । ३८ ) इत्यादिश्रुतिस्मृतिन्यायकदम्बैभगव मुख्य. मेव सर्वानर्थरूपाज्ञानतत्कार्यकर्मादिबन्धहेतुः, तदाभिमुख्यमेव सर्वा नर्थनिवृत्त्युपलज्ञितस्वस्वरूपानन्दाविर्भावमोक्षहेतुः, तदाभिमुख्यन्तु महापुण्यै ना दुर्लभम् । मनुष्याणां सहस्रवपि कश्चिदेव पुरुषधौरेयो भगवद्भक्तिर सिको जायते । तथा च परमपुरुषार्थसिद्धये भगवान कृष्ण एव परमप्रेमास्पदत्वेनाश्रयशोय इत्यभिप्रेत्याह--कश्चिदिति। मनुष्याणां सहस्रेष्वपि दुर्लभ: पुण्यैकस्वभावोऽत एवानघ: पापाचरणरहितो वेदं स्वाध्यायशब्दवाच स्वशाखाध्ययनरूपं वेदाध्ययनं कृत्वा यथाव ब्रह्मचर्या दिवतपुरःसरं गुरुप्रसादादस्य वेदस्यार्थ धर्मब्रह्मरूपं बुद्धवा
आपाततोऽनुष्ठयत्वेन रूपेण ज्ञात्वा-असावधिकारी तदुदितं वेदोक्तं स्ववर्णाश्रमादिप्रयुक्तधर्म निष्कामकर्मरूपमीश्वराराधनलक्षणं कुर्वन्नाचरन्नि कामधर्मस्वाभाव्यादेव कृष्णे भगवद्वासुदेवे भक्तियोगेन प्रवणा प्रवाहीकृता धिषणा बुद्धिवृत्तिर्यस्य स तत्फलभूतभगवत्प्रेम्णाविष्टो ग्रहा. विष्टवद्विस्मृतदेहाभिमानस्ततोऽवर्जनीयतया सुमतिः शोभना भगवत्प्रसादलब्धा मतिब्रह्मात्मैक्याकारा बुद्धिवृत्तिर्यस्य ! स च बौद्धं वैभवं प्राप्य तत्त्वज्ञानात्मक मैश्वर्य स्वसाम्राज्याभिषेकरूपं लब्ध्वा जयति सर्वोपरि वरीवति । यद्वा, जयति संसारमिति शेषः। तथा च भग. वद्भक्तानां वैराग्यादिपुरःसरतत्त्वज्ञानलाभोऽनायासेनैव सिद्ध्यतीत्यतो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #58
--------------------------------------------------------------------------
________________
२६
प्रत्यकूतत्त्व चिन्तामणी
भगवद्भक्तिरेव सर्वपुरुषार्थकामधेनुरिति सर्वैरेव मुमुक्षुभिः कर्त्तव्यत्वेनादर्त्तव्येति भावः ॥ १६ ॥
यावत्कृष्णे परिचितमतिर्जायते ना मुमुक्षुस्तावद् भ्रान्ति विषमभयदां नैव भेत्तं समर्थः । तस्माद्धीमान् हरिपदयुगे प्रेमभक्ति विशुद्धां
संपाद्यास प्रभवति भवं छेत्तु मध्याससूलम् ॥१७॥
एतदेव दृढीकर्त्तु " यस्य देवे परा भक्तिः " ( श्वे० ६ । २३ ) “तप:प्रभावादेवप्रसादाच्च" ( श्वे० ६ । २१ ) "ईश्वराज्ज्ञानमन्विच्छेद" इत्यादिश्रुतिस्मृतिशतैः परमेश्वरप्रसादायत्तत्वात् तत्वज्ञानस्य तत्प्राप्त्यर्थ भक्तिश्रद्धाप्रणिपातपुरःसरं परमेश्वरस्यैवाश्रयणीयत्वेनान्वयव्यतिरेकाभ्यां प्रदर्शयंस्तद्भक्तिमेवोरकुर्वन्नाह — यावदित्याद्यष्टाभिः पचैः । अध्यास एव मूलं कारणं यस्य तमित्यर्थः । शेषमतिरोहितार्थम् । १७ ॥
शान्त्यागारे भ्रमहरपदे कान्तिकान्ताङ्किता स्वादुस्वादुस्मितमधुरतालंकृतास्येऽच्धानि । प्रेम्णा लभ्ये जलधितनयालिङ्गिते वेदगीते
कृष्णे भक्ति श्रयत सुजनाः संसृतिध्वान्तभेत्रीम् ॥१८॥
भक्तिरसालं वनं भगवन्तं सैौन्दर्य्यमाधुर्य्यसौष्ठवादिगुणैरलङ्कृतं वर्णयंस्तद्भक्तेरवश्यकर्तव्यत्वं दर्शयति — शान्त्यागार इति । विद्यातत्कार्यनिवृत्तिरेव शान्तिस्तस्या आगारे तदास्पदे निरावरणज्ञानघनत्वात् सर्वमायिकविकारातीतेऽत एव ध्यातॄणां भ्रममनाद्यध्यासं हरतीति तादृशं परं चरणारविन्दं यस्य तस्मिन् कान्तिलक्षणया कान्तया नित्यमव्यभिचरितरूपया अङ्कितान्यङ्गानि यस्य तस्मिन्, स्वादुता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #59
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
२७ ऽपि स्वादु भक्तानुग्रहसूचकतया स्मितं हसितं तेन या मधुरता माधुर्य तयाऽलङ्कतमास्यं मुखारविन्दं यस्य तस्मिन्, स्वच्छं धाम स्वरूपप्रकाशो यस्य तस्मिन् कृष्णे भक्तिमनुरागरूपां हे सुजना: सफलजन्मान: श्रयत आश्रयतेति सम्बन्धः। शेषं स्पष्टम् ॥ १८ ॥ भोगासक्ति परिहृतवतो भक्तियोगा मुकुन्दे
सिद्धयेद् धीरो विषयविरतिं दोषदृष्टयाश्रयेत। सा धीशुद्ध्या विरतिरुदिता सद्विवेकान्मुमुक्षो
मेक्षि हेतुं जनयति रति केशवे केशिशत्रौ ॥१८॥ भक्तियोगोपायं विषयवैराग्यमवश्यं कर्त्तव्यमिति दर्शयतिभागासक्तिमिति । वैराग्योपायमाह-दोषदृष्टयेति । तस्या अपि कारणमाह-सेति । सा विषयेभ्यो विरती रत्यभावहेतुर्दोषदृष्टिरन्त:करणशुद्ध्या सद्विवेकात सम्यग्विवेकद्वारा उदिता सती केशिनो दैत्यविशेषस्याश्वरूपधारिणः शत्रुर्घातकस्तस्मिन् केशवे ब्रह्मरुद्रजनकत्वेन सर्वे. श्वरे श्रीकृष्णे रतिं सर्वसाधनफलभूतां प्रेमप्रकर्पलक्षणां भक्तिं सकलानर्थनिवृत्त्युपलक्षिताद्वयानन्दाविर्भावरूप माक्षे हेतुमवर्जनीयतया तत्त्वज्ञानमःयुत्पाद्य मोक्ष पर्यवसायिनी मुक्तिमिच्छोः पुरुपस्योत्पादयतीत्यर्थः । यद्यपि श्रवणकीर्तनादिभिर्वक्ष्यमाणैरेव साधनैः प्रेमप्रकर्षोत्पत्तिस्तथापि तैरपि भगवतोऽन्यपदार्थेभ्यो वैराग्यमुत्पाद्यैव प्रेमप्रकर्षात्पादनं क्रियते। अन्यत्र विषये आसक्तचित्तस्य तादृशप्रेमोत्पत्तिदुर्लभेति भावः ॥१६। धर्माच्छुद्धिर्भवति विहितात्स्वं प्रतीशार्चनाख्यात्
कुर्वन्धर्म न च परिभवं याति कुर्यात्ततस्तम् । श्रौतं मागं कुमतिहरमाश्रित्य कृष्णाङ्घ्रिसेवी संसाराब्धिंतरति सुखतोभ्रान्तिमुच्छिद्य धीमान्॥२०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #60
--------------------------------------------------------------------------
________________
२८
प्रत्यक्तत्त्वचिन्तामा भगवद्भक्तिरेव सर्वानर्थान्मूलिनी सर्वोपायैमुमुक्षुभिः संपायेत्यभिप्रेत्याह-धर्मादिति स्वं प्रति विहिताच्छास्त्रेणेति शेषः। स्ववर्णाश्रमप्रयुक्तात्परमेश्वराराधनलक्षणाद्धर्माद्भक्तियोगोत्पादिका चित्तशुद्धिर्भवतीति सम्बन्धः । ननु धर्म कुर्वन्तोऽपि संसरन्त एव दृश्यन्ते, कधं धर्माच्छुद्धिर्भवतीति नियम: ? इत्याशङ्कयाह-कुर्वन्निति । धर्म भगवदा. राधनलक्षणमाचरन् परिभवं संसृतिरूपतिरस्कारं न चाप्नोति तस्मात्तं भगवदाराधनलक्षणमेव धर्म कुर्यादित्यर्थः । तथा च पुरुषापराधकामनैव संसारहेतुर्न तु धर्मः। “धम्मो नित्यः सुखदुःखे त्वनि ये' इति भारतोपसंहारे भगवदाराधनलक्षयस्यैव धर्मभ्य भगवत्प्राप्तिफलकत्वान्नित्यत्व. मुक्तम्, न तु धर्माभासस्य । ईश्वराद्विमुखैः सकामपुरुषैरनुतिष्ठितस्य "सुखदुःखे त्वनित्ये' इत्यनेन तत्फलकस्य धर्मस्याप्यनित्यत्वमुक्तं वेदितव्यम् । अत एव कुमतिहरं श्रौतं श्रुतिप्रोक्तं पन्थानं समाश्रित्य कृष्णाघिसेवी सुखतोऽनायासेन धीमांस्तत्त्वज्ञानवान् सन्तता भ्रान्तिमविद्यातत्कार्यमुच्छिद्यापबाध्य संसारसमुद्रं तरत्यतिक्रामति । जीवन्नेव विमुक्तो भवतीत्यर्थः । २० ।
वेधा भक्तिर्निगविहिता केशवे माक्षहेतुः
सख्यं श्रद्धास्मरणमनिशं नजदेहार्पणञ्च । औदासीन्यं स्वतनुभरणे पाषणादा स्वकीये न्यस्यात्मानं भगवति हरौ मानसी भक्तिरेषा ॥२१॥
भगवति निरतिशयप्रेमोत्पादिकां साधनभक्तिं त्रेधा विभज्य दर्शयति-त्रेधेति । मोक्षो निरतिशयानन्दाविर्भावस्त तुर्भगवति निरतिशयप्रेमोत्पादनद्वारा साधनभक्तिः केशवविषये त्रेधा मानस्यादिभेदेन त्रिप्रकारा निगमविहिता श्रतिस्मृतिभिरुपदिष्टा। तत्रादावभ्यहितत्वान्मानसी भक्ति निरूपयति-सख्यमिति स्नेहास्पदत्वे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #61
--------------------------------------------------------------------------
________________
२६
प्रथमं प्रकरणम् । नाश्रयणम् । श्रद्वा तत्रातिशयेनास्तिक्यबुद्धिः स्मरणमनिशं नित्यं तदनुसन्धानम् । स्वात्मत्वेनाभिमतो यो देहस्तस्यार्पणम् , दास्यभावेन समर्पणमित्यर्थः। स्वतनुभरणे स्वशरीरपोषणे स्वकीये पुत्रादौ यत्पषिणादिस्तत्रौदासीन्यं पक्षपातराहित्यम्, ममत्यभिनिवेशाभाव इति यावत् । आत्मानमहङ्कारास्पदं जीवं हरौ मंगवति समय॑ तस्यापि बन्धमाक्षादाबादासीन्यं कृत्वा यच्चेतसोऽवस्थानमिति शेषः । एप। सानसी भक्तिः। निगम विहितेत्यत्राप्यनुपज्यते ।। २१ ।।
कर्णाभ्यां तच्छ्रवणमानशं सज्जनानां मुखाजाद्
नित्यं सेवा मधुरिपुगृहे मार्जनादिप्रकारैः। अर्चा विष्णोविविधसुरभिद्रव्यलेषादि देहे
पञ्चाङ्गायै मनमुदितं वन्दनं कापिकीयम् ॥२२॥ कायिकी भक्ति दर्शयति-काभ्यामिति ! सज्जनानां भगवत्पराणां मुखार विन्दात्तन्छवणं तस्य भगवतो नानालीलास्पदत्वेन श्रवणं कर्णाभ्यामक्षरानुपूावधारणम् । यदा तात्पर्यावधारणं तदा मानसी भक्तिः। यत्र भगवत्परा भगवन्तं कीर्तयन्ति तत्रादरंण नित्यमंव गन्तव्यमित्यर्थः मधोरमुरविशेषस्य प्रलयसमुद्रे हिरण्यगर्भविनाशोन्मुखस्य वेदाहरणे महत्तस्य रिपुर्निजभक्तस्य ब्रह्मणा रक्षणार्थ घातकस्तस्य भगवतो गृह हरिमन्दिरे मार्जनोपलेपनादिप्रकारैर्नित्यमयन्तोसाहेन सेवा सेवनं तत्कैङ्र्यमिति यावत् । विष्णोदेहे श्रीमूर्तिविग्रहे विविधसुरभिविशिष्टद्रव्याणि श्रीखण्डचन्दनादीनि तैलेपादि लेपनम् , पत्रभङ्गयादिरचनारूपम्, अर्चा आह्वानादिषोडशोपचारैर्भगवतः श्रीकृष्णस्य पूजनम्, पञ्चाङ्गानिमनं पञ्चाङ्गादिप्रणामस्तदेव शास्त्रे बन्दनमिति कथितम् । इयं कायिकी भक्तिरुपदिष्टेत्यर्थः ।। २२ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #62
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी विष्णोर्नाम्नां कथनमनिशं कीर्तनं तद्गुणानां
दास्यं कर्माखिलमपि कृतं केशवस्याज्ञयाऽस्तु । तत्संतुष्ट्यै स च मम गतिस्तस्य दासोऽस्मि नित्यं
सर्व विश्वं हरिरितिवचो वाचिकी भक्तिरिष्टा ॥२३॥
वाचिकी भक्तिमाह-विष्णोरिति । दास्यं कैर्य केशवस्य ममाऽस्तु, तदाज्ञयाऽखिलमपि मया कर्म कृतं तत्सन्तुष्ट्यै, स च मम गतिरित्या दिकथनं वाचिकी भक्तिरिष्टा। शेषं स्पष्टम् । ननु
"श्रवणं कीर्तनं विष्णो: स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥"
(भा० ७ । ५ । २३ ) इत्यादिना नवविधा भक्तिः श्रूयते कुतस्तत्रौविध्यमिति चेन्मैवम् । उत्पत्तिवाक्ये संख्यातिरेकेऽपि कायिकत्वादिना समुदायत्रयं कृत्वा अधिकारवाक्ये फलसम्बन्धविधानेन त्रित्वाविरोधात् । “आग्नेयोष्टाकपालः पुरोडाशः पौर्णमास्याममावास्यायाञ्चाच्युतो भवति" इत्युभयत्राष्टाकपालः प्रथमं हविर्भवति । एवमग्नोषोमीय: पौर्णमास्याम् , ऐन्द्रामोऽमावस्यायां द्वितीयं हविरिति। एकादशकपाल: पुरोडाशः अग्नीषोमीयः पौर्णमास्याम् , ऐन्द्राग्नो द्वादशकपाल: पुरोडाशो दर्शे द्वितीयम् ' एवमग्नीषोमावुपाश्वाज्यस्य विष्णुर्वाऽमावस्यायामिति । पौर्णमासे अग्नीषोमौ चतुहीताज्येन, दर्श विष्णुं चतुर्ग्रहीताज्येन, उभयत्र अन्तरा याग:* इत्याग्नेयादिवाक्ये षट् कर्माणि विधाय “दर्शपूर्णमासाभ्यां स्वर्ग* सारांशोऽयं श्रुतीनाम्, श्रतयस्त्वानुपूय॑णेत्थं सन्ति"यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति"
(तै० सं०) "ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्"
(ले० सं०)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #63
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । कामो यजेत' इति समुदायद्वयं कृत्वा फलसम्बन्धविधानवत् तत्र सख्यस्मरणात्मनिवेदनानि मानसी भक्तिः, तत्र स्मरणं नाम सत्यः सर्वगः सर्वशक्तिरित्याद्यनन्तकल्याणगुणादिवैशिष्ट्येन चिन्तनम् , सख्यं श्रद्धादि,
आत्मनिवेदनं देहसमर्पणं विक्रोतपशुवद्भरणपोषणादासीन्येन भगवदेकशरणत्वम् । श्रवणम्, पादसेवनं परिचर्या, अर्चनादि कायिकी, कीर्तनं गानम्, भगवहास्याद्यभिधानादि वाचिकी भक्तिरित्यादि विवेचनीयमिति सर्वमनवद्यम् ॥ २३ ॥ ।
भक्तिं पोक्तामथकृतवतः प्रेमभक्तिर्मुरारे:
पादाम्भोजे भवति च ततोऽध्यासपाशमहाणेः। हेतुधिो निजभगवतारैक्यनिष्ठः प्रमात्मा
सिद्ध्येत्सिद्धाभवजलनिधेर्मुक्तिरेतेन जन्तोः॥२४॥ यथोक्तसाधनभक्तेः फलं निरूपयति--भक्तिमिति : प्रोक्तां यथापदिष्टां साधनरूपा भक्तिं कृतवत: पुंसोऽथानन्तरं मुरारेः श्रीकृष्णस्य पादाम्भोजे प्रेमभक्तिर्निरतिशयरतिर्भवति । ततः प्रेमभक्तरध्यासोऽतस्मिंस्तद्बुद्धिरूपो मिथ्याप्रत्ययरूप इति यावत् । स एव बन्धक त्वात् पाशस्तस्य प्रहाणिः प्रकर्षण मूलबाधेन बाधस्तस्या हेतुभूतो निजस्य त्वंपदार्थस्य भगवत्प्रसादात् त्रिविधमलनाशेन परिशोधितलक्ष्यरूपस्य प्रत्यगात्मनः भगवतः स्वत एव नित्यशुद्ध बुद्धमुक्तस्वभावस्य तत्पदलक्ष्यस्य तयोस्तत्त्वंपदार्थयोरैक्ये वाक्यार्थभूताखण्डवस्तुनि निष्ठा पर्यवसानं यस्य स च बोधः प्रमाऽनधिगता बाधितार्थविषयं यथार्थज्ञानं
"तावतामग्नीषोमावाज्यस्यैव तावुपांशु पौर्णमास्यां यजन्"
(श० ब्रा०) “ऐन्द्रानो द्वादशकपालोऽमावास्यायां भवति'
(श० ब्रा०)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #64
--------------------------------------------------------------------------
________________
३२
__ प्रत्यक्तत्त्वचिन्तामणैा तद्रूपः सिद्ध्येदाचार्यमूर्तिस्थभगवत्प्रसादादनायासेनैव भवति। जन्तोरधिकारिणो मुमुक्षोरेतेन यथोक्तबोधेन भव एव दुस्तरत्वादिगुणविशिष्टतया जलनिधिः समुद्रस्तस्मात् तत्त्वबोधवाधितान्मुक्ति: स्वस्वरूपावस्थानलक्षणा सिद्धा, न तु साध्या; चतुर्विधकर्मफल विलक्षणत्वादित्यर्थः ॥ २४ ॥ विष्णोरङघ्री हृदि धृतवतः शुद्धबुद्धेर्मुमुक्षो
वैराग्यादि प्रबलकरणं तत्प्रसादादुदेति । माप्याचार्य निरवधिपदमाप्तिनिष्ठानिविष्टं भक्तिश्रद्धाप्रवणमनसा संश्रयेत्तं स धीमान् ॥२५॥
भगवत्प्रसादलब्धतत्त्वज्ञानान्मोक्ष इत्युक्तमेवार्थ विस्तरेण निरूपयिष्यन् जिज्ञासूनां प्रवृत्तिविशेषसिद्धार्थ "आचार्यवान्पुरुषो वेद" ( छा०६ । १४ । २ ) "प्राचार्याद्वैव विद्या विदिता साधिष्ठं प्रापयति" (छा० ४ ५ ६ । ३) “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ" ( श्वे० ६ । २३ ) "तद्विज्ञानार्थ समित्पाणि: श्रोत्रियं ब्रह्मनिष्ठम्" । ( मु० १ । २ । १२ )"तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया"। (गो० ४ । ३४) इत्यादिश्रुतिस्मृतिसहस्रैः सद्गुरूपसदनसेवनादिनियमपूर्वक श्रवणादिभिर्वेदान्तार्थावगति: फलाय, न मेवाविनाऽपि स्वयमेव ग्रन्थपरिशीलनादिभिरिति नियमं प्रदर्शयन्नेव तत्त्वज्ञानोपदेशक्रम शिक्षयति - विष्णोरध्रीति । भगवत्पादाम्भोजद्वय हृदि धृतवतोऽत एव शुद्धा कामाद्यैरकलुषिता बुद्धिर्यस्य तस्य मुमुक्षोर्मोक्षमात्रैकनिष्ठस्य तस्य भगवतः प्रसादाद्वैराग्यमिहामुत्रार्थफलभोगविरागः,
आदिपदेन शमादिसम्पत् । प्रबलञ्च तत्करणञ्च साधनेषु प्राबल्यञ्च तत्पौष्कल्यमेवोदेति । तथा च भगवत्प्रसादलब्धसाधनचतुष्टयसम्पनोऽधिकारी धीमान परीक्ष्यकारी स चाचार्य दैशिकवर्य निरवधिपदे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #65
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
३३
ब्रह्मणि प्राप्ता या निष्ठा पर्यवसानं तत्रैव नितरां सर्वविक्षेपनाशात् कृतकृत्यतया पर्यवसन्नं श्रुत्युक्त विशेषणविशिष्ट प्राप्य भगवत्प्रसादादासाद्य भक्तिर्गुरोरानुकूल्यम् श्रद्धा तद्वचनेष्वास्तिक्यबुद्धि:, ताभ्यां प्रवणं तदाभिमुख्यं नीतं यन्मनस्तेन तमाचार्य संश्रयेत् -- सम्यक् संसाराब्धितरणाय शरणत्वेनाश्रयेदित्यर्थः ॥ २५ ॥
"
तत्पार्श्व विजितकरणेो वीतरागो विवेकी तिष्ठन्सेवाप्रमुखगुणैः स्वप्रसादानुकूलम् । आराध्या श्रुतिनयविदं सुप्रसन्नञ्च बुद्ध्वा पृच्छेत्प्रश्नान्विविधविशयान्स्वान्तगान्बोधसिद्धैय २६
गुरोः सन्निधौ प्राप्तस्य मुमुत्ताः कृत्यमाह -- तत्पार्श्व इति । तस्य गुरोः समीपे तिष्ठन्नसा मुमुक्षुर्विवेकी नित्यानित्यवस्तुविवेकवान्, वीतराग आब्रह्मलोकभोगतृष्णारहितः, विजित करणः शमदमोपेतः, सेवा तचिन्तानुकूला या या चेष्टा तत्र स्थितिः, प्रमुखशब्देन प्रणिपातादिग्रहस्तादृशैः सुगुणैः स्वप्रसादानुकूलं स्वस्मिन् गुरोः प्रसादः खप्रसादस्तदनुकूलं यथा स्यात्तथामुं दैशिकवर्यमाराध्य सम्यगाराधनं कृत्वा श्रुत वेदान्ता:, नयास्तदनुकूलतर्काः, तान् सम्प्रदायता वेत्तोति तमोपनिषदब्रह्मात्मविज्ञानपरिपूर्ण सुप्रसन्नं सुष्ठुप्रसादानुकूलं विज्ञाय तदनुज्ञयैव प्रश्नाविविधविशयान् नानासंशयबीजगोचरान् स्वान्तगाव स्वान्त:करणनिष्ठान् मुमुक्षुभिः कर्त्तव्यतया शास्त्रोक्तान् पृच्छेत् । बोधो वेदान्तवाक्यविचारजन्यो ब्रह्मात्मसाक्षात्कारस्तस्य सिद्ध प्राप्तये, न तु कौतुकाद्यावेशेन स्वपाण्डित्यख्यापनायेत्यर्थः ॥ २६ ॥
U
काहं कस्य प्रचुरभयदा संसृतिः काऽस्त्यविद्या का विद्या तत्क्षयपटुतरा केाऽस्त्युपायस्तदाप्तौ ।
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #66
--------------------------------------------------------------------------
________________
३४
प्रत्यक् तत्त्वचिन्तामणौ
मोक्षः स्यात्तत्फलमपि कथं कीदृशाः स्युर्विमुक्ता
इत्यं पृष्टो गुरुरपि वदेदुत्तरं तत्क्रमेण ॥ २७ ॥
अथ मुमुक्षुणा कर्त्तव्यान् प्रश्नान्निरूपयति — कोऽहमिति । किं देहादिसङ्घातरूप: ? किं वा देहमात्रम् ? अथवा ग्रहं कर्त्ता भोक्तेत्यादिप्रत्ययविषयो लिङ्गदेह : ? उताहो तद्विलक्षणः ? इत्याद्यहं - प्रत्ययविषयक एकः प्रश्नः । प्रचुरभयदा प्रत्यन्तदुःसहा संसृतिजन्ममरणप्रवाहरूपा कस्य किं देहादिसङ्घातस्य ? उताहो तद्विलचणस्य कस्यचित् ? इत्याद्यहं प्रत्ययास्पदगतबन्धविषयको द्वितीयः । अविद्या कास्ति ? किं तार्किकादिलोकप्रसिद्धज्ञानाभावरूपा ? अथवा तद्विलक्षणा ? इति बन्धकारण विषयकस्तृतीयः । तस्या श्रविद्यायाः क्षये निवर्त्तने बाधने पटुतरा अत्यन्तप्रगल्भा विद्या का ? किं कर्मोपासनादिरूपा ? किं वा तद्भिन्ना ? इति तन्निवर्तकविषयकचतुर्थः । तस्य विद्याया प्राप्त कोऽस्त्युपायः ? किं ध्यानादिरूपो योग: ? किंवा वेदान्तवाक्यविचाररूपः श्रवणादिः ? इत्यादितत्त्वज्ञानप्राप्त्युपायप्रश्नः पञ्चमः । तत्फलं तस्या विद्याया फलम् ।
पिभिन्नक्रमः । मोक्षोऽपीत्यत्र सम्बध्यते । स किं स्वरूपः ? किं स्वर्गादिवत्कश्चिद्देश विशेष: ? किं वा तद्विलक्षणः ? इत्यादितत्फलविषयकः षष्ठः । ये विमुक्ता मोतफलं प्राप्तास्ते कीदृशाः स्युः ? किमस्मदादिना साधारण व्यवहारवन्तः ? किं वा विलक्षणव्यवहारा: ? इत्यादिजीवन्मुक्ततत्त्वविद्विषयकः प्रश्नः सप्तमः । इत्थमेतत्प्रकारकानन्यानपि प्रश्नान् पृष्टः शिष्येण स्वाभिमुखीकृतो गुरुः । गृणाति उपदिशति तत्त्वं शिष्येभ्य इति गुरुः । अपि शब्दाख्यात्यादिस्वप्रयोजनशून्योऽपि केवलं स्वभाव भूतकरुणया प्रेरित एव शिष्येभ्यस्तत्त्वमुपदिशतीति सूचितम् । तत्क्रमेण तेषां शिष्यकृतप्रश्नानां क्रमेणेोत्तरं ततत्प्रश्न समाधानं वदेत्, तत्संशय निराश पर्यन्तमुपदिशेदित्यर्थः ||२७||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com
Page #67
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । तत्राप्यादा गुरुवदनतः शास्वसिद्धस्त्वमों
वक्तव्यः स्यात्तदनुविविधप्रश्नवाक्यानुसारात्। शास्त्रे द्वेधा भवति रचना वस्तुबोधाय तस्मा
दवाप्येवं भवति गुरुणा बोध्यते शिष्य प्रादा॥२८॥ ननु शास्त्रे वादिप्रतिवादिरूपेण तत्त्वं प्रतिपाद्यते, तथा प्रतिपादनं च नानाशङ्कानिरासेन शास्त्रसिद्धान्तस्थापनार्थम्, तत्कथं तत्परित्यज्य गुरुशिष्यरूपेण तत्त्वनिरूपणमारभ्यते ? इत्याशङ्क्याह--तत्रापीति । तत्र शास्त्रेऽपि द्वधा रचना भवतीत्यन्वयः। शिष्यतेऽनेन शिष्येभ्यस्तत्त्वं यथावत्प्रतिपाद्यते तच्छास्त्रं वेदान्तरूपं तन्निर्णायक विचारप्रधानाभियुक्तकृतनिबन्धरूपञ्च तस्मिन् वस्तुबाधाय अनारोपिततत्त्वज्ञापनाय न तु विजिगीषामात्रफलाय द्वेधा द्विप्रकारा रचना निर्माणं भवति । वादिप्रतिवादिरूपा गुरुशिष्यसंवादरूपा च । एवं सति आदावभ्यहितत्वाद् गुरुशिष्यसंवादरूपा प्रदर्श्यते, वेदान्तेषु छान्दोग्यबृहदारण्यककेनप्रश्नोपनिषदादा सर्वत्र प्रायस्तस्या एवोपलम्भात् । वेदस्यानादित्वेऽपि सर्वार्थावभासकतया गुरुशिष्यादिभावं प्रकल्प्य तथावर्णनम् । वेदशब्दानुराधेनैव सृष्टिरचना । यथावेदबोधितमेव वैदेहयाज्ञवल्क्यादीनां समागमादि जायते । यथोक्तमेव तेषां वेदार्थभानमपि तत्तकाले भवतीति द्रष्टव्यम् । तस्माच्छास्त्रानुरोधादत्रापि वेदान्तप्रकरणे गुरुवदनतः गुरुमुखेन शास्त्रसिद्धो वेदान्तनिर्णीतस्त्वंपदार्थो वक्तव्यः स्यात् । तत्पदार्थस्य शास्त्रतात्पर्यविषयतयाऽभ्यर्हितत्वेऽपि त्वंपदार्थस्य मोक्षफलभागितया ततोऽभ्यहितत्वात्तस्यादा वक्तव्यत्वमिति द्रष्टव्यम् । तदनु गुरुशिष्यसंवादनिरूपणात् पश्चाद् विविधप्रश्ननिर्णायकवाक्यानुसाराद्वादिप्रतिवादिरूपेणेति यावत् । अतः शास्त्रसिद्धत्वादेव गुरुणाचार्येण शिष्य: शासनाह आदी प्रथमतो बाध्यते बोधाभिमुखीक्रियत इत्यर्थः । “तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् समि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #68
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणौ त्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् । तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय।" (मु०१।२।१२, १३) इत्यादिश्रुतेः ॥२८॥ श्रौतं तत्त्वं शृणु शुभमते ! त्वं पदार्थ विशुद्धं
प्रत्यञ्चं स्वं त्रिगुणविधुरं वस्तुतस्तुर्यमच्छम् । सत्यं ज्ञानं सुखधनमजं साक्षिणं जाग्रदादे
स्तस्मिन्शुद्ध विगुणमनृतं कल्पितं भावमानध्वम् २८
शिष्यं तत्त्वश्रवणायाभिमुखीकुर्वस्तस्मै तत्त्वं संक्षेपेण गुरुरुपदि. शति-श्रोतमिति । हे शुभमते ! शुभा संसारभोगेभ्यो विरज्य परमात्मपदाभिमुखत्वात्सुकृतपुखफला मतिर्निश्चयात्मिका चेतोवृत्तियस्य स त्वं श्रौतं तत्त्वं श्रुतिप्रमाणकं वस्तुतत्त्वं शृणु-श्रोतुं सावधानो भवेत्यन्वयः। कोऽहमिति त्वया पृष्टे त्वंपदार्थ श्रुतिप्रतिपादित वस्तुत
आजानता विशुद्धं मायातत्कार्यमलात्यन्तासंस्पृष्टम, प्रत्यञ्च सर्वान्तरत्वादस्मत्प्रत्ययगोचरम्, स्वं स्वात्मानम्, त्रिगुणमज्ञानं तत्कार्यञ्च तेन विधुरं वस्तुतस्तच्छून्यम्, तुर्य्य विश्वतैजसप्राज्ञेषु जायदाद्यभिमानिषु जीवत्वेनाभिमतेषु जाग्रदाद्यवस्थासु चानुगतत्वात् “शिवमद्वैतं चतुर्थ मन्यन्ते" (माण्डू० ७) इत्यादिश्रुतिसिद्धं तुरीयम्, अच्छमपाहतपाप्मादिगुणकम, सत्यं कालत्रयेप्यबाध्यम्, ज्ञानं स्वप्रकाशचिद्रूपम्, सुखघनमानन्दैकरसम, अजं जन्मोपलक्षितषड्भावविकारवर्जितम्, जाग्रदादेरवस्थात्रयस्य साक्षिणं साक्षाद्रष्टारम, त्वंपदार्थ शृण्विति सम्बन्धः। नन्वेवस्वरूपोऽहं चेत्तर्हि कथं मम संसारः ? इत्याशङ्क्यैतादृशस्वरूपापरिज्ञानादेवेत्याह तस्मिन्निति। वस्तुतः शुद्धे संसारासंस्पृष्टे आन्ध्यमन्धयति स्वरूपमावृणोतीत्यन्धं तस्य भावस्तदेव वा प्रान्ध्यमज्ञानमविद्यामायादिशब्दवाच्यं तस्य भावरूपप्रपञ्चं प्रति कारणत्वयोग्यतामाह-भावमिति। तेन ज्ञानप्रागभावादी नातिव्याप्तिः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #69
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
आत्मवत्सत्यत्ववारणायाह---अनृतमिति । ऋतं सत्यं तद्भिन्नमनृतमनिर्वाच्यमित्यर्थः । तस्य तवज्ञान निवर्त्यत्वसिद्धये ग्रह - कल्पि - तमिति । अभ्यस्तमित्यर्थः । न च ब्रह्मतत्त्वज्ञान निवर्त्य प्रपञ्चे)तिव्याप्तिस्तस्याज्ञानोपादानकत्वेनाज्ञानानतिरेकादिति भावः । विचित्रकार्योपादक योग्यतामाह - त्रिगुणमिति । यद्वा, मिथ्याज्ञानव्युदासायाह त्रिगुणमिति । तथा चानाद्यनिर्वाच्यं भावरूपं ज्ञानविरोधि त्रिगुणात्मकमज्ञानं तस्मिन्नात्मतत्त्वे परिकल्पितम्, तदेव संसारं त्वयि कल्पयति । तन्निरासितत्त्वज्ञानसिद्धये यथेोक्तलक्षणास्यात्मतत्त्वस्यावश्यश्रोतव्यत्वादिति भावः ॥ २८ ॥
तद्वाराहंकृतिरपि जडारोपितानर्थहेतुस्तत्रात्मन्यप्यखिलमनृतं कल्पितं देहमुख्यम् । मिथ्याध्यासादहमिति मतिः स्थूलदेहे च सूक्ष्मे भ्रान्त्या जीवा व्रजति नितरां संसृति स्वप्रमादी ३०
३७
केवलमज्ञानं नानर्थावहं सुषुप्तौ तस्मिन्विद्यमानेऽपि दुःखाद्यनर्था - भावात्; ततो यद्द्द्वारा तदनर्थावहं तमध्यासं प्रदर्शयन्नादावहङ्काराध्या सं साक्षादनर्थमूलं दर्शयति तद्द्वारेति । ज्ञानद्वारा तत्रोक्तलक्षणाज्ञानोपहिते आत्मनि अहङ्कृतिरप्यारापितेत्यन्वयः । अहङ्करणमहमिति प्रत्ययः शब्दश्च । जडा अज्ञान कार्यत्वाद् | अनर्थहेतुः सकलान - कारणमज्ञानमप्येतद्द्वारेवाऽनर्थहेतुः । आध्यात्मिक कार्याध्यासेष्वहमिति प्रथमोऽध्यासः । न चाधिष्ठानारोप्यांशद्वयानुपलम्भान्नायमध्यास इति वाच्यम् । यो दहतीतिवदहमुपलभे इति दृग्दृश्यांशयेारुपलम्भात् । तत्राप्यात्मनि ग्रहङ्काराध्यासवति तस्मिन्नखिलं देहमुख्यं देहेन्द्रियप्राणमनोबुद्धिरूपं कल्पितमज्ञानेन अनृतमनिर्वात्र्यमित्यर्थः
:1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #70
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणौ ___ ननु कथमनृतस्य निरात्मकस्याहङ्कारादेरध्यासो यावता कचिदृष्टपूर्वस्य सत एव वस्तुनः क्वचिदारोपो दृष्टः। उक्तञ्च भट्टपादैः
"अध्यस्यते खपुष्पत्वमसत्कथमवस्तुनि ।
प्रज्ञातगुणसत्ताकमध्यारोप्येत वा न वा ॥" इति । तत्राह-मिथ्याध्यासादिति । अयमर्थ:--संस्कारजन्यो हि भ्रमस्तत्सिद्धये पूर्वप्रतीतिमात्रमपेक्ष्यते, न पुनः पूर्वप्रतीतस्य परमार्थसत्त्वमपि व्यतिरेकाभावात् संशयविपर्ययदृष्टेष्वपि संस्कारकार्यस्मृतिदर्शनात् । तथा हि-लोकेऽनुभवोऽस्मिन् बल्मोककूट मम पुरा "स्थाणुः पुरुषो वा' इति सन्देह आसीत्, अस्मिन् शुक्तिशकले "रजतमि. दम्" इति भ्रम आसीदित्यादिः । न च संशयविपर्यययोरेवेयं स्मृतिर्न तदर्थयोरिति वाच्यम्, अर्थशून्ययोस्तयोः स्मृतिविषयत्वानुपपत्तेः । तस्मान्निरुपाख्यविलक्षणस्य पूर्वपूर्वभ्रमदृष्टस्याप्युत्तरोत्तरारोपोपत्तेभ्रंमप्रवाहस्य चानादित्वेनान्योन्याश्रयानवस्थादिप्रसङ्गानवकाशात् । युक्तमज्ञानोपहिते परमार्थसत्यात्मनि मिथ्याभूतस्यानिर्वाच्यस्याहङ्कारादेरध्यास इति । अनिर्वचनीयाज्ञानकार्यत्वादनिर्वचनीयोऽध्यासोऽतस्मिंस्तबुद्धिरूपः। तस्मादहमिति प्रत्ययः सूक्ष्मे लिङ्गशरीरे सप्तदशावयवात्मके, स्थूलदेहे च भवतीत्यर्थः ।
नन्वज्ञानद्वाराऽऽत्मनि कल्पितोऽहमिति प्रत्ययः शब्दश्च, तत्राहमस्मीति भान युज्यते, पुरोवर्तिनि शुक्तिशकलादाविदं रजतमित्यादिप्रत्ययवद् । देहादी तु कथमहमस्मीति विपर्ययभानम् ? नहि देहादावारोपिते हङ्काराध्यासो न वा कल्पितेऽहङ्कारे देहादेरध्यासः, कल्पितस्याज्ञातत्वाभावेनाधिष्ठानत्वायोगादित्याशङ्कय नह्यहमस्मीतिप्रत्ययस्तयोरधिष्ठानाधिष्ठेयभावप्रयुक्तः, किन्त्वेकस्मिन्नात्मन्यहङ्कारस्य देहद्वयस्य चाध्यासाहेहादावहमस्मीति प्रत्ययः, यथा 'अहमज्ञः' इति प्रत्यये चिन्मात्रनिष्ठस्याप्यज्ञानस्याहङ्कारनिष्ठतया भानम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #71
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
नाहङ्कारस्याज्ञान कार्यस्याज्ञानाश्रयत्वं संगच्छते,
३८
किन्त्येकस्मिन्ना
त्मनि तयोरभ्यासादेवाचोऽहमिति प्रत्यय:, तद्वदत्रापीत्यभिप्रेत्याहस्वप्रमादीति । स्वात्मनि प्रमादोऽनवधानताऽज्ञानं तदस्यास्तीति तथा । स्वात्माज्ञानादेव जीवः प्राणधारणाद्युपाधिवशाद्देहादावहमिति प्रत्ययं करोतीत्यर्थः । अज्ञोऽहमित्यपि तथैव भानमज्ञानस्य तत्कार्यस्य चैकस्मिन्नात्मनि सर्वस्याध्यस्तत्वाद् युज्यते । अत एव भ्रान्त्या मिथ्याध्यासेन नितरां घटीयन्त्रवत्संसृतिमनवच्छिन्नजन्ममरणपरम्परां व्रजत्यनुभवतीत्यर्थः । तथा चाघटित घटनापटीयस्त्वादज्ञानस्य तदुपहिते परमात्मनि स्वप्नद्रष्टरीव न किमप्यसंभावितमिति भावः ॥ ३० ॥
अध्यासेोऽयं परिमिततनौ कामकर्मादिहेतुः
कर्तृत्वाद्ये ढतरभवं प्रापयत्येष जन्तून् । तद्वश्यास्ते पुनरपि पुनः संसृति भ्रान्तिमूलां प्राप्यानादौ क्वचिदपि सुखं यान्ति नास्मिन्प्रवाहे ३१
नन्वध्यासस्यैकरूपत्वात्कथं देवतिर्यङ्नरादिदेह हत्यागरूपतया विचित्रायाः संसृतेर्हेतुत्वम् ? विचित्र कारणादेव विचित्र कार्यो - त्पत्तेर्विचित्र तन्तुकार्यविचित्रपटोत्पत्तिवद् दृष्टत्वादित्याशङ्क्याहअध्यासोऽयमिति । अयं सर्वलोकप्रत्यक्षोऽहं ममेदमित्यध्यासेो मिथ्याज्ञानरूपः परिमिततनौ परिच्छिन्नशरीरादौ कर्तृत्वाद्यैः कर्ताऽहमेतस्य कर्मणः एतत्फलस्य भाक्ताहमित्यादिरूपेण कामकर्मादिहेतुः । काम इदं मे स्यादिदं मे स्यादितीच्छारूप:, कर्माणि विहिताविहिताद्यनुष्ठानजनितधर्माधर्मशब्दवाच्यानि सञ्चितागामिप्रारब्धरूपाणि, आदिशब्देन रागाभिनिवेशास्मितादेर्मह:, तेषां हेतुः कारणं प्रसिद्ध एष जन्तून स्वस्वरूपाज्ञानिनो जीवान् दृढतरभवं तत्त्वज्ञानमन्तरेणोच्छे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
---
www.umaragyanbhandar.com
Page #72
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी तुमशक्यतयात्यन्तदुःसहं सत्यत्वप्रतीतिविषयतया वाऽत्यन्तदृढं भवं देवतिर्यनरादिदेहग्रहणपरित्यागरूपं संसृतिचक्र प्रापयति । अविद्यमानमपि सत्यतया प्रत्याययतीत्यर्थः । तथा च कामकर्मादीनां वैचित्र्यात् संसृतिवैचित्र्यमप्यध्यासकार्य्यमेवेति भावः ।
ननु कदाचिदेतस्य संसृतिचक्रस्य स्वयमेवोपरमः स्थात, तदनुपरमेऽपि जीवानां क्वचिनिरतिशय सुखं संसारेऽपि स्यात्, तथा च किं तत्त्वज्ञानोत्पादकाद्वैतशास्त्रविचारेण ? इत्याशङ्क्य सत्यज्ञानेऽध्यासो दुर्वारः, तस्मिँश्च सति कामकर्मादोनामप्यवश्यंभावात्। तथा च संसारोपरमस्तत्त्वज्ञानमन्तरेणात्यन्तासम्भावितः ।
"यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति' (श्वे०६।२०) इत्यादिवचनाच्च देहाभिमानिनां देवादीनामपि सुखगन्धोऽपि दुर्लभ इत्यभिप्रेत्याह-तद्वश्या इति। .अध्यासव्याप्तास्ते जीवा: पुन: पुनरपि भूयो भूयो भ्रान्तिमूलामज्ञानभ्रान्तिनिदानां संसृतिं तत्त्वज्ञानमात्रैकनिवां प्राप्य स्वाज्ञानेन स्वोकृत्य अनादावस्मिन्संसृतिप्रवाहे क्वचिदपि देशे वा काले वा सुखं निरतिशयं नैव प्राप्नुवन्तीत्यर्थः । तस्मात्तन्निवर्तकतत्त्वज्ञानसिद्धये तशास्त्रसिद्धान्तविचारोऽत्यन्तावश्य - क इति भावः ।। ३१ ॥
कश्चिद्धीरो विषयविरतिं शुद्धबुद्धिः समेत्य
श्रुत्योदिष्टं विजितकरणो वीक्ष्य तत्वं यथावत् । स्वात्मानन्दं श्रयति सकलानन्दलेशप्रतिष्ठं विद्याध्वस्ताखिलजडरतिः शान्तसंसारताप:३२
ननु तर्हि सर्वेषामपि जीवानामध्यासप्रयुक्तकर्मादिसत्त्वे कस्यापि संसृतेर्मोक्षो न स्यात, तथा च वृथा शास्त्रारम्भोपदेशादित्याशङक्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #73
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
४१ कर्मादीनां वैचित्र्यादेव केषाञ्चित्पुरुषधौरेयाणां भगवत्प्रसादलब्धसाधनचतुष्टयतया तत्त्वजिज्ञासासम्भवात्तेषां शास्त्रोपदेशेन तत्त्वसाक्षात्कारे जाते संसारोपरमोपलक्षितानन्दस्वरूपात्मावस्थानलक्षणा मोक्षः स्यादेवेति न वैयर्थ्य शास्त्रारम्भोपदेशादेरित्यभिप्रेत्याह-कश्चिदिति । मनुष्यसहस्रेषु दुर्लभो धारोऽक्षप्राबल्येऽपि विषयसन्निधानेऽप्यविकृतचित्तः, तत्र हेतु: --- विषयविरतिं समेत्य सम्यग्वैतृष्ण्यं प्राप्य, तत्रापि हेतु:-शुद्धबुद्धिरिति । भगवदाराधनलक्षणाद्धर्माच्छुद्धा विषयैरकलुषिताऽन्तःकरणवृत्तिर्यस्य सः। अत एव विजितकरणो जितेन्द्रियः । इत्थंभूतोऽधिकारी श्रुत्या तत्त्वमस्यादिवाक्येनोद्दिष्टं गुरुणोपदिष्टं तत्त्वं ब्रह्मैक्यं वीक्ष्य साक्षात्कृत्य यथावदसन्दिग्धाविपर्यस्तस्वानुभवारूढं यथा स्यातथा तत्फलं स्वात्मानन्दं सकलानन्दलेशप्रतिष्ठमामनुष्यादाविरिकच्यं सकलविषयानन्दलेशानां प्रतिष्ठापरिसमाप्तियस्मिन्, यमपेक्ष्य लोके आनन्दलवोऽपि नास्ति, तादृशं स्वस्वरूपभूतभूमानन्दशब्दवाच्यमानन्दं तदवस्थानलक्षणं मोक्षं श्रयति आश्रयति । दृश्य जालं परित्यज्य तद्र पेणावस्थितो भवतीत्यर्थः । तद्रपणावस्थितस्य लक्षणमाह विद्येति । विद्यया स्वरूपसाक्षात्कारेण ध्वस्ता मिथ्यात्वेन बाधिता अखिलजडेषु भोग्यभोगालयभोगभूमितत्साधनेषु रतिरासक्तिर्यस्य सः। अत एव शान्तो मूलोच्छेदेनोच्छिन्नः संसारताप आध्यात्मिकादिलक्षणो यस्य स तथेत्यर्थः ।। ३२ ॥ देहाध्यासे सति कयमहो भोगवैराग्यसिद्धि
धर्मादीनां फलमपि यतो द तुमस्त्येव शक्तिः। कर्मानन्त्यादपि भवनिधिदुस्तरः काम्भीष्मः
स्ततुं शक्यः स कमिति चेदुच्यते तत्समाधिः॥३३॥
स्यादेतद्, यदि वैराग्यं सिद्धत्; तदेव दुर्घटम् । देहाद्यध्यासे सति विषयेषु रागोऽवश्यंभावी, तस्य विषयसौन्दर्याध्यासजन्यत्वात् । तत्र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #74
--------------------------------------------------------------------------
________________
R
प्रत्यक्तत्वचिन्तामणी भोगप्रदकर्मणो हेतुत्वम् , कर्मणाश्चानन्त्याद्भोगदानं विना नाशासम्भवात् । तथा च कथं संसारतापशान्तिः ? कथं वा विषयभोगवैराग्यम् ? इति शङ्कते-देहाध्यास इति । अहो यदुक्तं त्वया तदाश्चर्य दुर्घटमित्यर्थः। दुर्घटत्वमेवोपपादयति-देहेति । देहादावात्मबुद्धया भोक्तृत्वमित्यविवादम् । तथा च भोगेभ्य ऐहिकेभ्यः स्रकचन्दनवनितादिभ्य आमुष्मिकेभ्योऽमृताप्सरादिभ्यो वैराग्यं वैतृ. पुण्यं तस्य सिद्धिर्भोक्तु वस्य प्राप्तिः कथं स्यात् ? न कथमपीत्यर्थः। नहि भोगाः स्वत एव ग्रहीतुं हातुं वा शक्याः। किन्तु धर्मोऽदृष्टशब्दवाच्यस्तस्माद्भोगा: पुरुषमायान्ति । तथा च धर्मादेः स्वफलं दातुं शक्तिरप्यस्त्येव । यत एवं ततः कथं भोगवैराग्यसिद्धिरिति सम्बन्धः। किञ्च, कर्मशब्दवाच्यं धर्माधर्मरूपमदृष्टं तद्यदि परिमितं स्यात्तर्हि स्यात्कदाचिन्मोक्षं प्रत्याशा । तदपि नास्तीत्याहकर्मेति । कर्मणामप्यानन्त्यात्तत्फलभूतो भवनिधिः संसारसमुद्रो दुस्तरः प्रसिद्ध एवास्ति । किञ्च, सर्वस्य कर्मादेरपि बीजभूत: कामस्तेन भीष्मोऽत्यन्तभयङ्करः। तथा च कामकर्मादिमूलोच्छेदं विना स च कथं तर्तुं शक्यः, न कथमपीत्यर्थः। इति चेदिति शङ्कायां समाधिः समाधानमुच्यते त्वदुक्तशङ्कानिरासायेत्यर्थः ।। ३३ ॥ नानाजन्मार्जितसुकृततः प्रेमभक्तिर्मुकुन्दे
सम्यग्जाता विषयविरतिं साधयत्याशु तीव्राम् । ब्रह्मात्मैक्यं निगमविषयं ज्ञातुमिच्छुर्विरक्तो भूत्वा तत्त्वश्रवणमननध्याननिष्ठः स तिष्ठेत् ॥३४॥
भगवदिमुखानामध्यासप्राबल्याद्रागादिसत्त्वेऽपि श्रीमन्मुकुन्दपदारविन्दमकरन्दासक्तचित्तानान्तु तदैश्वर्यभूतविषयवैराग्यं तत्प्रसादादेव सुलभम्, तथा तत्त्वज्ञानमपि सकलकामकर्मादिबीजभूताज्ञानोच्छे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #75
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
४३ दनक्षमं सपरिकरं तत्कृपाकटाक्षेणैव सुलभम् । तथा च संसारतापापशमः सांसारिकसुख रत्यभावश्च भगवद्भक्तानां सिद्धपत्यवेत्यभिप्रेत्याहनानंति ! अनेकजन्मसुसञ्चितं सुकृतं भगवत्प्रसादानुकूलं यत्तस्मात्तत्फलं प्रेमभक्तिरनुरागात्मिका चेतावृत्तिर्मुकुन्दे मुक्तिफलदे सम्यगप्रतिबन्धेनाव्यभिचारिणी उद्भूता सती ऐहिकामुष्मिकफलभोगवैतृष्ण्य. मत्यन्ततीव्रल्या तत्त्वज्ञानपुष्कलसाधनं वैराग्यं झटित्येवोत्पादयति । ततो विरक्तो ब्रह्मात्मैक्यं तत्त्वंपदार्थयोरैक्यं प्रत्यगभिन्न ब्रह्माखण्डैकरसं ज्ञातुमिच्छुः साक्षात्कर्तुमुद्यत: श्रवणं सकलवेदान्तानां समन्वयोक्तरील्या ब्रह्मणि शक्तितात्पर्यावधारणलक्षणम् . मननं श्रुतार्थस्य श्रुत्यनुग्राहकतकः पुनः पुनश्चिन्तनम् , ध्यानं विजातीयदेहादिप्रत्ययतिरस्कारपूर्वकं सजातीयात्मैक्यप्रत्ययप्रवाहीकरणं निदिध्यासनसज्ञम्, तत्त्वस्य ब्रह्मैक्यस्य श्रवणमननध्यानानि तनिष्ठस्तत्रैकतत्परो भूत्वा स विरक्तो मुमुक्षुस्तिष्ठेत्-यावत्तत्त्वसाक्षात्कारं नैश्वल्येनावस्थानं कुर्यादित्यर्थः ॥ ३४ ॥
साक्षात्कारी यदि भगवतः प्रत्यगानन्दभूम्नः
सिद्धस्तहि व्रजति विलयं कर्मजालं समूलम् । कतत्वाद्या सकलकलना तत्क्षणे नाशमेति ध्वस्ते मोहे भवजलनिधिर्नास्ति कालत्रयेऽपि॥३५॥
तत्त्वसाक्षात्कार सिद्धे कि फलं स्यात् ? इत्यत आह-साक्षात्कार इति । यदि यस्मिन् काले भगवतः स्वत एवानावृतस्वरूपानन्दस्य प्रत्यगानन्दभूम्न: सर्वान्तरत्वात्प्रत्यगेव परप्रेमास्पदतया सुखस्वरूप: स एव भूमा पूर्ण ब्रह्म तद्रूपस्य साक्षात्कारोऽयमहमस्मोति निश्चयरूप: सिद्धः नैश्चल्यं प्राप्तस्तहि तस्मिन्नेव समये समूलं मूलेनाज्ञानतत्कार्यभूतकामादिना सह वर्तते समूलं कर्मजालं जालवद्वन्धकं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #76
--------------------------------------------------------------------------
________________
४४
प्रत्यकूतत्त्वचिन्तामणैौ
कर्म्ममात्रं विलयं मूलोच्छेदेनोच्छेदं प्राप्नोतीत्यर्थः । ननु तत्त्वज्ञानात्पूर्वं कृतं कर्म ज्ञानेन विनश्यतु, तथापि क्रियमा कम्मैव संसारफलकं किन्न स्यात् ? इत्याशङ्क्य तन्मूलभूतकर्तृत्वादिबाधेन कर्ममात्रं विनश्यति, "यथेषीकातूलमग्नौ प्रोतं प्रदूयंतैवं हाऽस्य सर्वे पाप्मान: प्रदूयन्ते" ( छा० ५ । २४ । ३ ) इति " न कर्मणा वर्द्धते नो कनीयान् ” ( बृ० ४ । ४ । २३ ) इत्यादिश्रुतेः,
"ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा । "
( गी० ४ । ३७ )
बीजान्यग्न्युपदग्धानि नारोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैः नात्मा सम्पद्यते पुनः || इत्यादिस्मृतेश्व "तदधिगमे उत्तरपूर्वोत्तराघयारश्लेषविनाश
1
तद्व्यपदेशात्”—( ब्र० ४ । १ । १३ ) इति न्यायाच्च ज्ञानिनः सर्वकर्मदाह श्रवणान्न तस्य पुनः संसारप्राप्तिशङ्काऽवकाशं लभते इत्यभिप्रेत्याह — कर्तृत्वाद्येति । तत्क्षणे तत्त्वज्ञानादयसमसमये समग्रापि कर्तृत्वाद्या कलना संसारबीजत्वेनाभिमता नाशं समूलोन्मूलतामेति प्राप्नोति ।
ननु तथापि संसार: स्वभावादेव बन्धकः स्यादनिच्छता) पि गन्धादिज्ञानवदित्यत आह-- ध्वस्त इति । सकार्याज्ञाने ध्वस्ते ज्ञानेन बाधिते सति भवजलनिधिः संसारसिन्धुः कालत्रयेऽपि नास्ति स्वाप्नसिन्धुरिव प्रबोधे सति, नासीदस्ति भविष्यतीत्यर्थः । तथा चाहुरत्र भवन्तो वार्तिककारा:
"तत्त्वमस्यादिवाक्योत्थसम्यग्धी जन्ममात्रतः ।
विद्या सह कार्येण नासीदस्ति भविष्यति ॥” इति ।
(सं० वा० १८३ )
तथा च गगनारविन्दसुगन्धवत् संसारस्वभावो ह्यज्ञानमन्तरेण न निरूपणपथमवतरतीति भावः ॥ ३५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #77
--------------------------------------------------------------------------
________________
४५
प्रथम प्रकरणम्। स्थूलो देहो जनिमृतियुतो भौतिका नायमात्मा
गौरश्यामप्रभृतिकलनासंश्रयः कर्मवश्यः । नानासंज्ञाविषय उदिनः काष्ठलोष्ठादिवद्योऽचिद्रूपाऽसावहमिति मतेर्गोचराहः कथं स्यात् ॥३६॥
एवं सफलं ससाधनं तत्त्वज्ञानं भगवत्प्रसादाद्भगवद्भक्तानामनायासेन भवतीति प्रदर्येदानों मोक्षस्य वाक्यार्थज्ञानाधीनत्वात्, तस्य च पदार्थज्ञानाधीनत्वात्, तदर्थ त्वंपदार्थशोधनमारभते । तत्र तावद्देहात्मवादिना मन्यन्ते--अहमित्यनुभवे देह एव प्रथते, न देहान्तर्वर्त्यन्यः, कुण्ड इव बदराणि, अत एव स्थूलो गारो गच्छामीच्छामि जानामि विभेमीत्यापण्डितपामरं स्थौल्यगौरतेच्छाज्ञानादेः सामानाधिकरण्यानुभवः । नहि धर्मिभेदे धर्माणां सामानाधिकरण्यानुभवः । नहि भवति मधुरं कुण्ड कम्बुग्रावा दिमन्ति बदराणीति। लोहितः स्फटिक इति धीस्तु स्फटिकलोहितद्रव्ययोः पृथककरणे बाध्यते । न च 'नाहं मनुष्यः' इति कस्यचिद्बाध्यप्रत्ययोऽस्ति, विदुषामपि गच्छामि तिष्ठामि ब्राह्मणोऽहं मनुष्याऽहमित्याद्यनुभवात् । यद्यपि समस्तेषु व्यस्तेषु पृथिव्यादिषु न चैतन्यं दृष्टम, तथापि कायाकारपरिणतेषु भविष्यति मदिराकारपरिणतेष्विव किण्वादिषु मदशक्तिः । खदिरचूर्णादिसंवलितताम्बूले इव च रागादयः ! देहाधीनोपलम्भनियमाञ्च ज्ञानाईदेहधर्मत्वम् । तथा चाहुः 'चैतन्यविशिष्टः काय: पुरुषः' इति तेषामन्यधर्मत्वे दृष्टहानिरदृष्टकल्पना च स्यादिति देह एवात्मेति तान् द्वाभ्यां निराकरिष्यन्नादौ जडत्वादिभितुभिर्देहेऽहंप्रत्ययायोग्यताञ्च प्रदर्शयन् स्थूलदेहात्वंपदार्थ विवेचयति-स्थूल इति । जनिमृतियुत इति । प्रागभावप्रध्वंसयो: प्रतियोगी भूतविकारोऽयं प्रत्यक्षमानसिद्धः स्थूलो देह आत्मा न भवति, गौरश्यामादिकलनासंश्रयत्वात् । जन्मारभ्य गौरत्वादे नापरिणामोपलम्भात् न स्थायि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #78
--------------------------------------------------------------------------
________________
४६
प्रत्यक्तत्त्वचिन्तामणा त्वमित्यविवादम् । तथा च अहमिति प्रत्ययगोचरतां कथमपि नाहतीत्यर्थः । कदाचित् सुखित्वेन कदाचिद् दुःखित्वेनानुभव एकस्मिन्नपि देहे दृश्यते तत्कस्य हेतोः ? तस्मिन्पुण्यपापातिरिक्तहेत्वसम्भवात् । तयो. श्चास्मिन् जन्मनि क्रियमाणयोः पश्चाद्भावात् पूर्वजन्मसंबन्ध्यात्मावश्यक इत्याशयेनाह-कर्मवश्य इति । कर्म धर्माधर्मरूपं तदृश्यस्तदधीन इत्यर्थः । स्थौल्यगौरताचैतन्यादेः सामानाधिकरण्यानुभवस्तु अन्योन्याध्यासाद् 'अयो दहति' 'रक्तः स्फटिक' इति प्रत्ययवद् भ्रान्तिरेव । न च बाधाभावः, प्रदीपघटयोरिव प्रकाश्यप्रकाशकयोधर्मधर्मिभावानुपपत्तिलक्षणयौक्तिकबाधसत्वात, जातिस्मराणां तत्त्वज्ञानानाञ्च प्रत्यक्षणात्मनि देहातिरेकानुभवात्, ग्रहावेशेनाभिभूतस्य व्यवहरतोऽपि प्रत्यभिज्ञाद्यदर्शनाच्चातिरिक्तात्मसिद्धिरिति बोध्यम् । नानासंज्ञा बालः, युवा, वृद्ध इत्यादिव्यभिचारिव्यवहारगोचरत्वेन लोक उदित: स च नियमेनाहमिति प्रत्ययस्य कथं गोचराहः स्यादिति सम्बन्धः। यत्तुक्तं
चैतन्यस्य देह एवोपलम्भाद् देहधर्मत्वमिति तदसदित्याह-काष्ठलोष्ठादिवद्योऽचिद्रूप इति । मृतस्य देहस्य काष्ठादितुल्यत्वेन तदानीं ज्ञानाभावे किं कारणं देहाकारपरिणतभूतानां तदानीमपि सत्वाज्ज्ञानप्रसक्तेर्दुर्वारत्वात् । तथा च तादृशस्थले व्यभिचारान्न देहाकारपरिणतेर्ज्ञानहेतुतेति भावः ॥ ३६ ।।
चार्वाकाणामतिजडधियां कामुकानामकानां
रागन्धानां विषमविषयेऽत्याग्रहाणां गृहाणाम् । बद्धास्थानामनृतवपुषि व्याकुलानां कुलाना त्यक्त्वा पक्षं भज सुमनसांसज्जनानां जनानाम्॥३॥
न केवलं युक्तिशून्यत्वादेव चार्वाकपक्षोऽनुपादेयोऽपि तु नष्फल्याद्विपरीतफलाञ्च सर्वथा हेय एवेत्यभिप्रेत्याह--चार्वाकाणामिति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #79
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
४७ चार्वाकाणां देहात्मदृष्टानामतिशयेन जडा मन्दा स्थूला च धीर्येषाम्, कामुकानां केवलैहिकस्रकचन्दनवनितादिविषयभोगलम्पटानाम, अत एवाकानां तत्सम्पादनासमर्थतया तत्रैवात्यन्तव्यग्रचेतस्तया न विद्यते के सुखं येषाम् , रागेण विषयासक्तिरूपेणान्धानां शास्त्रजन्यदृष्टिशून्या. नाम्, अत एव विषमविषये महताऽपि प्रयत्नेन सम्पादयितुमशक्येऽपि सर्वापेक्षोत्कर्षादिरूपे अतिशयेन य अाग्रहोऽभिनिवेशस्तस्य बहुत्व तत्तद्विषयभेदेन तद्गृहाणामाग्रहमात्रैकशरणानाम् ,अनृतवपुषि स्वप्नदेहवन्मिथ्याभूते शरीर बद्वा आस्था उत्कटजीवनेच्छा येषाम् . अत एवनानोपायव्यग्रतया व्याकुलाना विक्षिप्तचित्तानां कुलानाम, तेषां बहूनामपि सहस्रान्धानामिद मूर्खाणां पक्षं स्वकपोल कल्पितं भोगलाम्पट्य. प्रत्युक्तवेदद्वेषमूलत्वाच्चाप्रमाणं देहात्मवादं त्यक्त्वा सुमनसां शास्त्रीयधर्माराधितेश्वरत्वाच्छुद्धान्त:करणानां व्यासादीनां महर्षीणाम् , सज्जनानां परमार्थ सदस्तुनिष्ठानाम् , जनानां सफलजन्मनां पुरुषधीरेयाणाम्। पक्षमिति काकाक्षिन्यायेनोभयत्र सम्बध्यते । तं भज सेव्यत्वेन समाश्रयस्व तेनैव कृतकृत्या भविष्यसीत्यर्थः ।। ३७ ॥
स्थूले देहे अतिनयबलानिश्चितेनात्मभावात्
स्वस्माद्भिन्ने विगलति जडेऽहकृतिर्धान्तिसिद्धा। तनिष्ठातः पृथगहमिति ज्ञानमादृत्य धीरः प्रत्यक्तत्त्वं विमृशतिधियाऽऽचार्यवेदान्तवाक्यैः॥३८॥
एवं स्थूलदेहाद्विवेचिते त्वंपदार्थे फलितमाह-स्थूल इति । श्रुतिनयबलात् श्रुति: "अशरीरं शरीरेषु” ( कठ० २ । २१ ) इत्यादिरूपा, नय उक्तलक्षणः, तद्बलान् तदनुसारेणानात्मभावादनात्मत्वादेव स्वस्माद्भिन्नेऽत्यन्तविलक्षणे स्थूलदेहे उक्तरीत्या निश्चिते सति तत्र भ्रान्तिसिद्धाऽनाद्यध्यासोत्पादिताऽहङकृतिरयमहमस्मीति प्रत्ययो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #80
--------------------------------------------------------------------------
________________
४९
प्रत्यक्तत्त्वचिन्तामा विगलति विलयं प्राप्नोतीति योजना। ततः किमित्यत आह-तनिष्ठात इति। तस्याः स्थूलदेहानहङ्कृतेर्निष्ठातो दृढाभ्यासस्थितेः स्थूलादेहादहं पृथगिति ज्ञानमादृत्य यथार्थरूपतयाऽऽदरेण स्वीकृत्य धीरो विवेकादिविशिष्टो मुमुक्षुः प्रत्यक्तत्त्वं त्वंपदार्थस्वरूपं धिया शान्त्यादिगुणवत्या चेतोवृत्त्या आचार्योपदिष्टवेदान्तवाक्यैदेहादिभ्यः पृथगात्मतत्त्वप्रतिपादकैरुपनिषदचोभिर्विमृशति विचारयतीत्यर्थः ॥३८॥
सूक्ष्मः प्राणेन्द्रियमतिहृदां सङ्घ एषोऽप्युपाधि
र्नानारूपोऽप्यतिचलगतिभौतिकत्वाज्जडत्वात् । दृश्यत्वाचिन्नभस इतरो भ्रान्तिकायेऽत्यनों
नैवात्मायं त्रिगुणजनितो याति नाशं सुषुप्तौ॥३८॥ विचारे क्रियमाणे यथा स्थूलदेहात्त्वंपदार्थस्य पृथक्त्वं विनिश्चित तथैव सूक्ष्मादपि पृथकत्वं तस्य सिद्धातीत्यतो लिङ्गदेहादपि त्वंपदार्थ विवेचयति-सूक्ष्म इति । प्राणा: प्राणापानादिभेदेन पञ्चधा, इन्द्रियाणि दश ज्ञानकर्मसाधनानि, मतिर्निश्चयात्मिकाऽन्तःकरणवृत्तिबुद्धिः, हृत् सङ्कल्पात्मिकान्त:करणवृत्तिर्मन:, एते सप्तदश तेषां समुदाय: सूक्ष्मो लिङ्गदेहः । एषोऽप्युपाधिरात्मन इति शेषः । न त्वात्मेत्यर्थः । आत्मन एकरूपत्व' श्रुतिस्मृतिन्यायानुभवसिद्धम्, अयन्तु न तथा, यतो नानारूपः । नह्य कस्मिन्देहे बहूनामात्मनामैकमत्यं सम्भाव्यते, न वा तेषामेक प्रयोजनवशादैकमत्यम्, विरुद्धनानाप्रयोजनानामपि कदाचित्प्रसक्तेरवर्जनात्। गुणप्रधानाभावे च विनिगमकाभावात् । उपभोक्तुरन्यस्यानभ्युपगमेन सांख्यमते गुणानामिवैकमत्याभावात् । न चैकसार्थान्तर्गतपुरुषाणामिवैऽकमत्योपपत्तिरिति वाच्यम्, तत्रानियमात् । न चैकसार्थान्तर्गतपुरुषाणामपि यावजोवमैकमत्यनियमो मेलननियमो वास्ति, प्रयोजनभेदे वैमत्यविश्लेषादिदर्शनात् । न वा तेषां सप्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #81
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
--
"
दशानी समुदाय एवात्मेत्यपि साधुः, चक्षुरादिष्वेकैकोपघातेऽपि तद्घटितसमुदाय भङ्गेनात्मापघातादन्धा मूकाश्च म्रियेरन, न जीवेयुः । समुदायोऽपि समुदायिभ्योऽन्योऽनन्यो वेत्यादिविकल्पासहत्वेन निरूपयितुमशक्य इति भावः । किञ्च, मनः प्रधानं हि लिङ्गशरीरं तस्य च चाञ्चल्य लोकप्रसिद्धं नातिचलगतेरात्मत्वं युक्तम्, प्रक्रियस्यैवात्मत्वप्रसिद्धेः तोऽपि सूक्ष्मो नात्मेत्याह — अतिचलगतिरिति । अपि च "शब्दमस्पर्शमरूपमव्ययम्" (का० १ । ३) इति शास्त्रादात्मा पञ्चभूत विकारादन्यो विनिश्चितः । अयन्तु न तथेत्याह-- भौतिकत्वादिति । भूतविकारत्वादित्यर्थः । चिद्रपो ह्यात्मा, "विज्ञानमानन्द ं ब्रह्म" ( वृ० ३ । ६ । २८ ) इति श्रुते: । प्रयन्तु न तथेत्याह -- जडत्वादिति । आत्मा द्रष्टा, “ विज्ञातार मरे केन विजानीयात् " ( बृ० ४ | ५ | १५ ) इत्यादिश्रुतेः । अयन्तु तद्विपरीत इत्याह-दृश्यत्वादिति । अतश्चिन्नभसश्चिद्रपादात्मनः सकाशादित भ्रान्तिकार्यतया जडदुःखमिथ्यात्मकः । अत एवात्यनर्थरूपकामाद्याश्रयतयाऽत्यनर्थो दुःखैकमूलत्वात् सर्वानर्थनिविड इत्यर्थः । आत्मा हि निर्गुणः, “साक्षी चेता केवलो निर्गुणश्च" ( श्वे० ६ । ११ ) इत्यादिश्रुतेः । प्रयन्तु तद्विपरीत इत्याहत्रिगुणेति । त्रिगुणात्मकाज्ञानेन सूक्ष्मभूतात्पत्तिद्वारा जनित उत्पादित इत्यर्थ: । " तद्यथा सोम्य वयांसि वासो वृक्ष सम्प्रतिष्ठन्ते एवं 'वै तत्सर्वं परे आत्मनि सम्प्रतिष्ठते" ( प्र० ४ । ७ ) इति " सुषुप्तिकाले सकले विलीने" "सलिल एको द्रष्टाऽद्वैता भवति" ( बृ० ४ । ३ । ३२ ) " न तु तद् द्वितीयमस्ति ततोऽन्यद्विभक्तम्" ( बृ० ४ । ३ । २६) इत्यादिश्रुतिभिः सर्वकार्यविलयप्रतिपादनादपि नायं सूक्ष्मदेह श्रात्मेत्याह -- यातीति । सुषुप्त्यवस्थायां नाशं स्वकारणे प्राज्ञे संस्कारमात्रावशेषेण विलय प्राप्नोति । तथा च तत्र दर्शनादप्यस्य नात्मत्वमित्यर्थः ॥ ३८ ॥
T
Shree Sudharmaswami Gyanbhandar-Umara, Surat
४-६
www.umaragyanbhandar.com
Page #82
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामा कर्ता भोक्ता परिमिततया ज्ञानकार्या विकार्य:
कर्माधीनस्तडिदिव चलस्तापसारोऽत्यमारः। जाग्रत्स्वप्नान्सृजति बहुधानेकरूपोऽस्वरूपः
तस्मादन्योऽस्य दृशिरमलोऽस्त्यन्तरात्मा चिदात्मा४०
ननु मास्तु करणसमुदायस्यात्मत्वम् , विज्ञानशब्दवाच्याया बुद्धेस्तु स्यात् । ननु निराकृतं बुद्धेरप्यात्मत्वं तन्मध्यपातित्वादिति चेत्, सत्यम्; करणात्मकत्वेन तस्यास्तन्निराकृतम्, कर्तरूपस्य विज्ञानस्य तु न निराकर्तु शक्यम्, श्रुत्यनुभवसिद्धत्वात् । “विज्ञानं यज्ञ तनुते", (तै० २ । ५) इत्यादिना सर्वयज्ञादिकर्मकर्तभूतं तत्प्रस्तुत्य "विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान्कामान्समश्नुते" (तै० २१५) इति तज्ज्ञानस्यैव सर्वपापनिवृत्तिसर्वकामावाप्तिफलश्रवणात्।
आत्मज्ञानफलत्वेन च ते प्रसिद्धे। अत एव न मन:साम्यम, तस्य करणत्वात् । अस्य च "यज्ञं तनुते । कर्माणि तनुते" (तै० २।५) इति वैदिकलौकिकसर्वकर्मकर्त्तत्वश्रवणात् । कर्त्ता हि सर्वैरात्मेष्यते, "शास्त्रफलं प्रयोक्तरि" (मी० सू० ३।७।१८) इति जैमिनिसूत्रात्, कर्मकाण्ड. प्रामाण्यानुरोधात्; "स हि कर्ता" इति श्रुतेश्च । एतच्च “कर्ता शास्त्रार्थवत्वात्। (ब्र० सू० २।३।३३) इति सूत्रयता भगवतो वादरायणस्यापि सम्मतम् । तस्माद्धि ज्ञानमय एवात्मेत्येकदेशिनामुपासकमीमांसकादीनां च मतम् । तन्निराचष्टे-कर्तेति। योऽयं कर्ता भोक्तेत्या. दिरूपेण प्रसिद्धो विज्ञानमयश्चैतन्यप्रतिबिम्बगर्भोऽन्तःकरणविशेषोऽहंकारादिशब्दवाच्यः सोऽपि परिच्छिन्नतयाज्ञानकार्यत्वेन विकार्य एव भूतविकारान्त:पातित्वात् परिणाम्येव । “बुद्धेर्गुणेनात्मगुणेन चैव" (श्वे० ५। ८) "यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह" (का०६ । १०)। "बुद्धिश्च नेङ्गते तत्र परमात्मानमश्नुते"। "बुद्धिश्च न विचे. ष्टते तामाहुः परमां गतिम्" ( का० ६ । १०) इत्यादिश्रुतिभिः गुण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #83
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम्
चलश्चञ्चलः ।
,,
क्रियावत्वेन प्रसिद्धस्य परिच्छिन्नद्रव्यस्य बुद्धिशब्दवाच्यत्वनिश्चयात् नायमात्मेत्यर्थः । किञ्च, अयं कर्माधीनः धर्माधर्मपरतन्त्रतया तत्तच्छरीरं तादात्म्याध्यासेन तत्तद्रूपेण प्रतीयमानतया तडिदिव विद्युल्लेखेव नहीदृशस्य व्यभिचारिण आत्मत्वं संगच्छते । आत्मा हि परप्रेमास्पदतया सुखस्वरूपः । अयन्तु तद्विपरीत इत्याह — तापसार इति । आध्यात्मिकादिताप एव सारो यस्य यावद् यावदहं करोमीत्यादिकर्तृत्वादिदा तावत्तापाधिक्यमित्यर्थः । किश्व, विचार्यमाणे पञ्चभूत कार्यत्वाविशेषादप्यस्य स्थूल देहवन्निःसारत्वमित्याह — प्रत्यसार इति । नहि मुग्धकल्पितपिशाचस्येवास्य निःसारस्यात्मत्वं सङ्गच्छते इत्यर्थः । नानापरिणामशीलत्वादप्यस्यानात्मत्वं स्फुटमित्याह - जाग्रदिति । इन्द्रियैरर्थोपलब्धिरूपावस्था जाग्रत, स्वप्नो जाग्रद्वासनासंस्कारजनितेन्द्रियाजन्याऽन्तःकरणवृत्तिरूपावस्था बहुधा बहुप्रकारेण तान् जाग्रत्स्वप्नान् सृजति । किञ्च, अपञ्चीकृतभूतकार्यत्वात्पञ्चभूतात्मकमन्तः करणं चित्प्रतिबिम्बप्राहि ज्ञानक्रियाशक्तिप्रधानमेव विज्ञानशब्दवाच्यम् । तस्यात्मत्वे तुल्यन्यायेन स्थूलदेहेन्द्रियादीनामप्यात्मत्वं दुर्वारं स्यात् साधकत्वाधयुक्तिसाम्यात् । तथा नानात्मता स्यादित्यभिप्रेत्याह- अनेकरूप इति । मनुष्योऽहं पश्यामि गच्छामि, सङ्कल्पविकल्पवानमित्याद्यनेकरूपत्वादप्यस्यात्मत्वं न स्यादित्यर्थः । "अविनाशी वा अरे अयमात्मा अनुच्छितिधर्मा मात्रासंसर्गस्वस्य भवति " ( वृ० ४ । ५ । १४ ) इति श्रुतौ आत्मनोऽविनाशित्वं निर्णीतम् । एतस्य तु तद्विपरीतत्वमित्याहअस्वरूप इति । सुषुप्त्यादौ विलयश्रवणाज्जाप्रदादा विक्रियमाणत्वान्न विद्यते स्वमसाधारणं देहादिभ्यो विलक्षणं रूपं यस्य स । तथा च देहादितुल्यत्वादस्यानात्मत्वमित्यर्थः, "तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तरात्मा आनन्दमयः " ( तै० २ । ५ ) इति स्पष्टमेवात्मना विज्ञानमयातिरिक्तस्य प्रदर्शनाद, विज्ञानमयस्य कोशत्वप्रसिद्धेः, भृगु
,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
५१
www.umaragyanbhandar.com
Page #84
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणौ वल्ल्या विज्ञानादप्युत्तरत्र "आनन्दो ब्रह्मेति व्यजानात्" (तै० ३।६) इति दर्शितत्वात्, “यो विज्ञाने तिष्ठन् विज्ञानादान्तरः” इति सर्वान्तरस्य पृथनिर्देशाच्च। विज्ञानस्यापि साक्षो नित्यहक्स्वरूप: परमात्मान्योsस्तीत्याह-तस्मादिति। तस्मादुक्तहेतोरस्य विज्ञानमयस्य दृशिः साक्षादव्यवधानेन द्रष्टा, अमलोऽपगतनानामलसम्पर्कशून्य: चिदात्मा चिद्रूपत्वात्स्वप्रकाशः अन्तरात्मा सर्वान्तरत्वेन श्रुतिप्रसिद्ध आत्मा अस्ति, न नास्ति, तस्याभावे ग्राहकाभावान्निःसाक्षिकं विज्ञानादिजगदालोकासत्त्व इव रूपमस्ति नास्तीत्युपदेशानह खपुष्पायमाणं स्यादित्यर्थः। तथा च स्मृति:
"असत्यस्मिञ्जगन्नाथे अन्धीभूतमिदं भवेत् ।
सूर्येणैव विहीनत्वान्निरालोकं जगद्यथा ॥" इति। अयं भाव:-"विज्ञानं यज्ञं तनुते" (०२१६) इति श्रुतिर्यज्ञ तत्फलोपभोगयोग्यं व्यावहारिकं सर्वान्तरात्मज्ञानोपायत्वेन प्रस्तुतं कोशविशेषमाह न पारमार्थिकमात्मानम् । अत एव तत्रत्यं सर्वपापआयसर्वकामावाप्तिफलकीर्तनमापेक्षिकस्यान्यत्र सिद्धहिरण्यगर्भोपास्तिफलस्यानुवादोऽर्थवादो वा अपापश्लोक* श्रवणवाक्यवत् । अन्यथाऽत्रैवोपक्रमोपक्षिप्तसर्वकामावाप्तिफलेनोपसंहारे ज्ञातव्यान्तरापरिशेषादभिलषितफलान्तरासम्भवाच्चोत्तरत्रानन्दमयकोशनिरूपणं पुच्छब्रह्मनिरूपणं तदुपपादनार्थ उत्तरो ग्रन्थश्च निरर्थकः स्यात् । “कती शास्त्रार्थवत्वात्" (ब्र० सू०२। ३ । ३३) इत्यादिसूत्राणि तु "तद्गुणसारत्वात्तु तव्यपदेशः” (ब्र० २ । ३ । २६) इति सूत्रोपदर्शितबुद्धिसम्बन्धाधीनकर्तृत्वादिप्रपञ्चनाानि, कर्मोपासनाकाण्डोपयोगितया तावतैव कर्मकाण्डप्रामाण्योपपत्तेः । "शास्त्रफलं प्रयोक्तरि" (मी० सू० ३ । ७ । १८) इत्यादिकमपि बुद्ध्युपहितव्यावहारिकतादृशात्मविषयम्, न पारमार्थिकमात्मविषयमिति ॥ ४० ॥
ॐ यस्य पर्णमयी जुहूर्भवति न स पाप ७ श्लोकं शृणोति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #85
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । कामक्रोधप्रभृतिविकृतिर्धान्तिजन्येऽस्ति सूक्ष्मे
कर्तृत्वाद्या सकलकलनाहङकृतौ न प्रतीचि। धर्माधर्मी त्रिदिवनरको जन्ममृत्यू बुखाके
सर्वे धर्मा अनृतवपुषि स्थूलदेहेऽथ सूक्ष्मे ॥४१॥ एवं धर्मिभ्यां स्थूलसूक्ष्माभ्यां देहाभ्यां प्रत्यगात्मानं विविच्य तद्ध. मेभ्योऽपि विविनक्ति-कामेति । कामः स्त्र्यादिविषयकोऽभिलाषः, केनचित्तत्प्रतिघाते कृतेऽभिज्वलनात्मकान्तःकरणवृत्तिः क्रोधः, तदाद्या विकृतिर्विक्रिया भ्रान्तिजन्यतया स्वसमानधर्मिणि भ्रान्तिजन्य स्वस्वरूपाज्ञानजाध्यासहेतुके सूक्ष्मशरीरेऽस्ति, न तु प्रतीचि प्रत्यगात्मतत्त्वे तस्याऽसंगतयाऽन्यधर्मासंस्पृष्टत्वात् । ननु तर्हि मास्त्वन्यधर्मसंस्पर्श: प्रतीचि, कत्तत्वादय: स्वधर्मा एव कि न स्युः ? तथा च तेषां सत्त्वात्कथमसंगतेत्याशक्य निर्धर्मकश्रुतिविरोधान्मैवमित्याह-कर्तृत्वाोति । कत्तु त्वं कारकान्तरैरप्रयोज्यत्वे सति कारकान्तरप्रयो. क्तृत्वलक्षणं तदाद्या सकला कल्पना हङ्कतावहमाकारान्तःकरणवृत्तावेव, न प्रतीचि; तस्य कूटस्थतया क्रियासंसर्गशून्यत्वात् । कर्तृत्वाद्यभावादेव तस्य धर्माधर्मी पुण्यपापे, तत्फले स्वर्गनरको, जन्म अपूर्वदेहस. म्बन्धः, मृत्युरुपात्तदेहविच्छेदः, सुखं स्त्रगादिविषयभोगजन्या चित्त. वृत्तिरालादरूपा, अकं दुःखमनिष्टादिसम्बन्धजन्यसन्तापरूपाऽन्तःकरणवृत्तिरेते सर्वे धर्माः “योग्यं योग्येन सम्बध्यते' इति न्यायेना. नृतवपुषि अनिर्वाच्याज्ञानकार्यतया निर्वाच्यात्मके सूक्ष्म लिङ्गशरीरं, अथ च स्थूलदेहे यथायथं भवन्ति; न तु निर्धर्मके कूटस्थे प्रत्यगात्मतत्त्वे इत्यर्थः ॥ ४१ ॥
योऽयं देहोऽनृतजडमया जन्मनः प्रागभावो मृत्युग्रस्तोऽखिलमलगृहं त्वंपदार्थः कथं स्यात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #86
--------------------------------------------------------------------------
________________
५४
प्रत्यक्तत्त्वचिन्तामा जाग्रत्कालादितरसमये नान्वयो यस्य दृष्टः तस्माद्भिन्नोऽनुभववपुषा प्रत्यगात्मा विभाति ॥४२॥
एवं देहद्वयतधर्मेभ्यः प्रत्यगात्मानं विविच्यापि सर्वजनानां देहाभिमानस्य दृढतरत्वात्तस्यैव सर्वानर्थमूलत्वात्तत्परित्यागमात्रेण च मोक्षस्य करप्राप्तप्रायत्वात्तन्निरासाय "बहुकृत्वोऽपि पथ्य वदितव्यम्" इति न्यायेन देहासारता प्रतिपादयन् पुनश्च ततः प्रत्यगात्मानं विवेचयतियोऽयमिति। योऽयं सर्वप्रत्यक्षसिद्धोऽनिर्वाच्याज्ञानकार्यत्वादनृतजडात्मको देहः जन्मन:प्राक पूर्वमभावो यस्य स प्रागभावप्रतियोगितया घटादिवदनित्यः, अत एव मृत्युग्रस्तो ध्वंसप्रतियोगी, अखिल्लमलानां विण्मूत्रश्लेष्माऽसृगादीनामागारभूतः कथं त्वंपदार्थः स्यादिति सम्बन्धः । तथा च अत्यन्तसारत्वाद्विवेकिना अनात्मत्वेन निश्चेतुं शक्योऽयं देहो मृत्पिण्डादिवदचेतनत्वान्न कथमपि त्वंपदार्थ इति भावः । किञ्च, जन्मनः प्राङ मरणादूर्ध्व नास्तीत्येतावतैवानित्य इति न, अपितु जाग्रस्कालादितरसमये स्वप्नसुषुप्तिमूस्विपि यस्य देहस्यान्वयोऽनुवृत्तिर्न दृष्टः; स कथं नित्यः सर्वावस्थानुगतस्त्वंपदार्थः स्यात् ? तस्मात्स्थूलदेहात्प्रत्यगात्मा त्वंपदार्थोऽनुभवरूपेण स्वप्रकाशचिद्रूपतया भिन्नोऽत्यन्तविलक्षण: साक्षी स्वज्योतिषा प्रकाशते इत्यर्थः ॥ ४२ ॥
सूक्ष्मः सुप्तौ व्रजति विलयं त्वं सुषुप्त्यैकसाक्षी
दृश्योऽसौ त्वं दूगसि विमलस्त्वं स्थिरश्चञ्चलोऽयम् । एकोऽसि त्वं विविधकलना लिङ्गदेहोऽस्त्यनेको भिन्नोऽतस्त्वं निगमवचनैर्विद्धि शुद्वात्मतत्त्वम् ४३
एवं देहादिभ्यो विविक्तं त्वंपदार्थ प्रत्यगात्मानमनुभवारोहाय सूक्ष्मशरीराद्विरुद्धधर्मतया पृथक् कुर्वन्नुपदिशति-सुक्ष्म इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #87
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
५५ लिङ्गदेहः सुप्तौ सुषुप्त्यवस्थायां स्वहेत्वविद्यायां लयमेति । त्वं तदभावप्रकाशकतया तत्कारणस्याज्ञानस्य साक्षाद् द्रष्टा। घटादिवल्लिङ्गदेहः साक्षिभास्यतया दृश्यो दर्शनकमवास्ति। त्वमेतत्संसर्गरहितत्वात्स्वच्छदृगसि। स्फूर्तिरूपतया कस्यापि ज्ञानस्य कर्म न भवसि । अयन्त्वभ्रादिपदार्थवदत्यन्तचलतया न स्थायी । त्वन्तु स्थिरः, तद्भावाभावसाक्षितया नित्यकूटस्थोऽसि । विविधानेककलनारूपतयानेकोऽनेकावयवसमुदायो लिङ्गदेहोऽस्ति । त्वं सर्वावस्थासु साक्षिरूपेण सोऽहमिति प्रत्यभिज्ञायमानत्वादेकोऽसि। अतस्त्वं तस्माल्लिङ्गदेहाद्भिन्नोऽतीवविलक्षणः शुद्धं देहद्वयतद्धर्मासंस्पृष्टतया निर्मलमात्मतत्त्वं प्रत्यगात्मस्वरूपम् "असंगो ह्ययं पुरुषः" (४ । ३।१४) "असंगो नहि सजते" (बृ० ४।४। २२) "सपर्यगाच्छुक्रमकायमत्रणम्' ( ई०८) "अप्राणो हामनाः शुभ्रः” ( मुण्ड० २ । १ । २। ) इत्यादिनिगमकदम्बैर्विद्धि, जानीहीत्यर्थः ॥ ४३ ॥
धीधर्माणां भ्रमजनिधियां साक्षिणः सिद्धिरिष्टा
तत्प्रत्यक्षं न हि करणजे ह्यान्तरत्वादमीषाम् । भावाभावौ सकलमनसां वेत्ति साक्ष्येव तस्माद्
ज्ञेयो भिन्नः सकलकरणात्प्रत्यगात्माऽनुभूत्या ४४ स्यादेतत्, यदि कश्चित्साक्षी देहद्वयविलक्षणः सिद्धत्, प्रमात्रादिचतुष्टयेन समस्तव्यवहारसंभवात्, साक्षिकल्पनां विनाऽनुपपत्त्यभावात्, साक्षिस्वरूपानिरूपणाच्च । तथाहि-न तावज्जीवान्तर्गत: साक्षी, तथात्वे प्रमातैवासी भवेत् । नहि साक्षित्वं नामापरमस्ति । ब्रह्मान्तर्भावे तु तस्य श्रुत्यैकसमधिगम्यत्वात् संसारसमये नाविर्भावाच्च । साक्षिप्रत्यक्षं नाम व्यवहाराङ्गत्वेन वेदान्तवादपरिकल्पितं न सिद्ध्येत् । यत: सकलकरणगोचरत्वाञ्च न प्रत्यक्षगम्य: । नाप्यागमो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #88
--------------------------------------------------------------------------
________________
प्रत्यकूतत्त्वचिन्तामणी
जीवब्रह्मणोरन्यतरस्य तद्व्यतिरिक्तस्य साक्षित्वं प्रतिपादयन् दृश्यते । तस्मात्प्रमाणाभावान्न साक्षी नाम कश्चिदस्तीत्याशक्य सर्वैरपि साक्षिस्वरूपमभ्युपगन्तव्यम्, अन्यथा व्यवहारानुपपत्तेरित्यभिप्रेत्याह -- धीधर्माणामिति । ज्ञानरागद्वेषप्रयत्नादीनां बुद्धिधर्माणां तावदनुभूयमानत्वमुपलभ्यते । न च तेषां प्रमाणगम्यत्वमस्ति । प्रत्यक्षं तावद् द्विविधमभ्युपगतं बाह्यमाभ्यन्तरश्च । न तावद् बाह्य: प्रत्यक्षं ज्ञानादिग्राहकम्, तस्यात्मनि प्रवृत्त्यभावादित्यभिप्रेत्याह - तत्प्रत्यचमिति । अमीषां बुद्धिधर्माणां हि परैरपि आत्मधर्मत्वाभ्युपगमेनान्तरत्वं स्वीकृतमिति प्रसिद्विद्योतनाय हिशब्दः । न च मनोजन्य प्रत्यक्षत्वमपि तेषां सम्भवति, वृत्तिविषयवृत्त्यन्तरानङ्गीकारात् कर्मकर्तृ विरोधप्रसङ्गाच्च; विमता धीधर्माः स्वातिरिक्तग्राहक ग्राह्याः, अचेतनत्वाच्छब्दादिवदित्याद्यनुमानाच्च । परिशेषात्साक्षिप्रत्यक्षगम्यत्वमेव तेषामित्यभिप्रेत्याह - साक्षि इति । साचादेतद्रष्ट भूतात्साचिणः सकाशादेतेषां सिद्धिरिष्टा विद्वद्भिरिति शेषः । किञ्च भ्रमजनिधियां भ्रान्तिजनितप्रत्ययानां सिद्धिर्न तावत्प्रमाणात्, तेषां प्रमाणबाध्यता विरोधातू, न स्वत:, तेषां परतस्त्वस्वीकारात् । परिशेषात्साक्षिण एव तत्सिद्धिः । किञ्च, सकलमनसां समस्तबुद्धिवृत्तानां भावाभावा आविर्भाव तिरोभावा साक्ष्येव वेत्ति । तस्मात्सकलकरणात् समस्तलिङ्गशरीरात् प्रत्यगात्मा त्वंपदार्थो भिन्नः अत्यन्त विलक्षणो ऽनुभूत्या स्वप्रकाशमहिम्ना स्वात्मत्वेनैव ज्ञेयो बोद्धव्य इत्यर्थः । अतस्तत्त्वमसीति वाक्यप्रमाणज्ञानादज्ञानाभिभवे सति स एव साक्षी संसारापमर्हेनावभासमाना ब्रह्मभाव इत्युच्यते । साक्षिरूपस्य स्वयंप्रकाशत्वेन प्रत्यक्षत्वाच्च न प्रमाणवेद्यत्वप्रसङ्गः । तस्मात्प्रमातृप्रमाणप्रमेयप्रमितिभेदविभ्रमाधिष्ठानतया प्रतिभासतस्तदन्तर्भावेऽपि वस्तुतो ब्रह्मत्वमेवेति न किञ्चिदनुपपन्नमिति भावः ॥ ४४ ॥
"
तत्साक्षिणः
५६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #89
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । ज्ञानं ज्ञेयं युगपदितरः सप्रमावेष साक्षी
स्वीयस्फूर्त्या व्यवहृतिभुवि स्फारयेत्स्वप्रकाशः। स्वप्ने सर्व सविषयधिय स्फोरयत्नात्मभासा सूक्ष्मान्भागानिरवधिदृशा भासयंश्चावसेयः॥४॥
जाग्रत्स्वप्नावस्थयोः साधकत्वेन विविच्य साक्षिणं पुनर्दर्शयतिज्ञानमिति । ज्ञानं जानातीति क्रिया। ज्ञेयं तत्कर्मतया ज्ञाततायो घटादिः। प्रमाता जानामीति क्रियाश्रयान्त:करणावच्छिन्नं चैतन्यम् । एतत्त्रयं ज्ञानं ज्ञेयं सप्रमातृ प्रमात्रा सह वर्तते इति सप्रमात । एष साक्षी इतरस्तेभ्यो विलक्षण एव सन् युगपदेकदैव खोयस्फूर्त्या स्वरूपप्रकाशेन स्वयंप्रकाश इतरनिरपेक्षप्रकाशो व्यवहृतिभुवि व्यवहारभूमौ जाग्रद्दशायां स्फोरयेत् प्रकाशयतीत्यर्थः । तदुक्तम्
'करिठच क्रियां तद्वद् व्यावृत्तविषयानपि* | स्फोरयेदेकयत्नेन योऽसौ साक्ष्यत्र चिद्वपुः ।।" इति ।
स्वप्ने स्वप्नावस्थायां सर्व सविषयधियं विषयसहितं तज्ज्ञानञ्चात्मभासा स्वरूपचैतन्येन प्रकाशयन् सूक्ष्मान् वासनामयान् भोगान् शब्दादीन् भोग्यत्वाकारेण भासयन् स्वीकुर्वन्निवापरिच्छिन्नदृष्टयाऽवसेयो निश्चेतव्यः "अत्रायं पुरुषः स्वयंज्योतिर्भवति" (बृ०४। ३ । १४ ) इति श्रुतेरित्यर्थः ।। ४५ ।।
सुप्तौ सर्व व्रजति विलयं मातृमानादि विश्वं
द्रष्टुष्टेन भवति लयो नाशशून्यत्वहेतोः।
* व्यवहारविषयानपि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #90
--------------------------------------------------------------------------
________________
५८
प्रत्यक्तत्त्वचिन्तामण तत्राज्ञानं सकलविलयं स्फोरयन्बोधरूपो
निश्चेतव्यः सुखवपुरयं प्रत्यगात्मा तुरीयः ॥
जागत्स्वप्नावस्थयोः सर्वबुद्धिवृत्त्यवभासकतया साक्षिणं प्रसाध्य सुप्तौ तल्लयप्रकाशकत्वेन तं साधयति --सुप्ताविति। सुप्त्यवस्थायां सर्व मातृमानादि विश्व स्वकारणभूताज्ञाने विलयं व्रजति । तत्र सर्वबुद्धिवृत्तिविलयावभासकत्वेन द्रष्टुः स्वरूपभूताया दृष्टेर्न विलयो भवति, तन्नाशस्य ससाक्षिकत्वे साक्ष्यन्तरकल्पने तस्यापि तादवस्थ्यादनवस्थानादाद्यस्यैवावस्थानात् । निःसाक्षिकत्वे तु साधकाभावादेव साक्षिविनाशासिद्धेः। प्रत्युत "नहि द्रष्टुष्टेर्विपरिलोपो विद्यते - विनाशित्वात्' (बृ. ४ । ३ । २३) "अविनाशी वा अरे यमात्मा।" (वृ० ४।५।१४) इत्याद्याः शतं श्रुतयोऽपि तस्य नित्यतां गमयन्तीत्यर्थः । यद्यात्मनोऽपि नाश: स्यात्तर्हि सुषुप्तेस्तत्सुखस्य चानुभवितुरभावादुत्थितस्य 'सुखमहमस्वाप्सम्' इति स्वापसुखयोः स्मरणं न स्यादिति तत्परामर्शान्यथानुपपत्त्या तत्राज्ञानानुभवितृत्वेन साक्षिणं दर्शयतितत्रेति। सकलस्य स्थूलसूक्ष्मकार्यजातस्य विलयो यस्मिंस्तदज्ञानं कर्मीभूतं भासयन्ननुभवन् नित्यज्ञानघनो जागरे तत्परामर्शान्यथानुपपत्त्या निश्चेतव्यः-सर्वविलयभासकत्वेन स्वयं निरतिशयानन्दरूपः प्रत्यगात्मा तुरीयरूपोऽवस्थात्रयानुगतभानरूपतया त्वंपदार्थोऽसङ्गचिद्रूपत्वेनाध्यवसेय इत्यर्थः। नन्ववस्थात्रयसम्बन्धस्य सर्वानुभव. सिद्धत्वात् कथमस्यासंगत्वमिति शङ्को परिजिहीर्षः “शिवमद्वैतं चतुर्थ मन्यन्ते" ( माण्डू० ७) इति श्रुतिसिद्धमर्थमवस्थात्रयानुगतत्वेनाप्यसंगत्वरूपं दर्शयति-तुरीय इति । अयं भाव:-यद्यात्मन्यवः स्थात्रयं योगपद्येनानुवर्तेत, दहनपचनप्रकाशनशक्तय इव वह्नौ, यदि वा एकावस्थानुभूताः कतिपये वा धर्मा अवस्थान्तरेऽनुभूयेरन्, यथा बाल्याद्यवस्थानुभूता रूपगोत्रजातिप्रभृतयः शरीरयौवनेऽप्यनुभूयन्ते,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #91
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
५-६
अवस्थात्रयस्य
तदा भवेदात्मा तत्सङ्गी । न त्वेवम्, स्वप्नदृश्यमात्रस्य जागरे बाधाद्, जाग्रहश्यमात्रस्य च स्वप्ने तिरोधानात्, तदुभयदृश्यस्य सुषुप्तौ विलयात्, सुषुप्तेश्च तयोर प्रतिभासाद् द्रष्टैव केव तस्थात्रयेऽनुवर्त्तमानः प्रत्यभिज्ञयैकोऽनुभूयते । तदियमनुवर्त्तमानैकवस्तुनि पर्यायेण प्रतिभासमानस्यानेकस्यैककाले अपरस्याननुवृत्तिर्मन्दान्धकारे नदीव, प्रावलम्बिजरल्लतायां क्रमारोपितवककाष्ठतरुमूल नूप्रदर भुजाङ्गादीनामिव मिथ्यात्वमवगमयतीति हेतोरध्यस्तैः पदार्थैरधिष्ठानस्यासंस्पर्शीदसङ्गत्वसिद्धिरिति । " स यत्तत्र किञ्चित् पश्यत्यनन्वागतस्तेन भवति " "ग्रसंग हायं पुरुष: ( बृ० ४ | ३ | १५ ) इति श्रुतिरप्य संगत्वादननुवृत्ति दर्शयन्ती मुमेवार्थ द्रढयति "संगो नहि सज्जते" ( वृ० ४ । ४ २२ ) इति च श्रुत्यन्तरम् । तथा चावस्थात्रयाधिष्ठानत्वाद् बाधकान्तरापरिशेषाच्चात्मनः सत्यत्वं सिद्धमिति ॥ ४६ ॥
देहादन्योऽनृतजडमघान् कल्पितानात्मनीमान् स्वीयस्फुखिलहृदि गतः स्फारयन्नेव भाति । मानाकाङ्क्षा कर्यासह भवेत्स्वप्रकाशे ततोऽसौ
ज्ञातव्येोऽन्तः सकलधिषणावृत्तिनाक्षी चिदात्मा ४७
नन्ववस्थात्रयानुगतस्तदवभासकञ्च प्रत्यगात्मा प्रमाणमन्तरेण कथं सिद्धेत् ? नहि प्रमाणविरहिणो नरशृङ्गादेः सत्त्वं पश्यामः, तथा च सात्रिरूपत्वं पदार्थसिद्धये प्रमाणमवश्यं वक्तव्यमित्याशङ्क्य, प्रकाशस्वभावस्य जडवस्तुन एव प्रकाशकान्तरापेक्षा, न स्वप्रकाश. स्वभावस्यात्मन इत्याशयेनाह - देहादीनिति । योऽखिलहृदि गत एक एवनिर्वाच्या विद्याकार्याऽनृतजडमयान् स्वस्वरूपे एव कल्पितानिमान् साक्षिप्रत्यक्षसिद्धान् देहादीन् सकलविकारजातान् स्वरूपचैतन्येन स्फोरयन्नेव प्रकाशते, तस्मिन्निहावेद्यत्वे सत्यपरोक्षस्वभावे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #92
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामण स्वप्रकाशे इतरनिरपेक्षप्रकाशे मानप्रवृत्तः प्राकृतत्साधकत्वेन प्रकाशमाने इति यावत् स्वस्वरूपपरिच्छित्तिं प्रति कथं प्रमाणापेक्षेति योजना। अयं भाव:--अन्तःकरणवृत्तिप्रतिबिम्बितं हि चैतन्यं प्रमाणम्, वृत्तिमदन्तःकरणप्रतिविम्बितं प्रमातृ, तदुभयं प्रमेयावभाससमये नानवभासमानं भवति। तथा सति प्रमेयस्यैव स्वत: स्फुरणशङ्कापातादिदोषप्रसङ्गात् । तदवभासश्च न प्रमात्रन्तरात् प्रमाणान्तराद्वा भवति, अनवस्थाप्रसङ्गादनुपपत्तेश्च। इत्यत: स्वप्रकाशतयैव प्रमातृप्रमाणप्रमेयानामवभासकस्यात्मनः सिद्धिरिति स्वप्रकाशे साक्षिणि किं प्रमाणमिति प्रश्न एव दुर्घट इति। तस्मादन्तः सर्वान्तरत्वेन सकलबुद्धिवृत्तिसाक्षितया चिदात्माऽसौ त्वंपदार्थो ज्ञातव्य इत्यर्थः ॥ ४७ ॥ नन्वस्त्वेवं प्रतिवपुरयं साक्ष्यतोऽद्वतहानि
नोकोऽयं सकलवपुषां भासकोऽस्त्यद्वितीयः । प्रत्यक्षेण त्वमहमिति नः सर्वदेहेषु भिन्नो
भात्यात्माऽयं सकलमतितः शास्त्रता युक्तितोऽपि ४८
सकल विश्वगतप्रमात्रादीनामवभासक: साक्षी एक एवेत्युक्तम्, 'अखिलहदि गतः' इति । अत्र देहादिव्यतिरिक्तसाक्षिस्वरूपमङ्गीकृत्य तदैक्यमाक्षिपति-नन्विति । अस्त्वेवं देहादिभ्यो व्यतिरिक्तसाक्षिसिद्धिर्भवतु, न तत्र विवदामहे । सर्वस्मि जगति साक्षिण ऐक्यन्तु सर्वलोकशास्त्रविरुद्धं कथं स्वीकृतम् ? यतः प्रतिवपुः प्रतिशरीरमयं लोकबुद्धिगत: साक्षो भिन्न एवावभासते । किं ततस्तत्राह-प्रत इति । अद्वैत इति च्छेदः । अतः साक्षिभेदादद्वैतहानिः स्यात् । ननु कथमद्वैतहानिरेकस्यैव साक्षिण: सर्वावभासकस्य स्वीकारादित्याशक्य तथा स्वीकार एव दुर्घट इत्याह-नहीति । एकोऽयमस्मदादिबुद्धिगतः सकलवपुषां सकलस्थूलसूक्ष्मदेहाना ब्रह्मादिस्तम्बपर्यन्तानां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #93
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । भासको नास्ति, येनाद्वितीय एव स्यात, तेन चाद्वैतहानिर्न स्यात् । किञ्च, साक्ष्यैक्यवादी प्रत्यक्षानुमानागमविरुद्धं साक्ष्येकत्वं कथं स्वीकरोति ? यतो नोऽस्माकं प्रत्यक्षेण सर्वदेहेषु भिन्नोऽयमात्मा भाति, सकलमतित: सर्वप्राणिनां पृथक पृथग्विनिश्चयात्; शास्त्रत: नानाधिकारसाधनादिप्रतिपादकवेदादपि; युक्तित एकस्मिन् सर्वदेहसाक्षिणि चैत्रावगते वस्तुनि सर्वजोवानामवगतिः स्यादित्याद्यनुपपत्तिरूपान्नयादिति योजना ॥ ४८ ॥ नेयं भ्रान्तिर्निखिलजनताव्याहतप्रत्ययत्वाद्
धर्माधर्मावगतिकरणौतवाक्यप्रसिद्धः । बद्धो मुक्तः कुमतिरनघो दुःख्यदुःखीति भानं सिद्ध येदेतत्कथमपि न ते साक्षिभेदं विनाद्धा॥४८॥
ननु शास्त्रकसमधिगम्ये साक्षिणि भेदप्रतिभासा भ्रम एव स्यादित्याशक्य कारणदोषबाधकप्रत्ययानुपलम्भान्मैवमित्याह-नेयमिति । इयं सातिभेदप्रतीतिर्न भ्रान्तिः, कुता निखिलजनताव्याहतप्रत्ययत्वात्---जनानां शास्त्राधिकारियों समूहो जनता निखिला या जनता तस्या अव्याहतप्रत्ययत्वाद्, अबाधितप्रतीतिभावात् । किञ्च, धर्माधर्मयोरवगतिर्ज्ञानमात्मज्ञानञ्च तत्करणानि औतवाक्यानि तेषु प्रसिद्धः । तथा च शास्त्रेऽपि नानाधिकारिकनानासाधनाद्युपदेशके सातिभेदः सिद्ध इति न तत्प्रत्ययो भ्रम इत्यर्थः। अपि चात्रानुमानेनाप्यात्मभेदमवगच्छामः। तथा हि-प्रतिवादिशरीरं वादिशरीरगतात्मनो भोगायतनं न भवति, वादिशरीरादन्यशरीरत्वात्, गतप्राणशरीरवत् । तथा विमतानि शरीराणि स्वसंख्यासंख्येयात्मभिरात्मवन्ति, शरीरव्यक्तित्वातू, प्रतिवादिशरीरवदिति । तथा देवतिर्यङ्मनुष्यागतानि सुखदुःखादीनि भिन्नाश्रयाणि, युगपद्वर्तमानविरुद्धानेकधर्मत्वात्,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #94
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी सन्तापशैत्यादिवद्, इत्यनुमानसिद्धमर्थमभिप्रेत्याह-बद्ध इति । कश्चिद्बद्धः संसारी, कश्चिन्मुक्त: स्वरूपावस्थितिमान, कश्चित्कुमतिः पापाचरणशीलः, कश्चिदनघः सर्वदोषविनिमुक्तः धर्माचरणशीलः, कश्चिद् दुःखी पापफलभोक्ता, कश्चिददुःखी धर्मफलभोक्त्यादि. भेदप्रतिभासः कथञ्चनापि तव मते सातिभेदं विना अद्धा साक्षाधु . क्तियुक्ततया न सिदित्यर्थः ।। ४६ ॥
आत्मैकत्वे निखिलवपुषां व्यापृतेः संकरः स्याद् नह्ये केनावगत इतरो वेत्ति भुङक्तेऽन्यभुक्तम् । नान्योऽन्यन्ते विविधमतिगाज्ञातुमन्तः समर्था धर्मान् जीवास्तत इह कथं सम्मतन्ते तदैक्यम् ॥५०॥
सर्वशरीराणामेकचेतनाधिष्ठेयत्वे सति अशेषशरीरगतसुखदुःखाद्यनुसन्धानप्रसंगः, न च तथा दृश्यते । ततश्चान्योन्यभोक्तनुसन्धानमन्तरेण प्रतिशरीरं व्यवस्थितसुखदुःखादिभोगोऽनुपपद्यमानो भोक्तभेदं कल्पयतीत्यर्थापत्तिरप्यात्मभेदं साधयतीत्याहआत्मेति । आत्मन एकत्वे निखिलदेहानां तत्स्थजीवानां व्यवहारस्य संकरोऽव्यवस्थितिरेव स्यात् । न चैतद् दृष्टम् । ना केन देवदत्तेनावगते वस्तुनि इतरश्चैत्रस्तद्वस्तु वेत्ति । अन्येन विष्णुशर्मणा भुक्तं वाऽन्यश्चन्द्रशर्मा भुङ्क्त। ते जीवा देवदत्तादयोऽन्योऽन्य विविधमतिगान् परस्परं बुद्धिनिष्ठान धर्मान् सुखदुःखादीन ज्ञातुमन्तः साक्षात्कत्तुं समर्था नहि भवन्ति । ततो भेदव्यव. हारान्यथानुपपत्त्या विरोधात्तदैक्यं साक्षिण एकत्वं तवेह शास्त्रार्थनिर्णये कथं केन प्रकारेण कया युक्त्या सम्मतम ? इति वदेति शेषः ॥५०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #95
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
शास्त्रं नानाविधफल परं बोधयेत् कर्म भिन्नं नात्मैकत्वे फलति विविधानेककर्त्त स्थमेवम् । प्रत्यक्षाद्यैरवगतमिमं नात्मभेदं प्रमा
सामर्थ्यन्ते श्रुतिरपि तथा नात्मतत्वैकनिष्ठा ॥५१
६३
किव विरुद्धानेकफलोद्देशेनैक कालानुष्ठेयानेकसाधनविधायि शास्त्र' न नियोज्यभेदमन्तरेणावकल्पते । नहि चेतनादन्यस्य नियोज्यत्वमस्ति । ततश्च श्रुतार्थापत्तिरपि चेतनभेदं गमयतीत्याह-शास्त्रमिति । नानाविधफल परमनेकाधिकारिणां पृथक् पृथक् कर्म अनेकप्रकारफलकमुपदिशच्छास्त्रं वेदस्तन्मूलकस्मृत्यादिरूपश्च विविध कामनाभेदेनाने के धिकारिणस्तत्रस्थं तेषु बोधकतया तिष्ठतीति तथा । शास्त्रमात्मन एकत्वे न फलति फलवन्न भवति । तथा चाध्ययनविधिविरोधादपि साच्येकत्वमभ्युपगन्तु न युक्तमित्यर्थः । तदेवं प्रत्यचानुमानार्थापत्तिभिः प्रतिशरीरमात्मभेदा निश्चित इत्याह- प्रत्यक्षाचैरिति । इमं प्रत्यक्षादिप्रमाणावगतमात्मभेदं प्रमार्टुमपह्नोतुं तव प्रमाणकुशलस्यापि न सामर्थ्यम् । नहि प्रमाणकुशलाः प्रमाणविरुद्धं प्रतिपादयितुं शक्नुवन्ति, अन्यथा प्रमाणकुशलत्वव्याघातादिति भावः । न हि वयं स्वकपोल कल्पनया साक्ष्येकत्वं प्रतिपादयामः, किन्तु यथा शास्त्रमिति कथं तत्र तवानुपत्तिः ? इति तत्राह - श्रुतिरपीति । एकात्म्य प्रतिपादकं शास्त्रमपि प्रत्यक्षादिप्रमाणविरोधात् अपापश्लोकश्रवणवदर्थवाद इति न त्वैक्यपरमित्यर्थः ॥ ५१ ॥
नैवं श्रौते निरवधिपदे प्रत्यगात्मैक्यतत्त्वे शुष्कैस्तर्केः कथमपि भिदा नैव सिद्धभेदभिन्ने । ear देवोऽखिलमतिपतिर्गुढ एवाद्वितीयो नान्योऽस्तीत्यपि निगमवागात्मभेदं निराह ५२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #96
--------------------------------------------------------------------------
________________
प्रत्यकूतत्त्वचिन्तामणैौ
स्यादेतत्, यदि वेदान्तप्रमाणमात्रै कगम्ये प्रत्यगात्मतत्त्वेशुष्कतर्क प्रवेशः स्यात् । नह्यतीन्द्रिये वस्तुनि लौकिक प्रत्यक्षादिभिरनुपपति: सम्भावयितुं शक्या, श्रुतिस्त्वन्यथासिद्धेत्याशयेन परिहरतिमैवमिति । श्रौते श्रुतिमात्रैकगम्ये त्रिविधपरिच्छेदशून्ये वस्तुनि सर्वान्तरत्वादखण्डैकरसे प्रत्यगात्मतत्त्वे कथभ्वनापि प्रभिन्ने स्वभावत एवाद्वितीयत्वाद्भेदवर्जिते शुष्कैस्त कैर्भिदा नैव सिद्धेात्, "नैषा तर्केण मतिरापनेया” ( काठ० २ । ८) " तर्का प्रतिष्ठानात् " ( ब्र० सू० २।१।११ ) " अचिन्त्याः खलु ये भावा न तस्तिर्केगा भावयेत्" " नाप्रतिष्ठिततर्केण गम्भीरार्थस्य निश्चयः" इति श्रुतिन्यायस्मृतिभ्यः । तदैक्यप्रतिपादिका भेदप्रतिषेधिकाश्च सन्ति सहस्रशः श्रुतय इत्याह-- एक इति । "एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा" ( श्वे० ६ । ११ ) " स वा अयं पुरुष: सर्वाषु र्पु पुरिशय: " ( वृ० २।५१८) इति " नान्योऽतोऽस्ति द्रष्टा " (बृ० ३ । ७ । २३ ) "नेह नानाऽस्ति किञ्चन" (बृ० ४ । ४ । १६) इत्यादिशास्त्रप्रामाण्यादैकात्म्यनिश्चयात् । न चायमर्थवादः, विधिप्रकरणे श्रवणाभावात् । नापि विधिः कल्प्यः, "तमेव विदित्वातिमृत्युमेति" ( श्वे० ३। ८) इत्यैकात्म्यज्ञानेन परमपुरुषार्थश्रवणात् । न च प्रमाणान्तरविरोधादेवार्थवादत्वम् । किन्त्वर्थवादस्य सतः प्रमाणान्तरविरोधे सति अन्यपरत्वादप्रामाण्यम् । नहि तत्पर वाक्यस्य प्रमाणान्तरविरोधनिमित्तमप्रामाण्यं क्वचिद् दृष्टमिति भावः । निगमवाग्वेदान्तवाणी प्रात्मभेदं निराह निराचष्टे इत्यर्थः ॥ ५२ ॥
६४
भेदाभेदा पृथगधिगतौ विद्ययाऽविद्यया तौ
यत्र द्वैतं भ्रमवशगतः पश्यतीवैति मिथ्या । भेदं श्रौतं वदति वचनं भ्रान्तिकाले तथान्या
यत्र त्वस्येत्यपि निगमगीर्बोधकाले निराह ॥ ५३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #97
--------------------------------------------------------------------------
________________
६५
प्रथमं प्रकरणम् ।
----
--
कात्मविज्ञानस्य भेदज्ञानेन विरोधोऽस्ति, विद्याऽविद्याविषयत्वेन प्रामाण्यस्य व्यवस्थितत्वादित्याह -- भेदाभेदाविति । " दूरमेते विपते विषूची अविद्या या च विद्येति ज्ञाता" ( कठ० २ । ४ ) इति श्रुत्या विद्या वेदान्तप्रमाणजन्या प्रमा, अविद्याऽनाद्यनिर्वाच्याध्यासहेतुरज्ञानम्, ताभ्यां पृथक्ततयाऽधिगता भेदाभेदा । अविद्यया भेदोधिगतः, विद्ययाऽभेदोऽधिगत इति विवेकः । तथा च श्रुतिः - ' यत्र हि द्वैतमिव भवति” (बृ०२ । ४ । १४ ) इत्यत्रेवशब्देन द्वैतप्रपञ्चस्य मिथ्यात्वमभिधाय " तदितर इतरं पश्यति" (बृ०२|४|१४ ) इति भ्रान्तिकाले तस्यामेवावस्थायां भ्रमवशगतोऽध्यासव्याप्तः पुरुषो मृषा भेदं पश्यतीति भ्रान्तिसिद्धमनुवदतीत्यर्थः । विद्याविषये च "यत्र त्वस्य सर्वमात्मैवाऽभूत्” ( बृ० २ । ४ । १४ ) इति श्रुतिः सकलव्यवहाराभावं शुद्धबोधरूपेणावस्थानश्च वदन्ती तत्केन कं पश्येत् " ( वृ० २ । ४ । १४ ) इति सकलभेदं निषेधतीत्यर्थः ॥ ५३ ॥
प्रत्यक्षेण त्वमहमिति यन्नात्मभेदावगाहि
ज्ञान' किन्तु भ्रमतिमिरजानात्मभेदावगाहि । नात्मानं तत्क्षमत उदितं वीक्षितुं वा कटाक्षात् नास्मिन्भेदं ह्यनुमितिरपि प्रत्यनीका नुमानात् ॥ ५४ ॥
यत्तूक्तं प्रत्यक्षेण त्वम्, अहम, प्रसाविति भेदमीक्षामहे इति तत्राहप्रत्यक्षेणेति । त्वमहमित्यादिप्रत्यक्षं नात्मभेदावगाहि, श्रात्मान्तरस्य बाह्येन्द्रियगोचरत्वाभ्युपगमात्, मनसश्च स्वात्मनोऽन्यत्र प्रवृत्त्यनङ्गीकारात्, तत्त्वदर्शनप्रद्वेषितया साक्षिप्रत्यक्षानाश्रययाच आत्मनः प्रत्यक्तत्वस्य भेदं न विषयीकरोतीत्यर्थः । ननु तर्हि प्रत्यक्षप्रमाणं निर्विषयमेव स्यादिति नेत्याह — किन्त्विति । किन्तु भ्रमोऽध्यासः स एव तिमिरमिव यथास्थितं वस्तु प्रावृत्य अन्यथा ग्रहणात्मकत्वात् तजन्यो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #98
--------------------------------------------------------------------------
________________
६६
प्रत्यकूतत्त्वचिन्तामणैौ
योऽनात्मभेदा देहाद्युपाधिभेदस्तदवगाहि तमेव विषयोकरोतीत्यात्मानं प्रत्यक्तत्वमुदितं यथेोक्तं कटाचादपि वीक्षितुं लेशेनापि विषयीकर्त्तु तत्प्रत्यक्षं न क्षमते, भेदज्ञानस्य प्रतियोग्यादिज्ञानपूर्वकत्वात् । प्रतियोग्याद्यात्मनोऽतीन्द्रियत्वात्प्रत्यक्षेण ग्रहीतुमशक्यतया नात्मभेदावगाहित्व ं प्रत्यक्षस्येति भावः । नापि त्वदुक्तानुमानगोचरता तदस्येत्याह - नास्मिन्निति । अस्मिन्नात्मनि भेदं नानुमितिरप्यनुमानमपि वीक्षितुं क्षमते इत्यत्राप्यनुषज्यते । तत्र हेतु: प्रत्यनीकानुमानात् तत्प्रतिद्वन्द्विरूपानुमानसद्भावादित्यर्थः । तथाहि-- विमतानि शरीराणि प्रतिवाद्यात्मनैवात्मवन्ति, शरीरव्यक्तित्वात् प्रतिवादिशरीरवत् । न चात्मनां सर्वगतत्वात्प्रतिवाद्यात्मनः सर्वशरीरसंयोगात्सर्वतात्मवादिनः सर्वशरीराणां प्रतिवाद्यात्मना आत्मवत्त्व सिद्धमेव साध्यते इति वाच्यम्, सर्वशरीराणामेकचेतनं प्रति भोगायतनत्वस्यैव सिसाधयिषितत्वात्; एकस्यैवात्मान्तराभावस्य परेषामनिष्टस्य साध्यत्वाच्चेत्यर्थः ः ।। ५४ ।।
बुद्धेर्धर्माः सुखकृतिमुखा नात्मना निर्गुणस्य
श्रेयाबन्धौ जननमरणे कल्पिता माययैते । बुद्धिद्वारा विकृतव पुषि स्वात्मतत्त्वे विशुद्धे नाध्यस्तैः क्षतिरथ गुणः खल्वधिष्ठानतत्त्वे ॥ ५५॥
यद्दपीदमुक्तं देवतिर्यङ्मनुष्यादिगतसुखदुःखादीनि भिन्नाश्रयाणि, विरुद्धानेकधर्मत्वादिति । तत्र किमनेकाश्रयत्वमात्रं साध्यते ? किं वाऽनेकात्माश्रयत्वमिति ? प्राद्ये सिद्धसाधनम्, अन्तःकरणामनेकत्वात्; तदाश्रयत्वाभ्युपगमाच्च सुखदुःखादीनामिति । द्वितीये साध्यविकलो दृष्टान्तः, क्वचिदप्यनेकात्माश्रयधर्मा सिद्धेरित्याशयेनाह - बुद्धरिति । सुखादयो बुद्धेरेव धर्माः, न तु निर्गुणस्यात्मतत्त्वस्य,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #99
--------------------------------------------------------------------------
________________
प्रथम प्रकरणम् । तस्य निर्द्धर्मकत्वात्। “कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा।" (वृ०१। ६३) इत्याद्युप्रकम्य "सर्व मन एव" (बृ० १ । ६ । ३) इति श्रुतेः । "इच्छा द्वेषः सुख दुःखम्' (गी० १३ । ६) इत्यादिस्मृतेश्च । श्रेयोबन्धी ज्ञानाज्ञानप्रयुक्तौ नैवात्मतत्त्वस्य । यद्यपि स्वाज्ञानेन प्रत्यगात्मतत्त्वे एव बुद्धवादिद्वारा बन्धोऽपि कल्पितस्तत्त्वज्ञानेन तद्वाधे स्वस्वरूपावस्थानलक्षणो मोक्षोऽपि प्रत्यक्तत्त्वस्यैवोपचर्यते। तथापि तस्य नित्यमुक्ततया बुद्ध्याद्याध्यासिकसम्बन्धतदभावाभ्यां तयोर्व्यवहारो न तु वस्तुत: प्रतीचस्तत्सम्बन्ध इत्याह-माययेति । मायया नित्यकूटस्थयाऽसंस्पृष्टेऽपि वस्तुनि अत्यन्तासम्भावितबन्धमोक्षादिभेदव्यवहारघटनापटीयस्या बुद्धिद्वारा बुद्धयाधुपाधिद्वारा अविकृतस्वरूपे स्वात्मतत्त्वे विशुद्ध वस्तुतो मायातत्कार्यसम्पर्कशून्ये एते सर्वे स्थूलसूक्ष्मशरीरगता धर्मा आरोपिताः। नन्वस्तु तर्हि मायिकविकारैरेव कोटस्थ्यभङ्ग इत्यत आह-नहीति । अध्यस्तैः कल्पितविकारैरधिष्ठानतत्त्वे मायातत्कार्याध्यासाधिष्ठाने खलु लोकप्रसिद्धोषररज्जुशुक्तयादा सलिलभुजङ्गरजताद्यध्यस्तैर्वस्तुभिरित्र गुणस्तत्कृतातिशयाधानलक्षणः, अथ क्षतिस्तस्कृतदोषाधानलक्षणा विकृतिर्वा नास्तीत्यर्थः । तदुक्तम्- “यत्र यदध्यासरतत्कृतेन गुणेन दोषेण वाऽणुमात्रेण न स सम्बध्यते" (व० सू० भा० ११ १११) प्रतिवादिशरीरं वादिशरीरात्मनो गायतनं न भवति, वादिशरीरादन्यशरीरत्वाद्, गतप्राणशरीरवदिति। तत्र हेतुरप्रयोजकः, दृष्टान्तशरीरस्य प्राणसम्बन्धाभावादभोगायतनत्वं नान्यशरीरत्वादिति द्रष्टव्यम् ।। ५५ ॥ साक्षित्वेनाखिलजनधियां भानुवद्भासकोऽयं
बुद्धेर्भदाद्विविधवपुषां व्यापृतेः सङ्करो नो। व्योमैकत्वे घटमठमुखोपाधिभेदाद्यया खे व्यापाराणां विविधकलना तद्वदत्रापि बोध्यम् ५६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #100
--------------------------------------------------------------------------
________________
प्रत्यक् तत्त्वचिन्तामया
यत्ततमैकात्म्ये सति सर्वत्रानुसन्धानप्रसङ्गात् तस्य चाभावाद् भोगव्यवस्था ऽनुपपद्यमाना आत्मभेदं कल्पयतीति । तत्र किमात्मस्वरूपस्य सर्वत्रानुसन्धानेन भवितव्यमित्युच्यते ? किं वा भोक्तृणाम् ? इति विकल्प्य प्रथमे कल्पे उत्तरमाह - साक्षित्वेनेति । अखिलजनबुद्धिवृत्तीनां सर्वचतुर्षा भानुवत्साचित्वेनावभासकोऽयं प्रत्यगात्मा स्वत एवापरोक्षरूपः । तथा च भवत्येव सर्वत्र साक्षिरूपेणात्मस्वरूपस्यानुसन्धानं सर्वार्थानुसन्धानसमर्थसाक्षियमन्तरेण व्यवहारानुपपत्तेरिति भावः । द्वितीयस्योत्तरमाह – बुद्धेरिति । आत्मस्वरूपस्यैकत्वेप्यन्तःकरणानामनेकत्वेन तदवच्छिन्नरूपायां भोक्तृणामनेकत्वादननुसन्धानोपपत्तेरनेकशरीरिणां व्यवहारसङ्करो नास्तीत्यर्थः । तत्र दृष्टान्तमाह-व्योमैकत्व इति । यथाऽपवरकाकाशस्यैकत्वेऽपि घटशरावादिरूपेणासङ्कर व्यवहारविषयत्व तद्वत्प्रकृतेऽपि बोध्यमित्यर्थः ॥ ५६ ॥
*
तस्मात्सर्वा व्यवहृतिभिदा देहबुद्ध्यादिनिष्ठा सिद्धा तेनाचलसुखघने नास्ति भेदावकाश: । नार्कादेर्मु कुरजलार्बिम्बनाद्भेद इष्टः
श्रते तवेऽवगत इतरा बुद्धिरप्येति सर्वा ॥५७॥
तस्माद्भोगव्यवस्थाऽनुपपत्तिरन्तः करणभेदेनैवोपपन्नत्वाद्भोगव्यवस्थाया नात्मभेदं कल्पयतीति दृष्टार्थापत्तिं परिहरन् फलितमाहतस्मादिति । यस्मात् सुखदुःखादयो बुद्धायुपाधिधर्मास्तस्याश्च प्रतिशरीरं भेद एव, तस्मात् सर्वा व्यवहृतिभिदा सर्वो लौकिकवैदिकव्यवहारभेदो देहबुद्धाद्यपाधिनिष्ठा तत्रैवोपलभ्यमानतया अनात्मधर्म एव भवति । तेन भेदस्यानात्मनिष्ठत्वहेतुना सैन्धवघनवत् स्वभावत एव निश्चलानन्दैकरसे प्रत्यगात्मनि भेदशङ्कावकाश एव नास्ती
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #101
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । त्यर्थः। एतदेव दृष्टान्तेन द्रढयति-नहीति । अर्कादेर्जलदर्पणादौ प्रतिबिम्बनादुपाधिभेदेनानेकरूपेण भासमानस्यापि नहि तेन सूर्यादिवस्तुतो भिद्यते। तथाऽऽत्मतत्त्वमपि बुद्धयाधुपाधिभेदेनानेकत्वेन भासमानं न वस्तुतो भिद्यते । किञ्च, सर्वो भेदव्यवहारोऽज्ञानप्रयुक्तस्तत्त्वज्ञानप. र्यन्त एवास्तीत्याह-श्रौत इति । तत्त्वमस्यादिवाक्यजन्यज्ञाननिवाऽज्ञानविषये प्रत्यगात्मनि साक्षात्कृते इतरा भेदव्यवहारगोचरा सर्वापि बुद्धिवृत्तिरप्येति मूलबाधेनैव बाधितत्वाद्विलयं प्राप्नोतीत्यर्थः ॥ ५७ ॥ मिथ्याभेदं स्थिरचरवपुर्निष्ठमुद्दिश्य शास्त्रं
भिन्न कम्ोपदिशति फले बद्धतृष्णं मनुष्यम् । दृष्ट्वा तस्मै न तु निगमगीर्भेदनिष्ठात्मनिष्ठा
द्वाराद्वैते फलति सुमतिस्वान्तपद्मार्कमेयम्॥५॥ अत एवौपाधिकरूपाणामनेकत्वात्तेषु संसारप्रतिभासादनेकनियोज्यप्रसिद्धरनेकफलोद्देशेन बहुसाधनविधानोपपत्तेर्न श्रुतार्थापत्तिविरोधोऽपीत्यभिप्रेत्याह-मिथ्येति । अनिर्वाच्या ज्ञानकार्यतया सदसद्भयां निर्वक्तुमशक्यं भेदं चराचरशरीरनिष्ठमनूद्य भिन्नाधिकारिकत्र्तृकं कर्म पृथक् पृथक फले स्वर्गापवर्गादिरूपे बद्धा तृष्णा यस्य तं मनुष्यं कर्माद्यधिकारिणं दृष्ट्वा तस्मै शास्त्रमुपदिशति। न तु तावता भ्रान्तजनतोषहेतूपदेशमात्रेण निगमवाणी भेदनिष्ठेत्यध्यवसातुं शक्यम् । किन्तु सत्त्वशुद्धिहेतुकर्मोपासनोपदेशपरम्परया प्रत्यगात्मनिष्ठोत्पादनद्वारा अद्वैतेऽखण्डवस्तुनि फलवती भवति। यतो वेदवाणी सुष्ठुकर्माद्यनुष्ठानोपायेन शोधिता मतिरन्तःकरणं यस्य तस्य स्वान्तमेव मुकुलीकृतं पद्मं तस्य विकसने ब्रह्माभिमुखीकरणेऽर्कस्य सूर्यस्य भा प्रभा इयमिति योजना। फल्लवद्ब्रह्मसाक्षात्कारोत्पादनद्वारा ब्रह्मात्म्यैक्ये तात्पर्य्यवच्छास्त्रं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #102
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी कथमज्ञानकार्यभेदविभ्रमे फलवत् स्यात् "यत्परः शब्दः स शब्दार्थः" इति न्यायेन भेदावबोधने नैव शास्त्रतात्पर्य मिति भावः ॥ ५८ ॥ स्वप्ने द्रष्टा विविधरचनामेक एवाद्वितीयो
नानादेहान् स्थिरचरकलान् कल्पयित्वेक्षतेऽयम् । बन्धं मोक्ष जननमरणे ज्ञानमज्ञानमैक्यं
सत्यं स्वीयं त्यजति न कदा जागरेतद्वदेव ॥५६॥
तस्मादात्मभेदे प्रमाणाभावादयुक्तत्वाञ्च सर्वेषु शरीरेषु एक एवात्मा सिद्ध इतीममर्थ स्वप्नदृष्टान्तेन व्युत्पादयति-स्वप्न इति । यथा स्वप्नावस्थायामेक एवाद्वितीयो द्रष्टा नानादेहान देवतिर्यङमनुष्यादिरूपान् चराचरात्मकान् कल्पयित्वा अयम्--स्वप्रकाशतया "अत्रायं पुरुषः स्वयंज्योतिर्भवति" (बृ. ४ । ३ । १४ ) इति श्रुतिसिद्धःविविधरचनां नानासंस्थानरूपां सृष्टिमीक्षते पश्यति । बन्धं कर्तृत्वाअध्यासरूपम्, मोक्षं तद्बाधेन स्वरूपावस्थानलक्षणम, अर्थाद् बद्धं मुक्तञ्च; अपूर्वशरीरसम्बन्धरूपं जन्म, उपात्तदेहविच्छेदरूपं मरणम्, ज्ञानं स्वरूपसाक्षात्कारः, प्रज्ञानं स्वस्वरूपावरकम,अर्थादर्श तत्त्वज्ञञ्च कल्पयनिति शेषः । कल्पितनानादेहभेदेन विरुद्धव्यवहारान् पश्यन्नपि स्वीयमैक्यमेकत्वम्, सत्यं कालत्रयेप्यबाध्यम्, न कदाचन त्यजति । तद्वदेव तेनैव प्रकारेण जागरेऽज्ञानकार्यजाग्रदवस्थायामेकत्वापरित्यागेनैव कल्पितदेहभेदव्यवहारसिद्धिरप्यस्तीत्यर्थः ।। ५६ ।। एका योगी विविधतनुषु व्यापृति भिन्नरूपां
कुर्वन्नैक्यं त्यजति न कदा तद्वदेवायमात्मा। शुद्धो बुद्धोप्यचल उदितोऽध्यस्तसाक्षी स्वभावं कुर्वनानाव्यवहृतिमपि स्वात्मनोना जहाति॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #103
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । यदपीदमुक्तं---शरीराणि वसंख्यासंख्येयात्मभिरात्मवन्ति, शरीरत्वात्, प्रतिवादिशरीरवदिति । तदूषयति-~एक इति। एक एव योगी कायव्यूहदशायामनेकशरीरेषु भिन्नरूपां व्यापृतिं नानाविरुद्धचेष्टा कुर्वन्स्वात्मैकत्वं न कदापि त्यजति । तथा च शरीरत्वादिति हेतुरैकात्म्यविरोधात् कालात्ययापदिष्टश्चेति भावः । तथैवात्मा शुद्धस्तद्व्यवहारासंस्पृष्टः, बुद्धो ज्ञानघनः, अचलोऽक्रियः, अध्यस्तस्य सर्वस्यापि विश्वस्य साक्षी साक्षित्वेनैव सर्वव्यवहारावभासक उदितः। श्रुत्येति शेषः । आत्मनः स्वभावभूतमैक्यं नानाव्यवहृति विरुद्धानेकव्यवहारं कुर्वन्नपि साक्षित्वेनावभासयन्नपि नो जहाति न परित्यजतीत्यर्थः ॥ ६० ॥ बुद्धे दाद् व्यवहृतिभिदा सर्वदेहेषु सिद्धा
लेयं प्रत्यकसुखघनमजं वीक्षितुं स्यात्समर्था। वेदान्तानां विषयममृतं न प्रमाणान्तरैस्तं __ ज्ञातुं शक्तस्तनुयुगमतिर्नित्यकूटस्थमेतम् ॥६१॥
एवं साक्ष्यैक्यं वेदान्तकसमधिगम्यं प्रमाणान्तरैः कटाक्षेणापि वीक्षितुमशक्यं चोपपादितमुपसंहरन् युगपद्विरुद्धव्यवहारान्यथानुपपत्त्यभावमाह -बुद्धरिति । सर्वदेहेषु ब्रह्मादिस्थावरान्तेषु व्यवहारभिदा बुद्धेः प्रमातृत्वाद्युपाधिरूपाया भेदादेव सिद्धास्ति । इयं भिदा प्रत्यकसुखधनं परप्रेमास्पदतया सर्वान्तरानन्दैकरसम, अर्ज जन्मादि विक्रियाशून्यं वीक्षितु लेशेनापि स्प्रष्टुं समर्था न स्यात् । किञ्च, वेदान्तानां तात्पर्य विषयममृतममृतवदास्वाद्यं मोक्षरूपं प्रमाणान्तरैः प्रत्यक्षादिरूपैर्वेदान्तातिरिक्तैरतं नित्यकूटस्थं सर्वदा निर्विकारमेनं स्वत एवापरोक्षस्वभावं साक्षिणं तनुयुगे स्थूलसूक्ष्मशरीरद्वयं आत्मत्वमतिर्यस्य स ज्ञातुमनुभवितुं शक्तः समर्थो न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #104
--------------------------------------------------------------------------
________________
७२
प्रत्यक्तत्त्वचिन्तामणी भवतीति योजना। तथा च-भेदपरिच्छेदविभ्रमाभिभूतचेतस्तयाऽनाद्यनिर्वचनीयाऽविद्यया मोमुह्यमानो जन्तुः कथं प्रत्यगात्मैक्यं ज्ञातुं समर्थो भवेत्,
"इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ! ॥' (गी० ७ । २७) इति भगवद्वचनादिति भावः ॥६१ ॥
मायाशक्तिर्निखिलकलनां साम्प्रतं वा विरुद्धां
स्वाधिष्ठाने चिति फलयुता दर्शयत्या विमोक्षम् । नैल्यं व्याम्नि स्त्रजि विषधरो वार्यया रश्मिपूगे
तद्वन्मिथ्याऽऽत्मनिजगदिदं कल्पितं स्वाप्नवच्च६२ एकस्मिन्नद्वितीयेऽसंगोदासीनाकर्तृभोक्तृस्वभावतया सर्वव्यवहारानास्पदे प्रत्यगात्मतत्त्वेऽसम्भावितानेकद्वैतभेदव्यवहारप्रदर्शनहेतुमघटनघटनापटीयसी शक्तिं सर्वविश्वकारणत्वेन प्रसिद्धा प्रदर्शयंस्तत्कार्य विश्वं दृष्टान्तैः प्रदर्शयति--मायाशक्तिरिति । अत्यन्तासम्भावितप्रदर्शिनी मायाशक्तिश्चितो भेदाभेदाभ्यां निर्वस्तुमशक्यत्वेन शक्तिवत्परतन्त्रत्वेन च शक्तिः चिति फलयुता चैतन्याभासयुक्ता सती स्वस्याधिष्ठाने प्रत्यगात्मरूपे ब्रह्मणि साम्प्रतं सम्भावनाहीं विरुद्धामसम्भावितामखिलकलनां सकलव्यवहारकल्पनां दर्शयति-ऐन्द्रजालिकनटीव अविद्यमानामपि विद्यमानवद्रचयित्वा प्रत्यक्षादिव्यवहारगोचरयोग्यामापादयतीत्यर्थः । ननु तर्हि सर्वदैवं सति अनिर्मोक्षप्रसङ्ग इत्यत्राह-प्राविमोक्षमिति । स्वस्वरूपाव. स्थानलक्षणमोक्षपर्यन्तमेव तथा करोति। मोक्षे तु तत्त्वज्ञानबाधिता सती कालत्रयाभावप्रतियोगितया विलयं गच्छतीति भावः। यथा नैल्यं व्योम्नि कल्पितम्, यथा नजि पुष्पमालायां विषधरो भुजङ्गः, यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #105
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् ।
७३
"
1
रश्मिसङ्घळे मरुमरीचिकायां वार्जलं यथा स्वप्नद्रष्टरि स्वाप्नं जगत्, तथा जगदिदं प्रत्यक्षादिभिरवगतं सात्तिचैतन्ये कल्पितमित्यर्थः आद्येन दृष्टान्तेनाप्रत्यक्षेऽपि प्रत्यक्षादियोग्याध्यासः सम्भवतीति दर्शितम् । द्वितीयेनात्यन्तानुकूलेऽपि प्रतिकूलस्याध्यासः । तृतीयेन तदत्यन्ताभाववत्यपि तत्सत्त्वाध्यासः । चतुर्थेन सर्वव्यवहारानास्पदेऽपि सर्वव्यवहारास्पदत्वाध्यासो नासम्भावित इति द्रष्टव्यम् ||६२ || अध्यस्तेऽस्मिञ्जगति जनताव्यापृतिः किन्न मिथ्या स्वाप्ना राजा तदुपकरणं किं भवेद्वास्तवं वा । यद्वक्षो बलिरपि तथा लौकिकीयञ्च गाथा
यद्वद्विश्वं व्यवहृतिरियं तद्वदेवेति सिद्धम् ॥ ६३ ॥
सर्वजन व्यवहारस्य मिध्यात्वं दृष्टान्तप्रदर्शनेन कैमुत्या साधयति—अध्यस्ते इति । कल्पिते प्रपञ्चे जनताव्यापृति: सर्वजनसभूहव्यवहारः किं कल्पितत्वाद् मिथ्या न भवति ? किन्तु भवत्येव । स्वप्ने कल्पिता राजा तदुपकरणं छत्रचामरसेनादिसामग्री किं सत्यरूपा भवेत् ? नोवम्, किन्तु सृपैव भवति । "यक्षानुरूपो बलिः” इति लौकिकाभाणकं प्रसिद्धम् । तस्माद्यादृशं विश्व भाग्यभोगालयादिप्रपञ्चस्तद्वदेव तद्विषयकव्यवहारोऽपीति युक्तिसिद्धमित्यर्थः ।। ६३ ।।
तस्माद्वन्धा जनिमृतिमयेोऽध्यस्त एवात्मतत्वे मायाऽविद्याप्रकृतितिमिरा ज्ञानशब्दाभिधेया । हेतुस्तत्राघटित घटनादक्षिणैषा विरुद्धेऽ
fuष्ठाने तद्विषयधिषणा तन्निवृत्तौ समर्था ॥ ६४॥
एवं प्रपञ्च व्यवहार मिथ्यात्व प्रसाधनेनापि साक्ष्यैक्यं प्रसाध्य परमप्रकृतमुपसंहरति--तस्मादिति । जन्ममृत्यु प्रवाहलचणो बन्धः प्रत्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #106
--------------------------------------------------------------------------
________________
७४
प्रत्यक्तत्त्वचिन्तामणौ गात्मनि कल्पित एवास्ति । अघटितस्यात्यन्तासम्भावितस्य घटना या रचना तत्र दक्षिणाऽत्यन्तचतुरा माया तत्वज्ञाननिवर्त्यत्वेनाविद्याशब्दवाच्या, सर्वप्रपञ्चोपादानत्वेन प्रकृतिः, आत्मतत्त्वाऽऽवरकत्वेन तिमिरम् , ज्ञानविरोधित्वेनाज्ञानमित्यादिशब्दरभिधातुं योग्या व्यवहारदशायामेषा साक्षिप्रत्यक्षगम्या तत्राविरुद्ध सर्वाध्यस्तवस्तुनः सत्तास्फूतिप्रदत्वेन सर्वानुग्राहकतया विरोधशून्येऽधिष्ठाने ब्रह्मण्यात्मतत्त्वे कल्पितबन्धस्य हेतुः कारणमिति योजना। तन्निवृत्तौ तस्या बन्धनहेतुभूताया मायायाः सका या निवृत्तौ बाधलक्षणायां तद्विषयाधिष्ठानात्मतत्त्वगोचरा धिषणा वेदान्तवाक्यविचारजन्या प्रमारूपाऽन्तःकरणवृत्तिः समर्था पटोयसीत्यर्थः ॥ ६४ ॥
शान्तो दान्तो भगवति हरौ भक्तिमान् शुद्धबुद्धिः
प्राप्याचार्य श्रवणमननध्याननिष्ठाप्तबोधः । आत्माविद्यां सपदि सकलां तन्महिम्ना निवृत्तां
बुद्धवा धीरः सुखघनपदे तिष्ठतीत्येष मुक्तः॥६५॥ एवं विस्तरेण शास्त्रार्थ निरूप्य, श्रोतबुद्धिसौकर्यार्थमुक्तमेवार्थ सङ. क्षिप्य निरूपयति-शान्त इत्यादिद्वाभ्याम् । आदी ईश्वराराधनलक्षणधर्मानुष्ठानाच्छुद्धबुद्धिः, तदनु भगवति निरङ्कुशसमप्रैश्वर्यादिसम्पन्ने हरौ शरणागतसंसारार्तिहरणैकदक्षत्वेन प्रसिद्ध भक्तवत्सले वासुदेवे भक्तिमान् नित्यदृढानुरागसम्पन्नः, तत्प्रसादाच्छान्त: निवृत्तसर्वैषणतया निश्चलान्तःकरणोऽत एव दान्तः विजितबाह्यकरणः । यथोक्तसाधनसम्पन्नोऽधिकारी आचार्य श्रोत्रिय ब्रह्मनिष्ठं गुरुं प्राप्यासाद्य तत्प्रसादलब्धवेदान्तश्रवणमननध्यानरूपसाधनेषु या निष्ठा तत्परत्वरूपा तया आप्त: सम्यग्लब्धो बोधो ब्रह्मात्मैक्यसाक्षात्काररूपो येन स च सपदि ज्ञानोदयसमये सकलां कलाभिः कार्यवर्गरूपाभिः सह वर्त्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #107
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । मानामात्माविद्यां स्वस्वरूपावरणहेतुभूतां तन्महिम्ना तस्यात्मतत्त्वस्यानावृतस्वप्रकाशप्रभावेण नित्यमेव निवृत्तां बुद्ध्वा, अविद्या सह कार्येण नासीदस्ति भविष्यतीति निश्चित्य धीरस्तत्त्ववित् सैन्धवघनवत् सुखैकरसपदे पदनीये स्वस्वरूपे तिष्ठति-तद्रूप एव सन् विराजते । एष मुक्तः नित्यमुक्त एव सन्मुक्तोऽयमित्युपचर्यते, “विमुक्तश्च विमुच्यते" ( कठ २ । ५ । १) "निवृत्तश्च निवर्त्तते," इति श्रुतेः ।। ६५ ।।
अध्यस्तान्ध्यं भवभयगृहं ब्रह्मबोधेन सर्व
बाधित्वाऽद्धा द्वयसुख पदावस्थितिर्मुक्तिरेवम् । प्रादुर्भता स्वयमतिशयभ्रान्तिशून्या विशुद्धा
तद्रूपोऽयं जयति सुजनो नष्टमायोऽनपायः ॥६६॥ एतदेव विवृणोति-अध्यस्त इति। आत्मनि कल्पितमन्धत्वहेतुभूतमज्ञानं भवरूपभयस्य गृहं तत्कारणत्वादास्पदं सर्व सकार्य ब्रह्मबोधेन बाधित्वा अद्धा साक्षादद्वयसुखपदावस्थितिः परिपूर्णानन्दरूपेणावस्थानलक्षणा मुक्तिरेवं श्रुत्युक्तरीत्या प्रादुर्भूता स्वयम्, न तु साधनसाध्या। अत एवातिशयो गुणाधानादिलक्षणस्तत्सम्बन्धिनी भ्रान्तिस्तच्छून्या, अत एव विशुद्धा दोषापनयनलक्षणातिशयशून्या । तद्रूपोऽय सुजनः मुक्तिस्वरूप एव सन् जयति सर्वोपरि विराजते; यता नष्टा स्वरूपसाक्षात्कारेण बाधिता माया यस्य अत एव पुनरावृत्तिलक्षणोपायो नाशस्तद्रहितस्तद्धेतुक्लेशशून्यतया सदैकरस इत्यर्थः।।६६॥ यद्यप्येषा निरवधिपदावस्थितिर्मुक्तिरिष्टा
तत्त्वज्ञानां श्रुतिनयविदां सा कुतस्तथापि । प्राज्ञम्मन्यैरिह बहुविधा कल्पिता तन्निरासाद्
निर्णतव्या निगमवचसां सम्मता सत्स्वरूपा॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #108
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामा ____एवं स्वस्वरूपावस्थानलक्षणां मुक्तिं वेदान्तमानसिद्धो प्रदर्वेदानी मोक्षे वादिविप्रतिपत्तिप्रदर्शनमुखेन वेदान्तिसम्मता मुक्तिरेव मुमुक्षुभिरादर्तव्या नान्यवादिपरिकल्पितेति बोधनाय भूमिकामारचयति - यद्यपीति। यद्यप्येषा मुक्तिस्तत्त्वज्ञानां श्रुतियुक्तिप्रमाणकुशलानां वेदान्तिनामपरिच्छिन्नसच्चिदानन्दस्वरूपावस्थानलक्षणैवेष्टा अभिमता, तथापि प्राज्ञमन्यैः पण्डितमानिभिः कुतर्कैः श्रुतिविरुद्धतर्कामासैर्बहुविधा कल्पिता-स्वस्वपक्षाभिनिवेशेन स्वीकृता। तन्निरासाय तेषां वादिनां मताभिमतमुक्तिनिरासेन निगमवचसा वेदान्तवाक्यानां सम्मता सत्स्वरूपा अबाधितवस्तुस्वरूपा मुक्तिनिर्मूतव्येति योजना ॥ ६७ ।।
शून्यं वस्त्वेतदखिलमिह भ्रान्तितो भाति सद
च्छून्यज्ञाने गलति सकलं शून्यभावोऽस्ति मोक्षः। बौद्धाः प्राहुर्मतमिदमसन्मानशून्यं यतस्तद् । मूलोच्छेदे भवति स कथं तस्य मोक्षः कुबुद्धेः॥६॥
तत्र माध्यमिकमतसम्मतां मुक्तिं तन्निरासच दर्शयति-शून्यमिति । शून्यमेव वस्तुतो विपर्यासदर्शनेनैतदखिलमिह व्यवहारभूमौ सद्वदवभासते, तत्र शून्यभावनाप्रकर्षपर्यन्तशून्यज्ञाने सति सकलं ज्ञानज्ञेयात्मकं जगद्विगलति शून्यत्वमेति । शून्यभाव एव मोतोऽस्तोति बौद्धा माध्यमिकाः प्राहुर्युक्त्याभासः स्थापयन्ति । तदिदं मतमसत् तुच्छम्, यतो मानशून्यं युक्तिविरुद्धञ्च बन्धमोक्षान्वयिन: फलसम्बन्धिनोऽभावान्मूलोच्छेदे सति तस्य कुबुद्धेद्धिस्य स मोक्षः पुरुषार्थः कथं भवेत, न कथमपीत्यर्थः ॥ ६८ ॥ योगाचाराः क्षणिककलया दुःखबुद्धया च शून्याभ्यासाद्वीपप्रशमवदघज्ञानधारोपशान्त्या।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #109
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । सर्वज्ञायाः सकलविलये सन्ततेरेव मोक्षं
ह्यन्तर्भावं विदुरिति मतं स्थाय्यभावादयुक्तम्॥६६॥ योगाचारमताभिमतां मुक्तिं तन्निरासञ्च दर्शयति-योगाचारा इति । क्षणिककलया क्षणिकभावनया चकारेण स्वलक्षणभावनया दुःखबुद्धया दुःखभावनया शून्याभ्यासाच्छून्यभावनया च प्रदीपनिर्वाणवदघज्ञानाधारोपशान्त्या संसारविज्ञानप्रवाहोपरमरूपया सर्वज्ञायाः सन्ततेरेवान्तर्भावं सकल विलये सति मोक्ष विदुरपवर्गमिच्छन्ति। तदेतद्योगाचारमतं स्थाय्यभावाद्वन्धमोक्षान्वयिन: फलसम्बन्धिनोऽभावादनङ्गोकारादयुक्तम्, युक्तिविरुद्धत्वादुपेक्ष्यमित्यर्थः ।। ६६ ॥
तत्त्वज्ञानादुचिततपसा कर्मदाहात्समाधे.
बन्धध्वंसे सततगमनं चोर्ध्वमाकाशगं वा। मोक्षं प्राहुस्त्विति विवसनास्तन्न युक्तं विशुद्ध
चिद्रूपेऽस्मिन्कथमपिगति ति युक्त्याजसत्वम्७०
आर्हताभिमतां मुक्तिं तन्निरासञ्च दर्शयति--तत्त्वज्ञानादिति । कर्माष्टकपुर्यष्टक*परिवेष्टितस्य जीवस्य तत्त्वज्ञानात् स्वमताभिमततत्त्व. ज्ञानेन, उचिततपसा स्वमताभिमततपसा, समाधेरात्मैकाकारसमाधिना च सर्वेषां कर्मणां दाहाद् बन्धध्वंसे सति पञ्जरस्थस्येव शुकस्य पञ्जरभजन इव सततगमनं द्रुततमसततगमनम् , अर्द्धवगमनम, लोकाकाशगमनं वा मोक्षं कैवल्य विवसना दिगम्बरा: प्राहुः कल्पयन्ति । तन्न युक्तम् । तदेतद् युक्तिविरुद्धं विशुद्ध वस्तुनि । तथाहि--आत्मा चिद्रूपः ? उताचिद्रूपः ? प्राद्ये विशुद्धस्य चिद्रूपस्य निरुपाधिकस्य
* ज्ञानेन्द्रियपञ्चकम्, कर्मेन्द्रियपञ्चकम्, भूतपञ्चकम्, प्राणादिपञ्चकम्, अन्तःकरणचतुष्कम्, अविद्या, कामः, कर्म ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #110
--------------------------------------------------------------------------
________________
प्रत्यकूतत्त्वचिन्तामयौ
स्वताऽप्रतिसंक्रमादुपाधिसम्बन्धे च बन्धाविच्छेदादनिर्मोक्षः #1 द्वितीयेऽचिद्रूपस्य चेतनानधिष्ठितस्य स्वयं गमनानुपपत्तेः । नहि चेतनाश्वाद्यनविष्ठितस्य रथादेर्गमनं दृष्टम्, सम्भवति वा । अतो भग्नादिव पञ्जरात्पतङ्गस्यात्मनो बन्धविच्छेदे सत्यप्यूर्द्ध वगमनमसङ्गतमेवोत्प्रेचितमिति । अत ग्रह-- विशुद्ध चिद्रूप इति । निरुपाधिचैतन्येऽस्मिन्नात्मनि कथमपि कथञ्चनापि त्वदभिमतगमनं युक्त्या सत्तराञ्जसत्वं बुद्धिपथमारोढुं सम्यक्तया नैति नैवायातीत्यर्थः ॥ ७० ॥
७८
द्रव्यादीनां नयमतधिया चेश्वरोपास्याहुः काणादास्ते नवविभुगुणात्यन्तनाशं विमेोक्षम् । तज्ज्ञानादावुपशममिते शून्यपक्षान भेदो दुःखाभावोऽप्यमतिविषयेा ना पुमर्थोऽस्ति मुख्यः ७ १
एवं नास्तिकाभिमतां मुक्तिं तन्निरासश्च प्रदर्श्याधुनाऽर्द्धवैनाशिकवैशेषिकाद्यभिमता मुक्तिं तन्निरासश्च दर्शयति — द्रव्यादीनामिति । नयमतधिया न्यायाभिमतपदार्थस लक्षण्यवैलक्षण्यपरिशोधनपूर्वकात्मयाथात्म्यज्ञानेन ईश्वरोपासनया सततं परमेश्वरोपासनया विभो - रात्मनो नवानां वैशेषिकगुणानामत्यन्तनाशमतीवाच्छेदं काणादा वैशेषिकास्ते तत्समानतार्किका बुद्धिस्था नैयायिकाश्च मोक्ष प्राहुः । ते पुन: " प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्क निर्णयवादजल्पवितण्डाहेत्वाभास च्छल जातिनिग्रहस्थानानां तत्त्वज्ञानान्नि:श्रेयसाधिगमः” (न्या० १ । १ । १ ) इति सूत्रसिद्धप्रमाखादिषोडशपदार्थान् परिशोध्यात्मनि “आत्मशरीरेन्द्रियार्थ बुद्धिमन: प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्" ( न्या० १ । १ । १ ) इति सूत्रसिद्धद्वादशविधप्रमेयनिष्कर्षादात्मयाथात्म्यावगमे सजाते तत्सहिता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #111
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम।
त्परमेश्वरोपासनान्नवानां वैशेषिकगुणानामत्यन्तोपरमं निर्वाणाख्य मोक्ष कल्पयन्ति । एतन्मतद्वयसम्मतमोक्ष: स्वरूपोच्छेदपक्षाभिमतमोक्षान्न भिद्यते । तस्यात्मनो गुणत्वेनाभिमतज्ञानसुखादावुपशममुच्छेदमिते प्राप्ते सति नि:संज्ञत्वाविशेषात्सुखानुभवाभावाद्वा अपुरुषार्थत्वमेव तदभिमतमोक्षस्य। सुखाभावेऽपि दुःखाभावात्पुरुषार्थः स इति चेत्याह--- दुःखाभाव इति । षडिन्द्रियाणि, षड विषयाः, षड् बुद्धयः, सुखम्, दुःखम, शरीरचेत्यकविंशतिदुःखध्वंसोऽप्यमतिविषय:-प्रतीत्यगोचरतया मुख्यः पुरुषार्थो न भवति । न खलु पाषाणादेः दुःखाभाव: पुरुषार्थ इति दुःखाभावस्यापि नि:संज्ञत्वे पुरुषार्थत्वाभावादेव तदुभयमतसम्मतो मोक्षो सङ्गत एवेत्यर्थः ।। ७१ ।।
आत्मज्ञानानिगमविधिनाऽनुष्ठितेः कर्मणाञ्चा
त्यन्तोच्छेदं विदुरिति गुरोः पक्षनिष्ठा गुणानाम् । माझं हीदं मतमनुचितं श्रौतबोधाद्यभावात्
कर्मज्ञाने विषममृतिगे नैकमेतत्फलं स्यात् ॥७२॥ प्रभाकराभिमतमोक्षं तन्निराकरणञ्च दर्शयति-आत्मेति । आत्मज्ञानपूर्वकाद्वैदिककर्मानुष्ठानात्तेषामेव नवगुणानामत्यन्तोच्छेद मोक्षं गुरोः पक्षनिष्ठा: प्राभाकरा विदुर्जानन्ति । इदं हि मतं श्रौतबोधाद्यभावाच्छुतिसम्मताकर्तृभोक्तसङ्गोदासीनकात्मज्ञानाद्यनङ्गीकारादनुचितमत्यन्तायोग्यमित्यर्थः । आदिशब्देन वेदान्ताभिमत विवेकादिसाधनकतापो गृह्यते । कर्मज्ञाने विषमसृतिगे भिन्नाधिकारिकत्तु कतया परस्परविरोधाधुगपत्समुच्चयाभावाद् विलक्षणमार्गनिष्ठे एतत्फलमेतयोः ज्ञानकर्मणो: फलं मोक्ष: संसारश्च परस्परविरुद्धत्वादेकं न स्यात् । यद्यपि कर्मणामपि फलं परम्परया मोक्षः, तथापि साक्षात्तत्फलकत्वाभावादेव मुक्तिरिति द्रष्टव्यम् ।। ७२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #112
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी नित्यज्ञानं सुखमपि तथा जायते कर्मयोगात्
सात्मज्ञानादविषयसुखं मोक्षमिच्छन्ति भाट्टाः। नायं पक्षः श्रुतिनयविदां सम्मतो युक्तिशून्यो
जन्ये मोक्ष नभवति कदा नित्यता हेत्वभावात्॥७३॥ भट्टपादानुसारिणामभिमतमुक्तिं तन्निराकरणञ्च दर्शयति-नित्य. ज्ञानमिति। कर्मयोगाद्वैदिककर्मानुष्ठानात् सात्मज्ञानादात्मज्ञानपूर्वकानित्यज्ञानं जायते। सुखमपि तथा-नित्यसुखचोत्पद्यते । ततश्चाविषयसुखं नित्यज्ञानेनात्मनो विषयविशेषानपेक्षया नित्यानन्दानुभवं मोक्ष भाट्टा भट्टपादानुसारिण इच्छन्ति। नायं पक्षः श्रुतियुक्तिप्रमाणकुशलानां सम्मतः, युक्तिशून्यत्वात्। विषयेन्द्रियसंयोगाभावे कथं ज्ञानानन्दोत्पत्तिरिति ? आत्ममन:संयोगादिति चेत्तदपि दुरुपपाद्यम्, आत्ममनसोरुभयोरपि सर्वगतयोरन्यतरकर्मजन्यस्य, उभयकर्मजन्यस्य वा संयोगस्याभावात् । भवतु नामात्ममनसोः संयोगस्तथापि ज्ञानानन्दयोर्जनिमत्त्वे सत्यनित्यत्वस्य दुर्वारत्वादपि नायं पक्षः साधुरित्याह-जन्य इति । जन्ये वस्तुनि नित्यत्वसाधकहतारभावात् पुनरपि बन्धप्रसङ्ग इति भावः ।। ७३ ॥ .
यद्ब्रह्माण्डाद्वहिरपि विभाब्रह्मणो भावमाहु___ जन्तोर्माक्षतदपि न समं वेदमौलेविरोधात् । तस्य प्राणा न च बहिरतो यान्ति तज्ज्ञस्य जन्तो
लीयन्तेऽत्राद्वयरसतयेत्यादिसिद्धान्त इष्टः ॥७॥ केषाञ्चिद्वेदान्तसिद्धमर्थमन्यथा कुर्वतामेकदेशिना सम्मता मुक्तिं तन्निराकरणञ्च दर्शयति-यदिति द्वाभ्याम्। ब्रह्माण्डाद्वहिः संसारमण्डलाद्वहिरेव ब्रह्मसद्भावमभ्युपगम्य जन्तोर्जीवस्यार्चिरादिमार्गेण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #113
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । यद् ब्रह्मप्राप्तिलक्षणं मोक्ष प्राहुः, तदपि न समम्-युक्तियुक्तं न भवति, वेदमाले:-"न तस्य प्राथा उत्क्रामन्ति' (बृ० ४।४ ) इत्यादिश्रुतेर्विरोधादित्यर्थः ॥ ७४ ॥
भिन्ना जीव स्वत इह विभारीखरोपासनात्स
ब्रह्मकत्वं व्रजति लवणे यद्वदैक्यं तृणादिः । एवञ्चेत्स्यात्तदपि न समं ब्रह्मताऽन्यस्य न स्यात् नान्यस्य स्वत इह भवेदन्यभावोऽपि युक्त्या॥७॥
किमात्मनो ब्रह्मप्राप्तिस्तादात्म्यलक्षणा संयोगलक्षणा वा ? नाद्या, अश्वमहिषयोरिव पृथसिद्धयोरेकत्वानुपपत्तेः। द्वितीयं शङ्कतेभिन्न इति । स्वतो भिन्न एव जीवो विभोर्ब्रह्मणः सकाशाजीवेश्वरयोनियन्तृनियम्य विज्ञानपूर्वकमीश्वरार्चनसमाध्याद्युपासनाद् लवणाकरे निक्षिप्ततृणादेरिव लवणत्वं जीवस्य ब्रह्मभावनया ब्रह्मभावत्वमित्येवञ्चेत, तदपि न समम्, यतोऽन्यस्य सतो ब्रह्मता न स्यात् । नहि स्वतोऽन्यस्य युक्तिसिद्धोऽन्यभावो दृष्टचरः, दृष्टान्ते तृणपर्यावय. विन: संस्थानविशेषेऽसति तदवयवानां लवणावयवसंयोगेन लवणभ्रान्तिमात्रत्वादुष्णजलभ्रान्तिवत्तस्यानुदाहरणात् । नापि यथा रसविद्धताम्रस्य सुवर्णभावस्तथा ब्रह्मभावो जीवस्येति साम्प्रतम्, तत्राप्यन्यस्य सतेाऽन्यभावस्यासिद्धत्वात्, रसविशेषस्य ताम्ररूपाभिभावकमात्रत्वात्, कालान्तरे सुवर्णाकारतापगमदर्शनाच्च ताम्रादेः। ततश्च भ्रममात्रं तदित्यभिप्रायः। तदुक्तमुपदेशसहरुयाम्- .
"नान्यदन्यद्भवेद्यस्मान्नान्यत्किञ्चिद्विचिन्तयेत् ।
अन्यस्यान्यत्वभावे हि नाशस्तस्य ध्रुवो भवेत् ॥" (उप० सा० प्र० १५१) इति ॥ ७५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #114
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी स्वान्तोपाधेर्भवति विकलो ब्रह्मभूतोऽपि जीवः
कर्मज्ञानाभयकरणतो ब्रह्मभावं ह्युपैति । केचित्माहुस्तदपि न समं वस्तुनो द्वैध्यभावाद्
भ्रान्त्या सिद्धवितयकलना वेदसन्न्यायबाह्या॥७६। वेदान्तज्ञम्मन्यानां केषाञ्चित्सम्मा मुक्तिं तन्निराकरणञ्च दर्शयतिस्वान्तेति । स्वता ब्रह्मभूतोऽपि जीवः स्वान्तोपाधेरन्तःकरणोपाध्यवच्छेदाद् विकलो भवति वस्तुतो भावान्तरभूतो भवति । कर्मज्ञानाभयानुष्ठानेन ब्रह्मभावं हि श्रुतिप्रसिद्धमुपैति । कर्मणोपाधिनिवृत्ती ज्ञानेन ब्रह्मभावो मोक्ष इति केचिदेकदेशिनः प्राहुः। तदप्यापातरमणीयम्, वस्तुना निरवयवस्य ब्रह्मयो वस्त्वन्तरेण कुठारेणेव द्वैध्यभावाच्छिशि. पादेरिव विदारणासम्भवे सति भावान्तरत्वानुपपत्तेः । भ्रान्त्या सिद्ध उपाधिसम्बन्धस्य भेदभ्रान्तिमात्रहेतुत्वादेव सिद्धे वस्तुनि अवितथकलना वस्तुतो भावान्तरकल्पना श्रुतितदनुकूलन्यायविरुद्धत्वात्ततो बाह्या वस्तुतोऽन्यत्वाभावे सति ब्रह्मभावस्यासाध्यत्वाच्च । तत्र कर्मयोपाधिनिवृत्तिानेन ब्रह्मत्वमिति स्वबुद्धा त्प्रेक्षितत्वादतीव तुच्छमिति भावः ॥ ७६ ॥
तस्माद् ब्रह्माद्वयसुखनिधि प्रत्यगात्मास्ति वस्तु
स्वाविद्योत्थाखिलभयनिधी जन्ममृत्युप्रवाहे । भ्रान्त्यावर्ते भ्रमति सपदि ब्रह्मविद्यार्कभासा
बाधित्वाऽऽन्ध्यं व्रजति परमं ब्रह्मभावंस मुक्तः।।७७॥ एवं मुमुक्षुभिरनादरणीयाननेकवाद्यभिमतान् मोक्षपक्षानिराकृत्य तदादरणीयश्रुतिमौलिसम्मतं मोक्षपक्षं दर्शयति- तस्मादिति पद्यत्रयेण । यस्मात् सर्वे वादिपरिकल्पिता मुक्तिपत्ताः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #115
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम्। श्रुतियुक्तिविरुद्धास्तस्मादद्वयसुखसिन्धु प्रत्यगात्मब्रह्मैव वस्त्वस्ति । तदेव ब्रह्म स्वाविद्ययोस्थिताखिलभयनिधौ संसारे जन्ममृत्युप्रवाहलक्षणे भ्रान्त्यावर्ते 'अहम्, इदम् , ममेदम्,' इत्यावर्तकरूपे भ्रमति विश्रान्तिं न लभते । कदाचिन्महापुण्यफलसीमभूतब्रह्मविद्यार्कभासा तत्त्वज्ञानमातण्डप्रभया आन्ध्य सकार्याज्ञानं बाधित्वा, नासीदस्ति भविष्यतीति निश्चित्य स्वभावभूतं परमं दृश्यात्यन्ताभावोपलक्षितं ब्रह्मभावापत्तिलक्षणं मोक्ष व्रजति । स मुक्त इत्युच्यते इति शेषः। इति वेदान्तसिद्धान्त इत्यर्थः ।। ७७ ॥
आत्मज्ञोऽसौ तरति च शुचं ब्रह्मविद् ब्रह्म नित्यं ब्रह्माप्येति स्वयमपि तथा मुच्यते मुक्त एव । प्रान्ध्यं ग्रन्थिजति विलयं क्षीयते कर्मजालं वेदो हीत्यं वदति शतशो नित्यसिद्धां विमुक्तिम्भ८
तत्र श्रुतिवाक्यान्यर्थता दर्शयति--आत्मज्ञ इति। "तरति शोकमात्मविद्' (छा० ७ । १ । ३) "ब्रह्म वेद ब्रह्मैव भवति" (मु० २।६) "ब्रह्मैव सन् ब्रह्माप्येति' (बृ० ४ ! ४ । ६) “विमुक्तश्च विमुच्यते" ( कठ० २ । ५ । १) "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" (मु० २ । २।८) "अविद्यायाः परम्पारं तारयितु", "तमेव विदित्वाऽतिमृत्युमेति' ( श्वे० ६ । १५ ) इत्यादिवेदो हि यस्मानित्यसिद्धां विमुक्तिमित्थमनेनैव प्रकारेण सहस्रशो वदति, सर्वो वेदस्तत्रैव फलवान् भवतीत्यर्थः ॥ ७॥ तत्त्वज्ञानान्निजसुखगतानाद्यविद्यानिवृत्तौ
मुक्तिः सिद्धाद्वयसुखवपुः प्रत्यगात्मैक्यरूपा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #116
--------------------------------------------------------------------------
________________
८४
प्रत्यकूतत्त्वचिन्तामयी
पूर्णानन्दामृतरसनिधौ त्यक्तदेहत्रयोऽन्तस्तिष्ठत्यात्मन्य खिलविदसौ शान्तमायेोऽनपायः s
श्रुतिसिद्धमर्थ दर्शयति-- तत्त्वज्ञानादिति । तत्त्वस्य ब्रह्मैक्य-रूपस्य साक्षात्कारान्निजसुखं ब्रह्मैक्यं तद्गतानाद्यनिर्वाच्या विद्यानिवृत्तौ सत्य प्रत्यगात्मैक्यरूपा अद्वयसुखस्वरूपा मुक्ति: स्वयमेव सिद्धा, न केनचित्साधनेन साध्या, नित्यत्वात् । अज्ञानतत्कार्य निराकरणेनैव ज्ञानस्य साफल्यम् । अतः सुष्ठुक्तमसावखिलं ब्रह्मैक्यं वेत्तीति तथा, शान्ता तत्त्वज्ञानेन बाधिता माया सकार्याऽविद्या यस्य सच, अत एव पुनरावृत्तिरूपापायशून्यः यतस्त्यक्तं मूलबाधेन बाधितं देहत्रयं स्थूलसूक्ष्मकारणाख्यं येन स च, अन्तरात्मनि पूर्णानन्दानन्तामृतरससिन्धौ तिष्ठति — कृतकृत्यतया विराजते इत्यर्थः ॥ ७८ ॥
तस्माद्धीरोऽपरिमित पदप्राप्तये वेदमौले
स्तत्त्वं ब्रह्माद्वयसुखपदं स्वात्मबुद्धया गुरुक्त्या । पर्यालेाच्य श्रवणमननध्याननिष्ठा विवेकी विद्यात्तेन व्रजति परमं मेाक्षमिष्टं सुखेन ॥ ८० ॥
एवं श्रुतिमौलिवादिसम्मतां मुक्ति सोपायामभिधाय पुनस्तत्प्राप्त्युपायं संक्षेपेण दर्शयति - तस्मादिति । यस्मात् स्वत: सिद्ध एव मोक्षः विस्मृतकण्ठस्थचामीकरवत् स्वात्माज्ञानमात्रावृतत्वात्, तस्माद्धीरो विवेकी सम्यग्वैराग्यादिसाधनसम्पन्नोऽपरिमितं परिच्छेदशून्यं यत्पदं तत्प्राप्तये तत्साक्षात्काराय गुरुक्त्या वेदमौलेस्तत्वं तात्पर्यविषयमाचार्योपदिष्टवेदान्तवाक्येभ्यो ब्रह्माद्वयसुखं यत्पदं तत्स्वबुद्धा स्वानुभवेन श्रवणादिनिष्ठः सन् पर्यालोच्य सम्यग्विचारेण स्वानुभवारूढं कृत्वा विद्यात् — सर्वोपायेन जानीयात् । तेन बोधेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #117
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम् । परमिष्टं निरतिशयपुरुषार्थरूपं सुखेनानायासेन मोक्षं व्रजति-तद्रूप एव भवतीत्यर्थः ॥ ८० ॥ वेदोऽनादिर्न तु पुरुषधीपूर्वसिद्धः प्रमाणं निर्दोषत्वादविदितपदज्ञापकत्वात्स्वतश्च । तत्रास्तिक्यप्रवणमनसामात्मबोधेऽधिकारी नैवान्येषां स्वमतिकलनात्यानयुक्त्याश्रितानाम् ॥८॥ यथोक्ततत्त्वज्ञाननिष्ठायां वेदान्तशास्त्रे श्रद्धावतामेवाधिकारः, नान्येषामित्याह-वेद इति । वेदो वियदादिवदनादितया पुरुषबुद्धिपूर्वसिद्धो न भवति, किन्त्वपौरुषेयतया अप्रामाण्य हेतुसर्वदोषशून्यत्वादज्ञातज्ञापकत्वाच्च स्वतः एव प्रमाणम् । इदमेकादशे प्रकरणे विस्तरेण वक्ष्यते। तत्र वेदे यदास्तिक्यं तत्र प्रवणं मनो येषां सम्यक प्रवेशेनाभिमुखीकृतमनसो ये तेषामेवात्मबोधे तदुपाय श्रवणादावधिकारो नैवान्येषां स्वमतिकल्पनयोत्थानं यासां युक्तीनां तदाश्रितानां केवलतर्कनिष्ठानामित्यर्थः ॥ ८१॥ प्रत्यक्तत्वे परसुखवपुष्यद्वितीये विशुद्ध
मायातीते सकलकलनास्पर्शशून्ये निरंशे । वेदान्तोत्थामलधिषणया ब्रह्मविद्याख्ययेदं सम्यग्ज्ञाते विदितमखिलं विश्वमध्यस्तमस्मिन् ।८२।
ब्रह्मज्ञानेन सर्वज्ञानसिद्धिं दर्शयति--प्रत्यक्तत्त्व इति। प्रत्यगभिन्नब्रह्मतत्त्वे सम्यग्ज्ञाते सति अस्मिन्प्रत्यक्तत्त्वेऽखिलमध्यस्त विश्वमिदं विदितमित्यन्वयः । वेदान्तेभ्य उत्तिष्ठतीति वेदान्तोत्था अमला या धिषणा ब्रह्मविद्या तया वेदान्तजन्यनिर्मलप्रज्ञयेत्यर्थः । सुगममन्यत् ।। ८२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #118
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणा यदविदितमखण्डं मातृमानादिविश्व
सजति विदितमेकं भाति मानादिशून्यम् । तदहममृतमीशं सर्वदा शान्तमूर्ति सकलसुरललामं कृष्णतत्त्वं श्रयेऽन्तः ॥८॥
एवं प्रकरणार्थ परिसमाप्य तत्फलं कृष्णानुसन्धानं महीकुर्वन्नुक्तमर्थ संक्षिप्य दर्शयति-यदिति । तत्कृष्णाख्यं तत्त्वं ब्रह्म अन्तः श्रये-स्वात्मत्वेन प्रत्यगभिन्नस्वरूपमनुसन्दधे, इत्यन्वयः। तत्किमित्याकाङ्क्षायामाह-यदिति । यद्वस्तुतोऽखण्डमेवाविदितमज्ञातं सन्मातृमानादिविश्वं सकलं सृजति। यच्च विदितं सम्यक्साक्षास्कृतं सदेकं मात्रादिव्यवहारानास्पदं भाति प्रकाशते। तदमृतममृतवदास्वाधं सर्वदा कालत्रयेऽपि शान्ता मायातकार्यकृतक्षोभशून्या मूर्तिः सच्चिदानन्दविग्रहो यस्य तदीशं मायावित्त्वेन प्रसिद्धमपि सकलसुराणां ब्रह्मेन्द्ररुद्रादीनां ललाम तन्मुकुटमणिधृष्टचरणारविन्दतया मस्तकभूषणम् ; येन सर्वे ब्रह्मादयः सुराः शोभन्ते तदित्यर्थः ।। ८३ ॥
श्रवणविधिबलेनाद्वैततत्वं विशुद्धं
परमसुखमखण्डं शुद्धबुद्धिर्विदित्वा। वनति पदमगाधं यत्प्रसादाद्विमोक्षं
तमहमखिलनार्थ श्रीमुकुन्दं प्रपद्ये ॥४॥ इति प्रत्यक्तत्त्वचिन्तामणौ प्रथमं प्रकरणं सम्पूर्णम् ॥ १ ॥ एवं सर्वाधिष्ठानत्वेन सर्वोपास्यत्वेन भगवन्तं श्रीमुकुन्दमनुसन्धाय मुमुक्षोस्तत्वज्ञानपूर्वकमोक्षप्रदत्वेन तमनुसन्धत्ते-श्रवणेति । स्पष्टार्थ पद्यम् ॥८४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #119
--------------------------------------------------------------------------
________________
प्रथमं प्रकरणम्। सर्वाः कलाः समुदिता निरवद्यकीर्ती
प्राप्ताः सदा विलसिता: परमा प्रतिष्ठाम् । यत्रेश्वरे तमहमीश्वरमीश्वराणां
कृष्णं श्रये सततमस्य पदाब्जभक्त्यै ॥ १ ॥ प्रानन्दसिन्धुरमृताद्वयबोधदेहो
वेदान्तगीर्विलसितान्तरभावगम्यः । नन्दाङ्कगो विजयते ब्रजभूमिभाग्यं
यस्तं मुकुन्दमनिशं शरणं व्रजामि ॥ २॥ इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्दविद्वत्कृतायां प्रत्यक्तत्त्वचिन्तामणिव्याख्यायां स्वप्रभाभिधायां प्रत्यक्तत्त्वविचारमयूखाभिधं प्रथम
प्रकरणं समाप्तिमगमत् । १ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #120
--------------------------------------------------------------------------
________________
अथ द्वितीयं प्रकरणम् सकलकारणकार्यविलक्षणं
श्रुतिभिरीरितमद्वयमक्षयम् । हृदि गतं विमलं रमयाऽऽश्रितं
यदुपति कलये कलनेाज्झितम् ॥१॥ पूर्वप्रकरणान्ते श्रवणविधिबलेनाद्वैततत्त्वं विदित्वा मोक्षं बजतीत्युक्तम्, तत्र श्रवणे "अात्मा वा अरे द्रष्टव्यः श्रोतव्यः' (बृ. २ । ४ । ५) इत्यादिवाक्येन मननध्यानाभ्यामङ्गाभ्यां श्रवणं नामाङ्गि विधीयते, इति विधिं सिद्धवत्कृत्य तत्त्वसाक्षात्कारसाधनत्वं प्राधान्येन श्रवणस्यैवेति सूत्रितं तद्विवरणरूपं प्रकरणान्तरमारभमाणः स्वेष्टदेवतानुसन्धानरूपमङ्गलमाचरन्नर्थात्प्रकरणप्रतिपाद्यं श्रवणादिविधिविषयत्वेन ब्रह्मात्मैक्यं तत्त्वं सङ्क्षिप्य दर्शयति-सकलेत्यादिपद्यत्रयेण । तत्र प्रथमार्द्धन "तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्' (बृ. २ । ५ । १६) इत्यादिश्रुतिसिद्धमखण्डवाक्यार्थरूपं ब्रह्मात्मैक्यं दर्शितम् । हृदि गतं विमलमिति पदद्वयेनान्तःकरणोपहितं तत्साक्षितयाऽसंस्पृष्टमसङ्गचैतन्यं त्वंपदलक्ष्यं च दर्शितम्। रमयाऽऽश्रितं यदुपतिमिति पदद्वयेन तत्पदवाच्यम, कलनोझितमित्यनेन मायातकार्यरूपकलनाविनिर्मुक्ततया सर्वव्यवहारानास्पदं तत्पदलक्ष्यञ्च दर्शितमिति विवेकस्तेन शास्त्राभिधेयाभिधानम् ॥ १॥ सुखधनं निरवद्यमशेषगं
निरवधि परमेकमनकुशम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #121
--------------------------------------------------------------------------
________________
द्वितीयं प्रकरणम् । अहमशेषकलाञ्चितमीश्वरं
सततमात्मपदप्रदमाश्रये ॥२॥ सुखघनमिति पूर्वार्द्धन प्रयोजनोल्लेखः । अहमित्युत्तरार्द्धन भक्ताभीष्टदानदक्षत्वं भगवतो दर्शितमिति विभागः। अक्षरार्थस्तु निगदव्याख्यातः ॥ २॥ जगदिदं खमरुच्छुचिवारिभ
विरचितं स्वचिता परिहितम् । यत उदेति मुकुन्दपदाभिधा
तमहमादिगुरु हरिमाश्रये ॥३॥ जगदिदमिति। "यतो वा इमानि भूतानि जायन्ते” (तै० ३। १) इति श्रुतिसिद्धजगज्जन्माद्यभिन्ननिमित्तोपादानकारणत्वं भगवतो दर्शितम्। स्वचिता स्वात्मचैतन्येन जगदिदं भूतभौतिकरूपं जडं खसत्तास्फूर्तिप्रदानेन परिबृंहितम्-सर्वव्यवहारसमर्थत्वापादनयोग्य यथा स्यात्तथा सम्यगुद्भावितमित्यर्थः। शेष निगदव्याख्यातमेवेति सर्व मङ्गलम् ॥ ३ ॥ नित्यस्वाध्यायविधिना साङ्गं वेदमधीत्य यः। पुण्यपुञ्जोदयात्कश्चित्सुधीः शास्त्रार्थवित्तमः॥४॥
एवं मङ्गलाचरणव्याजेन शास्त्रार्थ संक्षेपेण प्रदर्येदानी "आत्मावा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (बृ०२। ४। ५) इत्यत्रात्मदर्शनमनूद्य तदुपायत्वेन श्रोतव्य इत्यादिना मनननिदिध्यासनाभ्यां फलोपकार्यङ्गाभ्यां सह श्रवणं नामाङ्गि विधीयते इत्युपपादयितुं भूमिकामाचरयति-नित्यस्वाध्यायविधिनेत्यादिना ।
१२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #122
--------------------------------------------------------------------------
________________
-६०
प्रत्यक तत्त्वचिन्तामयी
नित्यो हि स्वाध्यायेोध्येतव्य इत्यध्ययनविधिः, " ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयेो ज्ञेयश्च" ( महाभाष्यम् १ । १ । १ ) इति वचनात् । काम्यत्वे हि वेदाध्ययनस्यान्योऽन्याश्रयता, aara सति कामना; कामनायां सत्यां षडङ्गोपेतवेदाध्ययनप्रवृत्तस्यार्थावबोध इति । अत: सर्वोऽपि नित्यविधिबलादेव षडङ्गसहितं वेदमधीत्यार्थ जानातीत्यभिप्रेत्याह - नित्येति । यः कश्चिदतिदुर्लभः पुण्यपुञ्जपरिपाकवशाच्छास्त्रार्थविदां मध्ये उत्कृष्टः सुधीः स्वधर्मानुष्ठानेन शोधितान्तःकरण इत्यर्थः ॥ ४॥
स वेदान्त गिरोत्कृष्ट पुमर्थप्रेप्सया स्वयम् । तदुपायं धियाऽन्विष्य तत्रेदमवगच्छति ॥५॥
सइति । स च वेदान्तगिरा परमपुरुषार्थप्रेप्सया स्वयं तस्यापायं धिया शास्त्रोत्थयाऽन्विष्य पर्यालोच्य तत्रेदं वक्ष्यमाणमवगच्छति जानातीति योजना ।। ५ ।।
सर्व प्रियं भवत्यात्मकामायेति विचारतः । आत्मशेषतयान्यस्य प्रियत्वे क्तरशेषतः ॥६॥
तत्किमित्यत श्राह — सर्वमिति । " आत्मनस्तु कामाय सर्व प्रियं भवति" ( वृ० ४ ५ ६ ) इति श्रुत्याऽऽत्मशेषतयाऽन्यस्याशेषतेाऽशेषस्य । सार्वविभक्तिकस्तसिः । प्रियत्वस्योक्तेरिति विचारादिति योजना ॥ ६ ॥
आत्मातिरिक्तसर्वस्माद्विरक्तोऽधिकृतः पुमान् । गुरुमाश्रित्य वेदान्तसिद्धोपायं चिकीर्षति ॥ ७ ॥ आत्मेत्यादि सुगमम् ॥ ७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #123
--------------------------------------------------------------------------
________________
द्वितीयं प्रकरणम् । दुष्टे श्रुते मते ज्ञाते खल्वरे परमात्मनि । इदं सर्व भवेज्ज्ञातमित्युपक्रम्य वेदगीः॥८॥ तदेताषदरे खल्वमृतत्वमुपसंहृतो। पुमर्यस्यामृतत्वस्योपायं तत्वधियं जगौ॥६॥
दृष्टेति । “आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्व विदितम्" (बृ०४।५।६) इत्युपक्रम्य "एतावदरे खल्वमृतत्वम्' (बृ०४।५।१५) इत्युपसंहारात् श्रुतिरियं परमपुरुषार्थभूतस्यामृतत्वस्य मोक्षस्योपायं तत्त्वधियं तत्त्वज्ञानमेव जगावुक्तवतीत्यर्थः ॥८-६॥
अविधेयतया ज्ञानं न पुमायत्तमात्मनः। आत्मा वेत्ति श्रुतौ तस्यादेशेनान्यद्विधीयते ॥१०॥
प्रविधेयतयेति । आत्मनो ज्ञानमविधेयतया पुरुषतन्त्रं न भवति । "आत्मा वा अरे द्रष्टव्यः" ( बृ०४।५। ६) इति श्रुतौ तस्यात्मदर्शनस्योद्देशेनान्यच्छवणादि विधीयते इति योजना ॥१०॥.
मननध्यानरूपाभ्यामङ्गाभ्यां श्रवणं सह । श्रुत्या विधीयते चाङ्गि फलवरवेन निश्चितम् ॥११॥ मननेति । फलवत्त्वेनेति । आत्मदर्शनरूपं यत्फलं तच्छ्वणस्यैव; तस्यैव प्राधान्येन विधानादित्यर्थः ॥ ११ ॥ तथैव श्रुतितात्पर्य्य पुराणे प्रतिपादितम् ।
आत्मदर्शनमुद्दिश्य श्रवणादिविधिर्यया ॥१२॥
ननु षडङ्गोपेतवेदाध्यायिनः सत्यपि वेदार्थावगमे विचारमन्तरेण तात्पर्यानवगमान्न तेनावगतोऽर्थः श्रुत्यभिप्रेतो भवितुमर्हतीति चेत्,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #124
--------------------------------------------------------------------------
________________
८२
प्रत्यकूतत्त्वचिन्तामणैौ
मैवम् एतच्छ्रुतितात्पर्यस्यैव पुराणेषु प्रतिपादितत्वादित्याशयेनाह - तथैवेति । यथाऽऽत्मदर्शनमुद्दिश्यैव श्रवणादिविधिरिति श्रुतितात्पय्र्य तथैव पुराणे प्रतिपादितमिति योजना || १२ |
श्रोतव्यः श्रतिवाक्येभ्यो मन्तव्यश्चापपत्तिभिः । ज्ञात्वा च सततं ध्येय एते दर्शनहेतवः ॥ १३ ॥
तान्येव पुराणवचनानि दर्शयति — ' श्रोतव्यः' इत्यारभ्य 'तद्धि विज्ञानमीश्वरम्' इत्यन्तैः पञ्चदशभिः । श्रुतिवाक्येभ्यस्तच्वमस्यादिभ्यः । उपपत्तिभिः श्रुत्यनुकूलतर्कैः । ज्ञात्वा च श्रवणमननाभ्यां विनिश्चित्य सततं दीर्घकाला दनैरन्तर्येण ध्येयो निदिध्यासितव्य इत्यर्थः । एते परस्पराङ्गाङ्गिभावेन दर्शनस्य साक्षात्कारस्य हेतव: उत्पादका भवन्तीत्यर्थः ॥ १३ ॥
तत्र तावच्छ्रतिमोक्तं श्रवणं नाम केवलम् । उपक्रमादिभिर्लिङ्गैः शक्तितात्पर्य्यनिर्णयः ॥ १४ ॥
सर्ववेदान्तवाक्यानामाचार्य्यमुखतः प्रियात् । वाक्यानुग्राहक न्यायशीलनं मननं भवेत् ॥ १५॥
तत्र तावच्छ्रवणं लक्षयति - तत्रेति । त्रिषु मध्ये तावदादा केवलमङ्गित्वेन प्रधानं श्रवणं नाम प्राचार्यमुखात् सर्वेषां वेदान्तवाक्यान गतिसामान्यन्यायेनेोपक्रमोपसंहाराभ्यां सापूर्वताफलार्थवादोपपत्तिरूपैर्लिङ्ग र द्वितीये ब्रह्मणि तात्पर्यावधारणमिति सार्द्धस्य योजना | मननं लक्षयति-वाक्येति । श्रुतिवाक्यानुग्राहकतकैः श्रुतार्थस्य शोलनं सम्यकू चिन्तनं मननं नामेत्यर्थः ॥ १४-१५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #125
--------------------------------------------------------------------------
________________
द्वितीयं प्रकरणम् । निदिध्यासनमैकाठयं श्रवणे मननेऽपि च । निदिध्यासनसज्ञञ्च मननञ्च द्वयं बुधाः ॥ १६ ॥
निदिध्यासनं लक्षयति-निदिध्यासनमिति । श्रवणे मननेऽपि श्रवणमननाभ्यां विनिश्चितेऽर्थे चित्तसमाधान विजातीयप्रत्ययतिरस्कारपूर्वकसजातीयप्रत्ययप्रवाहीकरणलक्षणं निदिध्यासनं नामेत्यर्थः ॥ १६ ॥
फलोपकारकाङ्गं स्यात्तनासम्भावना तथा। विपरीता च निर्मूलं प्रविनश्यति सत्तमाः ॥ १७ ॥
तयोः फलमाह-निदिध्यासनसंज्ञमिति सार्द्धन। श्रवणेन तत्त्वसाक्षात्कारे फले जननीये द्वयमप्युपकारकाङ्गं स्यादिति तेन द्वयेन मननेनासम्भावना प्रमाणप्रमेयगत्या विनश्यति। निदिध्यासनेन विपरीता देहाद्यात्मत्वाभिमतिरूपा निर्मूलं यथा स्यात्तथा प्रविनश्यति है सत्तमा हे बुधा इति योजना ॥ १७ ॥
प्राधान्यं मननादस्मिन्निदिध्यासनतोऽपि च । उत्पत्तावन्तरङ्गं हि ज्ञानस्य श्रवणं बुधाः ॥१०॥
अवणस्य प्राधान्यं सोपपत्तिकमाह-प्राधान्यमिति। मननानिदिध्यासनतोऽपि चास्मिन् श्रवणे प्राधान्यमस्ति कुतः ? इत्यत आह-ज्ञानस्योत्पत्तौ श्रवणं हि यस्मादन्तरङ्गं साक्षात्तत्त्वज्ञानसाधनमित्यर्थः ॥१८॥
तटस्थमन्यव्यावृत्त्या मननं चिन्तनं तथा। इतिकर्तव्यकाटिस्थाः शान्तिदान्त्यादयःक्रमावाद।
मननध्यानयोस्तदङ्गत्वमाह-तटस्थमिति । अन्यव्यावृत्त्या प्रसम्भावनादिदोषनिरासेन तद्रूपं तटस्थं श्रवणाणतया साक्षात्तत्वसाधन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #126
--------------------------------------------------------------------------
________________
६४
प्रत्यक्तत्त्वचिन्तामणी कोटावप्रवेशादित्यर्थः। श्रवणेन तत्त्वज्ञाने जननीये इतिकर्तव्यकोटिप्रविष्टाः शान्त्यादयः क्रमात् पूर्वापरीभावादित्यर्थः। शान्त्या. दीनां मननादेश्चेति कर्त्तव्यकोटिप्रवेशतुल्यत्वेऽपि दर्शपूर्णमासयागे प्रयाजानुयाजवत् पूर्वापरीभावस्तु विशेषः। शान्त्यादीनां श्रवणात्पूर्वभाव: मननध्यानयोः श्रवणादर्वाचीनत्वमिति भावः ॥ १६॥
ततः सर्वाङ्गनिष्ठस्य प्रत्यग्ब्रह्मक्यगोचरा । या वृत्तिर्मानसी शुद्धा जायते वेदवाक्यतः ॥२०॥ तस्यां या चिदभिव्यक्तिः स्वतः सिद्धा च शारी। तदेव ब्रह्मविज्ञानं तदेवाज्ञाननाशकम् ॥२१॥
यावत्तत्त्वसाक्षात्कारोदयस्तावच्छान्त्यादिसहितश्रवणाद्यावृत्तिरावश्यकीति वदनश्रवणादेः समुदितस्य फलमाह-तत इति द्वाभ्यां । ततः श्रवणादिपरिपाकानन्तरं सर्वाङ्गेषु तत्त्वज्ञानसाधनेषु तत्परस्य प्रत्यग्ब्रह्मैक्यविषया या वृत्तिः शुद्धा सन्देहादिदोषशून्या मानसी अन्तःकरणपरिणामविशेषो वेदवाक्यप्रमाणाज्जायते । तस्यां वृत्तौ या चितो. ऽभिव्यक्तिः सा स्वतः सिद्धा, तस्या नित्यतया साध्यत्वाभावात् । शाङ्करी शं सुखकरोतीति शङ्करः अद्वयानन्दं ब्रह्म, "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' (बृ० ४ । ३ । १३) इति श्रुतेः; तत्सम्बन्धिनी। तदेव ब्रह्मविज्ञानं तस्वसाक्षात्कारः, तदेवाज्ञाननाशकं सकलाज्ञानतत्कार्यबाधकमिति योजना ॥ २०-२१ ॥
प्रत्यग्ब्रह्मैक्यरूपा या वृत्तिः पूर्णाऽभिजायते। शब्दलक्षणसामथ्या मानसी सुदृढा भृशम् ॥ २२ ॥ तस्याश्च द्रष्टुभूतस्तु प्रत्यगात्मा स्वयंप्रभः। स्वस्य स्वभावभूतेन ब्रह्मभूतेन केवलम् ॥ २३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #127
--------------------------------------------------------------------------
________________
द्वितीयं प्रकरणम् ।
स्वयं तस्यामभिव्यक्तस्तद्रूपेण मुनीश्वराः । ब्रह्माऽविद्यासमाख्यं सदज्ञानं चित्प्रकाशितम् ॥२४॥
प्रतीत्या केवलं सिद्धं दिवाभीतान्धकारवत् । प्रभूतं वस्तुगत्यैव स्वात्मना ग्रसते स्वयम् ॥ २५ ॥
स्वात्मनाऽज्ञानतत्कार्यं ग्रसन्नात्मा स्वयं बुधाः । स्वपूर्णब्रह्मरूपेण स्वयमेवावशिष्यते ॥ २६ ॥
६५
ननु ब्रह्मात्मैक्याकारावृत्तिरज्ञानं तत्कार्यश्व बाधते इत्युक्तम् । सा वृत्तिः किं नित्या ? अनित्या वा ? आद्ये द्वैतापत्तिः । द्वितीये तस्यानिवर्त्तकं वृत्त्यन्तरचे तर्ह्यनवस्था, स्वयमेव चेत्, तदात्माश्रय इत्यादिशङ्का परिहरन् प्रकारान्तरमेवाह - प्रत्यगित्यादिपञ्चकेन । शब्द एव लक्षणमसाधारणं साधनं यस्यां सा श्रवणादिसाधनसामग्री तया शब्दादिसामग्र्या श्रवणादिसाधनसामभ्या या वृत्तिः प्रत्यग्ब्रह्मक्याकारा पूर्णवस्तुविषयतया पूर्णमानसी भृशमतिशयेन सुदृढा सन्देहविपर्यासशून्यत्वेनाभिजायते, तस्या वृत्तेर्द्रष्टृभूता यः स्वयंप्रभः स्वप्रकाशः प्रत्यगात्मा स्वस्य स्वभावभूतेन नित्यकूटस्थ रूपेण, ब्रह्मभूतेन केवलमद्वयानन्दरूपेण, स्वयं तस्यां वृत्तौ तद्रूपेण प्रखण्डैक्यरूपेणाभिव्यक्तः सम्यगारूढः सन् ब्रह्माविद्यासमाख्या नामधेयं यस्याज्ञानस्य तत्पूर्वमज्ञानकाले चिता खाक्षिणा प्रकाशितमप्यज्ञोऽहमिति प्रतीतिमात्रसिद्धं सद् दिवाभीत उलूकस्तत्प्रतीतिसिद्धो यो मध्यंदिनवर्त्तिनि दिवाकरेऽन्धकारस्तद्वद् वस्तुगत्या प्रभूतमविद्यमानमेवाज्ञानं स्वयं साक्षी स्वात्मना स्वस्वरूपेणाभिव्यक्तो ग्रसते । एवमज्ञानं तत्कार्यश्व स्वस्वरूपेण स्वयमात्मा प्रसन्नेव पूर्ण स्वभावतोऽपरिच्छिन्नं यद्ब्रह्म तद्रूपेण स्वयमेवावशिष्यते इति पश्वानां योजना ।। २२-२६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #128
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी एवंरूपावशेषस्तु स्वानुभत्येकगोचरः। येन सिद्धयति विप्रेन्द्रास्तद्धि विज्ञानमीश्वरम् ॥२७॥
एवमिति। एवरूपी योऽवशेष: सर्वदृश्यबाधावधिभूतः स तु स्वानुभूत्येकगोचरः स्वरूपभूता याऽनुभूतिस्तदैकगोचरः स्वसंवेद्यः, अवेद्यत्वे सत्यपरोक्षरूपो येन सिद्धपति-स्वस्वरूपेण येन स्वत: सिद्ध एव सिद्धपतीत्युपचर्यते तद् हि यस्मादीश्वरमीश्वरस्वरूपभूतं विज्ञानमित्यर्थः। तथा च प्रत्यगभिन्नं ब्रह्मैव चरमवृत्त्यारूढं सदज्ञानतत्कार्यनिवर्तकमिति न कोऽपि दोष इति भावः ॥ २७ ॥
इत्यतः श्रुतिरप्यात्मज्ञानमुद्दिश्य सत्फलम् । मननध्यानसंयुक्तं विधत्ते अवणं विभाः॥२८॥
एवं 'आत्मा वा अरे" (बृ०४ । ५। ६) इति श्रुतेस्तात्पर्य पुराणवचनसिद्ध प्रदर्श्य प्रकृते योजयति-इतीति। इत्यतः श्रुतिसिद्धार्थस्य पुराणे प्रतिपादितत्वात् सत्फलं सद्ब्रह्म तत्प्राप्तिरेव फलं यस्यात्मज्ञानस्य तदित्यर्थः । विभारात्मतत्त्वस्य । सुगममन्यत् ॥ २८ ॥
ननूपपद्यते नैवं श्रवणे युक्तितो विधिः । तिस्रो विधा विधेस्तत्र किंविधः श्रवणे विधिः॥२६॥
श्रवणे विधिर्न सम्भवतीत्याक्षिपति-नन्विति। तिस्रो विधा: प्रकारा विधेः। तत्र तेषु त्रिषु प्रकारेषु मध्ये श्रवणे किम्प्रकारको विधिरित्यर्थः ॥२६॥
अपूर्वः परिसंख्या नियमा वा विधिर्मतः। नापूर्वो विधिरनास्ति ज्योतिष्टोमादियागवत् ॥३०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #129
--------------------------------------------------------------------------
________________
द्वितीयं प्रकरणम् । असम्भवमेव प्रदर्शयितुं विकल्पयति-अपूर्व इति । स किं ज्योति.. टोमादेरिव श्रोतव्य इत्यत्रा पूर्व विधिः ? किं वा, "पञ्च पश्चनखा भक्ष्याः, इत्यादिवत्परिसंख्याविधिः ? उताहोऽवधातादिवनियमविधिः? इति विकल्प्य प्रथमं दूषयति-नाऽपूर्व इति। अत्र श्रवणे नाऽपूर्वो विधिरस्तीत्यन्वयः ॥ ३०॥
वेदान्तश्रवणादीनां ब्रह्मज्ञानफलं प्रति । अन्वयव्यतिरेकाभ्यां क्लप्तसाधनता यतः॥३१॥ प्रसिद्ध वैद्यशास्त्रादिश्रवणस्य तदास्पदम् । ज्ञानं प्रति यतो लोके साधनत्वमबाधितम् ॥३२॥
तत्र हेतुमाह--- वेदान्त इति । वेदान्तश्रवणादीनां दृष्टफलब्रह्मज्ञानं प्रति साधनत्वस्यान्वयव्यतिरेकाभ्यां सिद्धत्वात्। प्रसिद्धं हि लोके वैद्यशास्त्रश्रवणस्य तद्विषयावगमं प्रति साधनत्वमिति नाऽपूर्वविधिरिति द्वयोर्योजना ।। ३१-३२ ।।
ननूपायापरिज्ञानादलौकिकसमीक्षणे। अपूर्वविधिरेवायं श्रोतव्य इति चेन्नहि ॥ ३३ ॥ अपूर्वविधिसिद्धिं शङ्कते--नन्विति । परिहरति नहीति ॥ ३३ ॥ विचारस्य विचार्यार्थनिर्णय प्रति हेतुता। अपरोक्षप्रमाणस्य तत्साक्षात्कारहेतुता ॥ ३४ ॥
तत्रोपपत्तिमाह-विचारस्येति। यद्विषयको यो विचार: स तन्निर्णय प्रति हेतुः, अन्यथा तस्य वैयर्थ्य स्यात् । एवमपरोक्षवस्त्ववबोधकप्रमाणस्य तत्साक्षात्कारहेतुत्वं लोकप्रसिद्धम् । अन्यथा तस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #130
--------------------------------------------------------------------------
________________
प्रत्यकतश्व चिन्तामया
भ्रमत्वापत्तिः, अन्यथा स्थितस्यान्यथा बोधनादिति नाऽपूर्व विधिः श्रवणे इति तात्पर्यार्थः ॥ ३४ ॥
ह
न द्वितीया यतस्तत्त्वसाक्षात्कारस्य नान्यतः । श्रुतिमालेः कथञ्चिद्वा प्राप्तिसम्भव इष्यते ॥ ३५॥
द्वितीर्यं दूषयति न द्वितीय इति । परिसंख्याविधिर्नास्तीत्यर्थः । पञ्चनखापञ्चनखभक्षणयोरन्यतः प्राप्तावन्यपरिवर्जनवदात्मतत्त्वसाक्षात्कारस्य वेदान्तातिरिक्तात् प्राप्त्यसम्भवादिति तात्पर्यार्थः ॥ ३५ ॥
चिकित्साशास्त्रवत्माप्त व्यापारान्तरवारिणी । श्रवणे परिसंख्याऽत्र किन्न स्यादिति चेच्छृणु ॥ ३६
परिसंख्यासिद्धिं शङ्कते - चिकित्सेति । यथा चिकित्साशास्त्राध्ययनसमये अन्यव्यापारोऽपि न विरुद्धाते, तथा वेदान्तश्रवणादिसमयेsपि प्राप्तव्यापारान्तराविरोधस्य वारिणी परिसंख्या किन्न स्यादिति योजना | परिहरति — शृण्वति ॥ ३६ ॥
श्रवणं ह्यागमाचार्य्यवाक्यजं ज्ञानमिष्यते । अयोग्येऽत्र विधिर्नास्ति युक्तयाप्येवं विचार्य्यताम् ३
-
तत्रोपपत्तिमाह – श्रवयमिति । अत्र श्रवण्यज्ञानेऽयेोग्ये कर्त्तुमकर्त्तुमन्यथा कर्तुमशक्यत्वाद्विध्यनर्थे विधिर्नास्तीत्यर्थः ॥ ३७ ॥
नान्त्येा नियम जादूष्टकल्पकाभावतो विधिः । नादृष्टजन्यमद्वैतज्ञानं वा व्यतिरेकतः ॥ ३८ ॥
の
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #131
--------------------------------------------------------------------------
________________
te
द्वितीयं प्रकरणम् । तृतीयं दूषयति-नान्त्य इति। अन्त्यो नियमविधिर्नास्तीत्यन्वयः। तत्र हेतुमाह-नियमजेति । नियमादृष्टस्य कल्पकाभावात् । अवघातादौ तु नियमादृष्टजन्यपरमापूर्वमेवैतत्कल्पकम् । न च ब्रह्मज्ञानमदृष्ट जन्यं केवलव्यतिरेकाभावादित्यर्थः। अव्यतिरेकत इति च्छेदः ॥ ३८ ॥
न हि सत्यपि वेदान्तश्रवणादौ न दृश्यते । अदृष्टाभावदोषेण ब्रह्मज्ञानसमुद्भवः ॥३८॥
व्यतिरेकाभावमुपपादयति-नहीति । नहि वेदान्तश्रवणादी सत्यनियमादृष्टाभावमात्रापराधेन ब्रह्मज्ञानानुत्पत्तिष्टचरीत्यर्थः ॥३६॥
कञ्चित्तत्त्वबोधस्यादृष्टजन्यत्वमिच्छताम् । विधिर्भाष्यविरुद्धोऽयं स विधिस्तैर्निराकृतः॥४०॥
तदङ्गोकार सम्प्रदायविरोध इत्याह--कथञ्चिदिति । ज्ञानस्य कथञ्चिददृष्टजन्यत्वेऽप्ययं विधिर्भाष्यविरुद्धः। समन्वयसूत्रव्याख्यानावसरे महता प्रयत्नेन तैर्भाष्यकृद्भिः स विधिः श्रवणज्ञानविधिनिराकृत इत्यर्थः ॥ ४०॥
अन्यथा निगमान्तानां वाक्यभेदस्त आपतेत् । ब्रह्मात्मैक्यपरत्वेन विधिनिष्ठतया तथा ॥४१॥
विपक्षे बाधकान्तरमप्याह-अन्यथेति । श्रवणविध्यङ्गीकारे वेदान्तानां विधिपरत्वं ब्रह्मपरत्वञ्चेति वाक्यभेदप्रसङ्ग इत्यर्थः ॥४१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #132
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणौ तस्मानास्ति विधिःकश्चिच्छ्रवणादाविति स्फुटम् । एवं प्राप्त समाधानं सम्यगवाऽभिधीयते ॥ ४२ ॥
पूर्वपक्षमुपसंहरति-तस्मादिति । यस्मात्पूर्वोक्तरीत्या युक्तिविरोधस्तस्माच्छ्रवणे विधिर्नास्तीत्यर्थः । एवं पूर्वपक्षे प्राप्ते समाधानं प्रतिजानीते-एवमिति ॥ ४२ ॥
तावदद्वष्टफलस्यापि धर्मज्ञानस्य साधने । अर्वाचीनपुमर्थस्य स्वीकृतोऽध्ययने विधिः॥४३॥ किमुत्कृष्टपुमर्थस्य साक्षात्कारस्य सच्चितः। सा ने श्रवणे वाच्यं विधिरस्तीति सर्वथा ॥४४॥
श्रवणे विधि कैमुत्येन साधयति-तावदिति द्वाभ्याम् । दृष्टफलस्यापि धर्मज्ञानस्य साधने ध्ययने नियमविधिस्तावदङ्गीकृत एव । यदा त्वर्वाचीनपुरुषार्थे परोक्षे धर्मज्ञानेऽप्येवं तदा किमु वक्तव्यं सर्वथा परमपुरुषार्थब्रह्मसाक्षात्कारसाधने श्रवणे नियमविधिरिति द्वयोयोजना ।। ४३-४४ ॥
कल्पकं यदि यागीयापूर्व नियम विधिः। अध्ययने तदा ब्रह्मज्ञानं तत्कल्पकं श्रुतौ ॥४५॥
उभयत्र कल्पकसाम्यमप्यस्तीत्याह-कल्पकमिति। यद्यध्ययने नियमादृष्टजन्यं यागीयापूर्व तत्कल्पकं स्यात्तर्हि श्रुता श्रवणेऽपि ब्रह्मज्ञानं तत्कल्पकमस्त्विति योजना ॥ ४५ ॥
समस्तादृष्टजन्यत्वं ब्रह्मज्ञानस्य सम्मतम् । सर्वकर्माखिलं पार्थ ! ज्ञाने परिसमाप्यते ॥ ४६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #133
--------------------------------------------------------------------------
________________
द्वितीयं प्रकरणम् ।
१०१
ब्रह्मज्ञानस्यादृष्टजन्यत्वं प्रमाणारूढं करोति - समस्तेति ॥ ४६ ॥
अत्र सर्वपदेनेाक्तं यागाद्युत्यमदृष्टकम् । अदृष्टं श्रवणाद्युत्यमखिलञ्चेति निर्णयः ॥ ४७ ॥
-
।
समस्तादृष्टजन्यत्वं ब्रह्मज्ञानस्य कथमनेन वाक्येन प्रतिपाद्यते इत्यत माह – अत्रेति । अत्र भगवद्गीता चतुर्थाध्यायस्य वाक्ये प्रसिद्धयागादीनेवापेच्य सर्वग्रहणमिति भ्रमं व्युदस्य श्रवणादेरपि संग्रहायैवाखिलमित्युक्तम्, अन्यथा पैौनरुत्यादिति तात्पर्यार्थः ॥ ४७ ॥
योऽनधीत्य द्विजेो वेदानन्यच कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ ४८ ॥
वेदाध्ययने स्मृत्युक्तप्रत्यवायान्यथानुपपत्तिरपि तत्कल्पिकेति वैषम्यं शङ्कते - य इति सार्द्धेन ॥ ४८ ॥
इत्येवं प्रत्यवायञ्चेदपेक्ष्याऽत्र विधिर्मतः
तथैव प्रकृतेऽप्यस्तु निन्दा ह्यकरणे श्रुतेः ॥ ४८ ॥
तदाश्रवणेऽपि
प्रत्यवायस्मृत्यन्यथानुपपत्तिस्तत्कल्पिकाऽस्त्विति
साम्येन समाधत्ते—तथैवेति सार्द्धेन । हि यस्मात्स्मृती श्रुतेः श्रवणस्याप्यकरणे निन्दा श्रूयत इत्यर्थः ॥ ४६ ॥
नित्यं कर्म परित्यज्य वेदान्तश्रवणं विना ।
वर्त्तमानस्तु संन्यासी पतत्येव न संशयः ॥ ५० ॥
स्मृतिवाक्यमुदाहरति - नित्यमिति ॥ ५० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #134
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी ननु ब्रह्मात्मतत्वस्य निर्विशेषतया नहि। तज्ज्ञानहेतुता प्राप्तिरन्यतः श्रवणं विना ॥५१॥
नियमासम्भवं शङ्कते-नन्विति। ब्रह्मज्ञाने श्रवणं विनान्वय. व्यतिरेकादीनां नास्ति साधनभावप्राप्तिः, निर्विशेषस्य ब्रह्मणो वेदान्तैकसमधिगम्यत्वात् । तत्कथं नियमसिद्धिः, पक्षान्तरे प्राप्त्यभावादित्यर्थः ॥ ५१॥
मैवं यथाऽवघातेऽस्ति नियमः श्रवणे तथा। विनापि पाक्षिकी प्राप्तिमस्तु वाप्यत्रन क्षतिः॥५२॥ व्रीहीनित्यत्र शास्त्र कगम्यापूर्वीययोगिषु । अन्यतो दलनादेश्चाप्राप्तावप्युच्यते तथा ॥ ५३ ॥
समाधत्ते-मैवमिति। ब्रोहीनवहन्तीत्यत्र शास्त्रैकगम्यापूर्वीयब्रोहिष्वन्यतो दलनाद्यप्राप्तावप्यवधाते यथा नियमः, तथा श्रवणेऽपि पाक्षिकत्वमन्तरेणैव नियमोऽस्तु, तत्र न काचिदनुपपत्तिरिति द्वयोर्योजना ॥ ५२-५३ ॥
अथ सामान्यरूपेण तव प्राप्तिमपेक्ष्य चेत् । व्रीहिमात्रेऽस्ति नियमस्तदत्रापि समं तदा ॥५४॥ व्रीहिमात्रसमाकारस्तत्र यद्वत्तथाऽत्र च । विषयज्ञानमात्रेऽस्ति सामान्याकारसम्भवः॥५५॥
प्रकारान्तरेऽपि साम्यमाह-अथेति । अथ ब्रीहिमानसाधारणाकारेण प्राप्तिमपेक्ष्य तत्र नियमस्तदत्रापि समानं विषयज्ञानमात्रसाधारणाकारस्य सुवचत्वादिति द्वयोर्योजना ॥ ५४-५५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #135
--------------------------------------------------------------------------
________________
द्वितीयं प्रकरणम् । अथाऽपूर्वविधिस्तत्र फलतो नियमो भवेत्। श्रवणेऽपि तथा तर्हि फलतः स भविष्यति ॥ ५६ ॥
प्रकारान्तरेऽपि साम्यमाह-अथेति। अथावधातेऽपूर्वविधिरेव सन् ...फलता नियम इति व्यवहि येत श्रवणेऽपि तथा भविष्यतीति साम्यम्॥५६।।
न च भाष्यविरोधोऽपि तत्त्वज्ञाने विधिर्यतः। निराकृतो न चान्यत्र अवणे ज्ञानसाधने ॥ ५७ ॥ सम्प्रदायविरोधं परिहरति-न चेति ॥ ५७ ॥
मति ज्ञानविधाने हि प्रकृतिमत्ययावुभैा। प्रत्ययाय सह ब्रूतः प्राधान्येनेति शास्त्रतः ॥ ५॥ प्राधान्यात्प्रत्ययार्थस्य नियोगस्यैव सर्वथा। प्रकृत्यर्थतया ब्रह्मदर्शनस्य च गौणता॥ १८ ॥ तद्विशेषणभूतस्य ब्रह्मणः सुतरां भवेत् । गौणत्वं न ततो ब्रह्म सिद्ध्येद्वेदान्तवाक्यतः॥ ६० ॥
ननु तैरपि किमर्थ ज्ञाने विधिनिराकृत इत्यत आह-सतीत्यादित्रिभिः । “दर्शनविधाने हि प्रकृतिप्रत्यया प्रत्ययार्थ सह ब्रूतः प्राधान्येन" इति न्यायेन प्रत्ययार्थस्य नियोगस्यैव प्राधान्याद्, दर्शनस्य प्रकृत्यर्थतया गुणभूतत्वेन तद्विशेषणस्य ब्रह्मणेऽपि सुतरां गुणभाव: स्यात्ततो न वेदान्तैर्ब्रह्म सिद्धपदिति त्रयाणां योजना ॥ ५८-६०॥
ब्रह्मदर्शनमुद्दिश्य प्रधानफलभावतः। श्रवणादि विधाने तु न दोषः स्यान्मनागपि ॥६१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #136
--------------------------------------------------------------------------
________________
१०४
प्रत्यकूतत्त्वचिन्तामणैौ
I
श्रवणे तदङ्गीकारे तु न काचित्क्षतिरित्याह - ब्रह्मेति । फलत्वेन प्रधानं ब्रह्मदर्शनमुद्दिश्य श्रवणादिविधाने तु न कोऽपि दोष इति योजना ॥ ६१ ॥
यज्ञेनेत्यादिवाक्येऽपि ज्ञानार्थं तद्विधिर्मतः । विधिस्तु धारणेऽपूर्वत्वादित्यत्र च तान्त्रिकैः ॥ ६२ ॥ नन्वेवमुपक्रमोपसंहाराभ्यामात्मतत्त्वप्रतिपादनपरे वेदान्तवाक्ये कथमवान्तरवाक्यैः श्रवणादिविधानं कल्प्यते वाक्यभेदप्रसङ्गादित्याशङ्कय वाक्यभेदश्च किमेकदेशिनाऽऽपाद्यते ? किं वा तान्त्रिकेण ? इति विकल्प्याद्यं प्रत्याह – यज्ञेनेति । वेदान्तेऽप्यवान्तरवाक्यभेदेन " विविदिषन्ति यज्ञेन ” (बृ० ४ । ४ । २२) इत्यत्र ज्ञानसाधनत्वेन यज्ञादिविध्यङ्गीकारादित्यर्थः । द्वितीयं प्रत्याह — विधिस्त्विति । प्रेताग्निहोत्रप्रकरणे "अधस्तात्समिधं धारयन्ननुद्रवेद्" इत्यधा धारणं विधायोपरि हि देवेभ्यो धारयतीति पठितम् । तत्र दैविकमुपरिधारणमन्यत्र प्रकरणमध्ये श्रुतमपि विधेयमिति विधिस्तु धारयेऽपूर्वत्वादित्यधिकरणे निर्णीतत्वादित्यर्थः ॥ ६२ ॥
तिस्रो रात्रीतं कुर्यादितिवत्प्रकृतेऽस्तु सः । का हानिस्तव वक्तव्यमिति निद्र् षणं मतम् ॥ ६३ ॥
अथ कथञ्चिदेतदधिकरणं प्रभाकरो नाङ्गीकुर्यान्तं प्रति समाधानान्तरमाह — तिस्र इति । दर्शपूर्णमासप्रकरणे "तिस्रो रात्रीव्रतं चरेत् " इति रजस्वलाया व्रत कलापिविधिमङ्गीकरोत्येव प्रभाकरः । तस्माद्ब्रह्मप्रकरणेऽपि श्रवणं विधीयतां का तव हानिस्तत्र वक्तव्यम् । त्वयेति शेषः । इतीत्यता हेतोर्मन्मतं निर्दूषणम् । “यत्रोभयोः समो दोष: परिहारश्च तत्समः” इति न्यायेनास्मन्मते त्वया दूषयोद्भावनं न कत्तु शक्यमिति भावः ॥ ६३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #137
--------------------------------------------------------------------------
________________
१०५
द्वितीयं प्रकरणम् । यद्यर्हार्थतया तव्यप्रत्ययस्य समन्वयात् । न विधानार्थता तर्हि वचनान्तरता भवेत् ॥६४॥
अथ तत्रापि तवापरितोषश्चेत्तर्हि प्रकारान्तरं शृण्वित्याहयदीति। यदि रजस्वलावतकलापस्य प्रकरणान्वयासम्भवादगत्या वाक्यभेदाश्रयणम् । इह तु तव्यप्रत्ययस्यार्थित्वेनाप्यन्वयसम्भवान्न तद्युक्तमिति तर्हि वचनान्तरेण भवेदित्यर्थः ॥ ६४ ॥
पाण्डित्यं ब्राह्मणस्तस्मानिर्विद्येत्यादिवेदगीः। भवतु प्रवणादीनामविवादाविधायिका ॥६५॥ तच्छ्रुतेर्गीरनारभ्याऽधीतत्वेन न केनचित् । विरुद्ध्यते विधिस्तस्मानिदुष्टः श्रवणादिके॥६६॥
वचनान्तरमाह-पाण्डित्यमिति । "तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्वाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" (वृ० ३। ५ । १) इति वाक्यं श्रवणादिविधायकमस्तु, तस्यानारभ्या. धोतत्वेनोक्तविरोधाभावात् । तस्माच्छ्रवणादौं विधिनिर्दुष्ट एवेति सिद्धमित्यर्थः। यस्माद् ब्रह्मभाव: परमपुरुषार्थस्तस्माद् ब्रह्मबुभूषुरुपनिषत्तात्पर्यनिर्णयरूपं पाण्डित्यं निःशेषेण सम्पाद्य बालवन्नोरागद्वेषत्वेन युक्तोऽसम्भावनानिराकरणाय युक्तीरनुचिन्तयन्नवस्थातुमिच्छेत् । ततः पाण्डित्यबाल्ये नि:शेषेण सम्पाद्याथ मुनिनिदिध्यासनं कुर्यादिति श्रुत्यर्थः ॥ ६५-६६ ॥
यद्यप्यापाततस्तत्र श्रवणादि न भासते। विचारे क्रियमाणे तु तत्परत्वं हि लभ्यते ॥६॥ १४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #138
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामा ___ ननु तत्र पाण्डित्यादिशब्दैः कथं श्रवणादिविधानमन्यार्थवाचकत्वात्तेषामिति तत्राह-यदीति। आपाततः श्रवणाद्यप्रतीतावपि वाक्यार्थपर्यालोचने वाक्यस्य श्रवणादिविधिपरत्वं निश्चीयते इत्यर्थः ॥ ६ ॥
पाण्डित्यबाल्ययारर्यः सूत्रकारेण वर्णितः। सहकार्यन्तरेत्यत्र मौनस्यापि विधानतः ॥६॥
एतदेव विशदयति-पाण्डित्येति। सूत्रकारेणैव “सहकार्यन्तर. विधिः पक्षण तृतीयं तद्वता विध्यादिवद्' (ब्र० सू०३।४। ४७) इत्यधिकरणे पाण्डित्यशब्दिते श्रवणे बाल्यशब्दितमननस हिते विधि सिद्धवत्कृत्याथ मुनिरिति वाक्यशेषे निदिध्यासनरूपत्वेन मौनस्य विद्यासहकारिणो विधिप्रतिपादनादसाम्प्रदायिकत्वं दुरापास्तमित्यर्थः। तद्वतः श्रवणमननवतः पुंस: पक्षण कृतोपास्तिपुरुषापेक्षया विकल्पेन तृतीयं निदिध्यासनसंज्ञमात्मज्ञानार्थ मुनिशब्दवाच्यं सहकार्यन्तरं विधीयते । श्रवणादाविव मानेऽपि विधिरस्तीति सूत्रार्थः ॥ ६८ ॥ विधौ तव्यस्मृतेर्वाक्यभेदेनान्यत्र तद्विधेः। अवणे द्विविधिर्वाऽस्तु श्रोतव्य इति तद्विधेः ॥ ६८॥
नन्वेवमप्यधीतखाध्यायमध्ये वगतस्य 'श्रोतव्यः' इत्यस्य श्रवणविधेरनुपपत्तिस्तद्वस्थैवेत्याशझ्याह-विधाविति । तव्यप्रत्ययस्य विधावपि स्मरणात् "तद्विजिज्ञासस्व" इत्यादिषु समानप्रकरणेषु श्रुत्यन्तरेध्ववश्यं वाक्यभेदेन विधेरङ्गोकर्त्तव्यतया त्वदपरितोषस्य निरवकाशात् । न चैकस्यामेव शाखायां "श्रोतव्यः" "पाण्डित्यं निर्विद्य” इत्यादि श्रवणविधिद्वयं पुनरुक्तमिति वाच्यम, एकत्र विधायापरत्र विधिमनूद्य विशेषकथनाद् । द्विः श्रवणविधिर्वाऽस्तु। अथवा, यथा मैत्रेयी ब्राह्मणम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #139
--------------------------------------------------------------------------
________________
द्वितीयं प्रकरणम् ।
१०७ पुनरुक्तमेकस्योपसंहाररूपत्वात् । तथा द्विःकृत्वः श्रवणविधिर्भवतु । तस्माच्छ्रोतव्य इति स्थले विधेरुपपन्नत्वमिति शेषः । न काचिदत्रानुपपत्तिरिति भावः ॥ ६॥
तस्माच्छ्रुतिस्मृतिन्यायसंसिद्धः श्रवणे विधिः। निर्दोष इति तत्वैक्यपरिज्ञानफलावधिः ॥७०॥ श्रवणविधिमुपसंहरति-तस्मादिति ॥ ७० ॥ आत्मदर्शनकामेन विरक्तेन मुमुक्षुणा। आत्मा वेदान्तवाक्येभ्यो द्रष्टव्य इति शास्त्रतः ॥७१ श्रोतव्यो गुरुमाश्रित्य मन्तव्योऽध्येय पादरात् । ततो ज्ञानान्महामोहः सकार्यो विनिवर्तते ॥७२॥
"आत्मा वा अरे द्रष्टव्यः श्रोतव्यः' (वृ० ४ । ५। ६) इत्यत्र श्रवणविधिप्रतिपादने फलितमाह-प्रात्मेति द्वाभ्याम् । 'द्रष्टव्यः' इति शास्त्रान्मुक्तिमिच्छता विरक्तेनाधिकारिणा मुक्तिहेतुभूतात्मदर्शनकामेन गुरुमाचार्यमाश्रित्य गुरूपसदनविधिना वेदान्तवाक्येभ्य आत्मा पादरादत्यन्तभक्तिश्रद्धापुरःसरं श्रोतव्यः, आदरान्मन्तव्यः, आदराद् ध्येयो निदिध्यासितव्य इति। आदरादिति स्थलत्रयेऽप्यनुषज्यते। ततः किमित्यत माह-तत इति ॥ ७१-७२ ॥
आत्माऽविद्योद्भवं बन्धं प्रमातृत्वादिविभ्रमम् । आत्मविद्या समुत्पन्ना समूलं बाधतेऽञ्जसा ॥७३॥
ननु प्रमातृत्वादिबन्धस्य सत्यत्वेनानुभूयमानत्वात् कथं तस्याज्ञानमात्रं विरोधिना तत्त्वज्ञानेन विनिवृत्तिः ? इत्याशक्य बन्धस्याज्ञान
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #140
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामा कार्यतया तत्त्वज्ञानेन तन्निवृत्तौ स्थित्ययोगादित्याशयेनाह-आत्माऽविघेति ॥ ७३॥
आत्माऽविद्याविवर्तोऽयं प्रमातृत्वादिविभ्रमः । तत्राद्योऽयमहङ्काराध्यासः प्रत्यक्चिदात्मनि ॥७४ ॥
ननु प्रमातृत्वादेरात्मधर्मत्वेन प्रतीयमानत्वात् कथमविद्याकार्यत्वम् १ इत्याशक्याह-आत्माऽविद्येति । अतात्त्विकोऽन्यथाभावो विवर्तः। तथा च निर्धर्मकस्यात्मन: प्रमातृत्वादेर विद्याविवर्त्तत्वेन न तयोधर्मधर्मिभाव:तत्प्रतीतेओन्तिमात्रशरीरतया न तेन निधर्मकत्वक्षतिरिति भावः । प्रमातृत्वाद्यध्यासस्य सर्वानर्थबोजत्वप्रदर्शनाय तद्धेतुभूताहङ्काराध्यासमाह-तत्रेति । तत्र प्रमातृत्वाद्यध्यासेषु मध्ये प्रत्यचिदात्मनि मूलाविद्याधिष्ठानत्वेन तदुपहितचैतन्ये आद्योऽयं सर्वानर्थहेतुत्वेन प्रसिद्धः सकलकार्याध्यासापेक्षया प्रथमोऽहङ्कारोऽहमिति शब्दोऽहमिति प्रत्ययश्च तस्याध्यासोऽतस्मिंस्तबुद्धिरूप इत्यर्थः ॥ ७४॥
ततः प्राणेन्द्रियादीनां स ततः संसृतिढू ढा। अनादिवासनाजालैर्वृतो जीवोऽत्र सज्जते ॥ ७५॥
तत इति । ततोऽहङ्काराध्यासानन्तरमहङ्कारोपहितचैतन्ये प्राणा दीनां स चाध्यासः। नह्यहङ्कारप्राणेन्द्रियादीन्यात्मत्वेनानुपादाय प्रमातृत्वादिव्यवहारः केवलचैतन्ये सम्भवति । ततः प्रमातृत्वाद्यध्यासात संसृति: जननमरणप्रवाहलक्षणा दृढा तत्त्वज्ञानमन्तरेण दुरुच्छेद्या। संसृतिदायहेतुमाह-अनादीति। अध्यासस्यानादितया तन्मूलवासनानामप्यनादित्वम् । जालशब्दः समूहवचनो मत्स्यादिबन्धनसाधनजालवचनश्च । वासनानामानन्त्यात्तदावृतो जीवोऽत्र संसृता सज्जते मासक्ततया निमग्नो भवतीत्यर्थः ॥ ७५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #141
--------------------------------------------------------------------------
________________
द्वितीयं प्रकरणम् ।
१०६ तत्र साधनसम्पन्नः शुद्धान्तःकरणः पुमान् ।। श्रवणादी प्रवृत्तः सन् स्वज्ञानं लभतेऽञ्जसा ॥७६ ॥
एवमविद्यामूलकाध्यासकार्यसंसृतिं प्रदर्श्य तन्निवृत्तिप्रकारं संक्षेपेण दर्शयति-तन्नेति। तत्राऽनादी संसृतिप्रवाहे कश्चित्पुण्यपुजैः पुमान लब्धाधिकारिशरीरः सुकृतपरिपाकेन शुद्धान्तःकरणस्तत्फलसाधनचतुष्टयसम्पन्नः श्रवणादा तत्त्वज्ञानसाधने प्रवृत्तः सन्नजसा भगवत्प्रसादादनायासेन स्वस्य ब्रह्मात्मैक्यतत्त्वस्य ज्ञानं साक्षात्कारात्मकं लमत इति योजना ॥ ७६ ॥
तत्त्वज्ञाने समुत्पन्ने सकार्याज्ञानबाधनात् । जीवन्मुक्तो निजानन्दे तिष्ठत्युज्झितसंसृतिः ॥ ७ ॥
ततः किमित्यत आह-तत्त्वज्ञान इति ॥ ७७ ॥
तस्मादध्यासमूलस्वाज्ञानबाधोपपत्तये। प्राचार्याश्रयणेनात्माऽन्वेष्टव्यः श्रवणादिभिः ॥७८॥
प्रकृतमुपसंहरति-तस्मादिति। यस्मादज्ञानमूलकोऽनर्थस्तस्मादध्यासमूलभूतात्माज्ञानबाधस्योपपत्तिः सिद्धिर्यस्मात्तत्त्वदर्शनात्तदर्थम् 'भाचार्यवान्पुरुषो वेद' (छा०६।१४। २) इत्यादिशास्त्रादाचार्याधीनात्मज्ञानोत्पत्तिः। तस्मात्तदाश्रयणेन सेवादिनाऽनुकूलाचरणेनाभिमुखीकृत्य तमाचार्य ततः श्रवणादिभिरात्मज्ञानसाधनैरात्माऽन्वेष्टव्यो विचारेणान्विष्य ज्ञातव्य इत्यर्थः ॥ ७८ ।।
श्रवणमननसिद्धब्रह्मविद्यार्कभासा
भ्रमतिमिरमशेषं नाशयित्वा समूलम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #142
--------------------------------------------------------------------------
________________
११०
प्रत्यकूतत्त्वचिन्तामयै ।
निरवधिसुखसिन्धा यत्कृपालेशयेोगाद् विहरति सुविपश्चित्तं प्रपद्ये मुकुन्दम् ॥ ७८ ॥
इति प्रत्यक्तवचिन्तामणौ द्वितीयं प्रकरणं सम्पूर्णम् ॥ २ ॥
ससाधनमात्मज्ञानमोश्वरप्रसादाधीनं तत्प्रसादश्च तदनन्यशरणत्वेनैव लभ्यस्तदर्थं तमेवानन्यशरणत्वेनाश्रयेदिति मुमुक्षून शितयन् स्वयमाश्रयति - श्रवणेति । यत्कृपालेशयोगाच्छ्रवणमननाद्युपायसिद्धब्रह्मविद्यार्कभासा समूलभ्रमतिमिरं मिथ्याज्ञानध्वान्तमशेषं सकार्य बाधित्वा सुविपश्चित् सम्यकूतत्त्वज्ञानी निरवधिसुख सिन्धावपरिच्छिन्नानन्दसमुद्रे विहरति क्रीडति, " प्रात्मक्रीड आत्मरतिः” ( छा० ७ । २५ | २ ) इत्यादिश्रुतेः । तं मुकुन्दं मुक्तिदातृत्वेन प्रसिद्धं भगवन्तं श्रीकृष्णं प्रपद्ये शरणं व्रजामीति योजना ॥ ७८ ॥
शरण्यादिगुणाधारं सारं सारविदां वरम् । चिदानन्दघनाकारं वारं वारं हरिं नुमः ॥ १ ॥
इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्द विद्वत्कृतायां प्रत्यकूतत्त्वचिन्तामणिव्याख्यायां स्वप्रभाभिधार्या श्रवणविधिमयूखाभिधं द्वितीयं प्रकरणं समाप्तिमगमत् ॥ २ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #143
--------------------------------------------------------------------------
________________
अथ तृतीयं प्रकरणम् अचिन्त्यरूपाय वचोतिगाय
ब्रह्मादिवन्द्याङ्घ्रिसरोरुहाय । दृश्यातिगायाऽद्वयचित्सुखाय
नमो मुकुन्दाय रमाश्रिताय ॥१॥ यं श्रीमन्तमुपासते मुनिगणा ब्रह्मादिदेवा रमा वेदान्ताः समपोह्य दृश्यमखिलं यस्मिन्प्रतिष्ठां गताः । आश्रित्यामलबोधगोचरमजं यं मुक्तिभाजो भवन हीना अप्यखिलैर्गुणैर्वजपतेरङ्के गतं तं भजे ॥ १ ॥ नन्दनन्दनमानन्दमानन्दप्रदमद्भुतम् । आनन्दाय सदा वन्दे नन्दाङ्कगतमादरात् ॥२॥
अतीतानन्तरप्रकरणे "श्रवणादिभिरात्मान्वेष्टव्यः” इत्युक्तं तत्र प्रमाणभावाभावाभ्यामनिष्टत्वापादनशङ्कानिराकरणेनात्मनः स्वप्रकाशत्वमुपपादयितुं प्रकरणान्तरमारभमाणः स्वेष्टदेवतानमस्कारव्याजेन प्रकरणप्रतिपाद्यमर्थ सङ्क्षिप्य दर्शयति-अचिन्त्यरूपायेत्यादिपद्यद्वयेन । “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" (तै० २।४) "यन्मनसा न मनुते" ( तै० २ । ५) "यद्वाचानभ्युदितम्” ( तै० २।४) इत्यादिश्रुतिसिद्धवाङमनसगोचरातीतस्वरूपाय मुकुन्दाय नमोऽस्त्विति सम्बन्धः। तत्र हेतुः-दृश्यातिगायेति । दृश्य दर्शनकर्माहमविद्यातत्कार्यवर्गश्च तदतिक्रान्ताय । ततो जातिगुणक्रियाविशेषणादिवाच्यचिन्त्यधर्मातीतत्वात्तथाभूताय नमः-प्रबोभावोऽस्तु। ननु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #144
--------------------------------------------------------------------------
________________
११२
प्रत्यकतत्त्व चिन्तामयैर
तथाभूतस्य नमस्कार्यत्वमपि कथमिति तत्राह —- मुकुन्दायेति । तथाभूतोऽपि भक्तानुप्रद्दाय प्रादुः कृतानन्तकल्याणगुणग्यालङ्कत निरतिशयानवधिक सैौन्दर्य्यमाधुर्य्य सौष्ठवपारावारलीलाविग्रहो भगवान्मुकुन्दो नमस्कार्य इत्यर्थः । तस्य नमस्काय्र्यत्वमत्यन्तप्रसिद्धमित्याह — ब्रह्मादीति । तथा च द्रष्टृत्वादिगुणकैरीश्वरत्वेन लोकप्रसिद्धैरपि वन्दनीयपदारविन्दत्वान्नमस्कार्यो भगवान्मुकुन्द इत्यर्थ: । लीलाविग्रहं भगवन्तं विशिनष्टि — रमाश्रितायेति । रमा ब्रह्मविद्याशक्तिस्तयाऽऽलिङ्गिताय । तथा च ब्रह्मविद्यारूपर माशक्तयाऽऽलिङ्गितत्वेनैव लीलाविग्रहप्रदर्शनं भगवता क्रियते भक्तानुग्रहायेत्यर्थः । सलीलाविग्रहो भगवान् किं स्वरूप इत्यत्राह - अद्वय चित्सुखायेति । अद्वयं द्वैतवर्जितं यच्चित्सुखं स्वज्योतिरानन्दस्तद्रूप एव लीलाविग्रहो भगवान्मुकुन्दस्तस्मै नमोऽस्त्वित्यर्थः ॥ १ ॥
मानातिगायानुभवैकधाम्ने मानप्रकाशाय पुमर्थसीम्ने सर्वोत्तमध्येय महामहिम्ने
श्रीमाधवायास्तु नमो विभूने ॥ २ ॥
एवं सामान्यतः शास्त्रप्रमेयमुक्ता प्रारिप्सितप्रकरणस्यासाधारणप्रमेयं सूत्रयति - मानातिगायेति । सर्वप्रमाणातीतायेत्यर्थः । सर्वप्रमाणातीतस्य कथमनुभव इत्यत आह- अनुभवैकधाम्ने इति । अनुभव एवैकं मुख्यं धाम प्रकाशस्तद्रूपायेत्यर्थः । नहि स्वतेऽनुभवरूपोऽनुभवान्तरमपेक्षते ऽनवस्थापातादिति भावः । यद्वा, अनुभवस्यैकमसाधारणं धाम निवासभूमिस्तद्रूपाय । तथा च सर्वानुभवाधिष्ठानवस्तुनाऽतिरिक्तस्यानुभवस्याभावात् कथं तदपेक्षेति भावः । नन्वनुभवजनकानि प्रत्यक्षादीनि प्रमाणानि किमिति स एव सर्वानुभवाधिष्ठान
ܘ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #145
--------------------------------------------------------------------------
________________
तृतीयं प्रकरणम् ।
११३ मिति तत्राह-मानप्रकाशायेति । प्रमात्रायधिष्ठानत्वेन प्रमाणप्रकाशो यस्मात्तस्मै । नहि साक्षिचैतन्यमृते प्रमाणानां स्वतोऽनुभवजनने शक्तिः, प्रमाणशब्दवाच्यानां वृत्तिविशेषाणां जडत्वात् । ततस्तदारूढं चैतन्यमेवानुभवजनकमिति भावः । ननु प्रमाणादिभालकत्वेन प्रसिद्धस्यात्मनः सुखादिभिन्नतया पुमर्थत्वाभावात् कथं नमस्कार्यत्वम् ? इत्यत आह-पुमर्थसीम्ने इति। "न स पुनरावर्त्तते" (छा०८। १५ । १) इति श्रुत्या तस्यैव परमपुरुषार्थत्वेन निश्चितत्वात पुरुषार्थत्वं त्वत्रैव पर्यवसन्नमित्यर्थः। तत्र हेतुमाह-विभूम्ने इति। विगतो भूमा यस्माद्-यमपेक्ष्यान्यो भूमा नास्तीत्यर्थः । “यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा" (छा० ७ । २४ । १) “यो वै भूमा तत्सुखं नाल्पे सुखम्' (छा० ७ । २३ । १) इत्यादि श्रुतिसिद्धापरिच्छिन्नसुखस्वरूपस्य विभूम्नो ब्रह्मण एव पुमर्थसीमत्वमिति भावः । नन्वविद्यादिप्रतिबन्धसत्त्वे कथं पुमर्थसीमत्वेन तस्य ज्ञानमिति तत्राह-श्रीमाधवायेति । श्रिया ब्रह्मविद्यया मां मायाशक्तिं सर्वव्यामोहकी धुनोति भक्तानामिति श्रोमाधवः । यद्वा, मा वेदान्तजा प्रमा तस्या धवः पतिः साक्षादनायासेन भक्तेभ्यो दातृत्वेन स्वामीति माधवः ।
"मा विद्या च हरेः प्रोक्ता तस्या ईशो यतो भवान् । तस्मान्माधवनामासि धव: स्वामीति शब्दितः ॥"
इति हरिवंशे श्रीरुद्रवाक्यम्। श्रीमश्चिासौ माधवश्च स च तस्मै श्रीमाधवाय नमः-प्रबोभावोऽस्तु। तथा च तत्त्वज्ञानदानेनाऽविद्यातत्कार्यमपबाध्य पुमर्थसीमत्वेन स्वरूप एव सन् स्वभक्तानां स्वयमेव भगवानाविर्भवतीत्यर्थः। अत एव सर्वोत्तमैः शिवविरच्यादिभिः सद्भिर्येयोऽवश्यं ध्यातव्यो महामहिमा उदारमाहात्म्यं यस्य तस्मै। तथा च मुकुन्दमाधवादिशब्दवाच्यात्मतत्त्वमेव सर्ववेदान्तप्रतिपाद्यत्वेन शास्त्रप्रमेयम्, तदेवात्र प्रतिपाद्यते इति भावः ॥ २॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #146
--------------------------------------------------------------------------
________________
११४
प्रत्यक्तत्त्वचिन्तामा अखण्डमात्मानमुदारबोधं
सुखामृतं सत्यमशेषहेतुम् । प्रमाणमेयादिविभागशून्यं
धिया विदित्वैति नरो विमाक्षम् ॥३॥
सूत्रितमर्थ विवरीतुमादौ यथोक्तात्मतत्त्वज्ञानेनैव मोक्षसिद्धिरित्याह-प्रखण्डमिति । स्वगतादिभेदशून्यमात्मानं धिया वेदान्तवाक्यजप्रमारूपान्तःकरणवृत्त्या विदित्वा अयमहमस्मीति साक्षात्कृत्य नरोऽधिकारी विमोक्षमेति प्राप्नोतीत्यन्वयः। तस्य परमपुमर्थत्वमाह-- सुखामृतमिति । सुखञ्च तदमृतश्च तत् । तथा च दुःखात्यन्ताभावोपलक्षितं सुखमेवामृतं मोक्षो न केवलतार्किकाभिमतदुःखाभाव इति तात्पर्यार्थः। तस्याबाध्यत्वमाह--सत्यमिति । जाड्यव्यावृत्त्यर्थमाह-उदारबोधमिति । अपरिच्छिन्नज्ञानघनमित्यर्थः । उदारपदव्यावर्त्यमाह-प्रमाणेत्यादि । निर्विषय ज्ञानस्वरूपत्वादपरिच्छिन्नमित्यर्थः। प्रपन्चंप्रत्यभिन्ननिमित्तोपादानकारणत्वमपि तस्यैवेत्याह-प्रशेषहेतुमिति। तथा च यथोक्तप्रत्यगभिन्नसर्वाधिष्ठानभूतस्वप्रकाशब्रह्मात्मतत्त्वज्ञानं मोक्षसाधनमिति भावः ॥३॥
ननूक्तरूपे परमात्मतत्त्वे
प्रमाणमस्त्यत्र न वाऽस्ति चेत्तत् । तदा परिच्छेद्यतया जड़त्वा.
दनात्मतात्मन्यवभास्यभावात् ॥ ४ ॥
प्रथात्मनः स्वप्रकाशतयैव सिद्धत्वं वाऽनात्मघटादिवत्प्रमाणाधीनसिद्धिकत्वमिति साधयितुं पूर्वपक्षमुत्थापयति-नन्विति । उक्तरूपे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #147
--------------------------------------------------------------------------
________________
तृतीयं प्रकरणम् ।
११५ परमात्मतत्त्वे प्रमाणमस्ति ? न वा ? अस्ति चेत्तर्हि प्रमाणप्रकाश्यत्वेन जडत्वादनात्मताऽऽत्मनि स्यादिति योजना ॥४॥
न चेत्यमाणं परमात्मनीष्टं
तदाऽनृतत्वाच्छशशृङ्गकल्पः। स्यात् प्रत्यगात्मा यत इष्यते न
प्रमाणशून्यस्य च सत्त्वमीषत् ॥ ५॥ न चेदिति । एतदोषपरिहाराय तत्र प्रमाणं नेष्टं चेत्, तवेति शेषः । तदा प्रमाणरहितस्यानृतत्वादलीकत्वात् शशविषाणतुल्य एव प्रत्यगात्मा स्यात् । कुतः ? इत्यत आह-यत इति । यस्मात्प्रमाणशून्यस्य । चोऽप्यर्थे । ईषदपि सत्त्वं नेष्यते प्रामाणिकैरिति शेषः ॥ ५ ॥
भवेत्तवोक्तं यदि मानशून्य
तयाऽऽत्मनः स्यादनृतत्वमस्य । किमर्थमात्माऽयमपेक्षते त
त्प्रमाणमेतद्वद युक्तियुक्तम् ॥६॥ स्वप्रकाशतयैव सिद्धे प्रत्यक्तत्त्वे न त्वदुक्तविकल्पावकाशइति वक्तुं सिद्धान्ती भूमिकामारचयति-भवेदिति । त्वदुक्तविकल्पावकाशस्तदा भवेद, यद्यस्य नित्यापरोक्षरूपस्यात्मनो मानशून्यतया स्यादलीकत्वम् । तदेवातिदुर्घटम् । अयमात्मा किमर्थ तत्प्रमाणं लोकसिद्धप्रमाणशब्दवाच्यमपेक्षते ? त्वमेतन्मत्पृष्टस्योत्तरं युक्तियुक्तं वदेति योजना ॥ ६॥ स्वरूपलाभाय किमात्मनो वा
प्रतीतये मानमपेक्षतेऽयम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #148
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी न तावदाद्यो यत प्रात्मनाऽस्य
स्वरूपतो नित्यतयाऽनपेक्षा॥७॥
आत्मनः प्रमाणानपेक्षतामुपपादयितुं विकल्पयति-स्वरूपेति । मात्मनः स्वरूपलाभायायमात्मा प्रमाणमपेक्षते ? उताहो प्रात्मप्रतीतये ? न तावदाद्यः, यतोऽस्यात्मनः स्वरूपेण नित्यत्वात्प्रमाणाकाङक्षाविरहादित्यर्थः ॥ ७ ॥
अकार्य प्रात्माज्यमनन्त इष्टो
मानानपेक्षाऽस्य सदैव सत्ता। न वा प्रमाणं जनकं कदाचि
निजप्रमेयस्य भवेन दृष्टम् ॥ ८॥
एतदेवोपपादयति-प्रकार्य इति । अयमात्मा अकार्योऽनन्तश्च इष्टः श्रुतीनामिति शेषः। उत्पत्तिनाशशून्यः, अतोऽस्य सदैव सत्ता प्रमाणाकाङ्क्षावर्जिता। नहि कालत्रयेऽप्यबाध्यस्यात्मनः सत्ताप्रमाणाधीनेति वचः युक्तिसहम् । न वा प्रमाणं स्वप्रमेयस्य कदाचिजनकं भवेत् । न वा तथा क्वचिद् दृष्टमिति योजना ॥८॥
प्रतीतये चेदिदमात्मतत्त्वं
ह्यपेक्षते मानमसङ्गवस्तु । तदा विचार्या किमु मानतन्त्रं
प्रतीतिमानं जडभानमाहो ॥८॥
स्वप्रतीतये प्रमाणमपेक्षते इति पक्षं विकल्पयति-प्रतीतये इति । प्रतीतिमात्र प्रमाणाधीनं जडभानञ्चेति (वेति ?)॥ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #149
--------------------------------------------------------------------------
________________
तृतीयं प्रकरणम् ।
आद्ये प्रमाणोऽपि तदास्ति वाच्यं मानान्तरं ते तदभाव एतत् ।
मृषात्मकत्वाच्छशशृङ्गकल्पं
स्वमेयसिद्धौ च कथं क्षमेत ॥ १० ॥
अन्त्ये दोषाभावान्न कदाचित् क्षतिरिति तदुपेक्ष्य प्रथममतिप्रसङ्गेन दूषयति — प्राद्य इति । तदभावे प्रमाणान्तराभावे एतत्प्रमाणं मृषात्मकत्वाच्छशविषाणतुल्यं ततश्च स्वप्रमेयसाधने कथं समर्थः स्यादित्यर्थः ॥ १० ॥
मानान्तराङ्गीकृतितः प्रमाणे तवानवस्येतरया न सिद्धिः ।
अथ प्रमाणं निरपेक्षमेव
११७
स्वमेयसिद्धौ क्षमते स्वभानम् ॥ ११ ॥
मपेक्षां तर्हि प्रमाणं स्वप्रसिद्धये प्रमाणान्तरमिति नेत्याहमानान्तराङ्गीकृतित इति । इतरथा तदनङ्गीकारे न प्रमाणसिद्धिरित्यर्थः । अथ प्रमाणं स्वभानं स्वप्रकाशमन्यनिरपेक्षमेव स्वप्रमेयसिद्धी क्षमते ॥ ११ ॥
स्वयंप्रकाशस्य न चास्त्यपेक्षा प्रदीपवत्स्व व्यवहारसिद्धौ । न वा स्वमेयव्यवहारसिद्धौ
मानस्य मानान्तरता व्यपेक्षा ॥ १२ ॥
एतदेव पूर्वपक्षमुखेनेोपपादयति – स्वयमिति सार्द्धेन । स्वप्रकाशस्यान्यनिरपेक्षत्वमेव नहीत्यादिना दृढीकृतमिति द्रष्टव्यम् ॥ १२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #150
--------------------------------------------------------------------------
________________
११८
प्रत्यकूतत्त्वचिन्तामयौ
नहि प्रमाणं खलु साधकं सत् स्वसिद्धयेऽप्यन्यदपेक्षते यत् । इतीष्यते चेच्छुणु भाः समाधिं स्वयंप्रकाशं यदि मानमेवम् ॥ १३ ॥
।
एवं पूर्वपतमनूय समाधत्ते - इतीति । तथा च प्रतीतिमात्र प्रमाणाधीनमिति सासहं त्वया त्यक्तव्यमिति भावः ॥ १३ ॥
हन्ताऽस्य विश्वस्य तदाऽखिलस्य प्रमाणमेयात्मन प्रासमन्तात् । यः साधकः प्रत्यगयं कथं स्यात्
•
स्वाधीनमानेन हि सिद्ध एषः ॥ १४ ॥
श्रात्मनः स्वभानेऽन्यानपेक्षत्वं कैमुत्येन साधयति — इन्तेति । हन्तेति अनुमतैा । स्वप्रकाशस्य स्वभासनेऽन्यानपेचत्वमिति यदुक्तं तत्र ममाप्य - नुमतिरस्तीत्यर्थः । प्रमाणप्रमेयादिरूपस्य समस्तस्य जगता येोऽयं प्रत्यगात्मा सर्वतः स्वसत्तास्फूर्तिदानेनावभासकः स एव स्वाधीन सिद्धिकेन कथं हि सिद्ध: स्यादिति योजना ॥ १४ ॥
मानप्रवृत्तेः स पुरा चिदद्वयः प्रमातृरूपोऽखिल साक्षिरूपधृक् । सिद्धोऽन्यथा मानमसिद्धमातृकं
स्वरूपमेवापि कथं लभेत तत् ॥ १५ ॥
* तदिति पाठः साधु प्रतीयते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #151
--------------------------------------------------------------------------
________________
तृतीयं प्रकरणम् ।
११६ प्रमाणप्रवृत्तेः प्रागात्मनः प्रमातृसाक्षिरूपेण सिद्धत्वादपि न तदपेक्षेत्याह-मानेति । विपक्षे बाधकमाह-अन्यथेति । प्रमाणप्रवृत्तेः प्रागात्मनोऽसिद्धत्वेन पूर्वसिद्धः प्रमाता यस्य तत्प्रमाणं स्वरूपमेव कथं लभेत ? न हि प्रमातृसिद्धिमन्तरेण प्रमाणशरीरं सम्भवतीत्यर्थः ॥ १५ ॥
सर्वस्य मातारमिदं प्रमाण
मात्मानमेकं विषयं प्रकर्त्तम् । क्षम कथं स्यादपि कर्मकर्त
विरोधतोऽन्यस्य न मातृता वा ॥१६॥ आत्मनस्तदपेक्षत्वे युक्तिविरोधमाह-सर्वस्येति । इदं प्रमाणं कर्तृ सर्वस्य प्रमातारमात्मानमेकं स्वव्यतिरिक्तप्रमातृशून्यं कर्मतया कथं विषयीकर्तुं क्षमं स्यात् ? नहि विषयिणं प्रत्यञ्च दीपवत्स्वप्रकाशं घटादिवद्विषयभूतं प्रमाणं विषयोक क्षमते इत्यर्थः। किञ्च, आत्मनि प्रमाणप्रवृत्तौ प्रमाता किमात्मैव ? किं वाऽनात्मा ? प्राचं दूषयति-कम्र्मेति । एकदैव गुणप्रधानभावो विषयविषयिभावेनैकस्मिन् विरुद्ध इत्यर्थः । द्वितीयं दूषयति-अन्यस्येति । अनात्मनो जडत्वादेव प्रमातृत्वानुपपत्तिरित्यर्थः ॥ १६ ॥ येनात्मना मानमुखमपञ्चः
प्रसिद्धिमायाति चराचरात्मा। तस्याऽस्य सिद्धौ यदि मानवाञ्छा
भवेत्तवाहो मतिवैभवं तत् ॥ १७॥ प्रमाणमन्तरा कथमात्मसिद्धिरिति वदन्तं प्रत्युपहसतियेनेति ॥ १७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #152
--------------------------------------------------------------------------
________________
१२०
प्रत्यक्तत्वचिन्तामा तथा च मातुः स्वत एव चित्वात्
सिद्धत्वमस्त्यात्मन आन्तरस्य । न चास्त्यलीकत्वमपि प्रमाणा
भावान्नृशृङ्गादिवदस्य विष्णोः ॥१८॥ फलितमाह-तथा चेति ॥ १८ ॥
किजात्मनोऽसत्त्वमनात्मना किं
विज्ञायते वाऽऽत्मचिता न चाद्यः। अनात्मना ज्ञातृतया न चान्त्यो
व्याघातदोषादपि साधुरस्ति ॥ १६ ॥
एवं प्रमाणाभावमात्रेणात्मनोऽसत्त्वापादनं निराकृतमिदानी प्रमा. यादात्मनोऽसत्त्वस्य सिद्धिपक्षं दूषयितुं विकल्पयति-किञ्चेति । अज्ञातृतयेति च्छेदः। ज्ञेयैकस्वभावत्वादनात्मन इत्यर्थः ॥ १६ ॥
आत्मा स्वसत्तासमये स्वकीयं
किं वेत्यसत्त्वं किमसत्त्वकाले। प्राधे स्वसत्तासमये कुतः स्वाऽ
सत्ता तथा चाऽत्र किमेष विद्यात् ॥२०॥ व्याघातदोषादित्युक्तं हेतुं विवृणोति-आत्मेति । किमेष विद्याद्विषयस्यैवाभावात् ॥ २० ॥ स्वासत्त्वकाले कथमेव विद्या- .
स्वस्याप्यभावात् क्व च कश्च बोद्धा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #153
--------------------------------------------------------------------------
________________
तृतीयं प्रकरणम् ।
१२१ न चात्मनोऽसत्वमपि प्रवक्तं
शक्यं कृतादेः क्षयमुख्यदोषात् ॥२१॥ स्वेति । स्वस्यापि ज्ञातुरात्मन इत्यर्थः । क्व कस्मिन् विषये कश्च ज्ञाता स्यादित्यर्थः । कृतादेः आयमुख्यदोषात् कृतहान्यकृताभ्यागमादिदोषप्रसङ्गादित्यर्थः ॥ २१ ॥
किचात्मनोऽसरवमतिः स्वमेव
निराकरोत्येव परात्मकं वा। आये निराकर्तरसत्वमस्ति
सत्यो निराकार्य इतः स आत्मा ॥२२॥
किञ्चेत्यादिपद्यद्वयं निगदव्याख्यातम्। निराक रसत्वे निराकार्यस्यात्मनो निराकरणाभावे ह्यत एव सत्यत्वं सिद्धमित्यर्थः ॥ २२ ॥
अन्त्ये निराकर्तु रिहात्मभावात्
कुतोऽस्त्यसत्त्वं परमात्मनेोऽस्य । श्रुतिः स्वसत्तादिकवेदिनाहि
वदत्यसत्त्वञ्च तथैव सत्त्वम् ॥२३॥
स्वसत्त्ववेदिनः सत्त्वं वदति स्वासत्त्ववेदिनोऽसत्त्वं वदति श्रुतिः "प्रसन्नेव स भवति । असद् ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद् वेद । सन्तमेनं ततो विदुः।" ( ० २।६) इति ॥ २३ ॥
किञ्च प्रमाणं सति गोचरे वा
प्रवर्तते वाऽसति चेद् द्वितीयः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #154
--------------------------------------------------------------------------
________________
१२२
प्रत्यक्तत्त्वचिन्तामणी तदा प्रमाणं क्षमते नृशृङ्गं
सामर्थ्यवसाधयितुं मते ते ॥२४॥ प्रमाणाधीना वस्तुसत्तेति कोऽर्थः ? किं सति प्रमाणे वस्तुसाचा जायते १ ज्ञायते वा ? तत्राद्य निराकर्तुं विकल्पयति-किञ्चेति। तत्र द्वेधा विकल्प्यान्त्यमतिप्रसङ्गेन दृषयति-तदेति॥ २४ ॥ सत्येव चेत्तर्हि न वस्तुसत्ता
प्रमाणसाध्या स्वत एव सिद्धा। प्रमेयसत्ताऽभ्युपगम्यते हि
मानप्रवृत्तः स्वत एव पूर्वम् ॥२५॥
आधं प्रत्याह-सत्येवेति ॥ २५ ॥
यद्यस्ति भानं सत एव माना
यत्तं मतं वस्तुन एतदस्तु । अभानरूपे जडवस्तुनीत्थं
न भानरूपे स्वयमात्मनीह ॥ २६ ॥
। . वस्तुसत्ता सति प्रमाणे ज्ञायते इति पक्षे समाधानमाह-यदीति । सत एव वस्तुनो भानं मानाधीनं यदि तेऽभिमतम, तदाऽभानरूपे जडवस्तुनि एतदस्तु। इह स्वयंभानरूपे प्रात्मनि नेत्यं-कथमेवं स्यादित्यर्थः ॥ २६ ॥
तमेव भान्तं ह्यनुभाति सर्व
तस्यैव भासा सकलं विभाति।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #155
--------------------------------------------------------------------------
________________
१२३
तृतीयं प्रकरणम्। इति श्रुतेः स्वात्मपदं प्रकाश
स्वभावतो मानमपेक्षते नो ॥२७॥
तत्र श्रुति प्रमाणयति-तमेवेति।। "न तत्र सुर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्व
तस्य भासा सर्वमिदं विभाति" (मु०२।२।१०) इति श्रुतेः। "न तद्भासयते सूर्यो न शशाङ्को न पावकः” (गी० १५ । ६) इति स्मृतिश्चात्मनः स्वप्रकाशत्वे प्रमाणमित्यर्थः ।। २७ ।।
किञ्च प्रमाणं किमिहात्मनीत्थं
पृच्छन्तम प्रतिवाच्यमेवम् । सर्वाणि मानानि चिदात्मनीति
ह्यज्ञातभावाद्विषयश्चिदात्मा ॥२८॥
एतावता प्रमाणाभावे आत्मन्यसत्त्वापत्तिरिति परिहृतम् । सम्प्रति श्रुतेस्तत्र कैमुतिकन्यायेन प्रामाण्यमुपपादयितुं सर्वप्रमाणविषयत्वमात्मनस्तावदाह--किञ्चेति । प्रमाणानामात्ममात्रविषयत्वे हेतुमाह-अज्ञातभावादिति । अज्ञातज्ञापकत्वमेव प्रामाण्य प्रमाणाविवादम् । अज्ञातत्वञ्चात्मन एव स्वयंभानानहत्वात्तस्यैवाज्ञाननामित्यविषयत्वम् । नत्वनात्मनस्तस्याऽज्ञानकार्यतया जडत्वादिति भावः ॥ २८॥
प्रेमास्पदत्वात्सुखमेव नित्यं
स्वयंप्रकाशं परमात्मतत्वम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #156
--------------------------------------------------------------------------
________________
१२४
प्रत्यक्तत्त्वचिन्तामणी मुप्तौ परामर्शवलेन सर्व
न्द्रियाद्यभावेऽप्यवभासमानम् ॥ २६ ॥
प्रात्मनो ज्ञातत्वमुपपादयितुं भूमिका रचयति-प्रेमेति । प्रात्मा तावत्परप्रेमास्पदत्वात्सुखात्मा, तच्च सुखं नित्यं स्वप्रकाशश्च सुखमहमस्खाप्समिति परामर्शबलेन सुषुप्तौ सर्वेन्द्रियविषयाधुपरमेऽपि भासमानत्वादिति योजना ॥ २६॥
ततश्च जाग्रत्समयेऽस्ति भाती
त्येवं प्रतीचि व्यवहारयोग्ये। न भाति नास्तीति विपर्ययो यः
स्वाज्ञानजन्यः स च दृष्ट एव ॥३०॥
ततः किमित्यत्राह-तत इति । ततश्च जाप्रदवस्थायामपि तस्यास्ति भातीति प्रतीता प्राप्तायामपि योऽयं नास्ति न भातीत्यन्यथाव्यवहारः सोऽधिष्ठानाज्ञानजन्य एव दृष्ट इति योजना ॥ ३० ॥ रज्जोर्यथाऽज्ञानजसर्पभानं
तथाऽऽत्मनोऽज्ञानजदृष्टिसिद्धिः। तथा च मानं सकलं प्रतीच्य
ज्ञातात्मभावे फलवत्त्वमेति ॥३१॥
एतदेव दृष्टान्तेन द्रढयति-रज्जोरिति। रज्वज्ञानजन्यसर्पव्यवहारे तथा दृष्टत्वादित्यर्थः। फलितमाह-तथा चेति । अज्ञातोऽज्ञानावृत्त । प्रात्मभावो निरतिशयसुखात्मत्वं यस्य तस्मिन्नेव प्रमाणं फलवत्वं भजते इत्यर्थः ॥ ३१ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #157
--------------------------------------------------------------------------
________________
तृतीयं प्रकरणम् ।
अज्ञानजन्यावरणं प्रतीचि प्रकल्प्यतेऽज्ञात इतश्चिदात्मा ।
प्रमाणसाफल्यमपीह सम्यग
ज्ञातवस्त्वास्पदमेव मानम् ॥ ३२ ॥
एतदेव स्पष्टयति - प्रज्ञानेति । अज्ञात इति च्छेदः ॥ ३२ ॥
जडे स्वतेाऽप्यावृतरूपभावादज्ञानजन्यावरणं न कल्प्यम् ।
प्रयोजनाभावत एष नैव
प्रमाणयोग्योऽविदिताद्यभावात् ॥ ३३ ॥
या यत्र धन्ते ऽतिशयं स तस्य स्याद्रोचरे नैवमनात्मनीदम् ।
अज्ञानमाधत्त दहाफलत्वा
त्कथं भवेत्तस्य स गोचरोऽपि ॥ ३४ ॥
१२५
जडेऽज्ञातत्वाभावमुपपादयति- जडे इत्यादिद्वाभ्यां । योऽज्ञानादिपदार्थो यत्र वस्तुनि अज्ञातादिरूपमतिशयं धत्ते तच्च वस्तु तस्याज्ञानादिपदार्थस्य विषयः स्यादित्यर्थः ।। ३३ – ३४ ॥
1
कथं घटोऽज्ञात इति प्रतीति
स्तर्हति चेदुच्यत उत्तरं भाः । घटादिरध्यस्त इहात्मनीथेऽ
ज्ञानेन सार्द्धं तत एवमस्ति ॥ ३५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #158
--------------------------------------------------------------------------
________________
१२६
प्रत्यक्तत्त्वचिन्तामणी घटेऽज्ञातत्वव्यवहारोऽन्यथासिद्ध इत्याकाङ्क्षापूर्वकमुपपादयतिकथमिति। घटादेरज्ञानेन सहात्मन्यध्यस्तत्वात्तथा व्यवहार इत्यर्थः॥३५॥ घटाद्यधिष्ठानतया चिदात्माऽ
ज्ञानावृतोऽज्ञात इति प्रतीतिः। मानमवृत्त रुदितात्मवृत्त्या
___ ध्वस्तांवृतिवृत्तिगतो विभाति ॥ ३६ ॥ सर्वत्र ज्ञानात( दि ? )व्यवहारोऽधिष्ठानभूतात्मन्येव पर्यवस्यतीत्याह--घटादीति । घटायधिष्ठानत्वेन चिदात्मैवाज्ञानावृतः । 'प्रज्ञान' इति च्छेदः। प्रमाणप्रवृत्तेरुद्धर्वमुदिता जाता या घटायधिष्ठानभूतात्मविषया वृत्तिस्तया ध्वस्ता निरस्ता आवृतिरावरणं यस्य स च घटाद्यधिष्ठानात्मा वृत्तिगतो विभातीति योजना। अयं भावः-घटावच्छिन्नचिदात्मा घटेन्द्रियसनिकर्षसमुद्भूतघटाकारान्तःकरणवृत्तिनिरस्ताविद्यः सन घटावच्छिन्नवृत्तौ प्रतिबिम्बितो घटं भासयतीति घटप्र. तीत्युपपत्तिः । एवं सकलजडप्रतीतिरप्यूह्यति ॥ ३६॥
तथा च सर्वैरपि यः पमाणैः
सिद्धः कथं तस्य चिदात्मनस्ते। मतं प्रमाणाधिपतेः प्रमाणा
भावादसत्त्वं हठमात्रमूलम् ॥ ३७॥ चिदात्मनः सर्वप्रमाणविषयत्वनिरूपणस्य फलमाह-तथा चेति ॥ ३७॥ कथं तदात्मा श्रुतिमात्रगम्यः
सर्वैः प्रमाणैर्यदि गम्यतेऽनौ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #159
--------------------------------------------------------------------------
________________
तृतीयं प्रकरणम् ।
नह्यागमान्ता अनुवादिनः स्युरज्ञातगन्तार इमे प्रमाणम् ॥ ३८ ॥
आत्मनः सर्वप्रमाणगोचरत्वे "तन्त्वौपनिषदं पुरुषं पृच्छामि " (बृ० ३ । - । २६) इति श्रुतौ औपनिषदत्वविशेषणव्याहतिं शङ्कते - कथमिति । "सर्व विशेषणं सावधारणम्” इति न्यायादुपरञ्जकत्वमात्रकल्पनार्या फलाभावेनाध्ययनविधिविरोधादन्यप्रमाणव्यावर्त्तकत्वमेवात्मन्यैौपनिषदत्व विशेषणस्य वक्तव्यम् । तच्च सर्वप्रमाणविषयस्यात्मनो न सम्भवतीत्यैौपनिषदत्वविशेषणमात्मनः कथमपि न सङ्गच्छेतेति तात्पर्यार्थः ॥ ३८ ॥
मैवं चिदानन्दविशुद्धपूर्ण
प्रत्यक्स्वरूपेण यतः स आत्मा ।
मानान्तरागोचर एष तस्माद्वेदान्तमाचावगतिर्मता मे ॥ ३८ ॥
तदेतदूषयति-— मैवमिति । यद्यपि प्रपञ्चाविच्छेदेनात्मनः सर्वप्रमाणविषयत्वम्, तथापि परिपूर्णसच्चिदानन्दादिरूपेण मानान्तरायोग्यत्वात्; तेन रूपेणात्मनः श्रुतिमात्रगम्यत्वाद। पनिषदत्वविशेषणं न विरुद्धाते इति तात्पर्यार्थः ॥ ३८ ॥
नन्वागमाद्भूतधिया निवsज्ञानावृतत्वं श्रुतिगोचरत्वम् । न स्वप्रकाशे तमसाऽऽवृतत्वं
१२७
सम्भावितं सूर्य्य दवान्धकारम् ॥ ४० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #160
--------------------------------------------------------------------------
________________
१२८
प्रत्यक्तत्त्वचिन्तामणी ___ ननूपनिषजन्यज्ञाननिव-ज्ञानविषयत्वमुपनिषद्विषयत्वं न च स्व. प्रकाशचिदात्मन्यज्ञानविषयत्वं सम्भवति भासमानत्वाभासमानत्वयोरेकदैकत्र विरोधादिति शङ्कते-नन्विति ॥ ४०॥ सत्यं तथैवाऽस्ति स एष आत्मा
स्वयंप्रकाशः परमार्थगत्या। तथापि मध्यन्दिनगेऽपि भानौ
तमो दिवान्धाः परिकल्पयन्ति ॥४१॥ तदुक्तमङ्गोकरोति-सत्यमिति । तहि कथमज्ञानविषयत्वमित्यत आह-तथापीति ॥ ४१ ॥ प्रभाकरोऽयं तमसावृतोऽस्ती
त्येवं यथा ते परिकल्पयन्ते। तथैव मूढाः परिकल्पयन्त्य
ज्ञानावृतोऽयं परिपूर्ण आत्मा ॥४२॥ दृष्टान्तं विवृणोति-प्रभाकर इति । दाान्तिके योजयतितथैवेति ॥ ४२ ॥ अतः प्रतीच्यात्मनि कल्पितस्याऽ.
ज्ञानस्य पूर्व स्वयमेव नित्यम् । चिदात्ममाहात्म्यसमुद्धतस्य
निवृत्तये वेदगिरां प्रवृत्तिः॥४३॥ नन्वात्मनि वेदान्तगिरी प्रवृत्तिः किं तद्भानाय १ अज्ञाननिवृत्तये वा? नाद्यः, दृश्यत्वेन मिथ्यात्वापत्तेः। न द्वितीयः, तस्यानादि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #161
--------------------------------------------------------------------------
________________
तृतीयं प्रकरणम् ।
१२६ वेनात्मवनिवृत्त्यनहत्वादिति तत्राह-प्रत इति । कल्पितत्वमुपपादयति-पूर्वमिति । यथा रज्जुस्वरूपपर्यालोचनया सदिस्तत्र नास्ति तथाऽऽत्मस्वरूपपर्यालो वनयाऽज्ञानं तत्रासदित्यर्थः । न अनीपिवमान.. निवृत्त्यनहत्त्वे प्रयोजकम् , प्रागभावे व्यभिचारात् । भावत्वे सत्यनादित्वं नित्यत्वे प्रयोजकमिति चेत्, न; भावत्वानङ्गीकारात् । अससद्वैलक्षण्यवत् सद्वैलक्षण्यस्यापि स्वीकारात् । अत एवाज्ञानं विशिनष्टि-कल्पितस्येति। अनिर्वाच्यस्येत्यर्थः ।। ४३ ॥
स्वयंप्रकाशात्मनि बोधजन्या:
ज्ञानक्षतेभिन्नमलान्तरस्य । निरूपणाभावत आगमान्त
वाचां चिदानन्दपकभाजाम् ॥४४॥ अत एव स्वप्रकाशतया नित्यानुभवरूपे आत्मनि वेदान्तानामज्ञाननिवृत्तिरेव फलं नान्यदित्याह-स्वयंप्रकाशात्मनीति ॥ ४४ ॥ अतः स्वयंज्योतिष प्रात्मनस्त
दाकारवृत्तेजननेन सिद्धम् । वेदान्तवाचां विषयत्वमेवं
न स्वप्रकाशत्वमसिद्धमस्य ॥४५॥
अज्ञाननिवृतिरात्माकारवृत्त्युत्पादनद्वारैव । तथा चाकारवृत्त्युत्पादकत्वेन वेदान्तानामात्मविषयत्वमित्याह-प्रत इति । न स्वप्रकाशत्वमस्यात्मनोऽसिद्धम्, श्रुत्यनुमानप्रमाणसिद्धत्वात्तस्येत्यर्थः ॥ ४५ ॥ नापेक्षतेऽसावितरमकाशं
प्रत्यक स्वसत्तासमये चिदात्मा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #162
--------------------------------------------------------------------------
________________
१३०
प्रत्यकूतत्त्वचिन्तामणैौ
प्रकाशता ह्यव्यभिचारभावादालोकवत्संविदिवाथऽवेति ॥ ४६ ॥
तत्साधकमनुमानप्रमाणमाह – नेति । असौ प्रत्यकूचिदात्मा स्वसत्तासमये प्रकाशतेाऽव्यभिचारिभावादितरप्रकाशं नापेक्षते, आलो कवत् । अथवा संविद्वदिति योजना । हिशब्दः श्रुतिस्मृतिविद्वज्जनानुभवप्रसिद्धिं द्योतयति । इतिशब्दोऽनुमानसमाप्तिद्योतनपरः । तदुक्तमभियुक्तैः - आत्मा इतरानपेक्षप्रकाशः, स्वसत्तायां प्रकाशाव्यभिचारित्वात्, संविद्वदालोकवद्वेति । ज्ञानस्वप्रकाशत्ववादिनं प्रति दृष्टान्तः संविद्वदिति । नैयायिकादीन् प्रति दृष्टान्त प्रालोकवदिति । तथाचानुमानेनापि स्वप्रकाशत्वमात्मन: सिद्धमिति भाव: ।। ४६ ।।
तस्मात्स्व विज्ञानघनस्वभाव
तथा स्वयं ज्योतिरुदीरितोऽसौ ।
अत्राऽयमित्यादिगिराऽनुभूत्या
प्रसिद्ध एष श्रुतिमौलिबुद्धेः ॥ ४७ ॥
नेदमनुमानं निर्मूलं श्रुतिमूलकत्वादित्याह — तस्मादिति । श्रुतिमौलिजन्या बुद्धिर्यस्य तस्य विदुषोऽनुभूत्या एष स्वयंज्योतिरात्मा प्रसिद्ध इत्यर्थः, “अत्रायं पुरुषः स्वयंज्योतिर्भवति” (बृ० ४ । ३ । १४) इत्यादिश्रुतेः । प्रयमर्थः——— अत्र स्वप्नावस्थायां स्वप्ने तावदात्मा प्रकाशते इत्यविवादम् तत्प्रकाशनं न तावद्वाह्य न्द्रियात्, तस्यात्मन्यप्रवृत्तेः, तदानीमुपरमाच । नापि मनसः, तस्य रथादिरूपेण परिणतत्वात् । परिशेषात् स्वयं ज्योतिरात्मेत्यर्थः ॥ ४७ ॥
नन्वेष आत्मा न तथा यथोक्तो यता विरुद्धानुभवावगाह्यः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #163
--------------------------------------------------------------------------
________________
तृतीयं प्रकरणम् ।
१३१ कदाचिदात्मानमहं हि वेग्री
त्येवं न वेद्मीति मतिः कदाचित् ॥४८॥ आत्मानुभूतिद्वयगोचरत्वा
न स्वप्रकाशोऽस्ति घटादिवत्सः । ज्ञातो घटोऽज्ञात इति प्रतीतिः
समाभयोः कुम्भचिदात्मनोवै ॥४८॥ प्रात्मनः स्वप्रकाशत्वं न सम्भवति, तद्विरुद्धानुभवविषयत्वादिति शङ्कवे-नन्विति । कदाचिदात्मानं वेद्मोत्यनुभवः, कदाचिन्न वेद्मोत्यनुभवः, घटं जानामि, घटं न जानामीतिवत्। तथा च विरुद्धानुभवविषयत्वात् कथमात्मनः स्वप्रकाशत्वमिति द्वयोस्तात्पर्य्यार्थः ॥४८-४६॥
तत्स्वप्रकाशं किल यन्न केना
प्याकारतः कस्यचिदेव जातु । ज्ञानस्य कम्मैव भवेत्तदन्यद्
न स्वप्रकाशं परिभाषया यत् ॥ ५० ॥ ज्ञानकर्मत्वस्वप्रकाशत्वयोरेकदैकत्र विरोधान्न दृष्टचरत्वमित्यभिप्रेत्याह-तदिति । किल प्रसिद्धं यद्वस्तु केनाप्याकारेण "सार्वविभक्तिकस्तसिः" कस्यचिदेव ज्ञानस्य जातु कदाचिदपि कम्मैव न भवेत्, 'एवकारस्य भिन्नः क्रमः' नैव ज्ञानकर्मतां भजते; तदेव स्वप्रकाशम्, तदन्यत्ततोऽन्यथा स्वप्रकाशं न भवति, यत्परिभाषया स्वप्रकाशमुच्यते इति योजना ॥ ५० ॥ न वेद्मि मामित्यनुभूतियोगा
दज्ञातता स्वीक्रियते यदि स्वे।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #164
--------------------------------------------------------------------------
________________
१३२
प्रत्यकतत्वचिन्तामया
न स्वप्रकाशत्वमनात्मवत्स्वे
तथापि किं न क्षतिरद्वयस्य ॥ ५१ ॥
1
“प्रनीशया शोचति मुह्यमानः " ( मु० ३ । २) इति श्रुतेर्मामहं न जानामीत्यनुभवादपि न स्वप्रकाशत्वमात्मनः सिद्ध्यतीत्याह - नेति । स्वे श्रात्मनि तत्त्वज्ञान निवर्त्त्याज्ञानविषयत्वमज्ञातत्वमस्तु, को विरोध: ? इत्यत माह - तथापीति । प्रात्मन एवंरूपाज्ञातत्वस्वीकृतावपीत्यर्थः । मामहं न जानामीतिवद् घटमहं न जानामीत्यनुभवाविशेषाद् घटादाविवास्वप्रकाशत्वमात्मनः स्यादिति भावः ॥ ५१ ॥
न ह्येकवस्तुन्यनुभूतिरेषा
न भाति भातीति च यौगपद्यात् ।
न भाति यद्येष कथं तदानीं
विभाति भातीति यदा न भाति ॥ ५२ ॥
ननु स्वप्रकाशत्वमज्ञातत्वश्वोक्तलक्षणमस्त्वात्मनि को विरोध: ? इत्यत आह-नहीति । स्वप्रकाशस्यानादिभावतया नित्यत्वादज्ञानस्याप्यनादित्वेनाकार्यत्वात्कथं युगपदुभयं विरुद्धमात्मनि सम्भवेदिति भावः ।। ५२ ।।
अतो विरुद्धानुभवावगाह्यः कथं स्वयं ज्योतिरयं चिदात्मा ।
अत्रोच्यते श्रौतमतः समाधि
·
स्तवोंक्तदोषाऽपनयाय वादिन् ॥ ५३ ॥
पूर्वपक्षमुपसंहरति प्रत इति । उक्तदोषपरिहारपूर्वकं स्वप्रकाशत्वं साधयितुं प्रतिजानीते - अत्रोच्यते इति ॥ ५३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #165
--------------------------------------------------------------------------
________________
१३३
तृतीयं प्रकरणम् । ज्ञातस्तथाऽज्ञात इति प्रतीति
र्याऽनात्मनिष्ठा न च सात्मनि स्यात् । विलक्षणोऽयं विदितात्तथान्या
ऽप्यज्ञाततः श्रोतवचःप्रसिद्धः॥५४॥
अनात्मनिष्ठोऽयमुभयविधेोऽनुभवो न निरूपणीयात्मतत्त्वमनुभावयतीति परिहरति-ज्ञात इति। “अन्यदेव तद्विदितादथाऽविदितादधि" ( के० १ । ३ ) इति श्रोतवचसा प्रसिद्ध इति ॥ ५४॥
जानामि मामित्यनुभूतिरेषा
न शुद्धमेनं विषयीकरोति। आत्मानमज्ञानमुखैर्विशिष्टं
वैकल्पिकत्वादवगाहतेऽसौ ॥५५॥ मामहं जानामीत्यनुभवोऽज्ञानानानन्दादिवैशिष्ट्येनात्मानं विषयीकरोति, न शुद्धमित्याह-जानामीति । वैकल्पिकत्वादिति। आत्मानं जानामीति प्रत्ययो न निर्विकल्पकः किञ्चिदित्येव हि तदाकारः शब्देन व्युत्पाद्यते। न चात्र तथा,प्रात्मानमित्यात्मशब्देन ज्ञानाकारव्युत्पादनात् । मानसं चैतज्ज्ञानं परैरिष्यते । मनसश्चेन्द्रियस्य द्रव्ये प्रवृत्तिर्गुणोपरागेण । गुणश्चात्र दुःखादिरेव, दुःखाद्युपरागश्च न नैयायिकादिवदात्मनः स्वतोऽस्मन्मते, किन्तु दुःखादिधर्मकान्तःकरणतादात्म्यात् । तत्तादात्म्यं नाज्ञानमन्तरा। तथा चात्मानमहं जानामीत्यनुभवबलादेवाज्ञानादिवैशिष्ट्यं भाति, न विशुद्ध स्वरूपम् । ततो विशिष्टमेव ज्ञानकर्म, न शुद्धं स्वरूपमिति तात्पयार्थः ॥ ५५ ।। न ज्ञानकर्मत्वमयं चिदात्मा
स्वयंप्रकाश भजते विशुद्धः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #166
--------------------------------------------------------------------------
________________
१३४
प्रत्यकतत्त्व चिन्तामया
विशिष्टवृत्तेरपि धर्मकस्य विशेषणे वृत्ति रितीष्यते हि ॥ ५६ ॥
एतदेव विवृणोति — नेति । विशिष्टस्यास्वप्रकाशत्वेन ज्ञानकर्मत्वाविरोध इत्यर्थः । तस्यापि स्वप्रकाशत्वे विशिष्टवृत्तेर्धर्मस्य विशेषणवृत्तित्वनियमादज्ञानादेरपि तथात्वं स्यात् । अतो विशिष्टं ज्ञानकर्म न स्वप्रकाश मित्यर्थः ॥ ५६ ॥
न वेद्मि मामित्यनुभूतिरेषा स्वयंप्रकाशत्वविरोधिनी ना ।
अज्ञानमद्वा विषयीकरोति स्वज्योतिरुल्लिख्य चिदात्मवस्तु ॥ ५७ ॥
।
मामहं न वेद्योत्यनुभवान स्वप्रकाशत्वविरोधीत्याह न वेद्योति । यद्यप्यहं मां न जानामीत्यनुभवोऽज्ञातत्वं शुद्धे आत्मनि व्यवस्थापयति, तथापि विना स्वप्रकाशत्वमात्मन्यज्ञातत्वं बोधयितुं न शक्नोतीत्यज्ञातत्वं न स्वप्रकाशत्व विराधि किन्तु तदुपपादकमिति तात्पर्यार्थः ॥ ५७ ॥
"
अतोऽहमात्मानमिति प्रतीतिरात्मानमुल्लिख्य च भासमानम् ।
स्वयं प्रकाशैकतयाऽनु नेत्यऽज्ञानावृतिं सा विषयीकरोति ॥ ५८ ॥
नन्वज्ञातत्वम्,अभासमानत्वम्, तद्ग्राहकञ्च प्रमाणं कथं स्वप्रकाशकत्वसाधकम् ? प्रतिप्रसङ्गादित्यत्राह — अतोऽहमिति । मामहं न वेद्भोति ज्ञानं विशिष्टरूपम् । तत्र विशेष्यमज्ञातत्वम् । तच्च विषयनिरूप्यमिति । विषय प्रात्माऽज्ञातत्वव्यावर्तकत्वाद्विशेषणम् । अत आत्मापि विशिष्ट -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #167
--------------------------------------------------------------------------
________________
तृतीयं प्रकरणम्।
१३५ ज्ञानस्य तस्य विशेषणविषयत्वनियमाद्विषयः। ततस्तज्ज्ञानमात्मानं विशेषणत्वात्स्वप्रकाशतया भासमानमुल्लिख्य अनु पश्चात् 'नेति। अनेनाज्ञानलक्षणमावरणं तत्र विषयीकरोतीति तात्पर्यार्थः ॥ ५८॥
अस्वप्रकाशस्य विरुद्धमेतद्
न भाति भातोति च योगपद्यात् । न मामहं वेद्यनुभूतिसिद्धं
स्वयंप्रकाशत्वमिहात्मनश्च ॥ ५८॥
ननु भासमाने आत्मनि कथं तद्विरुद्धमज्ञातत्व सम्भवतीत्याशङक्याह-अस्वप्रकाशस्येति । अज्ञानं तावदावरकम् , "नीहारेण प्रावृत्ताः' इति श्रुतेः। पावरकञ्च वस्त्रादिभावरूपमेव दृष्टम् । तेन भासमानेऽप्यात्मनि अज्ञातत्वं सम्भवति वायोरन्यत्र रूपस्पर्शवत् स्थित्यविरोधादिति तात्पर्यार्थः ।। ५६ ।।
घटादिविश्वं परमात्मनीशे
स्वाविद्ययाऽध्यस्तमतो घटादा। अभानभाने अपि तत्र विश्वा
धिष्ठान एवात्मनि कल्पितेस्तः ॥६॥
ननूक्तानुभवस्य द्वैविध्यं घटादावपि दृश्यते, तत्रापि स्वप्रकाशकत्वा. पादकं स्यादित्याशक्य घटादीनामात्मन्यध्यस्ततया स्वतन्त्रसत्ताभावात्तत्र दृश्यभानं तदैविध्यमधिष्ठाने पर्यवस्यतीत्याह-घटादीति॥६॥
अध्यस्तसत्ता पृथगात्मनो नाउ
धिष्ठानभूता तत एव प्रात्मा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #168
--------------------------------------------------------------------------
________________
१३६
प्रत्यक तत्त्वचिन्तामया
स्वयंप्रकाशोऽस्ति सुखस्वभावः स्वाविद्यया भाति जगत्स्वभावः ॥ ६१ ॥
प्रध्यस्तस्याधिष्ठानानतिरेकत्वं दर्शयन् फलितमाह — अध्यस्त सत्तेति । तथा च स्वप्रकाशत्वमजहदेवाSSत्मतत्त्वमज्ञानावृतत्वाज्जगदाकारेण भातीति फलितार्थः । अक्षरार्थस्तु निगदव्याख्यातः ॥ ६१ ॥
अनाद्यविद्यावरणावृतोऽसैा
द्वैतात्मना भाति चिदद्वितीयः । असङ्ग आत्मा परमार्थतस्तु
विज्ञानसारो भ्रमशून्य एकः ॥ ६२ ॥
अज्ञानकृतावरणमन्तरेण न स्वप्रकाशे शुद्धवस्तुनि जगदाकारता सङ्गच्छते, न वाऽज्ञानकल्पितेन जगता निर्विकारात्मस्वभावव्याहतिरपीत्याशयेनाह – प्रनादीति । निगदव्याख्यातं पद्यम् ॥ ६२ ॥
तस्मात्स्वतः सिद्धमखण्डतत्त्वं
प्रत्यञ्च मानन्दमपारबोधस् ।
विध्वस्तमाया गुणसम्प्रवाहं
ज्ञात्वा विमुच्येत मृषात्मबन्धात् ॥ ६३ ॥
प्रकृतमुपसंहरति- तस्मादिति । यस्मात्सर्वप्रमाणभासकोऽप्यात्मा लौकिकप्रमाणगोचरो न भवति, वेदान्तानामपि वेदान्तजन्यज्ञाननिवर्त्याज्ञानविषयत्वेनैव विषयो, न साक्षात्, तज्जन्यज्ञानभास्यत्वाभावात् । तस्मात्स्वतः सिद्धमित र निरपेक्ष प्रकाशस्वभावत्वेनैव सिद्धम्, प्रखण्डतत्त्वं स्वगतादिभेदशून्यमनारोपितवस्तु, प्रत्यश्वमा विद्यकदेहादि विल
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #169
--------------------------------------------------------------------------
________________
तृतीयं प्रकरणम् । क्षणस्वभावत्वेन सर्वान्तरम् , आनन्दं निरुपाधिकनिरतिशयप्रेमास्पदतया सुखस्वरूपम्, न विद्यते पार आश्रयविषयसन्निकर्षादिकृत: परिच्छेदो यस्य बोधस्य तम्, अतः स्वरूपबोधमाहात्म्येनैव विध्वस्ता बाधिता मायाऽ. नाद्यनिर्वाच्या विद्या तत्कार्यभूतगुणसम्प्रवाहो जन्ममृत्युपरम्परालक्षण: संसारश्च यस्मिस्तमात्मानं ज्ञात्वा-वेदान्तवाक्यज्यासन्दिग्धाविपर्यस्तात्मबोधेन साक्षात्कृत्य, मृषाऽज्ञानकार्यतया प्रात्मनो बन्धः कत्तृ त्वभोक्तृत्वादिलक्षणः संसाराख्यस्तस्माद्विमुच्यते-विशेषेण पुनभवलक्षणवृत्तिरहिततया मुच्यते। कृतकृत्यो भूत्वा स्वात्मन्यवस्थितो भवतीत्यर्थः । एतादृशतत्त्वज्ञानमन्तरेण संसृतेर्मोक्षो नास्तीति भावः ।। ६३ ।।
अध्यस्तमज्ञानकृतं प्रतीचि
स्वतो विमुक्त जनिमृत्युबन्धम् । स्वात्मावबोधेन सालमद्धाऽ.
पबाध्य जीवनिह मुच्यतेऽञ्जः॥६४ ॥
यदि बन्ध आत्मनि स्वाभाविकः स्यात्तदा स्वभावस्यान्यथाकर्तुमशक्यतया तत्त्वज्ञाननिवो न स्यात् । तत्त्वज्ञाननिवर्त्यत्वान्यथानुपपत्त्या बन्धस्याध्यस्तत्त्वं कल्प्यते । ततश्चाध्यस्तबन्धस्य मूलभूतमज्ञानमप्यध्यस्तमित्यभिप्रेत्याह-अध्यस्तमिति । स्वतो विमुक्ते इति हेतुगर्भविशेषणं स्वत: एव विमुक्तस्वभावत्वं बन्धस्याध्यस्तत्वं गमयति । तेन नित्यमुक्तस्वभावेऽज्ञाननिवृत्तिमन्तरा तत्त्वज्ञानकृतातिशयोऽपि नास्तीति सूदितम् ॥ ६४ ॥
प्रकृतिविकृतिभावं बाध्यमेवाऽपबाध्य
श्रुतिशिखरगिरोत्थाद्वैततत्वावबोधात्।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #170
--------------------------------------------------------------------------
________________
१३८
प्रत्यक्तत्त्वचिन्तामणी ब्रजति चरमजन्मा यं विमुक्तस्वभावं
तमहममृतमीशं श्रीमुकुन्दम्प्रपद्ये ॥६५॥ इति प्रत्यकतत्वचिन्तामणौ तृतीयं प्रकरणं सम्पूर्णम् ॥ ३॥ एवं प्रकरण परिसमाप्य, तत्फलभूतं भगवदनुसन्धानं "यत्करोषि यदश्नासि" (गी० ६।२७) इत्युक्तन्यायेन प्रकरणरचनात्मककर्मणो भगवति समर्पणञ्च कुर्वन्प्रकरणान्ते मङ्गलमाचरति-प्रकृतिविकृतिभावमिति । अज्ञानतत्कार्यरूपबन्धमध्यस्तत्वेन बाध्यमेवापबाध्य चरमजन्मातत्त्वविद्वेदान्तोत्थाऽद्वैततत्त्वसाक्षात्कारेण यं प्रसिद्ध विमुक्तस्वभावं भगवन्तं व्रजति-तत्स्वरूपेणावस्थितो भवति, तममृतमविनाशिनम्, ईशं मायानियन्तृत्वेन तत्कृतदोषविनिर्मुक्तम, स्वतन्त्र श्रीमुकुन्दमन्तः प्रत्यगात्मतया प्रपद्य-शरणं व्रजामीत्यर्थः ॥६५॥
अध्यस्तमप्यखिल विश्वमनन्तदुःखं
सत्यं विभाति यदबोधत आविमुक्तेः। यज्ज्ञानवो विलयमेति मृषान्ध्यमूलं
तं नन्दनन्दनमहं कलये मुकुन्दम् ॥ १॥ इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्दविद्वत्कृतार्या प्रत्यक्तत्त्वचिन्तामणिव्याख्यायां स्वप्रभाभिधायां प्रत्यकस्वप्रकाशत्वसाधकमयूखाभिधं
तृतीयं प्रकरणं समाप्तिमगमत् ॥ ३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #171
--------------------------------------------------------------------------
________________
अथ चतुर्थ प्रकरणम् यदज्ञातं विश्वं स्थिरचरमिवाऽऽभाति सकलं
विबुद्धं सच्छान्तं सुखममृतमद्वैतमकलम् । स्थितं हृद्देशेऽद्धाप्यतिजडधियां दूरमिव यत् विदा प्रत्यग्भूतं तदमितमोऽन्तश्च कलये ॥१॥ यं शास्त्रयोनिमखिलज्ञमनन्तशक्तिं
ब्रह्मादिवागपि समर्थतराऽसमर्था । कत्तु गुणैरभिमुखं निजमानयोग
__ स्तं नन्दमन्दिरमणिं शरणं प्रपद्य ॥१॥ प्रानन्दकन्दमभिवन्धपदारविन्द
छन्दोरसं खरसतोऽमरभृङ्गसेव्यम् । भक्त्या मुकुन्दममृतायनमात्मबुद्धः
प्रावण्यसिद्धय इहाद्भुतमाश्रयेऽन्तः ।। २॥
अतीतानन्तरप्रकरणे "मध्यस्तमज्ञानकृतं प्रतीचि स्वतो विमुक्ते जनिमृत्युबन्धम्" इत्यादिना प्रत्यगात्मनोऽज्ञानकृत एव बन्धो ज्ञानतोऽज्ञाननाशे तन्नाश इत्युक्तम्, तदेवोपपादयितुं प्रकरणान्तरमार. भमाणः स्वेष्टदेवतानुसन्धानरूपं मङ्गलमाचरन्नर्थात्प्रकरणप्रतिपाद्यमर्थ संगृह्णाति-यदज्ञातमिति । तदमितमहोऽपरिच्छिन्नतेज:पदास्पदं श्रीकृष्णाभिधमन्तः प्रत्यगभिन्नतया कलयेऽनुसन्दधे इत्यन्वयः । तत्किमित्याकाङ्क्षायामाह-यदिति । यदज्ञातं सत् स्वाश्रयस्वविषयमायावृतं सद् विश्वमाकाशादिभूतजातं तत्कार्य सकलं ब्रह्माण्डं तद्गतं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #172
--------------------------------------------------------------------------
________________
१४०
प्रत्यक्तत्त्वचिन्तामणैः स्थिरचरं चराचरशरीरजातं भौतिकमिवाभाति । यद्विबुद्धं सम्यग्बोधेन साक्षात्कृतं सत् शान्तमविद्यातत्कार्यबाधोपलक्षितम, अमृतं नित्यमुक्तस्वभावम, सुखस्वरूपम्, द्वैतशून्यम्, अकलं निरवयवमासमन्ताद्भातिबुद्ध्यारूढं प्रकाशते। यद्धृद्देशे अद्धा साक्षात् स्थितमपि जड़धियां देहायभिमानिनां दूरमिव भाति, वर्षकोटिभिरप्यप्राप्यत्वात् । यद्वस्तु. विदां भगवत्प्रसादलब्धतत्त्वज्ञानानां प्रत्यग्भूतं स्वस्वरूपत्वं नित्यप्राप्तमेव भाति । तत्कलये इति योजना ॥ १ ॥ सदानन्दाम्लाधा जगदिदमशेषं सकलनं
समध्यस्तं शुद्ध निरवधिपदे स्वात्मनि विभा। अविद्याशक्तया तद्विमलपदबोधेन सकलं
समूलं विध्वस्तं न च पुनरुदेतीति निगमः ॥२॥ एवं मङ्गलव्याजेन प्रकरणार्थ सङ्कपेण प्रदर्श्य विस्तरेण तत् प्रतिपादयितुं प्रमेयं सूत्रयति-सदानन्दाम्भोधाविति । स्वात्मनि प्रत्यक्तत्त्वे, विभावपरिच्छिन्नतया पूर्णे, निरवधिपदे सर्वाध्यस्तबाधावधितया स्वव्यतिरिक्तावधिवर्जिते पदे सकलफलावधिभूते, शुद्ध वस्तुतोऽज्ञानतत्कार्यसम्पर्कशून्ये वस्तुन्य विद्यारूपा या शक्तिस्तया इदं जगद् दृश्य. जातं समस्तं सकलनं तद्विषयकप्रतिभास: कलना तत्सहितं सम्यगध्यस्तमविद्यमानमपि विद्यमानमिवारोपितम्, तद् दृश्यरूपं सकलं समूलं मूलाज्ञानसहित विमलपदबोधेन शोधिततत्त्वं पदार्थज्ञानपूर्वकमखण्डै. क्यसाक्षात्कारेण विध्वस्त बाधितं सत् न च पुनरुदेति-मूल बाधेन बाधितत्वात् कारणाभावान्न च पुनरुद्भवतीति निगमः-वेदान्त सिद्धान्तनिश्चय इति योजना ॥ २ ॥ ननु प्रत्यकतत्त्वे जनिमृतिमयी संसृतिरियं प्रतीता सदूपा वदसि कथमध्यस्तमखिलम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #173
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
प्रतीतेः प्रामाण्यात्स्वत इतरबाधादिविरहात् प्रमाणैः सिद्धस्य प्रथितमिह वस्तुत्वमुचितम् ॥ ३ ॥
१४१
प्रत्यक्षादिप्रमाणसिद्धविश्वस्याऽज्ञानकल्पितत्वमसहमान: पूर्वोक्तमर्थमाक्षिपति -- नन्विति । प्रत्यक्तत्व जीवात्मनि जन्ममृत्युप्रवाहलक्षणा संसृतिरियं प्रत्यक्ष दिप्रमाणसिद्धा, प्रतीता सर्वप्रत्ययमारूढा, सद्रूपा अबाधितार्थक्रियाकारित्वे सत्यैव भवति । एवं सति त्वं कथमखिलं प्रमाणप्रमेयादिविश्वमध्यस्तमारोपितमिति वदसि ? सकलमनुभवन् प्रतीतेर्भ्रमत्वं निःशङ्कतया कथं तस्याऽह्नवं करोषीत्यर्थः । न च शङ्कयम्, तस्याश्च स्वतः प्रामाण्यात, इतर बाधादिविरहात्कारणदोषबाधकप्रत्ययानुपलम्भात् । प्रमाणप्रतीतत्य चेह व्यवहारभूमैौ वस्तुत्वं परमार्थसत्यत्वम्, प्रथितं लोकप्रसिद्धम्, उचितञ्च । अन्यथा भ्रमप्रमाविशेषापत्तिः । तथा चात्मनि संसारः परमार्थ एवमुक्त इत्यर्थः ॥ ३ ॥
न चेद्वस्तुत्वं स्याज्जगति च तदा शास्त्रमखिलं
भजेत्प्रामाण्यं तत्कथममृतभेागादि करणम् । मृषाहेर्विध्वस्त्यै क्वचिदपि न मन्त्रादिकरणं
विधत्ते किन्त्वेतामधिकरगाबुद्धिं दृढमतिः ॥ ४ ॥
---
अत्रैव युक्तयन्तरमाह- - न चेदिति । यदि संसारः परमार्थो न चेत्, तदा कथमिष्टाऽनिष्टप्राप्तिपरिहारोद्देशेन साधनविधायिशास्त्रं प्रमाणं भवेत् ! नहि रज्जुसर्पनिवृत्तये मन्त्रौषधादिसाधनमुपदिश्यते, किन्तु रज्जुस्वरूपज्ञानमेव दृढमतिरभ्रान्तः पुरुषो विधत्ते - उपदिशतीत्यर्थः ॥ ४ ॥
ततश्चारब्धव्यं भ्रमतिमिर विध्वंसनकरं
सुकाण्डं ज्ञानस्याऽनुपकृतमिदं कर्म्म न कदा |
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #174
--------------------------------------------------------------------------
________________
१४२
प्रत्यक्तत्त्वचिन्तामणी नहीत्थं पश्यामस्तत इदमनाद्यन्तममलं
विचित्रारम्भाढ्यं नहि भवितुमध्यस्तमुचितम्॥५॥ प्रपञ्चमिथ्यात्ववादिनं प्रति बाधकमप्याह-ततश्चेति । ज्ञानस्य विधायकं सुकाण्डमुपनिषद्रूपंभ्रमतिमिरविध्वंसकत्वादारब्धव्यं स्यादपि। कर्मविधायकं काण्ड नारब्धव्यं स्यादनुपयोगात् । तथा च कर्मविधायकवेदाप्रामाण्यस्वीकारे तव वेदैकदेशपरित्यागाद् वेदैकदेशग्रहणाञ्च कथमुभयभ्रष्टता न स्यात् ? किञ्च स्यादेवम्, यदि त्वदुक्तं प्रमाणारूढं स्यात्; नहीत्थं पश्यामो वयम् । तस्मादिदं प्रत्यक्षादिसिद्धं जगदाद्यन्तशून्यं सदैव प्रवाहरूपम्, अमलं त्वदभिमताज्ञानकार्यत्वादिदोषासंस्पृष्टम, विचित्रारम्भसंयुक्तं नहि कदाचिदध्यस्तं भवितुमुचितमित्यर्थः। तथापि प्रपञ्चस्याऽऽविद्यकत्वाभिधानमत्यन्तानुचितमिति भावः ॥ ५॥
यदा बुद्धं ब्रह्माऽमृतमजमनाकारममलं
तदाऽन्यं कं दृष्ट्वा हायमुपदिशेत्सत्यमनृतम् । कृतार्थो विद् भूत्वा स्वपरमतभेदावदलनात्
कां शास्त्रारम्भ भवति भवतां पक्ष उदिते ॥६॥
प्रात्मस्वरूपसाक्षात्कारे सति संसारस्य मिथ्यात्वावगमः, किंवा ततः प्रागेव ? इति विकल्प्याद्य दूषयति-यदेति। यस्मिन् समये ब्रह्म अमृतमविनाशि, जन्मादिविक्रियाशून्यम्, प्राकारवर्जितम्, निर्मलं बुद्धं साक्षात्कृतम् ; तदा तस्मिन्समये कमन्यं द्वितीयस्याभावादेव दृष्ट्वा मालोच्याऽयं ज्ञानी हि यस्मादुपदिशेदुपदेशं कुर्यात् 'ब्रह्म सत्यम्' 'इदं जगदनृतम्' इति, तदुत्तरकालं प्रपञ्चत्यैवाभावात् । सत्यमिथ्यात्वादिव्यवहारानुपपत्तेरिति भावः । अथ कश्चित्कालं बाधितानुवृत्तिरभ्यु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #175
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१४३ पगम्यते इति चेत्तत्राह-कृतार्थ इति । तथापि स्वयं कृतार्थत्वात् स्वव्यतिरिक्तात्मान्तराभावनिश्चयात् तस्योपदेशसमये स्वमतस्थापन परमतखण्डनमपेक्षितं स्यात्, तदपि दुर्घटं स्वपरपक्षविभागाभावादित्याहस्वपरेति । इदं स्वमतम्, इदं परमतम्, इति भेदस्य बाधितत्वात्कथं भवतां पक्षेऽखिलाध्यस्तत्ववादिनां मते मायावादे उदिते यथोक्ते शास्त्रारम्भोऽपि भवति ? न कथमपोत्यर्थः ।। ६ ॥
पुरा तत्त्वज्ञानान च जगति मिथ्यात्वधिषणा
न वा प्रत्यक्षाद्यैरवगतमिदं बाध्यमपि च । विना बाध्यज्ञानं भ्रमजमिति निश्चेतुमपि तत्
न शक्यं न औतं वचनमपि वक्तुं क्षममिति ॥७॥ ज्ञानात्प्रागेव संसारस्य मिथ्यात्वावगमपलं दूषयति-पुरेति । न वा प्रत्यक्षाद्यैरवगतमिदं जगदनुमानादिना बाधयोग्यम् । अपि चेति निपातसमुदायो युक्त्यन्तरसमुच्चायकस्तदाह-विनेति । बाधकमन्तरेण मिथ्यात्वानभ्युपगमादित्यर्थः। न वा श्रौतं वचोऽपि सर्व. प्रमाणविरुद्धं वक्तुं समर्थमिति योजना ।। ७ ।।
न वा श्रौतज्ञानं कथमपि जगदाधकमिति
स्वभावादात्माऽयं भवति न परोक्षः श्रुतिमतः । कथं तत्र ज्ञानं जनयति परोक्षं श्रुतिवची न वा तारज्ञानाद्भवति जगतो बाधनमपि ॥८॥
नन्वागम एवात्मविषयं परोक्षज्ञानमुत्पाद्य प्रपञ्चबाधकः किन्न स्यात् ? इति तत्राह-नवेति । निरुपाधिकस्यात्मस्वरूपस्यापरोक्षकस्वभावक्या तत्र परोक्षज्ञानासम्भवात्सोपाधिकज्ञानस्य विभ्रममात्रत्वात्तेना:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #176
--------------------------------------------------------------------------
________________
१४४
प्रत्यक्तस्वचिन्तामा न्यस्य बाधानुपपत्तेः । श्रुतिरपि अपरोक्षस्वभावे प्रात्मनि परोक्षं ज्ञानं कथं जनयेत् ? प्रामाण्यापत्तेः। अपरोक्षस्य जगतरताहकपरोक्षज्ञानाद्वाधनमप्यनुचितमिति तात्पर्यार्थः ।। ८॥
न सत्यः संसारो यदि भवति जीवात्मनि तदा किमयं तद्ध्वस्त्यै ह्यु पदिशति शास्त्रञ्च करणम् । मृषाबन्धध्वस्त्यै यदि मतमिदं नैतदपि सत् न मिथ्याहिध्वस्त्यै दिशति मणिमन्त्रादिकरणम् ॥८॥
शास्त्रारम्भान्यथानुपपत्तिरपि संसारसत्यत्वं कल्पयतीत्याहन सत्य इति । स्पष्टम् ॥ ६॥
अतः संसारोऽयं भवति परमार्थस्त्वितरथा
प्रमात्वं वेदानां क्रतुजपपराणां कथमहो। जगत्तस्मादात्मन्यखिलमिदमाबालमतिगं किलाऽबाध्यं ज्ञानात्कथमपि लयं यातिन कदा॥१०॥
फलितमुपसंहरति-अत इति । इतरथा तव मते स्वर्गादिसाधनजपयज्ञादिपराणां वेदानां कथं प्रामाण्यं स्यात् ? अहो आश्चर्यमेतत्, यवान् वेदार्थ बुद्ध्वा तमन्यथाकतुं प्रवृत्त इत्यर्थः । न वा वेदान्तानामपि प्रामाण्यं वेदत्वाविशेषात् । इदमत्राकूतम्- किमात्मनि संसारसम्बन्धात्कोऽपि विशेषोऽस्ति ? न वा ? अस्ति चेत्, पारमार्थिकः काल्पनिको वा ? पारमार्थिकश्चेत्, तो वं विशेषमात्मनि परमार्थमभ्युपगच्छतः सुखदुःखादिसंसारे कः प्रद्वेष: ? काल्पनिकश्चेत्, तर्हि संसारभावाभावयोर्विशेषाभावात्तनिवृत्तये शास्त्रारम्भी निरर्थकः। काल्पनिकविशेषनिवर्तने न शास्त्रमर्थवत्स्यादित्यप्यसत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #177
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१४५ लोके सर्पसम्बन्धासम्बन्धावभासयो रज्जुगतविशेषाभावेऽपि द्रष्टगतविशेषादेव सर्पभ्रान्तिसम्भवात्तन्निवृत्तये रज्जुस्वरूपोपदेशोऽर्थवान् । इह पुनरात्मन्यनात्माध्यासेऽधिष्ठानं द्रष्टा चोभयमप्यात्मैव, न तत्र कदाचिदप्यस्ति विशेषः। ततश्चात्मनि संसारभ्रान्तेरसम्भवे सति कथं तन्निवृत्तये शास्त्रमारभेत इति । प्रकृते किमायतमित्यत आह-तस्मादिति। तस्मात्संसारस्याबालपण्डितप्रतीतिसिद्धत्वात् तन्मिथ्यात्वे कर्मकाण्डज्ञानकाण्उयोरनारम्भप्रसङ्गदात्मनि पारमार्थिकः संसार इति तार्किका अध्वरमीमांसकाश्च मन्यन्ते इत्यर्थः ॥ १० ॥
इति प्राप्ते ब्रूमः शृणु दृढसमाधानमधुना
विनाऽध्यासं युष्मन्मत इदमनात्मात्मवपुषाः । जगद् दुःखाद्यात्म प्रभवति विभौ त्वं वद कथं
न सर्वव्यापी यः कथमपि परिच्छेत्तमुचितः ॥११॥ एवं पूर्वपक्षे प्राप्ते तं दूषयितुं प्रपञ्चस्य स्वाभिमताध्यस्तत्वमुपपादयितुं चाध्यासमन्तरेण तन्मते संसारव्यवहारानुपपत्ति प्रदर्शयन् प्रतिजानीते-इतीति । तत्र ये भवन्तस्तार्किकादयः सर्वगतात्मवादिनस्तेषां युष्माकं मतेऽनात्मा देहादिरात्मा च विभुस्तयोरात्मानात्मनोरन्योन्याध्यासमन्तरेणेदं जगद् दुःखादिरूपं विभौ सर्वगते अात्मनि कथं केन प्रकारेण प्रभवति बन्धकत्वेन समर्थ भवतीति त्वं वद। नहि यः सर्वव्यापी स कथमप्यध्यासमन्तरेण परिच्छेत्तुमुचितः। अहमस्मि. सदने जानान इत्यादिपरिछिन्नव्यवहारगोचरयोग्यता भजते इत्यर्थः ॥ ११ ॥
गुणा ये ज्ञानाद्यास्तव मतमता आत्मनि विभौ त्वयोत्पत्तिस्तेषां कथमभिमता तत्र वद भाः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #178
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी मनासंयोगाच्चेद्वद कथमसौ योग उभयोः
परिच्छिन्नेनाऽऽत्माविभुपि कथंयुज्यत इति॥१२॥
अध्यासं विना विभावात्मनि ज्ञानसुखाद्युत्पत्तिर्न कथमप्युपपादयितुं शक्येत्याह-गुणा इति। ये ज्ञानादयो प्रात्मनो विशेषगुणा. स्तवमतेऽभिमतास्तेषामुत्पत्तिस्तत्रात्मनि विभौ त्वया कथमभिमता इति भो वादिन् ! वदेति सम्बन्धः । अयमर्थ:-गुणश्च निरवयवद्रव्ये यावद्रव्यभावी दृष्टः, यथा परमाणुगतरूपादिः, यथा वाऽऽत्मगतसंख्यापरिमाणादिः। न चाऽऽत्मगतसंयोगविभागयोर्व्यभिचार इति वाच्यम् , तयारद्यापि सद्भावस्यैवाऽनिश्चयात् । तथा सत्यात्मनि ज्ञानसुखादयो जायमाना देहाधवच्छिन्नदेशादन्यत्र जायेरन्निति । ननु सर्व कारणत्रयमपेक्ष्यैव जायते, तत्र ज्ञानादेर्गुणस्यात्मा समवायिकारणम्, मनःसंयोगोऽसमवायिकारणम्', अदृष्टादि निमित्तकारणम् । ततश्च हृदयदेशावस्थानान्मनसो हृदयावच्छिन्नात्मदेशेनैव संयोगातत्रैव सुखादयो जायन्ते न तथा संख्यापरिमाणादय इत्याशङक्याहमन:संयोगादिति। आत्मनो हृदयावच्छेदो नाम किमात्मस्वरूपमेव ? उत धर्मान्तरम् १ स्वरूपं चेत्, तस्य सर्वगतत्वात्सर्वत्रैव सुखादयो जायेरन् । धर्मान्तरुचेत्, किं स्वरूपमात्रे वतिष्ठते ? किं वाऽवच्छिन्नदेशे ? आये, तस्य सर्वात्मदेशव्यापित्वात्सुखादयो जायेरन् । द्वितीये, तस्याप्यवच्छेदान्तरापेक्षायामनवस्था। एवं सति कथमध्यासमन्तरेण संसारोपलम्भ इति तात्पर्यार्थः ।। १२ ॥ विभुत्वादात्माऽयं क्वचिदपि वियोगं न भजते
न वा संयोगं सोऽनवयववपुर्मायिकमृते। अदृष्टैः सम्बन्धो यदि तदपि सम्यङन घटते न दिक्शून्येऽदृष्टैरपि घटयितुं शक्यमुचितम् ॥१३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #179
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१४७
एवमध्यासं विना सुखाद्युत्पत्त्यनुपत्ति प्रदर्श्याऽध्यास मङ्गीकारयति - विभुत्वादिति । निरवयवं वपुः स्वरूपं यस्य स च मायाकार्याध्यासमन्तरा क्वचिदपि बहिरन्तर्वा संयोगं वा विभागं वा न भजते । श्रदृष्टेर्नियमोपपत्तिः स्यादित्यप्यसङ्गतम् । नहि अष्टेरपि निः प्रदेशे एवात्मनि प्रदेशविशेषजन्मवस्तुस्वभावस्था ऽन्यथा कर्तुमश क्यत्वादित्यभिप्रेत्याह — अदृष्टैरिति । दिक्शून्ये निः प्रदेशे अदृष्टधर्माधर्मरूपैरपि सुखादिसम्बन्धनियम मुचितरूपं घटयितुं सम्पादयितुं नहि शक्यमिति योजना । तथा च प्रतिनियतसुखाद्युत्पत्त्यनुपपत्तिरेवाध्यासं गमयतीत्यर्थः ॥ १३ ॥
अतोऽध्यासाद्योगे । घटत उभयेारात्ममनसे -
स्तदाधारो बन्धोऽनृत इत इहाऽऽविद्यक इति । यतोऽध्यस्तापाधौ तनुयुगल प्रभाति न विभौ
मरीच्यम्भावीचीवदखिलमिदं भ्रान्तिकलितम् ॥१४॥
तस्मादात्मनि प्रदेशविशेषप्रतिभासेो विभ्रम एवेत्याह-प्रत इति । यस्मादपरिच्छिन्ने कथमपि प्रतिनियतसुखादिप्रतिभासेोऽव्यासमन्तरेण न सम्भवति । उभयोरात्ममनसोरन्योऽन्याध्यासादेव योग: सम्बन्धो घटते सम्भवति । तदाचारस्तदन्योऽन्याध्यासाधीनेो बन्धः सुखादिप्रतिभासरूपः, अनृतोऽनिर्वाच्यः, इतेो हेतोरिहात्मनि विद्यको विद्याकार्य्यत्वादध्यस्तो यतो यस्मात्कल्पितोपाधी शरीरद्वये श्रभाति अवभासते न विभावात्मनि इत्यतो हेतोर्मरीच्यम्भावीचीवन्मृगतृष्णोदकसमुल्लसितवीचोतरङ्गमालावद् अखिलं जगदिदं सुखादिप्रतिभासरूपं भ्रान्तिकलितं मायाविजृम्भितमेवेत्यर्थः ॥ १४ ॥
3
न यावच्छास्वं तत्वमसिमुखमालोच्य विधिना परब्रह्मास्मीति स्वमकलमजं वेत्त्यनुभवात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #180
--------------------------------------------------------------------------
________________
१४८
प्रत्यक्तत्त्वचिन्तामा सतावत्संसारं जनिमृतिमयं मायिकमिमं
सदित्येवं वेत्ति प्रबलतमसा संवृतमतिः ॥१५॥ यत्तूक्तमबाधितप्रतीतिगोचरत्वात् सत्य एव संसारस्तदपि दुस्तांग्रहविलसितमित्यभिप्रेत्याह-नेति । यावत्पर्यन्तं तत्त्वम. स्यादिशास्त्रं विधिना सम्यग्गुरूपदिष्टोपक्रमादिलिङ्गैरालोच्य स्वमात्मानम् , अकलं षोडशकलात्मकलिङ्गशरीरवर्जितम् , अजं जन्मादिषड - भावविकारवत्स्थूल शरीररहितम् , परं ब्रह्मैवास्मीत्यनुभवात् साक्षात्काररूपान्न वेत्ति; तावत्कालपर्यन्तं स पुरुष: प्रबलतमसा दुस्तराज्ञानान्धकारेणऽऽवृतमतिर्जन्मादिप्रचुर संसारं मायाविकारमिमं प्रत्यक्षा. दिभिरवगतमर्थक्रियासमर्थत्वेनानुभूयमानतया सदित्येवं वेत्ति । ततश्च संसृतिभाग भवतीत्यर्थः ॥ १५॥ मृषात्वं विश्वस्य श्रुतिरपि वदत्येव शतशः
प्रतीचोऽपि ब्रह्माद्वयसुखघनात्मत्वमिति च । मनुष्यत्वाद्यात्मन्यनृतमखिलं बाध्यत इतो
न सत्यः संसारोऽप्यनुभवत इत्येव फलितम्॥१६॥ जगतो मिथ्यात्वे प्रत्यगात्मनो ब्रह्मत्वे च सकलप्रमाणमूर्द्धन्यवेदान्ताः प्रमाणमित्याह-मृषात्वमिति। "अतोऽन्यदातम्' (बृ० ३।४।२)"नेहनानास्ति किश्चन" (बृ०४।४।१६) इत्यादिश्रुतिरपि शतशो वचनसमूहैर्विश्वस्य कार्यकारयात्मकस्य मिथ्यात्वं वदति "तत्त्वमसि' (छा०६। ८७) "अयमात्मा ब्रह्म' (बृ. २।५।१६) "अहं ब्रह्मास्मि" (बृ०१।४।१०)इत्यादिश्रुतिः सहस्रशो यद्ब्रह्माद्वयसुखघनमखण्डानन्दब्रह्मतत्त्वमेकरसं तदात्मत्वं प्रतीचः प्रत्यगात्मनो वदति । इत्यतो वेदान्तजन्यबोधेनात्मन्यखिलं मनुष्यत्वादिविभ्रमात्मकं जगद् बाध्यते, इतस्तत्त्वज्ञानवाधान्यथानुपपत्तेन संसारसत्यत्वम् , लोके रज्जुज्ञानबाधा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #181
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१४
न्यथानुपपत्तेः सर्पादेः मिथ्यात्वं दृष्टम्, ततोऽनुभवादपीत्येव फलितम् । संसाध्यासकृत एवेति सिद्धमित्यर्थः ॥ १६ ॥
न वाऽध्यचादीनां निगमहृदयं ह्यन्यययितुं कदाचित्सामथ्यं निरतिशयतत्त्वावगमकम् । स्वयंज्यातीरूपे निरवधि सुखे संसृतिरियं मृषैवाताऽध्यासाद्भ्रमभयनिधिः स्वात्मनि पदे ॥ १७ ॥ प्रत्यक्षादिप्रमाणत्रलेन संसारसत्यत्वापादनं दुर्घटमित्याह--न चेति । प्रत्यक्षादिप्रमाणानां प्रातिभासिकसंसार विषयाणां प्रमाणमूर्द्धन्य वेदान्ततात्पर्य्यनिरतिशयतत्त्वावगमकतया परमपुरुषार्थ पर्यवसायिसिद्धान्तमन्यथाकर्तुं हि यस्मात्सामर्थ्य कदाचिन्न चाऽस्तीति सम्बन्धः । प्रतः स्वयंज्योतीरूपे स्वात्मनि निरवधिसुखस्वरूपे इयं संसृतिर्भ्रमभय निधिरतीवदुस्तरत्वेन भासमाना अध्यासादेव मृपैव न वस्तुसतीति योजना ॥ १७ ॥
अधीतस्वाध्यायैर्विदितपदवाक्यार्थनिपुणै
।
महावाक्यं श्रुत्वा सपदि परमात्मैक्य विषयम् । स्वयं लब्धुं शक्यं विमलमपरोक्षं भ्रमहरं विपश्चिद्भिर्ज्ञानं परमपदविश्रान्तिजनकम् ॥ १८ ॥
अपरोक्षस्वभावे श्रात्मनि परोक्षज्ञानस्य भ्रान्तत्वादपरोक्षज्ञानस्य प्रमाणत्वेऽपि तदुत्तरकालं परमार्थप्रमाणव्यवहारानुदयात् संसारस्य मिथ्यात्वे प्रमाणानुपपत्तिरित्याशङ्क्याह - अधीतस्वाध्यायैरिति । गृहीतपदपदार्थसम्बन्धस्य न्यायविदो वाक्यश्रवणानन्तरमपरोक्षज्ञानमेवात्मनि समुत्पद्यते, नहि पुनः परोक्षज्ञानम्; ततश्च तत्त्वज्ञान निवर्यान्यथानुपपत्तिरेव प्रपञ्चमिथ्यात्वे प्रमाणमिति तात्पर्यार्थः ॥ १८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #182
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी परन्त्वात्मज्ञानं प्रभवदपरोक्षं नृमनसां
विशुद्ध वैषम्याद् दृढतरमिदं नैव यदपि । तथापि श्रुत्यन्तप्रकटितमृषात्वं जगदिदं
विभौ नास्तीत्येवं दृढमतिरुदेत्येव सुधियाम्॥१८॥ तर्हि विदितपदपदार्थानां श्रुतवेदान्तानामपि कुता विपर्ययादिदर्शनमित्याशक्य पुरुषबुद्धापराधादेवेत्याह-परन्त्विति । किन्त्वपरोक्षज्ञानमात्मनि प्रभवदपि साज्ञानविपर्ययबाधने समर्थतया जायमानमपि नृमनसामधिकारिजनान्तःकरणानां शुद्धतारतम्यान्नैवेदं दृढतरं भवति । ततश्चाऽऽत्मनिर्विचिकित्सानुभवफलस्य प्रतिबद्धत्वेऽपि तात्पर्यवद्वाक्यप्रामाण्यादेव पूर्वमपि संसारस्य मिथ्यात्वनिश्चय उपपद्यत इत्याशयेनाह–तथापोति । श्रुत्यन्तैः श्रुतिशिरोभिः प्रकटितं प्रकाशितं मृषात्वं यस्य तत् । “तरति शोकमात्मवित्" (छा० ७॥ १। ३) इत्यादिश्रुतयः प्रपञ्चमिथ्यात्वमन्तरेणाऽनुपपद्यमानाः शतशः प्रपञ्चमिथ्यात्वे प्रमाणम्। ततश्चेदं जगद्विभौ परमात्मनि नास्ति वस्तुत इत्येवं दृढ़मतिः शास्त्रीयदृढ़निश्चयः सुधियां विगतान्तःकरणदोषतया विवेकादिसाधनसम्पन्नानां प्रज्ञानामुदेत्येव प्रादुर्भवत्येवेत्यर्थः। तथा चाप्रतिबद्धात्मतत्त्वसाक्षात्कारपर्यन्तं विपर्यासदर्शनम् , न ततः परमिति भावः ॥ १६ ॥ दूढे बोधे जाते निखिलजगदाभासविलयः
स्वतः सिद्धो ब्रह्मामृतसुखपदस्थस्य सुमतेः। अतोऽविद्वत्पुंसाऽनधिगतपरात्मैक्यसरणेविबोधार्थ शास्त्रं हयुपदिशति यागादिकरणम्॥२०॥
श्रवणादिसकलसाधनसम्पत्तौ पुनरशेषप्रतिबन्धविगमोपपत्तनिर्विचिकित्सात्मानुभवे सति तद्विपरीतसंसारप्रतिभासो निवर्तते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #183
--------------------------------------------------------------------------
________________
१५१
चतुर्थ प्रकरणम् । इत्याह-दृढ इति । इष्टानिष्टप्राप्तिपरिहारयोमिथ्यात्वे सति तत्साधनविधायि शास्त्रमनर्थकमिति यदुक्तं तत्राह-अत इति। यस्मादज्ञस्याऽशुद्धचित्तस्य तत्त्वज्ञानेऽधिकाराभावात् संसारसत्यत्वप्रतिभासः, अतोऽविद्वत्पुंसोऽनाधिगता परमात्मैक्यसरणिब्रह्मात्मैक्यज्ञानमार्गो येन तस्य विबोधार्थमन्तःकरणशुद्धिद्वारा ब्रह्मबोधार्थ शास्त्रं कर्मकाण्डं हि यस्माद्यागादिकरणमुपदिशतीति सम्बन्धः। अयमर्थ:यथा भ्रान्तपुरुषाभिप्रायमनुसृत्य श्येनादिसाधनविधानं तदनुष्ठान तत्फलावाप्तिश्च दृश्यते। तथैवाऽऽत्मविज्ञानात्प्रागनाद्यविद्यया कर्मफलेषु पुरुषार्थत्वमध्यारोप्य, तत्राऽभिनिविशमानस्य भ्रान्तस्यैवाभिप्रायमनुसृत्य साधनविधानादिसर्वमाबाधादुपपद्यते। तथा श्रुती वेदान्तस्यापि प्रति. बन्धबाहुल्ये सति ऐकात्म्यशास्त्रमपि फलपर्यन्तं विज्ञानं न जनयति, यज्ञादिक्षपिताखिलप्रतिबन्धस्य पुरुषस्य तु जनयतीति न काचिदनुपपत्तिरिति ॥ २०॥
अविद्याध्यस्तोऽयं जनिमृतिमयो बन्ध उदितः
प्रतीचीता मुत्तयै शमदमतितिक्षादिगुणकम् । पुमांसं संश्रित्य भ्रमतिमिरविध्वंसिकरणं मतःशास्त्रारम्भोऽपरिमितपदावस्थितिफलः॥२१॥ यत्तूक्तं संसारसम्बन्धादात्मनि पारमार्थिकविशेषाभ्युपगमे संसारस्यापि तथात्वप्रसङ्गात् अनभ्युपगमे संसारभावाभावयोरात्मन एकरूपत्वान्न संसारनिवृत्तये शास्त्रमारब्धव्यमिति तदप्यागमाशयानवबोधजम्भितमित्याह-अविद्येति । आत्मनि संसारबन्धस्यैव विशेषत्वात, तस्य च वस्तुतोऽभावेऽपि भ्रान्त्या प्रतीयमानत्वात्, सत्यमिथ्यात्वयोरपि संसारस्यात्मनि प्रतिभासमानतयैवानर्थत्वात्; तन्निवृत्तये शास्त्रारम्भोपपत्तिरनवद्यैवेति तात्पर्यार्थः। अक्षरार्थस्तु प्रतीचि प्रत्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #184
--------------------------------------------------------------------------
________________
१५२
प्रत्यक्तत्त्वचिन्तामणी गात्मनि जनिमृतिप्रचुरोऽयं कर्तृत्वादिरूपो बन्धोऽविद्ययाऽनिर्वाच्याज्ञानेनैव परिकल्पित उदिता विद्वद्भिरिति शेषः । इतो बन्धान्मुक्त्यै मोतसिद्धये शमदमतितिक्षादिगुणविशिष्टं मुमुक्षु पुमासं पुरुषधौरेयं संश्रित्याऽऽत्मज्ञानाधिकारित्वेनाश्रित्य भ्रमतिमिरविक्षेपावरणशक्तिकमज्ञानं विध्वंसयितुं स्वोत्पत्तिमात्रेण बाधितुं शीलमस्य तत्तथाविधं तत्त्वज्ञानं तस्य जनकतया करणं साधनं शास्त्रारम्भस्तत्त्वमस्यादिविचारप्रधानम् "प्रथातो ब्रह्मजिज्ञासा" (व० सू० १।१ । १) इत्यादिशास्त्रं तदारम्भी भगवद्व्यासस्य मतोऽभिमतः। अपरिच्छिन्नपदं ब्रह्मतत्त्वं तद्रूपेणावस्थितिर्मोक्षस्तत्वज्ञानजननद्वारा फलं यस्य स च तथेति ॥ २१ ॥
श्रुतीनां प्रमाण्यादवर तमृषात्वस्य जगतोऽ
वभासस्थात्मन्यध्यसनकरणं ह्यान्ध्यमुदितम् । अतोऽध्यासादेवाखिलविकृतिसंसारकलना
चिदानन्दे भातीत्यपि निगमसिद्धं नययुतम्॥२२॥ यदप्युक्तं रज्वादी सपीद्यध्यासे विषयकरणादिदोषसम्भवादुभयोरपि विषयत्वाच्च भवेदपि भ्रान्तिः, आत्मन्यनात्माध्यासे पुनर्द्रष्टुरधि. ष्ठानस्य करणस्य चाऽऽत्मव्यतिरेकेणाभावात्, प्रात्मनश्च निर्विशेषत्वाद् द्रष्टत्वाच्च, न तत्र भ्रान्तिसम्भव इति तत्राह-श्रुतीनामिति । द्रष्टुरीदृशस्यावभासस्याविद्याध्यासात्मकत्वे सकल वेदान्तप्रामाण्यादेव निश्चिते सति प्रात्मनि बाह्याऽध्यासनिमित्तकारणाभावेऽपि सर्वभ्रमानुगतानिर्वचनीयाज्ञानमेव कार्यान्यथानुपपत्त्या कारणं परिकल्प्यते इति न काचिदनुपपत्तिरिति तात्पर्यार्थः। अक्षरार्थस्तु श्रुतीनां वेदान्तानी प्रामाण्यादेवावगतमवबुद्धं मृषात्वं मिथ्यात्वं यस्य तस्य जगतो भूतभौतिकप्रपञ्चस्य तदवभासस्य चात्मनि प्रत्यगभिन्ने ब्रह्मणि अध्यासः,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #185
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१५३ तस्याऽर्थाध्यासस्य ज्ञानाध्यासस्य च करणं कारणं हि यस्मादान्ध्यमज्ञानमनाद्यनिर्वाच्यमविद्यादिशब्दवाच्यमुदितं कथितं विद्वद्भिरिति शेषः। यतः सदसतोजीननिवर्त्यत्वं नास्ति, यस्माच्च "तरति शोकमात्मविद् ( छा० ७ । १ । ३) इत्यादिश्रुतेरात्मज्ञानेनैव शोकोपलक्षितस्य संसारसमुद्रस्य तरणं श्रयते। अत आत्मज्ञाननिवयाऽज्ञानकार्याध्यासादेवाऽखिलविकाररूपस्य संसारस्य जन्ममरणप्रवाहरूपस्य कलना कल्पना चिदानन्दे स्वप्रकाशसुखस्वरूपे प्रत्यगात्मनि भाति प्रतीयते-इत्यपि निगमसिद्धं नययुतं युक्तियुक्तञ्चेत्यर्थः । अपिशब्देन यद्यपि वेदान्ता अद्वितीये ब्रह्मण्येव प्रमाणम् , नाऽज्ञानतत्कार्याध्यासादी, तथापि तत्प्रामाण्यान्यथानुपपत्त्या अज्ञानतत्कार्यमध्यासश्च कल्प्यते । न तु साक्षात्तन्निगमसिद्धमध्ययनविधिविरोधादिति सूच्यते ॥ २२ ॥
प्रपञ्चो व्यामादिस्त्वयमनृत भाविद्यकतया
विवर्तश्चिद्व्योम्नः प्रकृतिशबलस्येशितुरितः। यथा स्वानं विश्वं दूशि कलितमाविद्यकतयाऽ
वबुद्धेऽधिष्ठाने न च जगदभूनास्ति भविता ॥२३॥ नन्वस्तु जीवाविद्याकल्पितत्वात्तद्गतसंसृतेर्मिथ्यात्वम् , अाकाशादिप्रपञ्चस्यानादिसिद्धतया प्रत्यक्षादिभिरनुभूयमानस्य कथं मिथ्यात्वं स्यात् ? तथा च तस्मिन् सत्यत्वेनानुभूयमाने सति कथं मुक्तिः ? इत्याशङक्याह-प्रपञ्च इति। व्योमादिप्रपञ्चस्त्वयम् , तु शब्द शङ्कानिवृत्त्यर्थः, यतोऽयमनृतः सद्विलक्षणः सदसद्भ्यां निर्वस्तुमशक्यत्वादनिर्वाच्य इति यावत् । तथात्वञ्चाऽस्याऽनिर्वाच्या विद्याकार्यत्वादित्याह-प्राविद्यकतयति। नन्वीश्वराश्रितमायाकार्यत्वात्प्रपञ्चस्य कथमाविद्यकत्वम् ? इत्यत आह–प्रकृतिशबलस्येति । प्रकृतिर्माया
२०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #186
--------------------------------------------------------------------------
________________
१५४
प्रत्यक्तत्त्वचिन्तामणी अविद्या ज्ञानादिशब्दवाच्या तदुपहितस्येश्वरस्य चिद्व्योम्नश्चिन्मात्रस्य ब्रह्मणो विवाऽन्यथाप्रतिभासः, "तत्त्वादच्युतस्यान्यथाप्रतिभासो विवर्त्तः” इत्युक्तेः। यथा सर्परजताद्यात्मना रज्जुशुत्तयादेः । विवर्त्त इति भावे कर्मणि च घन् । तेन ज्ञानाध्यासविषयाध्यासयोः संग्रहः । तथा च सा मायैवाऽविद्या, नान्या, तयोर्लक्षणसाम्यात्, तत्त्वावभास. विरोधित्वे सति विपरीतावभासहेतुत्वरूपं लक्षणमुभयत्र वर्तते इति भावः । न च "स्वाश्रयव्यामोहहेतुरविद्या", "तमव्यामोहयन्त्यन्यव्यामोहहे. तुर्माया'' इति लक्षणभेदाद् भेदोऽस्त्विति वाच्यम् । अव्यामोहस्य तत्त्वज्ञानप्रयुक्तत्वात्, अङ्गुल्यावष्टम्भादिना बुद्धिपूर्वचन्द्रद्वित्वादिप्रतिभासे दर्पणे मुखादिप्रतिभासे चाविद्याया अपि खाश्रयव्यामोहादर्शनात् । प्रत एवं कर्तुः स्वातन्त्र्यपारतन्त्र्याभ्यामपि न भेदप्रत्याशा। एतेनेश्वरस्याविद्याश्रयत्वे भ्रान्तत्वापत्तिरपि निरस्ता, विरोधज्ञानाऽनास्कन्दितविपर्ययस्यैव भ्रान्तत्वापादकत्वात् । अन्यथा भ्रान्तभ्रान्तिज्ञसङ्करापत्तेः । तस्मात्
तरत्यविधा वितता हृदि यस्मिन्निवेशिते ।
योगी मायाममेयाय तस्मै विद्यात्मने नमः॥ इति स्मृतावविद्यां मायामिति सामानाधिकरण्यात, ज्ञाननिवर्त्यत्वाच्च न मायाविद्ययार्भेदः। व्यवहारभेदस्तु स्वाश्रयव्यामोहाव्यामोहाद्युपा. धिभेदादुपपादनीय इति विवरणाचायाः । आचार्य्यवाचस्पतिमिश्रास्तु-"प्रतिजीवमविद्याभेदमङ्गोकृत्य व्यष्टिरूपेणाश्रयतासम्बन्धेन जीवेषु साऽविद्येत्युच्यते, समष्टिरूपेण विषयतया तु ब्रह्मणि सा माया' इत्याहुः। शुद्धचैतन्यमात्राश्रयविषया सेति संक्षेपशारीरकाचार्या:,
"पाश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवखा। पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥" (सं० शा० ३१६) इति वचनात् । इत्थञ्च तुलाविद्याया अपि घटायधिष्ठानचैतन्यमेव विषयो न तु घटादिः, जहस्य तस्य स्वतः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #187
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१५५ स्फुरणप्रसत्यभावेन तत्रावरणकृत्याभावादिति बोध्यम् । एवं प्रपञ्चस्याविद्यकत्वं सम्भावयितुं दृष्टान्तमाह-यथा स्वाप्नमिति । दृशि द्रष्टरि कल्पितं स्वाप्नं विश्वं रथादिरूपं यथाऽऽविद्यकतयाऽनिर्वाच्यम् , तथाऽयमित्यर्थः। तत्त्वज्ञानमात्रेण निवृत्तिश्रवणादपि तस्यानिर्वाच्यत्वमित्याह-अवयुद्ध इति। अधिष्ठाने प्रत्यगभिन्ने ब्रह्मणि साक्षात्कृते जगन्नासीत्, नास्ति, न भविष्यतीति त्रैकालिकबाधविषयता भजते इत्यर्थः ॥ २३ ॥
यतो वेति श्रौतं जगदुदयरक्षाप्रलयकृ
नचान्यच्चिद्धातोरिति हृदयमाश्रित्य वचनम् । जडानां स्वातन्त्र्यं क्वचिदपि न दूष्टं तत इदं
स्वमायाशक्त्यै वारचयति जगद् ब्रह्म सकलम्॥२४॥ ननु “यतो वा इमानि भूतानि जायन्ते' ( तै० ३ । १ ) “यतः सर्वाणि भूतानि" (म० भा० अनु० अ०२५४।११) “जन्माद्यस्य यतः" (ब्र० सू० १ । १ । २) इत्यादिश्रुतिस्मृतिन्यायकदम्बैब्रह्मणः सकाशाजगता जन्मादिप्रतिपादनात् कथं तस्याऽनृतत्वम् ? इत्याशङ्क्याहयतो वेति। “यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रौतं वचनं चिद्धातोश्चिन्मात्राद् ब्रह्मणाऽन्यः कश्चिजगज्जन्मादिकृन्नास्तीति तात्प
र्यमाश्रित्यैव भवति। “यतो वा' इति श्रुती 'इमानि' इति भूतविशेषणम्। तेन नामरूपाभ्यां व्याकृतं मनसाऽप्यचिन्त्यरचनादीत्येवंभूतधर्माः समयन्ते । तैश्च धम्मैः प्रधानादेरचेतनात् परिच्छिन्नशक्तेश्च हिरण्यगर्भादेर्जगता जन्मादि न सम्भवतीति। 'यतो वा' इत्यादिश्रुतिस्तन्मूलकस्मृतिन्यायकदम्बश्च जडानां प्रधानादीनां स्वातन्त्र्यं क्वचिदपि कुत्रापि देशे काले वा न दृष्टं श्रुतिस्मृतियुक्तिविचारेणैवानुभवपथमवतरतीति तेषां जगत्कारणत्वनिषेध पर एव । नहि चेतनानधिष्ठितरथादेः स्वतः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #188
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामा प्रवृत्तिदृष्टेत्यर्थः। फलितमाह-तत इति। ब्रह्म स्वमायाशक्तयैव सकलमिदं जगदारचयतीति योजना। तथा च श्रुत्यादेर्जगतो ब्रह्मकार्यत्वप्रतिपादने तात्पर्य्याभावान्मायिकत्वापरपर्यायानिर्वाच्यत्वरूपमिथ्यात्वं प्रपञ्चस्येति भावः ॥ २४ ॥
असङ्गादासीनं सुखघनमनन्तं समपदं
विना मायां विश्वं प्रति कथमिदं हेतुरुचितम् । अतोऽध्यस्तां मायामनृतजडहेतुत्वमुदितं .
समादाय ब्रह्माद्वयसुखनिधेः श्रोतवचनैः ॥२५॥
"तदेतद् ब्रह्माऽपूर्वमनपरम्" (बृ० २ । ५ । १६) इत्यादिश्रुतिसिद्धं कार्यकारणभावशून्य ब्रह्म जगद्धेतुमायाधिष्ठानत्वमन्तरेण न जगत्कारणमित्याह-असङ्गेति । अनन्तमपरिच्छिन्नं ब्रह्म मायामत्यन्तासम्भावितप्रदर्शिनीमनेकशक्तिमविद्या विना कथं विश्वमाकाशादिप्रपञ्चं प्रति हेतुरुपादानं निमित्तं वा भवितुमुचितम् ? इत्यन्वयः । ननु कुलालादिर्घटादिकार्य रचयन्नाऽविद्यामपेक्षते, एवमीश्वरोऽपि जगनिर्मास्यति विनैव मायामिति तत्राह-प्रसङ्गेति । सङ्गः कार्यकारणादिसम्बन्धस्तद्रहितोऽसङ्गः, "प्रसङ्गो ह्ययं पुरुषः" (बृ. ४ । ३ । १४ ) इत्यादिश्रुतेः। ननु "तत्तेजोऽसृजत' (छा० ६ । २। ३) इत्यादिश्रुतेरीश्वरस्य कर्तृत्वप्रतीतेरसङ्गत्वमसिद्धमिति नेत्याहउदासीनमिति । अतरूपमित्यर्थः। ना दासीनस्य कर्तृत्व तत्प्रयुक्तसङ्गो वा, अन्यथोदासीनमेव न स्यादिति भावः । चेतनो हि प्रयोजनमुद्दिश्य कार्य करोति । प्रयोजनं चेश्वरस्य किं दुःखाभावः ? सुखं वा १ नाद्यः, तस्य स्वतः सिद्धत्वात्। न द्वितीय इत्याह-सुखघनमिति। ततश्चोभयविधप्रयोजनशून्यत्वादुदासीनत्वाञ्च तेज:प्रभृतिकर्तृत्वमीश्वरस्य न युक्तमित्यर्थः । एवं निमित्तकारणत्वं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #189
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१५७ ब्रह्मणः पराकृत्येोपादानत्वं निरस्यति — समपदमिति । विचित्ररचनात्मकत्वेन विषमकार्य्यं प्रति समं निर्विषमं यत्पदं तत्कथमुपादानं स्यात् ? 'वैचित्र्यञ्च समस्य न " इति न्यायेन विचित्रकार्य प्रति विचित्रमेव कारणं युक्तम्, न तु सममित्यर्थः । जगन्निर्माणं चेश्वराच्छ्रयते "यता वा" इत्यादिश्रुतेः । अता ब्रह्मण्यव्यस्त मार्या समादाय श्रोतवचनैर्ब्रह्माद्वयसुखनिधेः परिपूर्णाद्वैतानन्दसमुद्रस्याऽनृतत्वेन जडत्वेन च प्रसिद्धं विश्वं प्रति हेतुत्वमभिन्ननिमित्तोपादानत्वमुदितमिति योजना | न हि जडानृतदुःखानेकविधप्रपञ्चं प्रति सत्यज्ञानानन्तानन्दासङ्गोदासीनस्य ब्रह्मणो मायामन्तरेण कथञ्चदपि कारणत्वं सङ्गच्छते इति सृष्टिश्रुतीनामपि स्वार्थे तात्पर्याभावादिति
भावः ।। २५ ।
न तत्र प्रामाण्यं निगम शिरसां ब्रह्ममनसामपूर्वाव्यावृत्ताद्वय सदवबाधादयधियाम् । प्रधानाण्वादीनां जडमतिमतानां निरसने गभीरे तात्पर्य्यं श्रुतिहृदयविज्ञाशय इति ॥ २६ ॥
ननु " सदेव सौम्यंदमग्र आसीत् " ( छा० ६ । २ । १ ) " तस्माद्वा एतस्मादात्मन: आकाशः सम्भूतः " ( तै० १ । २ । १ ) “यता वा” ( तै० ३ । १ ) इत्यादि सृष्टिश्रुतीनां ब्रह्मजगताः कार्य्यकारणभावप्रतिपादनपराणां स्वार्थे तात्पर्य किन्न स्यात् ? इत्याशङक्याह-नेति । तत्र कार्यकारणभावे निगमशिरस्रां वेदान्तानां न प्रामाण्यम्, तत्र हेतुगर्भ विशेषणं - ब्रह्ममनसामिति । ब्रह्मण्यद्वितीये मनस्तात्पर्य येषाम् । तथा च समन्वयविरोधान्न तत्र कस्यापि श्रुतिवाक्यस्य तात्पर्य्यमित्यर्थः । नतु किमर्थं तर्हि कार्यकारणभावः श्रुत्योच्यते ? तस्य तात्पर्य्यबहिर्भूततया वैयर्थ्यादिति नेत्याह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #190
--------------------------------------------------------------------------
________________
१५८
प्रत्यक तत्त्वचिन्तामया
पूर्वेति । न विद्यते पूर्व कारणं यस्य तत्, अव्यावृत्तं सजातीयविजातीयभेदशून्यतया कुतश्चिदपि भिन्नं न भवति यत्तत्, अत एवाद्वयं द्वैतशून्यम्, सद्ब्रह्म तदपूर्वाव्यावृत्ताद्वयसत् तस्यावबोधः साक्षात्कारस्तस्यादये प्रादुर्भावे धीस्तात्पर्य्यं येषाम् । तथा च " अध्यारोपापवादाभ्यां निष्प्रपञ्च प्रपञ्च्यते ।" इति न्यायेन कार्यकारणयोरभेदस्तावल्लोकसिद्ध इति कार्यकारणभावमारोप्याऽद्वितीये वस्तुनि सम्भावनासिद्धये श्रुतीनां तथा वर्णनं सङ्गच्छते । न साक्षात्तादृत्रह्मवर्णनं सम्भवति । येन तथा न वर्णयेयुरिति भावः । किञ्च, वादिपरिकल्पितप्रधानपरमाण्वादीनां जडा शास्त्राचार्योपदेश संस्कार हीनतया मन्दा मतिर्येषाम् । यद्वा, जडेषु प्रधानपरमाण्वादिष्वभिनिविष्टा मतियेषाम् । तदभिमतानां निरसने निराकरणे सति निष्प्रत्यूहं गभीरेऽगाधेपरिच्छिन्ने ब्रह्मणि तात्पर्य " यत्परः शब्दः स शब्दार्थः" इति न्यायेन सिद्धप्रतीति शेषः । इत्येवं श्रुतीनां हृदयं ब्रह्मतत्त्वं तस्य विज्ञास्तत्साक्षात्कारवन्तस्तेषामाशयस्तात्पर्य्यमित्ययमेवेत्यर्थः ॥ २६ ॥
1
यदि द्वैतं सत्यं भवति कथमद्वैतवचसां
भवेत्प्रामाण्यं तर्ह्यनधिगतवस्त्वैक्यविषयम् । कथं वाऽतो मोक्षो जनिमृतिमहानर्थनिगडान्मुमुक्षूणां यस्मात्कथमपि लयं नैत्यवितथम् ॥ २७ ॥
ननु किमर्थमा श्रुतीनामद्वैते ब्रह्मण्येव तात्पर्य्यमिति वर्ण्यते ? द्वैत मिथ्यात्वसिद्धये इति चेत्, तन्न; द्वैतस्य सत्यत्वेऽपि श्रुतिवाक्यानां स्वार्थे प्रामाण्योपपत्तेः । न वा मोक्षसिद्धये तथावर्णनम्, द्वैतसत्यत्वेऽपि मोक्षोपपत्तेश्च । किश्व, द्वैतमिथ्यात्ववर्णनं न तावद् ब्रह्मज्ञान निवर्हणीयत्वाय शास्त्रप्रामाण्यात् सत्यस्यापि ज्ञानान्निवृत्तेः । न च संसारियोSसंसारिब्रह्मकत्वार्थमोपाधिकस्य संसारस्य सत्यस्याप्युपाधिनिवृस्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #191
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१५६ निवृत्तौ जीवस्य ब्रह्मैक्यसम्भवादित्याशक्याह-यदीति। यदि द्वैतं सत्यं स्यात्तह्य द्वैतवचसा "एकमेवाऽद्वितीयम्' (छा०६।२ । १) "तत्त्वमसि' (छा०६।८।७) “अयमात्मा ब्रह्म' ( बृ० २।५।१६) 'ब्रह्मैवेदं विश्वम्” (मु० २।२।११) इत्याद्यद्वैततत्त्वप्रतिपादकवेदान्तवाक्यानां प्रामाण्यमनधिगतं प्रमाणान्तरैर विषयोकृतं यद्वस्तुनोनारोपि तस्य ब्रह्मण ऐक्यमखण्डैकत्वं तद्विषयं तदेकमात्रगोचरं कथं स्यादिति सम्बन्धः । कथं वा द्वैतसत्यत्वे सति अता हैतरूपबन्धाजन्ममृत्युप्रवाहरूपानर्थनिगडाद् दुरुच्छेद्यपाशाद् मुमुक्षूणां मोक्षः स्याद् ? यस्मात्कथमप्यवितथं कालत्रयेऽप्यबाध्यं वस्तु लयं नैवेति न विनश्यतीत्यर्थः । सत्यस्यात्मवदनिवृत्तेः, द्वैतरूपबन्धस्यापि तथात्वात्; ततः कथमपि मोक्षो न स्यादिति भावः । न च सत्यः प्रपञ्ची ज्ञाननिवर्त्य इत्यागमोऽस्ति । प्रत्युत बन्धस्य ज्ञाननिवर्त्यत्वश्रुतार्थापत्त्या मिथ्यात्वप्रसिद्धेः । न च ताय॑ध्यानादिना सत्यस्यापि विषादेर्निवृत्तिष्टेति वाच्यम् , विषादेः सत्यत्वासिद्धेः । ननु सर्वः प्रपञ्चोऽमिथ्येति त्वन्मते विषस्य सत्यत्वा. सिद्धिरस्तु नाम । तथापि विषय मिथ्यात्वं न ता_ध्याननिव
य॑त्वप्रयुक्तं त्वयेष्यते । किन्तु प्रपञ्चमिथ्यात्वसाधकप्रमाणान्तरप्रयुक्तमिष्यते। तथा च तार्यध्याननिवर्त्यत्वं विषस्येव ब्रह्मज्ञाननिवर्त्यत्वं संसारस्य मिथ्यात्वे प्रयोजकं न स्यादिति चेत्, न; ध्यानस्याप्रमात्वेनाsदृष्टान्तत्वात् । तथाहि-ब्रह्मज्ञानपरीक्षितप्रमाणमूलकं प्रमारूपमेव संसारनिवर्त्तकम्, “वेदान्तविज्ञानसुनिश्चितार्थाः'(क० ३।२।६) इत्यादिश्रुतेः; ब्रह्मविद्योपक्रमाम्नातगुरुशिष्यनिबन्धवदुपाख्यानगतयावत्संशयनिवृत्तिप्रश्नोपदेशतत्तदुपपत्त्युपन्यास लिङ्गाच्च; तत्प्रमात्वस्थिरीकरणापेक्षितासम्भावनादिनिवृत्त्यर्थप्राप्तश्रवणमननध्यानानुवादलिङ्गाच्च । तार्क्ष्यध्यानस्य तु कल्पिताकल्पितसाधारणययोपदिष्टार्थ विषयस्य विषनिवतकत्वे प्रमात्वं नापेक्षितमिति दृष्टान्ताऽसम्प्रतिपत्तिरिति । ननु "सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्या निवर्त्तते" इति स्मृतेः सेतुदर्शनं प्रमारूपमेव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #192
--------------------------------------------------------------------------
________________
१६०
प्रत्यक्तत्त्वचिन्तामणैा सत्यस्याऽघस्य निवर्तकं दृष्टम्, तथात्राप्यस्तु, का क्षतिः ? इति चेद्, न; सेतुदर्शनञ्च चोदितक्रियात्मनैवैनानिवर्हकम् , न प्रमारूपम् , पश्यता. मपि सेतुं म्लेच्छानां श्रद्धाविरहिणां वाऽधानुपघातात् । आत्मप्रमा तु दृष्टद्वारेण बन्धनिवर्तिनी, न विधिद्वारा, तद्विधेः समन्वयसूत्रे भाष्य. कृद्भिनिराकृतत्वादित्यलं विस्तरेण ॥ २७ ॥
जगन्मिथ्यात्वे तु अतिशतशिरोगीरविकलं .
भजेत्प्रामाण्यञ्च व्यवहृतिरपीयं हि घटते। मृषाबन बोधी विदलयति मोक्षोऽपि सुलभः
परब्रह्माद्वैतं व्रजति न च कापं श्रुतिमतम् ॥२८॥ प्रपञ्चमिथ्यात्वे तु सर्वमनवद्यमित्याह-जगन्मिथ्यात्वे इति। “तरति शोकमात्मविद्" ( छा०७ । १।३) "ब्रह्मविदाप्नोति परम्" (ले० २।१)"ब्रह्म वेद ब्रह्मैव भवति" (मु० २।६)इत्यादिश्रुतिशतशिरोगीरविकलं यथा स्यात्तथा प्रामाण्यं भजेत् । अन्यथा शोकोपलक्षितसंसारस्यात्मज्ञानेन तरणोक्तिब्रह्मज्ञानमात्रेण जीवभावनिवृत्तिपूर्वकब्रह्मभावप्राप्तिकथनञ्च बाध्येत । तथा सति कथं श्रुतिशिरोगिरां प्रामाण्यं स्यादित्यर्थः । सर्वेषां वेदान्तानां समन्वयोऽद्वितीये ब्रह्मणि । शास्त्रस्य प्रथमाध्यायार्थः श्रुतिशतेत्यादिविशेषणेन दर्शितः । शतशब्द अानन्त्यपरः, “विश्वं शतं सहस्रश्च सर्वमक्षय्यवाचकम्'' इति महाभारतवचनात् । “ब्राह्मणशतं भाज्यताम्" इत्यत्र भोजनस्येव शिरसां संख्योपसर्जनसंख्ययेनान्वयः । नन्वस्तु जगन्मिथ्यात्वे तु श्रुतीनां प्रामाण्यम् , व्यवहारस्तु न सेत्स्यत्ति; भ्रमजनितस्य व्यवहारसाधकत्वादर्शनात् । नहि मृगतृष्णाम्भः पिपासोपशमकं दृष्टमित्याशङक्याह-व्यवहृतिरपीति। किं भ्रमजनितस्य भ्रमकालेऽपि न व्यवहारसाधकत्वम् १ बाधकाल्ने वा ? अन्त्ये, इष्टापत्तिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #193
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१६१ प्राद्य, स्वानखोरथादीनां तत्समये व्यवहारलाधकत्वं सर्वलोकसिद्धमित्यर्थः। बोधस्तत्त्वज्ञानं मृषाबन्धमनिर्वाच्याविद्याकार्य्यमविद्यानिवर्त्तनेन विदलयति निवर्त्तयतीत्यर्थः । मिथ्याबन्धस्य तत्त्वज्ञानेन बाधितत्वात्स्वरूपावस्थानलक्षणो मोक्षः स्वत: सिद्धत्वात्सुलभः। श्रुतीनां मतं तात्पर्य विषयोऽद्वैतं परब्रह्मतत्त्वं न च कोपं ब्रजति–जगतो मिथ्यात्वे सति एवैतत्सर्व सिद्ध्यतीत्यर्थः ॥२८॥
अविद्यायां सत्यामनृतमिदमेवं मतिरपि
प्रमात्राद्यध्यस्तं श्रुतिवचनजोदेति न ततः। क्रियाकाण्डे ज्ञानेऽप्यमिति ममेत्याद्यनुभवात् प्रवृत्तिः संसिद्धा भ्रमयुतधियां वैदिकपथे ॥२८॥
ननु जगतो मिथ्यात्वे 'स्वर्गकामो यजेत" "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन" (बृ. ४ । ४ । २२) इति "शान्तो दान्त उपासीत" इत्यादिशास्त्रञ्च साध्यसाधनबोधकमनर्थकं स्यादित्याशक्य किं शास्त्रानर्थक्यापादनं विद्वांसं प्रति ? आहोस्विद् अझं प्रति ? नाद्यः, इष्टापत्तेः । न हि तज्ज्ञं प्रति किंचिच्छास्त्रं विधत्ते, तस्य कृतकृत्यतया साध्यसाधनप्रत्ययबाधात् । द्वितीयश्चेत्, तत्राह-अविद्यायामिति । सत्यामविद्यायां प्रमात्रादिजगदध्यस्ततयाऽनृतं मिथ्येत्येवं मतिर्निश्चयात्मिका बुद्धिरपि अतिवचनजन्या नोदेति । ततश्च मिथ्यदमिति ज्ञानाभावात् क्रियाकाण्डे "स्वर्गकामो यजेत' इत्यादौ कर्मप्रतिपादके शास्त्रे ज्ञानेऽपि तत्त्वज्ञानसाधनप्रतिपादके शास्त्रे 'तमेतम्' इत्यादौ वेदान्तविचाररूपश्रवणादी तत्त्वज्ञानसाधनेऽपि वैदिकमार्गे प्रवृत्तिभ्रमणदेहाद्यभिमानेन युता धीर्येषां तेषामहं ब्राह्मणोऽमुकशम्र्मेति, ममेदं गृहं कलत्रमिति, प्रहं विरक्तो ममायमाश्रम इत्याद्यनुभवादेव सम्यक्सिद्धा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #194
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामा स्यादिति योजना । "सर्वाणि शास्त्राणि विधिनिषेधपराणि मोक्षपराणि चाऽविद्वद्विषयाणि'' इति भाष्यादित्यर्थः ॥ २६ ॥
परे द्वैतं युक्तयाऽप्यखिलमिदमध्यस्तमनृतं __ भवेद् भ्रान्तो सत्यां व्यवहरणयोग्यं खमलवत् । क्षमा मिथ्यावाद्या व्यवहृतिपदे स्वमसमये
प्रबोधे मा सन्त्वस्त्वनृतमवभासात्मकमिदम् ॥३०॥ मिथ्यापदार्थोऽपि भ्रान्तिकाले व्यवहारसाधकः, तदाधे तु माऽस्तु, बाधितानुवृत्त्याऽस्तु वेति दृष्टान्तावष्टम्भेन साधयति-परे इति । युक्तयाऽपि परे परमात्मनि इदं समस्तं द्वैतं प्रपञ्चात्मकमनृतं सद्विलक्षणमध्यर' कल्पितमेव भवेत् सिद्धेवत्, भ्रान्तौ सत्याञ्च तत्तद्व्यवहार. योग्यमपि नीलं नभ इति व्यवहारवत् । ननु नीलं नभ इति व्यवहार एकविध एव दृश्यते, प्रपन्चे तु नानाविधविचित्रव्यवहारयोग्यतया विषमो दृष्टान्त हत्यपरितोषाद् दृष्टान्तान्तरमाह-क्षमा इति। स्वप्नसमये व्यवहारगोचरे मिथ्याऽश्वगजादयोऽप्यारोहणादिविचित्रार्थक्रियासमा दृष्टाः । प्रबोधे तत्त्वसाक्षात्कारे जागरण इव व्यवहारसमर्था मा सन्तु, तत्कारणस्य बाधादेव । यद्वा, बाधितानुवृत्त्याऽनृतमनिर्वाच्यमवभासात्मकं प्रतीतिमात्रशरीरमिदं सर्वमस्तु वा, तेन का हानिरित्यर्थः ॥३०॥ निजाज्ञानं देहाद्यखिलजगदाकारविकृति
हवाप्तं ज्ञातं सज्जगदिदमनार्थविषयम् । न चाज्ञातं किञ्चिद् व्यवहरणयोग्यं भवति वा
प्रतीतःमाक् पश्चादपि न च भवेत्भ्रान्तिजनितम्॥३१॥ प्रतीतिमात्र शरीरमित्युक्तमित्युपपादयति-निजेति। स्वाज्ञानमेव देहायखिलजगदाकारेण विकृति परिणाममवाप्तम् । हिशब्दः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #195
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम्।
१६३ प्रसिद्धशुक्तिरूप्यरज्जुसर्यादैा तथात्वस्य द्योतकः । अत इदं जगदेहादिरूपमनर्थः प्रतिकूलरोगादिभिः, अर्थस्तत्तद्विषयभोगानुकूलस्वास्थ्यादिभिः, तद्विषयं तद्रूपमनर्थार्थरूपं ज्ञातमेव सद्भवति । न च प्रतीतेः प्रागज्ञातमपि सत् किंचिद्वस्तु व्यवहारयोग्यं भवति । पश्चाद्वा प्रतीतिविलवादूर्ध्व न च भवति । तत्र हेतु:-भ्रान्तिजनितमिति । प्रतीतिमात्रशरीरत्वाद् भ्रान्तिजन्यस्येत्यर्थः ।। ३१ ।। स एवायं कुम्भस्तदिदमिह वेश्मेति धिषणा
भवेत्साम्याद्यद्वद्युगपदहिभान जि नृणाम् । न चान्योऽन्याविद्याकृतभुजगमाज्ञातुमुचित
स्तथाऽत्र द्रष्टव्यं तमसि किससम्भावितमहा॥३२॥ ननु द्वैतस्य प्रतीतिमात्र शरीरत्वे तदेवेदं गृहम्, सेोऽयं घट इत्यादि. प्रत्यभिज्ञा न स्यात, तस्याः पूर्वसंस्कारसहकृतचक्षुरादिजन्यत्वादित्याशङ्क्याह–स एवेति । इह भूतले स एवायं कुम्भः, तदेवेदं गृहमिति धिषणा प्रत्यभिज्ञा प्रातीतिकवस्तुनः प्रतीतिभेदेन भेदेऽपि साम्यात् सेयं दीपज्वालेत्यादिवत्सादृश्याद् भवति। यद् येन प्रकारेण बहूनां नृणां लजि पुष्पमालायामहिमानं सर्पभ्रमावभासो युगपदेकदैव भवति। तत्र स्वस्वाविद्याकल्पितसक्याभावेऽपि यथा तेषामेक एव सर्पः सर्वैरनुभूयते । न च अन्याविद्याकृतभुजङ्गमन्य आज्ञातुमुचितः । अन्यान्तःकरणप्रतिबिम्बितचैतन्यनिष्ठाविद्यात्मको भ्रमस्तदन्तःकरणवृत्तेदुज्ञेयत्वात्ततोऽन्येन ज्ञातुमशक्य इत्यर्थः । तथाऽत्रापि सत्यत्वेना. भिमतव्यवहारभूमौ प्रातीतिकघटादीनां प्रतीतिभेदेन भेदेऽपि साहश्यादेव प्रत्यभिज्ञानं भविष्यतीति नानुपपत्तिरित्यर्थः। ननु कथमेतस्यादित्यत आह-तमसीति । अहो आश्चर्यमेतत, यत्त्वया स्वप्नादास्वशिरश्छेदादिकमत्यन्तासम्भावितमनुभूयापि न सम्भाव्यते। तमसि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #196
--------------------------------------------------------------------------
________________
१६४
प्रत्यक्तत्त्वचिन्तामा अज्ञाने घटितघटनाचतुरे किमसम्भावितम् ? सर्व सम्भाव्यते इत्यर्थः ॥ ३२॥ जगज्जायत्काले विविधमनुभयान्ध्यजनितं
सुषुप्तिं गत्वा स्यात्पुनरपि समुत्थाय सहसा। जगबुद्धिर्या सा जगदभिनवं गोचरयति
स्फुटं सादृश्यात् स्यात्तदिमिति बुद्धिर्व्यवहृती॥३॥ प्रतीतिसमानयोगक्षेमस्य प्रपञ्चस्य ज्ञातमेव सत्त्वं नाज्ञातसत्त्वमिति द्रढयितुमवस्थासु प्रपञ्चभेदं साधयति-जगदिति। जाग्रत्काले इन्द्रियैरर्थोपलब्धिलक्षणे विविधमान्ध्येनाज्ञानेन कल्पितं भूतभौतिकं जगद्विचित्रमनुभूय, सुषुप्तिं गत्वा, पुनरपि जागरे समुत्थाय, सहसा या जग
बुद्धिर्जगद्गोचरा प्रतीतिः स्यात्; सा प्रतीतिरभिनवं स्वसमानशरीरं जगत्स्पष्टतया गोचरयति । तत्र तदिदं गृहमित्यादिबुद्धिर्व्यवहारे साहश्यादेव स्यादिति योजना ॥ ३३ ॥ नहि द्रष्टुष्टेरपि विपरिलोपो न तु ततो
द्वितीयं वाऽन्यत्स्याद्यदयमपि पश्येदिति वचः। जगद्वैतं सुनावपवदति सत्यामपि दूशि
प्रपञ्चाभावोऽतः श्रुतिवचनसिद्धोऽस्ति सततम् ३४ ननु प्रत्यभिज्ञाया भ्रमत्वसाधिका युक्तिर्मलप्रमाणाभावेनाभासत्वानावस्थासु प्रपञ्चभेदं साधयितुं क्षमते इत्याशक्य युक्तेः श्रुतिप्रमाणमूलत्वान्नाभासत्वमित्याह-नहीति। “नहि द्रष्टुह ष्टेर्विपरिलोपो विद्यतेऽअविनाशित्वान्नतु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्” (बृ० ४ । ३ । २३) इति श्रुतेर्वचो दृशि द्रष्टुः वरूपभूतदृष्टी सत्यामेव सुषुप्तौ जगद्वैतमपवदति निषेधति । अतः श्रुतिवचनप्रमाण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #197
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१६५ सिद्धः सततमेव प्रपञ्चाभाव इति सिद्धान्तः । द्रष्टुरात्मनोऽविनाशित्वात्तत्स्वरूपभूता दृष्टिरप्यविनाशिनीति सुषुप्तेऽप्यात्मा पश्यत्येव । परन्तु यद् द्वितीयमन्तःकरणं प्रमात जाग्रदादा पश्येत, तदत्र नास्ति । ततोऽन्तकरणादप्यन्यच्चक्षुरादिकरणम् , तदप्यत्र नास्ति । यथा यच्च विभक्तं रूपादिविषयजातम्, तदप्यत्र सुषुप्तौ नास्तीत्यात्मनो विशेषदर्शनाभावो युक्तः, विशेषदर्शनकारणभूतानां प्रमातृविषयाणामभावादिति श्रुतेरर्थः ।। ३४ ॥
• तथान्या प्राणादेरनिशमवदत्सृष्टिमपि गी.
स्ततोऽवस्थास्वैक्यानुभव इह विश्वस्य च मृषा। न सर्पभ्रान्तेः स्याज्जगदनुभवे भेद उचितः प्रतीतेरन्यन्न क्वचिदपि मृषाध्यासजनितम् ॥ ३५॥
सुप्तोत्थितस्य पुनः प्राणादेः सृष्टिर्भवतीत्यपि श्रुतिसिद्धमित्याहतथेति । यथा पूर्वोक्तश्रुत्या सुप्तौ सृष्टिविलयः कण्ठरवेणोक्तः तथैवाऽन्या श्रुति: “स यदा प्रतिबुध्यते" इत्युपक्रम्यानिश प्रत्यहं प्राणादेः सृष्टिमप्यवदत् वदति । “यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एव एकधा भवति तदैनं वाक् सर्वैर्नामभिः सहाप्येति, चक्षुः सर्वै रूपैः सहाप्येति, श्रौतं सर्वैः शब्दैः सहाप्येति, मनः सर्वैयानैः सहाप्येति, स यदा प्रतिबुध्यते यथाग्नेलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः' ( कौ० ३।३) इति तत: श्रुतिप्रमाणादेवावस्थासु विश्वस्य घटादेः प्रपञ्चस्यैक्यानुभव इह व्यवहारभूमा मृषैव । अत एव सर्पभ्रान्तेः सर्पभ्रमानुभवाद् जगदनुभवे भेद उचिता न भवति, यतः प्रतीतेरन्यत्क्वचिदपि जाग्रत्काले स्वप्न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #198
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामा काले भ्रमकाले वा मिथ्याध्यासजनितं वस्तु पृथङ्नास्ति, प्रतीतिमात्रशरीरत्वादित्यर्थः ॥ ३५ ॥
ननु भ्रान्तिज्ञानाज्जगदनुभवे कारणकृतो
विशेषस्तद्वत्त्याद्विषयकृत पाजानत इति। जगद्धीः प्रत्यक्षाद्यखिलबलसिद्धाभ्रममृते
भ्रमज्ञानं नैवं कथमिह तयोः साम्यमुदितम् ॥३६ ॥ भ्रमात् पूर्व सपा न भवति तथेदं तु न जगद्
यतः पूर्वं तस्येन्द्रियविषयसंयोगत इतः। मतं सत्त्वं लोकेऽविदितमपि नैवं भ्रमजने
रतो भ्रान्तिज्ञानाज्जगदनुभवे भेद उचितः॥३७॥ तत्र दृष्टान्तदाान्तिकयोवैषम्यं शकते-नन्वित्यादिद्वाभ्याम् । यद्यपि भवदुक्तरीत्या प्रपञ्चभ्रान्तिज्ञानयोन भेदः प्रतिभाति । तथाप्याजानत: स्वभावत एव रज्जुसर्पादिज्ञानादाकाशादिप्रपञ्चज्ञाने कारणकृता विषयकृतश्च विशेषोऽस्ति । प्रपञ्चज्ञानस्य प्रत्यक्षादिप्रमाणजन्यत्वम्, सर्पज्ञानस्य त्वविद्याजन्यत्वम् । प्रपञ्चज्ञानविषयोऽज्ञातसत्त्वं घटादिः। सर्पज्ञानविषयः प्रतीतिमात्रशरीरज्ञातसत्त्वं सर्पादिः । प्रपञ्चज्ञानस्येन्द्रियसन्निकर्षजन्यत्वात् ज्ञानात्पूर्वमपि विषयसत्त्वमावश्यकम् । न तु भ्रान्तिज्ञानस्येव प्रतीतिमात्रसत्त्वम् । तस्माद् भ्रान्तिज्ञानप्रपञ्चज्ञानयोर्बहुवैषम्यात् कथं तयोः साम्यमुक्तम् ? इति द्वयोः सक्षितार्थः ॥ ३६-३७ ॥ इति प्राप्त बमो न भवति भिदा स्वाप्नजगतो यथा स्वाप्नाध्यक्षाद्यखिलबलसिद्धं भ्रममयम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #199
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणन् । तथा जायद्विश्वं भ्रममयमिहाध्यक्षगमितं
न वाऽध्यक्ष हेतुर्जगदनुभवे तत्वजनने ॥ ३८ ॥ भ्रान्तिज्ञानप्रपञ्चज्ञानयोस्तद्विषययो: शङ्कितं वैषम्यं परिहरतिइतीति । स्वाप्नज्ञानजायज्ज्ञानयोस्तद्विषयोश्च भेदो न भवति । यथा स्वप्ने भ्रान्तिरूपाध्यक्षादिप्रमाणबल्लेन सिद्धं भ्रममयं स्वाप्नं वस्तु तथैव जाग्रत्कालीनं विश्वं भ्रमकार्यमिह जागरे कल्पिताध्यक्षादिना गमितं ज्ञापितम् । अतः प्रत्यक्षादिप्रमाणं जगतो घटादिविश्वस्यानुभवविषये यत्सत्त्वजननं तत्र हेतुर्न भवतीति योजना ॥ ३८॥
अविद्याकार्येऽस्मिञ्जगदनुभवे नास्ति किमपि
स्वतः सत्यं योगी विषयकरणादेरपि मृषा। यथा यक्षो लोके बलिरपि तथा भाणकमिति
स्वतः सत्ताशून्ये क्रियत इह सत्ता न करणैः ॥३८॥ तयाः साम्ये कारणसाम्यं हेतुत्वेनाह-अविद्येति । अस्मिन् प्रत्यक्षादिसिद्ध जगदनुभवेऽविद्याकायें इति हेतुगर्भ विशेषणम्, प्राविद्यकत्वात्किमपि वस्तु स्वतः सत्यं नास्ति, स्वाधिष्ठानवृत्तित्रैकालिकाभावप्रतियोगित्वात् । सर्वस्याप्याविद्यकस्य योगो विषयेन्द्रियसन्निकर्षविषयो घटादिः, करणानीन्द्रियाणि, प्रादिशब्देनालोकादेव्याप्तिलिङ्गादेश्व ग्रहणम् । सर्वेषामपि मृषात्वं वदन् सन्निकर्षो विषयकरणादर्भषेत्याहत्य वदति। तेन प्रत्यक्षादिजन्यस्वं प्रपञ्चज्ञाने विशेष इत्युक्तं परास्तम् । नहि मिथ्याज्ञानकाय॑स्य प्रपञ्चसाधकं प्रत्यक्षादि सत्यम् , यता लोके यज्ञानुरूपो बलि रित्याभाणकम् । न वा स्वतः सत्ताशून्ये वस्तुनि करणैरिन्द्रियादिभिः सत्ता क्रियते । नहि व्याम्नि स्वतः सत्ताशून्यस्य नीलवर्णादेः सत्ता स्वच्छचतुरादिभिरपि सम्पादयितुं शक्येति भावः ।। ३६ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #200
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी भ्रमव्यावृत्तत्वं न च जगति बाध्यत्वकथना
दतोऽन्यत्स्यादान चकिमपि नानास्ति विमले। इति श्रुत्या कार्येऽनृततमशरीरत्वमुदितं ___ मरीच्यम्भारज्जावहिरिव जगदाध्यमुचितम्॥४०॥
न केवलं युक्तयैव प्रपञ्चस्य मिथ्यात्वमपि तु श्रुतिसिद्धमपीत्याहभ्रमेति । जगति विषये भ्रमवैलक्षण्यं नास्ति, बाध्यत्वकथनात् । श्रुतिस्मृतिसहरिति शेषः । तत्र श्रुतिं दर्शयति-अत इति । अतो ब्रह्मणोऽधिष्ठानादन्यदध्यस्त कार्यकारणरूपं जगदातमभावपीडितं कालत्रयेऽपि बाधितमिति यावत् । अत्रैव "नेह नानास्ति किञ्चन" (बृ० ४ । ४ । १६) इति श्रुत्यन्तरमर्थत: पठति-न चेति । इहेति यदस्यार्थे विमले स्वच्छे ब्रह्मणि किमपि नाना विश्वाकारेण भासमानं नास्तीति श्रुत्या विश्वस्मिन्कार्ये भूतभौतिकप्रपञ्चेऽनृततमशरीरत्वमत्यन्तमिथ्यात्वमुदितं कण्ठरवेणोक्तम, तस्मान्मरीचिसमूहे जलमिव, रज्जौ सर्प इव, ब्रह्मणि जगद्वाध्यम्-मिथ्यात्वेन तत्त्वज्ञानबाधाहमेवो. चितमित्यर्थः ॥ ४०॥ प्रमाणत्वेनैवाभिमतकरणानां भवतु वा
ऽखिलाधिष्ठानत्वादविदिततयात्मैव विषयः। जगन्नास्त्यज्ञातं ह्यतिजडतया ज्ञानविकृतिः
प्रमाणानां यस्मादविदितपदार्थोऽस्ति विषयः॥४१॥ एवं प्रपञ्चस्य भ्रान्तमात्रशरीरत्वं प्रसाध्य तद्विषयकज्ञानसाधने. न्द्रियाणां प्रामाण्यमेव नास्तीति वक्तुमुपक्रमते-प्रमाणत्वेनेति । प्रमाणत्वेनाभिमतानां चक्षुरादिकरणानामज्ञातार्थविषयता वाच्या। तथा चाखिल विश्वाधिष्ठानत्वादविदिततयाऽज्ञातरूपेणात्मैव विषयः। हि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #201
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१६८
यस्माज्जगदज्ञानविकृतिरूपमत्यन्त जडतयाऽज्ञातं नास्ति, तस्याऽऽवृतैकरूपस्य पुनर विज्ञानविषयत्वलचणाज्ञातत्वकल्पने प्रयोजनाभावादित्यर्थः । विदितपदार्थो यस्मात्प्रमाणानां विषयोऽभिमतेाऽस्ति । तच्चाविदितत्त्वमधिष्ठाने प्रत्यकूतत्त्वे विश्रान्तमित्यर्थः ॥ ४१ ॥
न चाज्ञातः कुम्भः कथमिति तदेयं व्यवहृतिः स साक्षिण्यध्यस्ता घटपटमुखा ज्ञानसहितः । नहि ज्ञानाज्ञाने जडविषयमाश्रित्य सफले स्वयंभानार्हेऽस्मिन्द्वयमपि कृतार्थं व्यवहृतौ ॥४२॥
घटादी जडवर्गेऽज्ञातत्वादिव्यवहारोऽप्यन्यथासिद्ध इत्याह - न चेति । 'अज्ञातो घट:' इत्यादिप्रतीत्युपपत्तिस्त्वज्ञानेन सह साक्षिचैतन्ये घटादेरण्यासादिति स्वयंभासमानेऽस्मिन् साचिचैतन्ये ज्ञानाज्ञाने सफले, न तु जडे, तत्र तयोर्निष्फलत्वादिति समुदायार्थः ॥ ४२ ॥
न तु प्रत्यग्बोधे प्रविशति कदापीन्द्रियगणा
न नीरूपे शब्दे विगतगुणतत्कार्य्यकलने । प्रवेशो वा योगो भवति करणानां प्रमहसि
भ्रमे सत्ये वैषां गतिरपि यथा स्वाप्नजगति ॥ ४३ ॥
अस्तु तर्हीन्द्रियाणामात्मविषयत्वेनैव प्रामाण्यमित्यत आहनत्विति । प्रत्यग्बोधे विषयविषयिभावविनिर्मुक्ततया सर्वान्तरात्मनि ज्ञानघने कदापि कथञ्चिदपि चक्षुरादीन्द्रियगणेो न प्रविशति प्रवेशयोयत नैवाप्नोतीत्यर्थः । प्रवेशयोग्यतामेवाह — नेति । नीरूपे रूप रहिते, अशब्दे शब्दातीते । एतदुपलचणमस्पर्शादेरपि, "प्रशब्दमस्पर्शमरूपमव्ययम्” (क० १ । ३ । १५ ) इत्यादिश्रुतेः । तत्र हेतुगर्भ
२२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #202
--------------------------------------------------------------------------
________________
१७०
प्रत्यकतत्त्वचिन्तामया
विशेषणं - विगतगुणतत्काय्र्यकलने इति । विगताः स्वत एव निरस्ता गुणानां सत्त्वरजस्तमसां तत्कार्य्यपञ्चमहाभूतानाञ्च कलना सम्बन्धो यस्य तस्मिन् प्रमद्दसि सर्वोत्कृष्ट तेजः स्वरूपे सूर्य्यचन्द्राग्नाद्यवभास के करणानां सूर्य्यादिप्रकाश्यान चक्षुरादीनां प्रवेशो योगः सम्बन्धो वा नास्तीत्यर्थः । तर्हीन्द्रियाणां प्रामाण्ये का गतिरित्यपेचायामाह - भ्रम इति । भ्रमे देहाद्यध्यासे सत्येव भ्रान्तिदशायामेषामिन्द्रियाणां गतिर्यथा स्वप्ने कल्पितवस्तुजातविषये तथा जागरेऽपि बोद्धयमित्यर्थः । अयं भावः - स्वप्नावस्थायां स्वाप्नदेहवत्, विषयवच्चेन्द्रियाणामपि प्रातिभासिकी सृष्टिर्न शक्यते वक्तुम्, प्रातिभासिकस्याऽज्ञातसत्त्वाभावात् । इन्द्रियाणाञ्चातीन्द्रियाणां स्वप्नेऽज्ञातसत्त्वस्य वाच्यत्वान्नापि व्यवहारि - काणामेवेन्द्रियाणां स्वस्वगोलकेभ्यो निष्क्रम्य स्वाप्न देहमाश्रित्य स्वस्वविषयग्राहकत्वं वक्तुं शक्यते, स्वप्नसमये तेषां व्यापार राहित्य रूपोपरतिश्रवणात् । तथा सत्येव "अत्रायं पुरुष: स्वयंज्योति” (बृ० ४ । ३। १४ ) इति श्रुतिः सङ्गच्छते । जागरे आदित्यादिज्योतिर्व्यतिकराचन्तुरादिवृत्तिस वाराहुर्विवेचमात्मनः स्वयं ज्योतिष्टुमिति स्वप्नावस्थायामधिकृत्य तत्रात्मन: स्वयंज्योतिष्टं प्रतिपादयति । तत्रापि तथा सति दुर्विवेचं स्यात् । तथा च स्वप्ने यथा भ्रान्त्यैवेन्द्रियान्वयव्यतिरेकानुविधाय भानं तथा जाग्रत्यपि द्रष्टव्यमिति ||४३||
यथा स्वप्ने भ्रान्त्येन्द्रियगणकृताऽपि व्यवहृति
स्तथाजाग्रद्दृश्ये व्यवहृतिरियं भ्रान्तिकलिता । अविद्याकार्याणां व्यवहृतिरिहाऽध्यस्तकरणैः
प्रमात्वे हेतुत्वं न च करणजन्यस्य भवति ॥ ४४ ॥
1
यथा स्वाप्नजगतीत्युक्तं विवृणोति — यथेति । यथा स्वप्नावस्थायां भ्रान्त्यैवेन्द्रियगणकृतापि व्यवहृतिरस्ति, "न तत्र रथा न रथयेोगाः "
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #203
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् 1
(बृ० ४|३ | १०) इति श्रुतेः, मायामात्रन्तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति न्यायाच्च स्वप्नसृष्टे र्मिथ्यात्वसिद्धिः । अतः प्रातीतिक स्वाप्नपदार्थ विषयकव्यवहारो यथा भ्रान्त्यैवेन्द्रियान्वयव्यतिरेकानुविधायी तथा नाग्रदृश्ये जगत्यपि प्रातीतिकत्वाविशेषादियं व्यवहृतिर्व्यवहारोऽपि भ्रान्तिकल्पिततया तदनुरूपेन्द्रियगणान्वयव्यतिरेकानुविधायिनीत्यर्थः । प्रातीतिकत्वमेव दर्शयति - अविद्येति । जाग्रत्स्वप्नयोरवान्तरभेदे सत्यपि प्राविद्यकत्वाविशेषात् कल्पितैरेव करणैरुभयत्र व्यवहारोऽस्तु न काचित् क्षतिरस्तीत्यर्थः । तस्मात्करणजन्यत्वं प्रपञ्चज्ञानस्य प्रमात्वे हेतुर्न भवतीति राद्धान्तः ॥ ४४ ॥
१७१
अता व्योमादीनां प्रकृतिविकृतीनां जनिम्तामविद्य वाध्यस्तात्मनि चितिकला कारणमलम् । विशेषेोपादानं यदपि तदपि स्वप्नवदिदं
ह्यनिर्वाच्यं कार्य्यं जनयति तथा कारणमतः ॥ ४५ ॥
फलितमाह-- श्रत इति । यस्मात्प्रतीतिमात्रं सत्त्वं प्रपञ्श्वस्याता व्योमादीनां कार्य्यकारणरूपायामुत्पत्तिमतां चित्प्रतिविम्बगर्भा आत्मन्यध्यस्ता अविद्येव कारणमलमत्यन्तासम्भावितप्रदर्शने समर्था 1 कथं तर्हि मृद्घटादीनां लोके कार्य्यकारणभावमादाय घटाद्यर्थनां सुदाद्युपादानमित्यपेचायामाह - विशेष इति । यदपि विशेषोपादानमविद्या कार्य्य मृदादीनामुपादानं घटादिनिष्पत्तये, तदपि स्वप्नवत् यथा स्वप्ने कल्पितकुलालेन कल्पितमृदाद्युपादाय कल्पित एव घटादी रच्यते तथाऽत्रापि बोद्धव्यमित्यर्थः । "योग्यं येोग्येन सम्बध्यते" इति न्यायेनानिर्वाच्यम्, हीति विद्वत्प्रसिद्धम्, कार्य घटादिरूपम्, अतस्तथैव कार्य्यानुरूपमेव कारणमविद्याख्यं जनयत्युत्पादयतीत्यर्थः ॥ ४५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #204
--------------------------------------------------------------------------
________________
१७२
प्रत्यक्तत्त्वचिन्तामणी ततः शुद्धाद्वैतात्पृथगखिलमाविद्यकमिदं
यतो ज्ञानज्ञेयात्मकजगति विभ्रान्तिनिविडे । प्रतीतेः सत्त्वं नो पृथगिति विवेकेन विदितं
जगन्मिथ्या सत्यं सुखनिधि परब्रह्म तदिति ॥४६॥ ततः किमित्यत आह-तत इति। शुद्धमविद्यातत्का-संस्पृष्ट यदद्वैतं वस्तु ततः पृथक् तस्मिन्नध्यस्तमखिलमाविद्यकमेवेदेदं जगत्कुतो यतो ज्ञानज्ञेयस्वरूपे जगति विभ्रान्तिनिविडे भ्रममात्रैकशरीरे प्रतीतेविभ्रमरूपाया: पृथग्विलक्षणं सत्त्वं नास्तीति विवेकेन विदितं सत् जगन्मिथ्या स्वाधिष्ठानवृत्तित्रैकालिकाभावप्रतियोगितया अत्यन्ततुच्छमिति फलितम् । तदधिष्ठानं परब्रह्म तेनासंस्पृष्टतया सुखनिधिरूपमेवापरिच्छिन्नमिति सिद्धमित्यर्थः ॥ ४६॥
अविद्यायोनित्वं वदसि जगतस्त्वं कथमहो
न चैकस्माद्धेतार्बहुविमिदं कार्यमुचितम् । अदृष्टेशादिभ्या जगदिदमुदेतीति यदि भोः
किमर्थ मिथ्येयं जडवपुरविद्याऽभ्युपगता॥ ४७ ॥ प्रपञ्चस्याऽऽविद्यकत्वमलहमानःशङ्कते--अविद्यायोनित्वमिति । अहो आश्चर्यमेतत्, यद्विचित्ररचनामनुभूयापि जगतोऽविद्याकार्यत्वं वदसि । नह्य कस्मादविचित्रादविद्याख्यात् कारणाद्वहुविधं विचित्रमिदं कार्य भवितुं योग्यम् । भो वेदान्तिन् ! यद्यदृष्टेश्वरादिभ्यस्तदिदं विचित्रं जगदुदेतीति स्वीकरोषि, तर्हि किमर्थ मिथ्येयं जडवपुश्चाऽविद्या अजागलस्तनायमाना स्वीकृतेति। वदेति शेषः। नहि प्रामाणिकैराग्रहेण वृथा किञ्चिदभ्युपगम्यते। अन्यथा प्रामाणिकत्वमेव भज्यतेति भावः ॥४७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #205
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
इह ब्रूमः कार्य्यानुगुणमुचितं कारणमिदं न काय्यं सत्यं स्याद् व्यभिचरति दिक्कालत इदम् । न चासत्यं भाति व्यवहृतिदशायां क्षममितेाऽ
निर्वाच्यं कार्य्यं तदनुगुणमज्ञानमुचितम् ॥ ४८॥
१७३
समाधानं प्रतिजानीते - इहेति । अस्मिन् पूर्वपक्षे प्राप्ते सिद्धान्तं ब्रूमः । अविद्यायाः प्रपञ्चं प्रति कारणत्वं कथं सिद्धातीत्यपेक्षायां वक्तव्यमाह — कार्येति । कार्य्यस्याऽनिर्वाच्यस्याऽनुगुणमेव कारणमिदमविद्याख्यम, कार्य्यं न तावदात्मवत्सत्यम्, यत इदं दिक्काल तो देशकालादिपरिच्छछेदेन व्यभिचरति 1 न चाऽसत्यं शशशृङ्गादिवत्तुच्छम् यता व्यवहारदशायामर्थक्रियासमर्थ भाति । न चोभयात्मकम्, विरोधात् । इतः कार्य्यं जगदनिर्वाच्यम्, तदनुगुणं कारणमध्य निर्वाच्यमज्ञानमेवाचितमित्यर्थः ॥ ४८ ॥
श्रुतीनां तात्पर्य्यादपि सुखचिदद्वैतविषये
न सत्यं कार्य्यं स्याज्जगदिदमविद्यादिरचितम् । न जायेताऽसत्यं क्वचिदपि विषाणं नृशशयेाः स्वसत्तासम्बन्धे। जनिरपि कथं सत्त्वविरहे ॥ ४८ ॥
न केवलकार्थ्यानुगुणत्वादेवाऽज्ञानं कारणत्वेन कल्प्यते, अपि तु श्रुतिप्रामाण्यान्यथानुपपत्तेरपीत्याह श्रुतीनामिति । सुखात्मनि चिद्वैते वस्तुनि विषये सर्वासां श्रुतीनां तात्पर्य्यादपि न सत्यं कार्य जगत्, तस्य सत्यत्वे कथमद्वैतश्रुतीनां प्रामाण्यं स्यात् ? तत्तस्माच्छुतिप्रामाण्यान्यथानुपपत्तेरपि जगदिदमविद्यातत्कार्य्यकामादिभिर्विचित्रं ब्रह्मणि कल्पितमित्यर्थः । सर्वथा तुच्छत्वमपि नास्ति, कार्यत्वव्यावातादित्याह — नेति । असत्य मलीक चेत्कार्य्य जगत्, न जायेत ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #206
--------------------------------------------------------------------------
________________
१७४
प्रत्यक्तत्त्वचिन्तामणी नहि कचिदपि देशे काले वा नरशशयोर्विषाणं शृङ्ग जायते, सम्भवति, दृष्टं वेति। स्वसत्तासम्बन्धी हि जनिः सर्वथा सत्त्वविरहे कथं स्यात् ? नहि अलीकस्य खकारणसम्बन्धनिरूपकत्वं स्वसत्तासमवायाधारत्वं वा जन्मलक्षणं सङ्गच्छते। तस्माजनिमत्वात् कार्य जगदलीकमपि वक्तुं न शक्यमित्यर्थः ।। ४६ ॥
त्रिकालाबाध्यं यत्तदमृतमिदं तर्हि न कदा
जगज्जायेतेह क्वचिदपि न सत्तादिविरहः। न हेतोः साफल्यं तत इदमनिर्वाच्यमुचितं जगज्जन्यत्वं तद् गमयति च मायात्वमनृतम् ॥५०॥
तास्तु सत्यमेवेदं जगत्, नेत्याह-त्रिकालाबाध्यमिति । यत्सत्यं कालत्रयेऽप्यबाध्यम्, तदमृतमविनाशि, यथाऽऽत्मतत्त्वम् ; तथेदं जगच्चेस्यात्, तर्हि न कदाचिदपि जायेत, यत इह सद्वस्तुविषये सत्तादिविरहो न कचिदपि देशेकाले वा सम्भवति। नहि सत्यस्य कदापि सत्तावियोगोऽन्यथा सत्यत्वव्याघातापत्तिः स्यात् । न वा जगतः सत्यत्व. पक्षे हेता: कारणस्य तद्व्यापारस्य वा साफल्यम् । तस्मात्सदसद्भया निर्वक्तुमशक्यत्वाज्जगतो जन्यत्वमेव । तदुक्तलक्षणं स्वाधिष्ठाननिष्ठात्यन्ताभावप्रतियोगित्वं मायात्वं मायाकार्यत्वादनृतमनिर्वाच्यरूपत्वमवगमयतीत्यर्थः । तदुक्तं
"यथा सतो जनि वमसतोऽपि जनिन च । जन्यत्वमेव जन्यस्य मायिकत्वसमर्पकम् ॥” इति ॥ ५० ॥
न सत्यस्यासत्ये जगति किल हेतुत्वमुचितं विनाविद्यां रज्जुर्जनयति न सादिकलनाम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #207
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१७५ अतो हेतुः कार्यानुगुणमिदमज्ञानमुचितं
स्वशक्त्यानन्त्यात्तत्क्षमतममने रचयितुम् ॥५१॥ ननु ब्रह्मैव जगत: कारणं किन्न स्यात् ? सन्ति हि ब्रह्मकार्यत्ववादिन्यः श्रुतयः स्मृतयश्च सहस्रशः। तथा च किमनाद्यविद्याकल्पनयेत्याशझ्याह-नेति । किलेति प्रसिद्धमेतत्, यतः सजातीययोरेव कार्यकारणभाव इति । विनाऽनाद्यनिर्वाच्यामविद्यां सत्यस्य ब्रह्मणो - सत्येऽनिर्वाच्ये जगति हेतुत्वं श्रुत्युक्तमपि कारणत्वं नोचितम्-न सङ्गच्छते। नहि रज्जुः स्वावच्छिन्नचैतन्यनिष्ठामविद्यामन्तरेण सर्पादिकल्पनां जनयति। अतो वेदान्तानुकूलतर्केणापि कार्यानुगुणमज्ञानमिदं कारणत्वेनोचितम् । न चाऽज्ञानमेकं कथं विचित्रकार्यजनक स्यादिति वाच्यम् , तस्यैकत्वेऽपि “इन्द्रो मायाभिः पुरुरूप ईयते" (६० २।५।१६) इति श्रुत्या स्वशक्तयानन्त्यादज्ञानशक्तीनामानन्त्यात्तदज्ञानमेकमेव जगदनेकविधं विचित्ररचनारूपं रचयितुं स्वाधिष्ठाने कल्पयितुं क्षमतममत्यन्तसमर्थ "किमज्ञानस्य दुष्करम्' इति न्यायेनेत्यर्थः । श्रुतीनां तन्मूलकस्मृतीनाञ्चाऽद्वितीये ब्रह्मणि तात्पर्यान्न कार्यकारणभावे। अवोऽद्वये वस्तुनि सम्भावनावताराय ब्रह्मणः कारणत्वोक्तिरित्युक्तमधस्तादित्यलम् ॥ ५१ ॥
अतोऽविद्याध्यस्तं जगदिदमनिर्वाच्यममृते
न चादृष्टादीनामनृतजडमज्ञानकमृते। वचित्स्वातन्त्र्यं तत्कृतजगति तद्वारत इमे विकारा मध्यस्ता विकृतसुखेऽज्ञानशबले ॥५२॥
फलितमाह-अत इति । न चादृष्टादीनामनिर्वाच्याज्ञानमन्तरेण कचित्कार्ये स्वातन्त्र्यम्, किन्तु तत्कृतेऽज्ञानपरिकल्पिते जगति तदज्ञान
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #208
--------------------------------------------------------------------------
________________
१७६
प्रत्यक्तत्त्वचिन्तामा द्वारैवेमे ऽदृष्टादयो विकारा जगद्वैचित्यनिर्वाहका हीति श्रुतिस्मृतिविद्वज्जनानुभवप्रसिद्धेऽविकृतसुखे निर्विकारकूटस्थब्रह्मानन्दस्वभावेऽज्ञानशबले मायोपहिते चैतन्येऽध्यस्ताः परिकल्पिताः, न स्वतन्त्रा इत्यर्थः ॥ ५२ ॥
अविद्याकार्य्यत्वादखिलमिदमाभासमनृतं
प्रतीतेः सत्त्वं नो पृथगपि भजेत्स्वामिकमिव । नहि स्वप्ने सत्त्वं पृथगनृतमाभासनमृते • चिदध्यस्ताखादेर्भवति नयसिद्धं अतिमतम्॥ ५३॥
उक्तं ज्ञातसत्त्वं जगतो निगमयति-अविद्येति । अखिलमिदं जगदाभासरूपं शुक्तिरजताभासमिवाऽविद्याकार्यत्वाद्धेतोरनिर्वाच्यमिदं प्रतीतेः पृथकसत्त्वं न भजेत् स्वाप्निकप्रपञ्चजालमिव । स्वप्ने आभासनं प्रतीतिस्वहतेऽनृतमनिर्वाच्यमाभासनमन्तरेण चिति द्रष्टरि अध्यस्तावादेः पृथकसत्त्वं नहि भवति। तस्मात्प्रपञ्चस्यानिर्वाच्यस्य ज्ञातसत्त्वं श्रुतिन्यायसिद्धमित्यर्थः ॥ ५३ ।।
जगत्कार्य हेतुः सदचलमिति श्रोतवचनं
प्रधानादेहतार्जगति च निरासाय भवति। न कायं नो हेतुः परपदमिति श्रौतवचसा
मखण्डे तात्पर्य यत इति मतं वेद विदुषाम्॥५४॥ ब्रह्मकारणत्ववादिनीनां श्रुतीनां तात्पर्यमाह-जगदिति । जगकार्य भवति, हेतुः कारणं सद्रूपं ब्रह्म कूटस्थम्, इति श्रोतवचनं जगति परपरिकल्पितप्रधानपरमाण्वादेः कारणत्वस्य निरासाय भवति। वस्तुवस्तु परपदं परमात्मतत्त्वमवाङ्गनसगोचरं "तदेतद्ब्रह्मापूर्वमनपरम्"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #209
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१७७ (बृ. २ । ५। १६) इति श्रुतिसिद्धं न कार्य कस्यचित्, न वा हेतुः तदुक्तम्- "अपूर्वानपरं ब्रह्म तस्य कार्य न कारणम् ।
अधिष्ठानत्वमात्रेण कारणं ब्रह्म गीयते' । इत्यतो हेता: औतवचसा “यतो वा" इत्यादीनां सृष्टिश्रुतीनामखण्डे ब्रौक्ये तात्पर्य वेदविदुषां व्यासादीनामिति मतं निश्चितमिति योजना ॥ ५४॥ अधिष्ठानाद्भिनं क्वचिदपि न चाध्यस्तमखिलं
ह्यधिष्ठानं ब्रह्माद्वयमजमविद्यादिशबलम् । अतो ज्ञानज्ञेयात्मकमखिलमद्वतममृतं
परब्रह्मैवाऽस्तीत्यखिलनिगमान्तकहृदयम्॥५५॥ विद्वन्मतमेव दर्शयति-अधिष्ठानादिति। क्वचिल्लोके वेदे वा देशे काले वा अखिलमध्यस्तं रज्जुसादिवद्विश्वं स्वाधिष्ठानाद् वस्तुतो भिन्नं न भवति । ननु तर्हि यथायोग्यं मृद्धटादीनां रज्जुसदीनामेवाधिष्ठानाधिष्ठेयभावः कुतो न स्यात् ? नेत्याह-हीति । यतो ब्रह्मैवाधिष्ठानम्, न मृदादि,न वा रज्ज्वादि, तेषां कल्पितत्वाविशेषात् । न च कल्पितस्य कल्पितमेव अधिष्ठानमस्त्विति वाच्यम्, शून्यवादापत्तेः। अज्ञातञ्चाधिष्ठानं वाच्यम्, अज्ञातत्त्वमज्ञानावृतत्वम् । तच्च स्वभाना ब्रह्मण्येव पर्यवस्यति । तथा च सर्वत्राध्यासाधिष्ठानं ब्रह्मव । तच्चाद्वैतवर्जितमजं जन्मादिविक्रियातीतमविद्याधुपहितत्वेन रूपेणैवाखिलज गद्धेतुरित्यर्थः । यतोऽध्यस्तसत्ता अधिष्ठानसत्तानतिरिक्ता, अतो ज्ञानज्ञेयात्मकमखिलं विश्वं "सर्व खल्विदं ब्रह्म' (छा० ३ । १४ । १) "आत्मैवेदं सर्वम्" ( छा० ७ । २५ । २) "नारायण एवेदं सर्वम्" "वासुदेवः सर्वम्" (गो०७। १६) इति श्रुतिस्मृतिसिद्ध परब्रह्मैवास्तीति बाधार्या सामानाधिकरण्यम्, अत एव "तदनन्यत्वमारम्भयशब्दा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #210
--------------------------------------------------------------------------
________________
१७८
प्रत्यक्तत्त्वचिन्तामणौ दिभ्यः" (ब्र० सू० २।१।१४) इत्यत्र तस्मात्कारणरूपाद् ब्रह्मणः सकाशात्तस्य कार्य्यस्य प्रपञ्चस्यानन्यत्वं नाम भेदाभावो नत्वैक्यमिति भाष्ये भामत्याच "नह्यभेदं प्रतिपादयामः किन्तु भेदं व्यासेधाम:' इत्युक्तम् । तथा च ब्रह्मातिरिक्तसत्ताशून्यत्वमेव प्रपञ्चस्येति ब्रह्मसत्व प्रपञ्चसत्ता नान्येति समस्तवेदान्तरहस्यमित्यर्थः ॥ ५५ ॥
अतस्तज्ज्ञा ज्ञानं परपदमजं शुद्धममृतं ।
प्रपश्यन्तो नान्यज्जगदपि हि पश्यन्ति कलितम् । अनात्मज्ञा भिन्नं सकलमिदमध्यस्तमपि चाऽ- . परिच्छिन्ने द्वैतं भ्रमवशत ईक्षन्त इतरे ॥ ५६ ॥
विद्वदविद्वदनुभवयोर्भेदं दर्शयति-अत इति। यतो ब्रह्मसत्तातिरिक्तसत्ताशून्यमिदं जगद्विचित्रमतस्तज्ज्ञास्तद्ब्रह्म स्वानुभवारूढं प्रत्यगभिन्न जानन्तीति।तथा परपदम्, शुद्धं निरतिशयम् , ज्ञानं स्वप्रकाशम्,जन्मादि. विक्रियाशून्यम् , अमृतं नित्यमुक्तम् , प्रकर्षणासन्दिग्धाविपर्यस्तं पश्यन्तः सन्तोऽन्यत्वेन पुरा कल्पितं जगदपि हि यतो बोधेन बाधितं तस्मान्न पश्यन्ति । अनात्मज्ञा देहात्मबुद्धयो भिन्नं नामरूपजात्यादिगुणैविलक्षणं सकल मिदं कल्पितं द्वैतमपरिच्छिन्ने ब्रह्मणि भ्रमवशाद्वस्तुसदित्येवमीक्षन्ते पश्यन्ति, इतरे-स्वयञ्च विलक्षणजात्याद्यभिमानिन: सन्तः। अतो ज्ञानाज्ञानयोर्महदन्तरमित्यर्थः ॥ ५६ ॥
यथा रज्जुर्धान्त्या भुजग् वपुषा भात्यविकृता
तथा भाति भ्रान्त्याऽविकृतमपि चिद्वस्तु जगता। न रज्जुः सो वा न च जगदिदं ब्रह्म विमलं विबुद्ध वैवं धीरस्त्यजति जडबुद्धिं निजधिया॥५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #211
--------------------------------------------------------------------------
________________
१७६
चतुर्थ प्रकरणम् । प्रतो मुमुक्षुरनात्मज्ञदृष्टिमनादृत्य विद्वदृष्टिं समाश्रयेदित्याहयथेति । यथा रज्जुरविकृता सती भ्रान्त्या भुजगाकारेण भाति, तथाऽविकृतं ब्रह्मापि चिद्वस्तु भ्रान्त्या जगदाकारण। विचारदृष्टया न रज्जुः सो भवति, न च विमलं ब्रह्म जगदिदं भवति । एवं धीरो मुमुक्षुर्विशेषेण बुद्ध्वा तत्त्वं साक्षात्कृत्य, निजधिया स्वरूपाकारवृत्त्या जडबुद्धिं देहा. द्यात्मबुद्धिं त्यजतीत्यर्थः ।। ५७ ॥
तथा चाज्ञातेऽस्मिन् सुखधनपदे ब्रह्मणि परे
जगद्भानं सर्वा व्यवहृतिरपीहाऽस्तु च मृषा। न तेनासङ्गेऽस्मिन् क्षतिरपि मनागस्त्यविकृते
चिदानन्दे विष्णैा स्वत इह विमुक्तेश्रुतिमते॥५॥ अनिर्वाच्याज्ञानपरिकल्पितविश्वं नाधिष्ठानं ब्रह्म स्पृशति, ततश्च नित्यशुद्धबुद्धमुक्तस्वभाव ब्रह्मैव कालत्रये वरीवर्तीति फलितमाहतथा चेति । सुखैकरसे ब्रह्मणि परे मायाद्यतीवे प्रत्यगभिन्ने अज्ञानोपहिते जगद्भानमस्तु, सर्वा व्यवहृतिरपि इहाधिष्ठानेऽनिर्वाच्याऽस्तु च । तेन जगत्प्रतिभासेनानिर्वचनीयव्यवहारेण वा अस्मिंश्चिदानन्दे ब्रह्मणि, विष्णा व्यापके, असङ्गे वस्तुतो व्याप्यव्यापकभावासंस्पृष्टे, प्रत एवाविकृते सर्वविकारातीते, स्वतो विमुक्ते, श्रुतिसिद्धान्तरहस्ये, इह प्रत्यगभिन्ने मनागपीषदपि क्षतिरज्ञानतत्कार्यसम्पर्करूपहानिर्नास्ति, स्वरूपमहिम्नवाज्ञानतत्कार्य्यस्य बाधितत्वादित्यर्थः ॥ ५८॥
अतो ब्रह्मज्ञानाच्छवणमननध्यानजनिता
दविद्याध्यस्ता सा जनिमृतिमयी संसृतिरियम् । विनश्येत्तद्धेती प्रविलयमिते ज्ञान उदिते प्रतीचि ब्रह्मैक्ये जयति निजरूपे स्थित इति॥५६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #212
--------------------------------------------------------------------------
________________
१५०
प्रत्यक्तत्त्वचिन्तामणौ प्रज्ञानं तत्कार्य जगद्ममञ्च तत्त्वज्ञानं खोदयसमसमयं बाधते, प्रतो महता प्रयत्नेन तत्त्वज्ञानमेव सम्पाद्यमित्याह-प्रत इति। यतोऽज्ञानकृतेयं संसृतिरतः श्रवणमनननिदिध्यासनैरुत्पादिताब्रह्माज्ञानात्तस्याः संसृतेर्हेतुभूते उदिते उक्तलक्षणेऽज्ञाने प्रकर्षणात्यन्ताभावप्रतियोगितया विलयं बाधमिते प्राप्ते सति अविद्ययाऽनाद्यनिर्वाच्या - ज्ञानेनाऽध्यस्ता सा सर्वलोकबुद्धिस्था इयं प्रत्यक्षादिभिरनुभूयमाना जनिमृतिमयी संसृतिर्विनश्येद्विनश्यतीति सम्बन्धः। तदा ब्रह्मवित् प्रत्यगभिन्ने ब्रह्मैक्ये निजरूपे स्वात्मत्वेनावबुद्धे स्थितः सन् जयति सर्वोपरि वरीवर्ति, कृतकृत्यतया तिष्ठति । इतिशब्दःशास्त्रार्थपरिसमाप्तौ। इत्येव सर्ववेदान्तप्रमेयमित्यर्थः ॥ ५ ॥
अनृतजडविषादाकारमेतत्समस्तं
जगदपि लयमेति प्रत्यगात्मैक्यदृष्टया। दूगपि भवति सा यद्भक्तिलेशन सम्यक
तमहमखिलवन्द्यं कृष्णमेवावलम्बे ॥६॥
इति प्रत्यक्तत्त्वचिन्तामणौ चतुर्थ प्रकरणं सम्पूर्णम् ॥ ४ ॥
इयं ब्रह्मविद्या भगवद्भक्त्यधीना, “यस्य देवे परा भक्तिः" (श्वे० ६ । २३), "यमेष वृणुते तेन लभ्यः" ( मु० ३ । २ । ३) इत्यादिश्रुतेः। अत: सर्वोपायेन भगवद्भक्तिरेव मुमुक्षुभिरादर्तव्या, न वामन्तरेण संसृतेनिस्तार इत्याशयेन प्रकरणार्थ परिसमाप्य, स्वकृतिश्च भगवति समर्पयन्भवन्तं शरण्यत्वेनाऽऽश्रयति-अनृतेति। एतत्प्रत्यलादिभिरनुभूयमानं समस्तं जगदपिशब्दात्तन्मूलमज्ञानं तत्कार्यमनृतजडविषादाकारमनर्थपुखात्मकं यया प्रत्यगभिन्नब्रह्मसाक्षात्काररूपदृष्टया लयं बाधमेति प्राप्नोति, सा परब्रह्मात्मैक्यसाक्षात्काररूपादृष्टिरपि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #213
--------------------------------------------------------------------------
________________
चतुर्थ प्रकरणम् ।
१८१
यस्य भक्तिलेशेन रत्यङ्करोत्पत्या सम्यग् भवति समुत्पद्यते; तमहं वराकोऽपि सकलजगद्वन्धं कृष्णं भक्तानामनन्यशरणानां संसारक्लेशहरं भगवन्तं वासुदेवमेवावलम्बे शरणं व्रजामीति योजना ॥ ६० ॥
दृश्यातिगं परमनन्तमशेषहेतुं संसारवार्द्धपरपारमल न्यमूर्तिम् ।
क्रीडन्तमद्भुतपदं व्रजराजसूनुं
वृन्दावने व्रजवधूभिरहं पप्रये ॥ १ ॥
इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्दविद्वत्कृतार्या प्रत्यकतत्त्वचिन्तामणिव्याख्यायां स्वप्रभामधायां प्रत्यगात्मनि संसृतिनिराकरणमयूखाभिधं चतुर्थ प्रकरणं समाप्तिमगमत् ॥ ४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #214
--------------------------------------------------------------------------
________________
अथ पञ्चमं प्रकरणम्
अद्वैतसच्चितिसुखं श्रुतिमौलिगम्यं विध्वस्तविभ्रममशेषजडावभासम् ।
यत्पादभक्तिरसिकैरवबुद्धयतेऽञ्ज
स्तं श्रीमुकुन्दमतिभावनयाऽऽश्रयेऽहम् ॥१॥
मात्रादिविश्वमखिलं जडदुःखमिथ्या
रूपं भ्रमोत्थमपि चेष्टत प्रविरिञ्च्यम् । यत्सत्तया तममृतं निगमैकवेद्यं श्रीमन्मुकुन्दमनिशं शरणं प्रपद्ये ॥ १ ॥
”
चतुर्थप्रकरणान्ते "अनृतजडविषादाकारमेतत्समस्तं जगदपि लयमेति प्रत्यगात्मैक्यदृष्ट्या '' इत्युक्तं तत्राऽनर्थात्मकं जगत् त्रिविधप्रमात्रादिरूपेण स्वस्वरूपप्रत्यगात्मदृष्टिप्रतिबन्धकं प्रत्यगात्मविवेकेन तद्दृष्टया तदपगमे संसारानर्थोपशम इत्येतदर्थविचारप्रधानं प्रकरणमारभमाणः स्वेष्टदेवतानुसन्धानात्मकं मङ्गलमाचरन्नर्थादभिधेयप्रयोजने दर्शयतिअद्वैतेति । तं श्रीमुकुन्दमहमतिभावनया भक्त्युद्रेकेण भगवदाकारवृत्त्या आश्रये —तदतिरिक्तभावनामनादृत्य तमेव फलभूतमनुसन्दधे इत्यन्वयः । तं कमित्याकाङ्क्षायामाह — यत्पादेति । I यस्य भगवतो मुकुन्दस्य पादाम्भोजानुरागाक्रान्तचित्तः पुरुषधौरेयैरजोऽनायासेनाऽद्वैतं विषयविषयिभावरूप द्वैतशून्यं सदबाध्यं चितिरितरनिरपेक्ष प्रकाशस्वभावतया ज्ञप्त (प्ति ? ) रूपं यत्सुखं ब्रह्मानन्दशब्दवाच्यं तदवबुध्यते साक्षात्क्रियते—इति मुख्य प्रयोजनोक्तिः । तत्केन प्रमाणेनावबुध्यत इत्यत प्राहश्रुतिमौलिगम्यमिति । वेदान्तप्रमायैकवेद्यमित्यर्थः । दुःखाभावाऽपि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com
Page #215
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम्।
१८३ प्रयोजनमित्याह-विध्वस्तविभ्रममिति। विध्वस्तो मूलबाधेन बाधितो विभ्रमः कर्तृत्वभोक्तृत्वादिरूपोऽनर्थो यस्मिन्ननर्थनिवृत्त्युपलक्षितं सच्चिदद्वयानन्दात्मकं ब्रह्मेति फलितम् । लौकिकसुखं तत्साधनञ्च लगादिरूपं ततो विलक्षणं स्यात्, तेन तस्य परिच्छेदापत्तिश्च स्यादित्या. शक्याह-अशेषजडावभासमिति। अशेषजडं समस्तब्रह्माण्डान्तवर्ति सुखसाधनत्वेनाभिमतं सकचन्दनरम्भागान्धर्वामृतपानादिरूपं तजन्यसुखाकारान्तःकरणपरिणामरूपञ्च तस्यावभासः स्फूर्तिस्तद्रपम् । तथा च सच्चिदद्वयानन्तात्मकब्रह्मसुखमन्तरेण संसारे स्वातन्त्र्येण सुखगन्धोऽपि नास्तीत्यपरिच्छिन्नसुखं ब्रह्मैव तत्र तत्र तदभिव्यजकतारतम्येन प्रतीयमानतारतम्यं लौकिकसुखत्वेन व्यपदिश्यते, न ततो विलक्षणं सुखं नामास्ति । "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः'' (बृ० ४ । ३ । ३२) इति भावः ॥१॥
स्वाज्ञानकल्पितमखएडसुखावबोधे
देहेन्द्रियादिजडजातमनात्मभूतम् । तत्रात्मतामतिरियं भवमृत्युहेतु
रध्यास आत्मनि तथा जडधर्मबुद्धिः ॥२॥ एवमनर्थनिवृत्त्युपलक्षितं सच्चिदद्वयात्मकं सुखं ब्रह्मैव ज्ञातं सत्प्रयोजनम् , अज्ञातं स द्विषय इत्युक्तम्। तत्राऽज्ञानमेवाऽऽत्मानात्मनोरन्योन्याध्यासद्वारा सकलानर्थहेतु रिति तन्निवृत्तये सर्ववेदान्तगिरी प्रवृत्तिः, ततश्चादा तत्त्वज्ञाननिवर्हणीयाध्यासस्वरूपं दर्शयति-स्वाज्ञानेति । अखण्डं त्रिविधपरिच्छेदशून्यं यत्सुखमवबोधरूपं ज्ञानघनं तत्र स्वात्माज्ञानेनारोपितं देहेन्द्रियादिजडजातं घटादिवदनात्मभूतम्। तत्र देहादावनात्मनि प्रात्मत्वमतिरियं सर्वलोकप्रसिद्धा। भवमृत्यू जन्ममरणे तद्धतुरध्यासोऽतस्मिंस्तद्बुद्धि रूपः। तथात्मनि जडा देहादयस्तद्धर्माश्च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #216
--------------------------------------------------------------------------
________________
१८४ . प्रत्यक्तत्त्वचिन्तामणौ जाड्यादयस्त द्धिरध्यासः । तथाचात्मानात्मनोस्तद्धर्माणामितरेतराव. भासलक्षणोऽध्यासः सर्वानर्थहेतुरित्यर्थः ॥ २ ॥ सेयं परस्परमतिर्बहुधात्मविद्भिः
मोक्ता नयैर्निरसनाय भवाब्धिहेतुः। नैनामृते व्यवहृतिः परमात्मतत्त्वे
काचित्मसिद्धयति मनो वचनाद्यतीते ॥३॥ ननु किमर्थमप्रामाणिकोऽयमध्यास: कल्प्यते, तं विनैव सर्वव्यव. हारसिद्धिः किन्न स्यात् ? इत्याशक्य तस्याप्रमाणिकत्वनिरासेन सर्वव्यवहारानास्पदे सर्वव्यवहारसाधकत्वं प्रदर्शयस्तं विना व्यवहारानुपपत्तिरित्याह-सेयमिति । सेयं परस्परमतिरन्योन्याध्यास प्रात्मविद्धिर्भगवत्पादप्रभृतिभिस्तत्त्वज्ञैरत्यन्तप्रामाणिकैर्बहुधा लक्षणसम्भावनाप्रमाणप्रदर्शनप्रकारैः प्रोक्ता प्रकर्षेण सर्ववादिमते यथायथमाव. श्यकस्वीकार्यत्वेन रूपेणोक्ता दर्शिता। तैरपि किमर्थ निरर्थकाध्यासवर्णनं कृतमित्यत आह-नयैर्निरसनायेति । व्यासोक्तन्यायानुसारिपोभिर्युक्तिभिर्निरासाय तस्य वर्णनं कृतमित्यर्थः । ननु किमर्थ तन्निरासोऽपीत्यत आह-भवाब्धिहेतुरिति । संसारसिन्धौ पातहेतुत्वात्सकलान बोजभूतः स्वयं साक्षादनर्थश्चायमध्यासः सर्वथा निरसनीय एवेत्यर्थः। एनां सर्वलोकप्रसिद्धी परस्पराध्यासात्मिका मतिम्-अहम,इदम् , ममेदम्-इति लक्षणामृते विना मनोवचनाद्यतीते परमात्मतत्त्वे सर्वव्यवहारानास्पदे प्रत्यगभिन्ने ब्रह्मणि काचिदपि व्यवहृतिः कश्चनापि लौकिको वैदिको वा व्यवहारो नैव प्रसिद्ध्यतिकथञ्चिदपि नैव सिद्धयति, प्रथते वेत्यर्थः। तथा च सर्वसंसारदोषपुखाकरोऽयमध्यासः, तस्य निरासे सर्वथा मुमुक्षुभिर्यतितव्यमिति भावः ॥ ३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #217
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
स्वज्योतिरात्मनि समानविशेषभावशून्येऽप्यनादिविपरीतधियोऽवभा स्वाविद्ययाऽहमिति संसृतिहेतुभूतेाऽध्यासाभिधो व्यवहृताववभाति सद्वत् ॥४॥
-
ननु मनोवचनाद्यतीते सामान्य विशेषभावशून्ये प्रत्यगात्मतत्त्वे कथमध्यासः ? लोके सामान्यतेो ज्ञाते विशेषतोऽज्ञाते शुक्त्यादा रजताद्यध्यासेो दृष्टः । आत्मनि तु तथा न सम्भवति । यत्रापरोचाध्याधिष्ठानत्वम्, तत्रेन्द्रियसम्प्रयुक्तत्वं विषयत्वञ्चेति व्याप्तिः । तत्र व्यापकाभावादात्मनेोऽधिष्ठानत्वं न सम्भवतीत्याशङ्कयाह – स्वज्योतिरिति । स्वप्रकाशरूपे सामान्यविशेषभावशून्येऽपि प्रत्यगात्मनि स्वाविद्ययाऽहमित्यनादिविपरीतधियोऽवभासः सत्यानृतमिथुनीकरणरूपोऽध्यासाभिधः संसृतेर्हेतुभूतो व्यवहारदशायां सद्वदाभाति — वस्तुतो मिथ्या सन्नपि सद्वत्प्रतीयते इति योजना । अयमर्थः - " सत्यं प्रत्यगात्मा स्वयंप्रकाशत्वादिविषयोऽनंशश्च, तथाप्यनिर्वचनीयानाद्यविद्यापरिकल्पितबुद्धिमनः सूक्ष्मस्थूलशरीरेन्द्रियावच्छेदेनानवच्छिन्नोऽपिवस्तुतावच्छिन्न इव, अभिन्नोऽपि भिन्न इव, अकर्त्ताऽपि कर्त्तव प्रभोक्ताऽपि भोक्तेव, प्रविषयोऽप्यस्मत्प्रत्यय विषय इव जीवभावमापन्नोऽवभासते " ( भामती ० १ । १ । १ ) । अतः स्वप्रकाशस्य स्वतेाऽविषयत्वेप्यौपाधिकरूपेण विषयत्वान्न काचिदनुपपत्तिरिति । ननु स्वताऽविषयत्वमैापाधिकरूपेण विषयत्वमिति किमर्थं व्यवस्था ? स्वत एव शुक्त्यादिवद् ग्रहणाग्रहणे किन्न स्याताम् ? इति चेत्, न; दृष्टान्तवैषम्यात् । नहि शुक्यादिवञ्चिदेकरसस्याऽऽत्मनश्विदंशे गृहीतेऽगृहीतं किञ्चिदस्ति । तथाचाहुरत्रभवन्तो वाचस्पतिमिश्रा:"न खल्वानन्दनित्यवित्वादयोऽस्य चिद्रपाद्वस्तुतो भिद्यन्ते येन तद्ग्रहेऽपि न गृह्यरेन; गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्य
२४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१८५
ng
www.umaragyanbhandar.com
Page #218
--------------------------------------------------------------------------
________________
१८६
प्रत्यक्तत्त्वचिन्तामणौ . गृहीता भान्तीति" ( भामती ब्र० १।१।१)। "यथा खल्वभिज्ञायां भासमानमपि देवदत्तैक्यं तत्तेदन्तोपाधिद्वारकसामानाधिकरण्यात्परामर्शाद्विविक्तं नाल्लिख्यते । एवं चिद्रूपभानेऽपि दुःखप्रत्यनीकत्वादि. रूपेणापरामृष्टा आनन्दादयोऽप्यगृहीता इव भान्ति' इति कल्पतरौ ( कल्पत० ब०१।१।१)। "ननु देवदत्तो यमित्यभिज्ञायामिदमर्थे यद्देवदत्तैक्यं भासते, तद्विविक्तमुल्लिख्यते एव । यत्तु तत्र तत्ता. विशिष्ट्यैक्यं नालिख्यते, तन्न भासत एव । अतो भासमानस्य विविक्तोल्लेखाभावे नेदमुदाहरणमिति चेत्, न्; एकस्मिन्निदमर्थे ऐक्यदयाभावेन भासमाने एव देवदत्तैक्ये तत्तोपाधिपरामर्शाभावेन तत्तेदन्ताविशिष्टाभेदरूपतयोल्लेखाभावरूपस्य विविक्तानुल्लेखस्य विवक्षितस्य सत्वात् । तथा चाऽध्यस्तापकर्षयुक्ततया गृहीतोऽप्यानन्दो मेघावरणकृतापकर्षसौरालोकवदगृहीत इव भातीति तात्पर्य्यम्' इति परिमले (परि० ० १ । १ । १) तथा चाविषयेऽपि सामान्यादिधर्मविनिमुंक्तेऽपि स्वप्रकाशत्वेन भासमानतया प्रत्यगात्मन्यनाद्यविद्ययाऽध्यास: सिद्ध इति न काचिदनुपपत्तिः। तथा च भाष्यम्-"न तावदयमेकान्तेनाविषयोऽस्मत्प्रत्ययविषयत्वादपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः । न चायमस्ति नियम: पुरोऽवस्थितविषये विषयान्तरमध्यसितव्यमिति । अप्रत्यक्षेपि ह्याकाशे बालास्तस्लमलिनताद्यध्यस्यन्ति एवम विरुद्धः प्रत्यगात्मन्यप्यनात्माध्यासः' (ब्र० सू० भा० १ । १ । १) इति ॥४॥
अध्यासोऽहं ममेत्येवं सर्वानाश्रयो नृणाम्। तत्राऽहमिति चिद्व्यानि निविकल्पेभ्रमामहान् ॥५॥
तदेवं चैतन्यैकरसोऽनिदरूपोऽप्यात्मा स्वात्मनि अध्यस्तेऽहङ्कारे प्रतिबिम्बितोऽहमित्येतस्मिन्प्रत्ययेऽध्यस्यमानाहङ्कारसम्भिन्नतया भासमानोऽहं प्रत्ययविषयत्वेनोपचर्यत इति सम्भवत्येव। तत्राध्यासोड
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #219
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम्।
१८७ धिष्ठानारोप्ययारेकस्मिज्ञाने भासमानत्वमात्रमध्यासव्यापकं तच्चात्राप्यस्त्येवेत्यभिप्रेत्याह-अध्यास इति। अध्यासोऽहमिति ममेत्येवञ्च पुंसां सर्वानाश्रयत्वेन दृश्यत एवेत्यविवादम् । तत्र तादात्म्यसंसर्गाध्यासयोर्मध्ये निर्विकल्पेऽहं ममेत्यादिकल्पशून्येऽपि प्रतीचि 'प्रहम', इति महान भ्रमः-सर्वाध्यासमूलत्वेनात्यन्तानर्थरूप इत्यर्थः ॥५॥
नन्वेवं भासमानेऽस्मिन्निर्विकल्पतया विभौ। स विकल्पाहमेोऽध्यासश्चैतन्येनैव सम्भवेत् ॥६॥
अध्यासमाक्षिपति-नन्विति । न तावनिर्विकल्पतया भासमानेऽस्मिंश्चैतन्येऽपरिच्छिन्ने सविकल्पस्याहङ्कारस्याध्यास: सम्भवति, तथाविधस्याऽदृष्टचरत्वात् । लोके हि सविकल्पके शुक्तयादौ सविकल्पस्य रजतादेरध्यासो दृष्टः, न तु निर्विकल्पे वस्तुनि कुत्राप्यध्यासो दृष्टचर इति भावः ॥ ६ ॥
न मातृत्वादिसंयुक्ततया भानेऽपि सम्भवः । मातृत्वादेरहङ्कारपूर्वकत्वादहकृतेः ॥७॥ ननूक्तरीत्या प्रमातृत्वादिना सविकल्पे वस्तुन्यध्यासो भविष्यतीति नेत्याह-नेति । प्रमातृत्वादिविकल्पविशिष्टतयाऽवभासमाने ऽपि प्रत्यगात्मनि नाहतेरध्यासः सम्भवति, प्रमातृत्वादेरहदारपूर्वकत्वादिति योजना ।। ७ ।।
न वा पूर्वाहमुत्थेन प्रमातृत्वादिहेतुना। चितः स्यात्सविकल्पत्वं संस्कारेणाऽप्यनादिना॥८॥
ननु पूर्वपूर्वप्रमातृत्वाद्यध्यासस्योत्तरोत्तरमपि प्रमातृत्वाद्यध्यासं प्रति संस्कारद्वारा हेतुत्वं किन्न स्यात् ? अध्यासप्रवाहस्यानादित्वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #220
--------------------------------------------------------------------------
________________
१८८
प्रत्यक्तत्त्वचिन्तामणौ दिति शङ्कामनद्य दूषयति-नेति। न वा पूर्वाहमः सकाशात् समुस्थेन पूर्वाहङ्कारकृतप्रमातृत्वादिसंस्कारेणोत्तरोत्तरप्रमातृत्वा कहेतुनानादिप्रवाहात्मकेन चैतन्यस्य सविकल्पत्वं स्यात्-इत्यपि साधुमतमित्यर्थः ॥८॥
न प्रमातृममाणादिव्यवहारोऽपि युक्तिभिः । उपपादयितुं शक्यः समस्तैरपि वादिभिः॥६॥
प्रमातृप्रमाणादिव्यवहारस्य सर्वेणापि वादिना दुरुपपादत्वादपि नाध्याससम्भव इत्याह-नेति। स्पष्टम् ॥ ६ ॥
वेदान्तिसांख्ययोः पक्षे प्रमाता किमहङकृतिः। उतात्मा तत्र नाद्यः स्याज्जडत्वादप्यहकृतेः ॥१०॥
दुरुपपादत्वमुपपादयति-वेदान्तीति । वेदान्तिसांख्ययोर्मते किमहङ्कारः प्रमाता ? उत आत्मा ? नाघः, तस्य जडत्वादिति योजना ॥ १०॥
द्वितीयेऽपि प्रमाणाख्यक्रियारूपेण सर्वगे। कूटस्थे परिणामित्वं प्रमातृत्वं कथं भवेत् ॥११॥
द्वितीयमनिष्टापत्त्या दूषयति-द्वितीयेऽपीति। प्रमाणाख्यक्रियारूपेण परिणामित्वं प्रमातृत्वम् । तच्चाविकारिणि सर्वगे आत्मनि दुःसम्पादमन्यथा कौटस्थ्यभङ्गादिदूषणमित्यर्थः ।। ११ ॥
ममातृत्वं विना तेन चैतन्येन जडप्रथा। चेत्तया सर्वगत्वेन युगपत्सर्वभासनम् ॥ १२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #221
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
१८६
मास्तु तर्हि प्रमातृत्वं तद्विना चैतन्येनैव विषयप्रकाशः सेत्स्यतीति शङ्का मनूयाऽतिप्रसङ्गेन दूषयति — प्रमातृत्वमिति । अन्तरेणैव प्रमातृत्वं चैतन्येन विषयप्रकाशे तस्य सर्वगत्वेन सर्व युगपत्प्रकाशेतेति प्रतिकर्म्मव्यवस्था न सिद्ध्येदित्यर्थः ॥ १२ ॥
तार्किकादिमतेऽप्येवं सर्वगात्मनि चेत्प्रथा । जायमाना तदा सर्वभानं युगपदापतेत् ॥ १३॥
एवं वेदान्तिसांख्ययेोर्मते प्रतिकर्म्मव्यवस्थानुपपत्तिमभिधाय तार्किकादिमते तदनुपपत्तिमुपपादयति - तार्किकादिमते इति । तन्मते किं सर्वगतात्मनि जायमानं ज्ञानं यावदात्मसमवायि ? उत शरीरावच्छिन्नात्म प्रदेशसमवायि ? तत्राद्यं दूषयति — सर्वगात्मनीति ॥ १३ ॥
यावदात्मगतं ज्ञानं युगपत्सर्वभासकम् । भवे नियामकाभावाच्चेद्धर्मादिनियामकम् ॥ १४ ॥ सुखदुःखात्मका भागो धर्माधर्मफलं भवेत् । तावुपेक्ष्यतृणादेस्तु भासने न नियामका ॥ १५॥
एतदेवेोपपादयति — यावदिति । नियामकाभावाद युगपत्सर्वावभासप्रसङ्गान्नाद्य इत्यर्थः । धर्माधर्मौ नियामकाविति चेत्, न तयो: सुखदुःखजनकविषये तथात्वेऽपि उपेक्षखोयतृणादि सर्ववस्तुध्वनियामकत्वादिति द्वयोर्योजना | १४–१५ ॥
यस्य ज्ञानस्य यद्धेतुः प्रकाश्यं तेन तद्भवेत् । इत्येवं नियमः स्याच्चेत्तदाप्यतिप्रसञ्जनम् ॥ १६ ॥
उपपत्त्यन्तरमाशङ्क्य निरस्यति — यस्येति । यस्य ज्ञानस्य यज्ज
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #222
--------------------------------------------------------------------------
________________
१६० प्रत्यक्तत्त्वचिन्तामणौ नक तत्तेन प्रकाश्यमिति नियमः स्याच्चेत , तदाप्यतिप्रसङ्गः स्यादित्यन्वयः ॥ १६ ॥
चक्षुरादेरपि स्वोत्यज्ञानवेद्यत्वमापतेत् । विषयत्वन्तु नाद्यापि सिद्धं तस्याऽनिरूपणात्॥१७॥
अतिप्रसङ्गमेव दर्शयति-चक्षुरिति । चक्षुरादेरपि चक्षुर्जन्यज्ञानवेद्यत्वप्रसङ्गादित्यर्थः । विषयत्वे सति जनकं वेद्यमिति चेत्, नेत्याहविषयत्वमिति । तस्य विषयत्वस्याऽनिरूपणादित्यर्थः ॥ १७ ॥
ज्ञानस्य न गुणत्वेऽपि नियमा विषयग्रहे। प्रदीपगुणभा कुम्भं भासयत्यप्यकारणम् ॥१८॥
विषयत्वसिद्धावपि ज्ञानस्य गुणत्वं क्रियात्वं वा नोभयथापि नियमसिद्धिरिति । तत्रादौ ज्ञानस्य गुणत्वेन नियममाशक्य निरस्यतिज्ञानस्येति । ज्ञानस्य गुणत्वेऽपि स्वजनकविषयग्राहित्वनियमसिद्धिर्नास्ति, प्रदीपगुणस्य प्रकाशस्याजनकेऽपि घटे प्रकाशकत्वदर्शनादित्यर्थः ॥१८॥
क्रियात्वे तस्य वायवादिक्रियाणामनपेक्षिते। वस्तुन्यात्माऽऽश्रयाक्तेऽतिशयहेतुत्वदर्शनात् ॥१८॥
ज्ञानस्य क्रियात्वपक्षेऽपि दूषणमाह-क्रियात्वे इति । वाय्वादिक्रियाणाञ्चानुद्दिष्टेऽपि वस्तुनि आत्माश्रयाक्ते स्वाश्रयसंयुक्त तृणादावतिशयहेतुत्वदर्शनादित्यर्थः ॥ १६ ॥
अथ ज्ञानाश्रयस्यात्मवस्तुनो निष्कलत्वतः। न सर्ववस्तुसंयोग इति नातिप्रसञ्जनम् ॥ २० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #223
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् । परिहारान्तरं शङ्कते-अथेति ॥ २० ॥ तदा न कञ्चिदप्येवं प्रकाशेताऽप्यसङ्गतः। नान्यत्र स्वाश्रयाज्ज्ञानं संसर्ग भजते गुणः ॥२१॥
दूषयति-तदेति । क्रियारूपस्य गुणस्य वा ज्ञानस्य स्वाश्रयमतिलङध्याऽन्यत्र संसर्गायोगात्,असंसृष्टग्राहित्वे चातिप्रसङ्गादित्यर्थः॥२१॥
देहावच्छिन्न एवात्मप्रदेशसमवायि चेत् । ज्ञानं तर्हि प्रसज्येत सांशत्वे नित्यमात्मनः ॥२२॥
शरीरावच्छिन्नात्मप्रदेशसमवायिज्ञानमित्यस्मिन् पक्षेऽपि दूषणमाह-देहेति । प्रात्मनि प्रदेशस्य स्वाभाविकत्वम् १ औपाधिकत्वंवा ? तत्राद्यं दूषयति-तीति । प्रदेशस्वाभाविकत्वे सावयवत्वेनानित्यत्वमात्मनः प्रसज्येतेत्यर्थः ॥ २२ ॥
औपाधिकत्वेऽपि ज्ञानं तत्प्रदेशान्वितग्रहात् । तदा देहाद्वहि तघटादीनावभासयेत् ॥२३॥
औपाधिकत्वपक्षे दूषणमाह-औपाधिकत्वेऽपीति । औपाधिकत्वेऽपि ज्ञानं तत्प्रदेशसंयुक्तग्राहकञ्चेत्, तदा देहाद्वाह्यघटादीन्नैव भासयेदिति योजना ॥ २३ ॥
बाह्यात्मदेशसंयुक्तग्राहित्वे सर्वमप्यदः । अवभासेत नातोऽस्ति व्यवस्था तार्किके मते ॥२४॥
बाह्यात्मप्रदेशसंयुक्तग्राहित्वे बाह्य सर्वमप्यवभासेत ! नेत्याहबाह्यति ॥२४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #224
--------------------------------------------------------------------------
________________
१९२
प्रत्यक्तत्त्वचिन्तामणौ ननु सम्बन्धशून्येऽपि वस्तुन्येव व्यवस्थया । ज्ञानक्रिया स्वभावेनातिशयं जनयिष्यति ॥२५॥ अभिचारक्रिया यद्वद् दूरे व्यवहितं नरम् । उद्दिष्टमेव हन्त्येवं ज्ञानं भासयतीति चेत् ॥२६॥
उपपत्त्यन्तरेण नियमं शङ्कते-नन्विति द्वाभ्याम् । सम्बन्धरहिते - पि वस्तुनि व्यवस्थयैव ज्ञानक्रियाऽतिशयं जनयिष्यति । यथा अभिचारक्रियया सहस्रयोजनव्यवहितोऽप्युद्दिष्ट एव पुरुषो मार्यते, इति कथन्न नियमसिद्धिः १ इति द्वयोर्योजना ।। २५-२६ ॥
तत्रापि हन्यमानेन हन्ना युक्तस्य चेशितुः । नियामकस्य कृत्यादिरनुमेयतया तया ॥२७॥
तद्दषयति-तत्रापीति । अभिचारक्रियायामपि हन्तृहन्यमान. पुरुषद्वयसंयुक्तदेवतात्मन ईश्वरस्य वा कृत्यादेर्वा नियामकस्यानुमेयत्वान्न तथाऽत्र नियामकत्वं कस्यचिदित्यर्थः ॥ २७ ॥
अभिचारक्रियात्वेन संयुक्तऽतिशयाघहा। क्रियात्वाद्वाणशक्तयादिक्रियावदिति साधनात्॥२८॥
अनुमान दर्शयति-अभिचारेति । विमतमभिचारकर्म स्वसम्बन्धिन्यतिशयजनकम् , क्रियात्वात्, वाणादिक्रियावदित्यर्थः ।। २८ ।।
अथ संयुज्यते ज्ञानाधारेणैवात्मना मनः। मनसा चेन्द्रियं तेन विषयो युज्यते तथा ॥२८॥ नियामिकाऽस्तु तत्रेयं सा संयोगपरम्परा। अतस्तार्किकपक्षे स्याद् व्यवस्थेति तदप्यसत् ॥३०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #225
--------------------------------------------------------------------------
________________
१६३
पञ्चमं प्रकरणम्। परिहारान्तरं शङ्कते-प्रथेति द्वाभ्याम् । तदूषयति-तदिति ।। २६-३० ॥
तस्याः परम्परायास्तु ज्ञानात्पूर्वमुपक्षयात् । ज्ञानोत्पादन एवातो व्यवस्था तत्र दुर्लभा ॥३१॥ ज्ञानादूर्ध्वमपीयञ्चेत्तदा सर्वं जगत्समम् । तत्संयुक्तादिरूपेणाऽवभासेताऽवभासने ॥ ३२॥
तस्या इति। तस्याः परम्पराया ज्ञानात् पूर्व ज्ञानोत्पादने एवोपक्षयाद् ज्ञानादुपर्यपि संयोगपरम्परयाऽवभासे विषयसंयुक्ततत्सं. युक्तादिरूपेणावस्थितं सर्व जगत्समं युगपदेवावभासतेति द्वयोयोजना ॥३१-३२॥
एवमेवोहनीयाः स्युरणुमात्रात्मविन्मते। देहमात्रात्मवादे च दोषा युक्तिविदां वरैः ॥३३॥ तस्मान्मातृप्रमाणादिव्यवहारस्य सम्भवः । सर्ववादिमते नास्ति युक्तिभिश्चेति संग्रहः ॥ ३४ ॥
एवमणुपरिमाणदेहपरिमाणात्मपक्षयोरपि दोषा ऊहनीया इत्याह-एवमेति । तत्राणुपरिमाणात्मवादिमते हृदादिनिमग्नस्य पुरुषस्य सर्वाङ्गे शीतस्पर्शानुभवोऽपि न स्यात्, प्रणाः सर्वाङ्गसम्बन्धस्य युगपदसम्भवात् । क्रमिकसंयोगानाञ्चायोगपद्येनेकज्ञानजनकत्वासम्भवात् । यदि स्वशरीरेऽपि सर्वाङ्गज्ञानासम्भवः, तर्हि बहिज्ञानं तस्य कुत: ? कुतश्च प्रतिकर्मव्यवस्था ? इति शरीरपरिमाणात्मवादिमतेऽपि तस्य बहिर्देशसम्बन्धाभावादनेकान्त्यवादाच्च न प्रतिकर्मव्यवस्थासम्भवः । तथाचोपहसितमाचार्यावाचस्पतिमि:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #226
--------------------------------------------------------------------------
________________
१-६४
प्रत्यकतत्वचिन्तामया
" तस्मात्स्थाणुर्वा पुरुषो वेति ज्ञानत्रत्सप्तत्वपञ्चत्वनिर्धारणस्य च फलस्य निर्धारयितुः प्रमाणस्य च तत्प्रमेयस्य च सप्तत्वपञ्चत्वसु दशत्वसंशये साधु समर्थितं तीर्थङ्करत्वमृषभेण " इति । अलं पल्लवितेन ॥ ३३ ॥
पूर्वपक्षमुपसंहरति तस्मादिति ॥ ३४ ॥
-
अत्रोच्यते समीचीनं त्वया प्रोक्तं मतं मम । प्रतिकर्म्म व्यवस्थायाः सर्ववादिष्वसम्भवः ॥ ३५॥
पूर्वपचमिष्टापत्या स्वीकुर्वन् समाधानं प्रतिजानीते--अत्रोच्यते इति । सर्ववादिषु तार्किकादिमतेषु प्रतिकर्म्मव्यवस्थाया असम्भवाऽस्तीति यत्त्वया प्रोक्तं तत्समीचीनमेव प्रोक्तम् । इति यत्तदोरध्याहारेणान्वयः । यतो ममापि वेदान्तवादिनो मतमभिमत मस्तीत्यर्थः ॥ ३५ ॥
-
सा वेदान्तिमते सम्यक् सम्भवेद् व्यवहारतः । परमार्थदशायान्तु माऽस्तु सा तेन का क्षतिः ॥ ३६॥
कथं तर्हि वेदान्तिमते तत्सम्भवः ? तत्रापि तदसम्भवस्त्वस्माभिरुक्त एवेत्याशङक्य किं परमार्थतो वेदान्तिमते प्रतिकर्म्मध्यवस्थाया असम्भव उच्यते ? उत व्यवहारतोऽपि ? नाद्यः, इष्टापत्तेः । नहि वस्तुतः किमप्यद्वितीये वस्तुनि सर्वव्यवहारानास्पदे वेदान्तिभि र्व्यवहरणं स्वीक्रियते,
"न निरोधो न चोत्पत्तिर्न बन्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता || ” ( गौ० का० २ । ३२) इति श्रुतेः । न द्वितीयो व्यवहारदशायां मायापहित चैतन्ये माययैव सर्वव्यवहारसिद्धेरित्यभिप्रेत्याह – सेति ॥ ३६ ॥
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #227
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम्। तत्कथं शृणु वेदान्तसिद्धान्तमतमादरात् । तव शङ्काकलङ्कासंस्पृष्टं यदि विपर्ययम् ॥ ३७॥
तहि व्यवहारदशायामुक्तदूषणानां कथमुद्धार इति शङ्कते-तत्कथमिति । समाधत्ते-शृण्विति । त्वदुक्तशङ्काकलङ्केनाऽसंस्पृष्टं वेदान्तसिद्धान्तमतम् । यद्विपर्ययशून्यं सम्यकप्रमाणसिद्धं तदादराच्छृण्वित्यर्थः । नहि श्रद्धाभक्ती विना वेदान्तमतश्रवणेऽधिकार इति भावः ।। ३७ ।।
अनिर्वाच्याऽविद्या सकलकलनाकारणतया
समावृत्याऽऽत्मानं निरवधि चिदानन्दममृतम् । प्रपञ्चाकारेण प्रचुरगुणयुक्ता परिणता प्रमात्राद्यध्यासं सृजतिविमलेऽहकृतितया॥३८॥
प्रतिज्ञातमर्थमुपपादयितुं भूमिकामाह-प्रनिर्वाच्येति । वस्तुतोऽपरिछिन्नं चिदानन्दस्वरूपममृतं नित्यमुक्तमप्यात्मानं स्वाश्रया स्वविषयाऽनाद्यनिर्वाच्या विद्या सम्यक् तत्प्रतिबिम्बगर्भिता आच्छाद्य सकलव्यवहारहेतुकल्पनाकारणतया प्रचुरगुणविशिष्टा प्रपञ्चाकारेण परिणता सती तत्राप्यहङ्कतिरूपेण परिणता सती विमलेऽत्यन्तविशुद्धतया सर्वव्यवहारानास्पदेऽपि चैतन्ये प्रमात्राद्यध्यासं सृजतीति योजना । तथा च परमार्थवस्तुनि प्रत्यक्तत्त्वेऽविद्याद्यध्यासमन्तरेण न कस्यापि व्यवहारस्य सम्भवः, तदुपहिते तु न कस्यापि व्यवहारस्यानुपपत्तिरिति भावः ॥ ३८॥
अविद्याधिष्ठानं प्रकृतिविकृतीशानमचलं निरीह निर्द्वन्द्वं सुखधनमबाध्यं समरसम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #228
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामा परब्रह्माद्वैतं जडजगदधिष्ठानवपुषा
प्रमात्राद्याकारैःस्फुरति विविधंव्यापृतिपदे॥३६॥ अविद्या सृजतीत्युक्ते तस्याः स्वातन्त्र्यं प्राप्तं तद्वारयन् अविद्योपहितं चैतन्यमधिष्ठानमेवाध्यस्तपदार्थाकारेण व्यवहारदशायां स्फुरतीत्याह-प्रविद्येति। अविद्याधिष्ठानं परब्रह्मैव व्यापृतिपदे व्यवहारभूमौ विविधं प्रमात्राद्याकारैः स्फुरतीत्यन्वयः। वस्तुतस्तु अवलं क्रियारहितम् , निरीहमिच्छाशून्यम् , निर्द्वन्द्वं दृश्यधर्मविनिर्मुक्तम् , सुखैकरसम्, कालत्रयेऽप्यबाध्यम्, समरसमखण्डैकरसम् , द्वैतवर्जितम् , सर्विशेषणैर्निर्विशेष सर्वव्यवहारानास्पदं ब्रह्मैतादृशमपि प्रकृतिर्माया, विकृतिस्तत्कार्य वियदादिः, तयोरीशानं तन्नियन्तृत्वेन सर्वहं सर्वशक्ति स्वतन्त्रं जडाज्ञानतत्कायंजगदधिष्ठानत्वेन स्थितं तथा स्फुरवीत्यर्थः ॥ ३६॥ तवात्मविद्याधिपतिर्महेशो
मायां वशीकृत्य निजानुभूतिः । स्वतन्त्र प्रात्मस्थ उदारशक्ति
ब्रह्मैव शुद्ध परमेश्वरोऽभूत् ॥४०॥
विविधस्वरूपत्वं दर्शयन्नादी "मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्" ( श्वे० ४ । १० ) इति श्रुतिसिद्धं शुद्धस्यापि ब्रह्मणो मायोपहितत्वेन परमेश्वरत्वमित्याह-तत्रेति । प्रमात्रादिभेदस्फुरणे तद्धेतुभूतमायासम्बन्धे सति शुद्धं ब्रह्मैव परमेश्वरोऽभूदित्यन्वयः। तत्र हेतु:--मायामिति । मायावशीकरणे हेतुः-प्रात्मविद्याधिपतिरिति । एतदुपलक्षणं सकलैश्वर्यादीनाम् । तथा च समग्रैश्वर्यधर्मयशःश्रीवैराग्यज्ञानाधिपतिः, अत एव निजस्यासाधारण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #229
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
१६७ खरूपस्याऽनुभूतिर्निरावरणतत्त्वावबोधः स्वत एव यस्य सः, अत एव आत्मोस्थोऽप्रच्युतस्वरूपः, अत एव स्वतन्त्रः, यत उदारशक्तिरुदाराऽपरिच्छिन्नाऽव्याहता शक्तिर्मायाख्या स्वरूपस्फूर्त्यात्मिका वा यस्य स इति योजना ॥ ४०॥
न तत्र मायाकृतदोष ईषत्
स्वबोधतेजोऽनभिभूतधाम्नि । स्वीये महिम्नि स्थित एव सर्व
करोत्यकर्ताऽवति हन्त्यसङ्गः॥४१॥ तस्य जगजन्मादिकारणत्वेऽपि मायोत्थविकारैरसंस्पृष्टत्वमित्याहनेति । तत्र हेतुः-स्वबोधतेजसा निजबोधप्रतापेनैव मायाविज़म्म?रनभिभूतमुलूकादिदिवान्धपरिकल्पिततमोविजृम्भौमध्यन्दिनवर्तिप्रचण्डमार्तण्डमण्डलमिवानास्कन्दितं धाम स्वरूपं यस्य तस्मिन् स्वीये महिम्नि स्थित एव सन् सृष्टिकाले सर्व विश्वं करोति सृजति-स्वसत्तास्फूर्तिदानेन स्वस्मिन्नध्यस्तं प्रकाशयति, स्वतोऽकत्तैव सन् स्वानन्दलवदानेन स्थितिकालेऽवति पालयति, लये सर्व स्वस्मिन्ननन्यरूपेणाकर्षकत्वेन हन्ति संहरति; तथापि सर्वदा स्वतोऽसङ्ग एवेत्यर्थः ॥४१॥
अखण्डमद्वैतमसङ्गमच्छं
ब्रह्माप्यविद्यावृतभावतस्तत् । अनाद्यनिर्वाच्यमनन्तदुःखं
जीवत्वमाश्रित्य भवं प्रयाति ॥ ४२ ॥
तस्यैव ब्रह्मणोऽविद्याशुपाधिकस्य स्वस्वरूपावरणेनैव जीवत्वमाहअखण्डमिति । वस्तुतोऽखण्ड स्वगतादिभेदशून्यम् , अद्वैतम,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #230
--------------------------------------------------------------------------
________________
१९५
प्रत्यक्तत्त्वचिन्तामा प्रसङ्ग सर्वसम्बन्धातीतम्, अच्छं विशुद्धमपि ब्रह्मैव स्वाविद्यावृतस्वरूपत्वात् जीवत्वं लिङ्गदेहाध्यासेनान्त:करणावच्छिन्नत्वमनाद्यनिर्वाच्यमाश्रित्य-स्वस्मिन्नध्यस्य भवं संसारमनन्तदुःखालयं प्रयातीति योजना ॥ ४२॥ .
चैतन्यमेवानुगतं विशुद्धं
सामान्यमेकं [भयत्र वस्तु । उपाधिभेदेन विभाग इत्थं . जीवोऽयमीशोऽयमिदं जगच्च ॥४३॥
एकमेव चैतन्यमुपाधिभेदेन जीवत्वम् , ईश्वरत्वम् , जगत्त्वञ्च स्वस्मिन्नध्यस्य नानारूपेण भातीत्याह-चैतन्यमिति । उभयत्र जीवे परमेश्वरे च । हीति श्रुतिस्मृतिविद्वज्जनानुभवप्रसिद्धमेकमेव चैतन्यमनुगतमित्यर्थः । सुगममन्यत् ॥ ४३ ॥
त्रिविधविश्वमिदं परमेशितु___ र्व्यवहृतौ स्फुरति स्वचिदञ्चितम् । विषयवृत्तिहृदां भिदयाऽनृतं
जगदुपेक्ष्य विचार्यमिदं पदम् ॥ ४४ ॥ प्रमातृत्वाधुपाध्यन्तःकरणाद्युपेक्ष्य सर्वत्रानुगतचैतन्यं यावत्तत्त्व. साक्षात्कारं विचारणीयमित्याह-त्रिविधमिति । परमेशितुर्मायाशबलाद् ब्रह्मणः सकाशात् त्रिविधं प्रमात्रादिभेदेन त्रिप्रकारकं विश्वं भूतभौतिकरूपं स्थिरजङ्गमात्मकञ्च त्रिगुणात्मकमिदं प्रत्यक्षादिसिद्धं समुत्पद्य, व्यवहृतो स्थितिसमये स्वचिदश्चितं स्वात्मचैतन्यखचितं सत्-विषयो घटादिविषयचैतन्योपाधिः, वृत्तिर्घटाद्याकारान्तःकरण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #231
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
१८६ परिणामविशेषः प्रमाणचैतन्योपाधिः, हृद् अन्तःकरणं धर्मि प्रमातृचैतन्योपाधिः, तेषां भिदया भेदेन-स्फुरति कादिरूपेण भासते । तत्रानृतमनिर्वाच्याविद्याकार्य्यमन्तःकरणादिजगत्कार्यजातमुपेक्ष्याध्यस्तत्वेनाविद्यमानवत्कृत्वा इदं नित्यापरोक्षचैतन्यं पदं पद्यते। श्रवणादिपरिपाकोऽस्य तत्त्वसाक्षात्कारेण फलत्वेन गम्यते इति पदं नित्यमेव विचार्य्यमित्यर्थः। त्वदुक्तम्
"जाग्रतः स्वपतो वापि गच्छतस्तिष्ठताऽपि वा।
न विचारपररुचेतो यस्यासौ मृत उच्यते ॥" "तस्मादध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते' इति न्यायेन ब्रह्मतत्त्वसाक्षात्काराय सर्वत्रवेदान्तेषु दृश्यमद्वितीये तत्वे पारोप्य, तत्रैव पुनः प्रतिषिध्य, तत्त्वं प्रतिपाद्यते; तथाऽत्रापि वेदान्तप्रकरणत्वात् प्रतिपाद्यतत्त्वबोधायेत्थं विचारणेति भावः ॥ ४४ ॥ सकलगा चितिरात्मपदाभिधा
जडमषाऽऽवरणात्मिकयाऽजया। निजपदाश्रययाऽपि समावृता
सृजति भेदमभेदवपुः सती ॥४५॥ सर्वगस्यापि चैतन्यस्य स्वाश्रयस्वविषयाज्ञानावृतस्य परिच्छिन्नजडत्वाद्याकारेण स्फूर्तिरित्याह-सकलगेति । प्रात्मपदवाच्या चितिश्चैतन्यं ब्रह्म निजपदाश्रययापि निजमात्मतत्त्वमेव पदं तदाश्रयापि अजया अनाद्यविद्यया जडा चैतन्यस्फूर्त्यधीना, मृषा चैतन्यसत्ताधीना, आवरणाऽऽत्मिका निर्वाच्यभावरूपा तया सम्यगाऽऽच्छादिता वस्तुता भेदशून्याऽपि चितिः सती अबाधितस्वरूपा भेदं प्रमात्रादिविभ्रम सृजतीति योजना ॥४५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #232
--------------------------------------------------------------------------
________________
२००
प्रत्यक्तत्त्वचिन्तामणी अनाद्यविद्या परमात्मतत्व
मावृत्य सर्वत्र गतं स्थितेयम् । अनेकविश्वात्मतया विचित्रा
विवर्त्तते भाववपुश्चिदिद्धा॥४६ ॥ एवमुपोद्घातं सपरिकरमुपवर्ण्य प्रतिकर्मव्यवस्थामुपपादयितुमुपक्रमते-अनादीति । सर्वानुस्यूतपरमात्मतत्त्वमियं साक्षिप्रत्यक्षगम्या नाद्यविद्याऽऽवृत्य चिता स्वाधिष्ठानचैतन्येनेद्धा उद्दीपिता प्रतिबिम्बदानेनानेकविश्वाकारतया विवर्त्तते; विचित्राऽदृष्टादिसहकृता सती भाववपुः कार्यमा प्रति हेतुत्वादिभावविलक्षणेति योजना ॥ ४६॥
तत्र स्थितोऽन्तःकरणं शरीरे
विद्याविवों नयनादिवृत्त्या। निर्गत्य संव्याप्य यथोचितं तद्
घटादिवस्त्वस्ति हि तत्तदात्म ॥४७॥ विचित्रविवर्त्ततामाह--तत्रेति । अविद्याविवर्तेषु मध्येऽन्तःकरणाख्यस्तद्विवर्त्तः शरीरमध्ये स्थितो धर्माधर्मप्रेरितो नेत्रादिद्वारा निर्गत्य, यथोचितं घटादिविषयान् व्याप्य, तत्तदाकारी भवतीत्यर्थः ॥४७॥
तटाकस्थं जलं सेतुगतच्छिद्राद्यया स्वयम् । कुल्यात्मना विनिर्गत्य केदारान् सम्प्रविश्य च ॥४८॥ चतुष्कोणतया तद्वत् त्रिकोणत्वेन वाऽन्यथा। तत्तत्केदाररूपेण भवतीदं मनस्तथा ॥४८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #233
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
२०१ एतदेव दृष्टान्तेन विवृणोति--तटाकस्थमिति । यथा लोके पूर्णतटाकस्थमुदकं सेतुगतच्छिद्रान्निर्गत्य, कुल्याप्रवाहरूपेण केदारान् प्रविश्य, चतुष्कोणत्वेन त्रिकोणत्वेन वर्तुलत्वेन वा तचत्केदारानुसार्येवाऽवतिष्ठते, तद्वन्मनोऽपीति द्वयोर्योजना ॥४८-४६॥
न स्यन्दते मन इदं जलवत्क्रमेण
किन्त्वकरश्मिवदिदं खलु तैजसत्वात् । दीर्घप्रभाकृतितया परिणाममेति
सङ्कोचमेति सहसा रविरश्मिवच्च ॥ ५० ॥
तत्तदाकारांशमाने जलदृष्टान्तो न तु तद्वन्मनसः स्यन्दन किन्त्वन्यथैवेति दृष्टान्तान्तरेण मनसो झटित्येव तत्तद्देशप्राप्ति सम्भावयतिनेति। ना दकवदन्तःकरणं परिस्यन्दते, येनातिदूरवर्तिचन्द्रनक्षत्रध्रुवादिप्राप्तिर्न सिद्ध्येत्, किं तर्हि सूर्यरश्मिवत्तैजसत्वादोर्घप्रभाकारेण परिणमते । अत एव रश्मिवत् सहसा सङ्कोचोऽप्युपपन्न इत्यर्थः ॥ ५० ॥
दूरस्थितेन्दुगुरुशुक्रबुधध्रुवादि
प्राप्ति:टित्यपि ततो मनसोऽस्य सिद्ध्येत् । क्षीरादिवत्परिणतिस्तत एव सिद्धा
चित्तस्य सावयवरूपतयाऽऽदिमत्त्वात् ॥५१॥
उक्तमर्थ स्पष्टयन्नन्तःकरणस्य सावयवत्वात् क्षीरादिवत्परिणामोऽप्युपपन्न इत्याह-दूरेति । तस्य सावयवत्वम्, "तन्मनोऽसृजत" इति श्रुतिसिद्धादिमत्त्वादित्यर्थः। सुगममन्यत् ॥ ५१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #234
--------------------------------------------------------------------------
________________
२०२
प्रत्यक्तत्त्वचिन्तामा तच्चान्तःकरणं तथा परिणतं देहस्य चाभ्यन्तरे
कुम्भादौ विषये च तैजसवपुः संव्याप्य वृत्या स्वया। मध्ये च्छिन्नमिदं शरीरघटयोर्दण्डायमानं यतः सर्वत्र व्यवतिष्ठते तत इदं त्रेधा स्थितं व्यापृती॥५२॥
तत्परिणाम विभज्य दर्शयति-तच्चेति द्वाभ्याम्। तच्च परिपतमन्तःकरणं देहाभ्यन्तरे घटादा च सम्यग्व्याप्य देहघटकामध्यदेशेऽपि दण्डायमानमविच्छिन्नं व्यवतिष्ठते तस्मादिदमन्त:करणं व्यवहारभूमौ त्रिधारूपेण स्थितमिति योजना ॥ ५२ ॥
कर्ता देहगतोऽस्य भाग उदितोऽहङ्कारनामा हृदो
वृत्तिदेहघटादिमध्य इतरो भागोऽस्य दण्डाकृतिः। कुम्भादौ विषयेऽस्य भाग उचितः कर्मत्वसम्पादक: स्याज्ज्ञाने विषयस्य तस्य मनसोऽभिव्यक्तियोग्यत्वतः५३
त्रिविधत्वं विवृणोति--कति । तत्र देहावच्छिन्नान्त:करणभागोऽहङ्काराख्यः कर्तेत्युच्यते, देहविषयमध्यवर्त्तिदण्डायमानस्तद्भागो वृत्तिर्ज्ञानाभिधा क्रियेत्युच्यते, विषयव्यापकस्तद्भागो विषयस्य ज्ञानकर्मत्वसम्पादकमभिव्यक्तियोग्यत्वमित्युच्यते, इति योजना ॥ ५३॥
अस्मिस्त्रिभागमनसि ह्यतिनिर्मले या:
भिव्यज्यते चिदमला पुनरत्र तस्य । तद्भागभेदकृतभागविभेदभाक्त्वं
लोके भवेद् व्यवहृतौ किल केषलायाः॥५४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #235
--------------------------------------------------------------------------
________________
२०३
पञ्चमं प्रकरणम्। उपाधिभेदेन तदवच्छिन्नचैतन्यस्य भेदभाक्त्वमित्याह-अस्मिन्निति । तस्य च त्रिभागस्यान्तःकरणस्यातिखच्छत्वाच्चैतन्यं तत्राभिव्यज्यते । तस्याभिव्यक्तस्य चैतन्यस्यैकत्वेऽभिव्यजकान्तःकरणभागभेदेन कृतो यो भागविभेदस्तद्भात लोके व्यवहृता किल प्रसिद्धमित्यर्थः ॥ ५४॥
चिदंशः कवच्छिन्नः प्रमाता सम्पकीर्तितः। प्रमाणं स्यात्क्रियाभागावच्छिन्नश्चेतनांशकः ॥५५॥ विषये योग्यताभावावच्छिन्नः प्रमितिर्भवेत् । मातृमानमितीनां स्यादसाङ्कय्य विभागशः॥५६॥
उपाधिकृतभेदभाक्त्वं चितो दर्शयति-चिदंश इति द्वाभ्याम् ॥ ५५-५६ ॥
भागत्रयेऽप्यनुगता हृदयाकृतिश्चि__ मातृप्रमेययुगयोगितया च तस्याः । ज्ञातं मयेदमिति संव्यवहार एष
सङ्गच्छते तदनुभावितया विशिष्टः ॥५७॥ अत एव मयेदमवगतमिति विशिष्टव्यवहारसिद्धिरित्याह-भागत्रयेऽपीति । कादिरूपेऽनुगताऽन्तःकरणाकारा चितिस्तस्याः प्रमातृप्रमेयसम्बद्धत्वात् 'ज्ञातं मयेद्म' इत्येष विशिष्टव्यवहारस्तदनुभावितया पूर्वोक्तसम्बन्धानन्तरमवश्यम्भावित्वेन सङ्गच्छते-उपपद्यते इत्यर्थः ।।५७॥
व्यङ्गयव्यञ्जकयोरैक्याध्यासाच्चिन्मनसोईयोः। परस्परस्मिन्नन्योन्यधर्मादिव्यापृतिर्भवेत् ॥५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #236
--------------------------------------------------------------------------
________________
२०४
प्रत्यक्तत्त्वचिन्तामा ___ चिन्मनसोऽन्योन्याध्यासकृत एव सर्वो व्यवहार इति वक्तुं तयोरन्योन्यस्मिन्नन्योन्यधर्माध्यासस्तयोरैक्याध्यासप्रयुक्त एवेत्याहव्यङ्ग्यव्यजक्योरिति। व्यापृतिर्विनिमयः ॥ ५८॥
अतो घटाद्यवच्छिन्नचैतन्यावरणं तमः। तदाकारमनोवृत्त्या नाश्यते व्यापृतौ स्फुटम् ॥५॥
अत्रोपपत्तिमाह-प्रत इति। अन्योन्यस्मिन्नन्योन्यधर्माध्यासादेवेत्यर्थः । स्पष्टमन्यत् ॥५६॥ नन्वन्तःकरणेन चैच्चितिगताऽज्ञानावृति श्यते
कुम्भज्ञानत एव तर्हि सकलो मुच्येत बन्धाज्जनः । यद्यत्रातिशयोऽपि तेन मनसा चैतन्य उत्पाद्यते
तहतस्य विकारिताखलु भवेदित्यत्र सम्योच्यते॥६॥
नन्वन्तःकरणेन चैतन्यस्याभिव्यक्तिर्नामावरणविनाशश्चेत्, घटज्ञानेनैव मोक्षः स्यात; आत्मगतातिशयश्चेत्, प्रात्मनो विकारित्वं स्यादिति शङ्कते-नन्विति । समाधान प्रति जानीते-अनेति ॥६०॥
आवृत्यभिभवस्तत्र मनसा क्रियते जडे। चिदभिव्यक्तिरेवेयं नात्मन्यतिशयादिकम् ॥६१॥
प्रतिज्ञातमर्थ विवृणोति-आवृतीति । आवरणाभिभवस्याभि. व्यक्तित्वादित्यर्थः ॥ ६१॥
तूलाज्ञाने विनष्टेऽपि मूलाज्ञानं न नश्यति। प्रत्यग्ब्रीक्यविज्ञानान्मूलाज्ञानं विनश्यति ॥६२॥
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat
Page #237
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम्। तुलाज्ञाने इति । स्पष्टम् ॥ ६२ ॥
पात्मना परिणामित्वाज्जडत्वाच्चाप्यहङकृतेः। प्रमाता ते मतेनैव सिद्ध्येदित्यत्र कथ्यते ॥ ६३॥ चिदभिव्यक्तियुक्तोऽत्राऽहङ्कारः परिणाम्ययम् । प्रमाता सिद्ध्यतीत्येवं दर्शितं पूर्वमेव हि ॥६४॥ पूर्वोक्तशङ्कामनूध परिहरति--आत्मन इति द्वाभ्याम् । पूर्व कादिभागनिर्णयावसरे इत्यर्थः ॥ ६३-६४ ॥
ननु सर्वगतत्वाचिदूपस्य परमात्मनः। प्रतिकर्मव्यवस्था ते नैव सिद्ध्यति युक्तिभिः॥६५॥ सुखदुःखादिकं पुंसां यदेकेनानुभूयते।। तत्सर्वैरनुभूयेत सर्वात्मकतया चितः ॥६६॥ घटाउनुभूयते यहि देवदत्तन वै तदा। सर्वगत्वाचितः सर्व जगत्तैनाऽनुभूयताम् ॥ ६॥
चैतन्यस्य सर्वगत्वेऽपि प्रतिकर्मव्यवस्था सुखेन सिद्धपतीत्युपपादयितुं पूर्वोक्तशङ्कामुत्थापयति-नन्विति त्रिभिः ॥ ६५, ६६, ६७॥
मैवं चितो नहि ब्रूमः केवलायाश्च हेतुताम्। विषयाउनुभवे तस्याः स्वाविद्याच्छादितत्वतः ॥६॥ किं तर्हि स्वान्तवृत्त्याऽभिव्यक्ताया इष्यते चितः। तानि व्यवस्थितान्यन्तःकरणानि शरीरिणाम् ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #238
--------------------------------------------------------------------------
________________
२०६
प्रत्यक्तत्त्वचिन्तामणैा परिहरति-मैवमिति द्वाभ्याम् । यदि केवलशुद्धचैतन्यस्य सर्वगस्य विषयानुभवे हेतुत्वमभ्युपगम्येत, तदा त्वदुक्तानुपपत्तिर्भवेत् । न तु तथा स्वीक्रियते, किन्तु व्यवस्थासिद्धयेऽन्तःकरणानि पृथक स्वीक्रियन्ते । तथा च नोक्तदोषशङ्कावकाश इति तात्पार्थः ॥ ६८-६६॥
तत्कथं सर्वजन्तूनां भागसङ्कर आपतेत्। चितः कर्तृत्वभोक्तत्वे केवलाया यतो नहि ॥७॥
अन्त:करणावच्छिन्नस्यैव सुखदुःखादिसम्बन्धमानम् , न तु शुद्धस्य, तथा च कथं भोगसङ्कर इत्याह- तदिति ॥ ७० ॥
न व्यवस्थापरिच्छिन्नं देवदत्तान्तरिन्द्रियम् । युगपत्सर्वजगता यतः सम्बद्धयतेऽञ्जमा ॥७१॥ तत्रोपपत्तिमाह-नेति। अजसेति योगाभ्यास विना ॥ ७१ ॥ तदभिव्यक्तचैतन्यबलात्सर्वमसावतः। नैवानुभवतीत्येवं व्यवस्था सम्भवेदिह ॥७२॥
तथा च प्रतिकर्मव्यवस्थासिद्धत्याह-तदिति। तस्मिन्नन्त:करणेऽभिव्यक्तं यच्चैतन्यं तद्वलादेव प्रतिनियतघटाद्यनुभवति असौ देवदत्तादिरूपा चितिः, अत: सर्व नैवानुभवतीत्येवं व्यवस्थासिद्धिरित्यर्थः ।। ७२ ॥
न वा सर्वगतस्तस्य परिच्छिमस्य चेतसः। परिणामो भवेदेवं सूर्य्यरश्मिवदित्यपि ॥७३॥ .
परिछिन्नस्याप्यन्तःकरणस्य सूर्यरश्मिवत्सर्वव्यापी परिणाम: किन्न स्यात् ? इति शङ्कामनृद्य दूषयति-न वेति ॥ ७३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #239
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् । तत्परिणामसामग्रीपुण्यपापनिबन्धना। नेत्रश्रोत्रादिरूपा या सापि यस्माद् व्यवस्थिता॥७॥
प्रतिकर्मनयैस्तस्मात्परिणामस्य सम्भवात् । व्यवस्था सिद्धयतीत्येवं न दोषोऽस्मन्मतेष्वपि॥७५॥
प्रतिज्ञायां हेतुमाह-तदिति। अन्तःकरणपरिणामसामयाः पुण्यपापनेत्रश्रोत्रादिरूपायाः प्रतिविषयं व्यवस्थितत्वेन परिणामस्यापि व्यवस्थासिद्धेरिति द्वयोरर्थः ॥७४-७५ ॥
यस्तु योगं समभ्यस्य योगी सर्वगतस्य च। परिणामस्य सामग्री यत्नात्सम्पादयेदिह ॥ ७६ ॥
स युगपज्जगत् सर्व सुखेनैवाऽवगच्छतु। न ततः स्याद् व्यवस्थाया हानिः काचिन्मतेमम॥७७॥
ननु तर्हि योगिनो युगपद् व्यवहितानेकपदार्थान् कथमवगच्छन्तीत्याशक्य तादृशसामग्रीसम्पादनादित्याह—य इति द्वाभ्याम् ॥७६-७७॥
नन्वन्तःकरणोपाधिः किमयं कल्प्यते त्वया। जडीपरागसंसिद्धयै चितोऽसङ्गितयेति चेत् ॥ ७८॥ तहसङ्गितयोपाधावुपरागो न सम्भवेत् । नह्यसङ्गस्य केनापि सम्बन्धी घटते नयात् ॥७८॥
ननु किं चैतन्यस्यासङ्गितया स्वतो विषयोपरागाभावात् तसिद्धयेऽन्तःकरणोपाधिः कल्प्यते ? किं वा सत्यपि तदुपरागे विषयप्रका
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #240
--------------------------------------------------------------------------
________________
२०८
प्रत्यक्तत्त्वचिन्तामणी शनसिद्धये ? इति विकल्प्य, प्राद्यमनूद्य दूषयति-नन्विति । चित्सम्बन्धादेव प्रकाशसिद्धावुपाधिवैयर्थ्यादित्यर्थः ।। ७८-७६ ॥
न वा सत्यपरागेऽपि विषये भानसिद्धये। अपेक्ष्यतेऽन्तःकरणोपाधिरित्यपि साम्प्रतम् ॥८०॥ द्वितीयं दूषयति-नेति ।। ८० ॥ चिद्योगादेव तद्भानं सिद्धा सत्यामुपाधिना। प्रयोजनं न पश्यामः स्वप्रकाशतयाऽऽत्मनः ॥८१॥
ननु स्वस्वरूपाभिव्यक्तिसिद्धये तदपेक्षा किन्न स्यात् ? इत्यत माह-स्वप्रकाशतयेति । स्वप्रकाशतयैव नित्यसिद्धस्यात्मनो न तदपेक्षेत्यर्थः ॥ १ ॥
तस्मादुपाध्यसम्बन्धाच्चिता सर्वगयाऽखिलम् । संयुक्तमिति सर्वस्य युगपद्भानमापतेत् ॥२॥
तत्किमित्यत आह-तस्मादिति। यस्मादसङ्गस्योपाधिसंसर्गो न सङ्गच्छते । तस्माच्चिता सर्वगया समस्तं जगत्संयुक्तं सम्बद्धमिति सर्वस्य युगपद्भानप्रसङ्गात् प्रतिकर्मव्यवस्थानुपपत्तिरेवेत्यर्थः ।। ८२ ॥
अथ जीवे परिच्छिन्ने नैकदा भानमापतेत् । ब्रह्मणश्चेत्तदिष्टत्वादभेदेऽपि भिदा भ्रमात् ॥८॥
परिहारान्तरं दूषयितुमाशङ्कते - अथेति। अथ किं प्रतिबिम्बभूतजीवचैतन्यस्य युगपत्सर्वाऽवभासकत्वमापादयसि ? किं वा बिम्बभूतब्रह्मचैतन्यस्य ? नाद्यः, तस्य परिच्छिन्नत्वात् । न द्वितीयः, इष्टत्वात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #241
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम्।
२०६ जीवब्रह्मणोर्भेदाभावेऽपि किञ्चिज्ज्ञत्वसर्वज्ञत्वे असङ्कीर्णे बिम्बप्रतिबिम्बयोरवदातत्वश्यामत्वे इवेत्यर्थः ॥ ८३ ॥
तथा सत्यपि जीवस्य किञ्चिज्ज्ञत्वमपि ध्रुवम् । न स्यात्सार्वज्यवद् ब्रह्म विषयानुभवो यतः ॥८४॥
दूषयति-तथा सतीति । विषयानुभवस्य ब्रह्मचैतन्यरूपतया सर्वज्ञत्ववदहङ्कारावच्छिन्नजीवाऽनुसङ्गाभावाज्जीवस्य किञ्चिज्ज्ञत्वमपि न स्यादित्यर्थः ॥ ८४ ॥
अथान्तःकरणोपाधेश्चक्षुरादिभिरिन्द्रियैः। घटादियोगाज्जीवस्य ज्ञातृत्वं घटते जडे ॥५॥
जीवोपाधेरन्तःकरणस्य चक्षुरादिद्वारा विषयसम्बन्धाज्जीवस्य विषयज्ञातृत्वं घटते इति शङ्कते-अथेति ॥८५॥
तथाप्युपाधिसंसृष्टवस्तुज्ञातृत्व एष यः। जीवो ब्रह्मस्वरूपं स जानीयात्सर्वदा स्वयम् ॥६॥
अन्तःकरणसंसृष्टवस्तुज्ञातृत्वे ब्रह्मस्वरूपमपि जीवः सर्वदा जानीयादिति दूषयति-वथापोति ॥८६॥
ब्रह्मणः सर्वगस्यान्तःकरणे सत्त्वसम्भवात् । अन्यथा ब्रह्मणः सर्वव्यापित्वं नैव सम्भवेत् ॥७॥ तत्र हेतुमाह-ब्रह्मण इति । विपक्षे बाधकमाह--अन्यथेति ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #242
--------------------------------------------------------------------------
________________
२१०
प्रत्यकूतत्त्वचिन्तामयौ
अथ सर्वतो जीवोऽविद्योपाधिक इष्यते ।. स चैकदा जगत्सर्वं नावभासयितुं क्षमः ॥ ८८ ॥
अविद्याच्छादितत्वेन स्वस्याप्यनवभासनात् । सर्वगायाश्चितोऽप्येषाऽविद्यास्याच्छादिकाल्पिकाष्ट
धृतेनांगुलिमात्रेण समीपे चक्षुषो यथा । तिरोधानं हिमांश्वादेर्महतस्तदात्मनः ॥ ८० ॥
तथाऽन्तःकरणस्यापरागेणाऽऽवरणं जडे । यत्राऽभिभूयतें तत्र चिता किञ्चित्प्रकाश्यते ॥ ८१ ॥
परिहारान्तरं शङ्कते — प्रथेत्यादिचतुर्भिः । अथ मतमविद्यो - पाधिकत्वाज्जीवः सर्वगतः, स च न कृत्स्नं जगदवभासयितुं क्षमः, विद्यावृतत्वेन स्वयमप्यप्रकाशमानत्वात् । 'प्रहमज्ञः' इति परिच्छिन्नतयाऽवगताया अप्यविद्यायाः सर्वगतचैतन्य तिरोधायकत्वमप्युपपन्नमेव नेत्रसमीपे धृतेनाङ्ग लिमात्रेय महतश्चन्द्रादित्यादेरपि तिरोधानदर्शनात्। एवं सत्यन्तः करणेोपरागेण यत्रावरणमभिभूयते, तत्रैवाऽभिव्यक्तेन चैतन्येन किञ्चिदेव प्रकाश्यते । न तु सर्वमपीति प्रतिकर्म्मव्यवस्थासिद्धिरिति चतुर्य योजना ||८८, ८६, ६०, ६१॥
इत्यप्यसाम्प्रतं भाति कथं तेनाभिभूयते । कार्येण मनसाऽज्ञानं स्वापादानं दुरुद्धरम् ॥ ८२ ॥
तदेव दूषयति — इत्यपीति ॥ ८२ ॥
तस्मात्तव मतेऽपीयं कथञ्चिन्नैव सिद्ध्यति । प्रतिकर्मव्यवस्येति शङ्कायामभिधीयते ॥ ८३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #243
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
२११ पूर्वपक्षमुपसंहरति-तस्मादिति । समाधान प्रतिजानीतेइति शङ्कायामिति ॥ ६३ ॥
जीवचैतन्यमन्यत्रासङ्गित्वानोपरज्यते। तदन्तःकरणोपाधी स्वभावादुपरज्यते ॥४॥
प्रतिज्ञातं विवृणोति-जीवेति । जीवचैतन्यमसङ्गितयाऽन्यत्रानुपरज्यमानमप्यन्तःकरणे उपरज्यते, तादृशस्वभावत्वादिति योजना ॥४॥
यथा सर्वगता जातिगौत्वाखत्वादिरूपिणी। सास्नादिसंयुतव्यक्तौ स्वभावादुपरज्यते ॥६५॥
न सोपरज्यतेऽन्यत्र तद्वदन्यत्र सर्वगा। चिनोएरज्यते सैव स्वोपाधावुपरज्यते ॥८६॥ .
तत्र दृष्टान्तमाह-यथेति। यथा सर्वगताऽपि गोत्वादिजातिः सास्नादिमद्व्यक्तावुपरज्यते, नाऽन्यत्र, तद्वत् चित् चैतन्यमपि सर्वव्यापि नाऽन्यत्रोपरज्यते, सैव चित् स्वोपाधावन्तःकरणे उपरज्यते इति द्वयोर्योजना ॥ ६५-६६ ॥
यदि सर्वगता जातियक्तिष्वेवावतिष्ठते । न दृष्टान्तस्तदा दापप्रभा दृष्टान्त इष्यताम् ॥६॥ सा हि रूपरसस्पर्शगन्धवाय्वादिदेशगा। व्यापिन्यपि समा रूपं प्रकाशयति नापरम् ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #244
--------------------------------------------------------------------------
________________
२१२
प्रत्यकूतत्त्वचिन्तामयैौ
अथ व्यक्तिष्वेव सर्वगता जातिस्तर्हि प्रदीपप्रभा दृष्टान्तो ऽस्तु । सा हि रूपरसवाय्वादिदेशव्यापिन्यपि रूपमेव प्रकाशयति नान्यदित्याह-यदीति द्वाभ्याम् ॥ ६७-६८ ॥
अतोऽन्तःकरणोपाधिश्चैतन्यस्य विभोरपि । जडेोपरागसिद्ध्यर्था व्यवहारे भविष्यति ॥ ८८ ॥
तथा चान्तःकरणोपाधिश्चैतन्यस्य विषयोपरागसिद्धार्थो व्यवहारे स भविष्यतीत्याह — प्रत इति ॥ ६६ ॥
न चाऽसत्युपरागे चित्प्रकाशे विषयान् क्षमः । अवभासयितुं दीपभावत्संयुक्तभासकः ॥ १०० ॥
यत्तूक्तं चित्सम्बन्धादेव विषयावभाससिद्धौ उपाधेर्वैयर्थ्य तहूयति - न चेति । न चात्युपरागे चित्प्रकाशो विषयानवभासयितुमीष्टे, प्रदीप प्रकाशवत्संयुक्तभास कत्वादिति योजना ॥ १०० ॥
सर्वोपादानभावेन ब्रह्मौपाधिकमन्तरा । उपरागं जगत्स्वस्मादभिन्नं भासयत्यदः ॥ १०१ ॥
ब्रह्मणस्ततो विशेषमाह — सर्वेति I ब्रह्म हि सर्वोपादानात्वादापाधिकमुपरागं विनैव स्वस्वरूपवत्स्वाभिन्नं जगदवभासयतीति योजना ॥ १०१ ॥
न त्वेवं भासयत्यद्धाऽनुपादानतयाऽज्ञचित् । न चान्येनापि सम्बन्धान्न जीवा भासयेदिति ॥ १०२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #245
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
२१३ तृणाद्यदाहकत्वेऽपि केवलाग्नेस्तथापि सः। अयापिण्डं समारुह्य दहत्यग्निस्तथैव सः॥१०॥
जीवस्य तु न तथात्वमित्याह-न विति। तु शब्दार्थमाहअज्ञचिद् अज्ञानि-(जीव)-चैतन्यमनुपादानत्वात् [न भासयति] । न च स्वतोऽनवभासकस्य जीवस्य घटादिवदन्यसम्बन्धादप्यवभासकत्वं नेति शङ्क्यम्, केवल वह्वस्तृणाद्यदाहकत्वेऽप्ययःपिण्डसमारूढस्यैव दाहकत्वदर्शनादिति द्वयोरन्वयः ॥ १०२-१०३ ॥
तथा चाऽसङ्गिनः साक्षिचैतन्यस्यावृतस्य च । जीवत्वेऽपि व्यवस्था स्यादन्तःकरणयोगतः ॥१०४॥ फलितमाह-तथा चेति । तदेवमसङ्गिनः साक्षिचैतन्यस्याविद्यावृत्तस्य जीवत्वेऽपि स्यादेवान्तःकरणवशाद् व्यवस्थेत्यर्थः ॥ १०४ ।।
यदन्तःकरणाभासो जीवः स्यात्सुतरां तदा। परिच्छिन्नतया सिद्ध्येद् व्यवस्था व्यवहारगा॥१०॥
अन्तःकरणप्रतिबिम्बो जीव इत्यस्मिन् पक्षे सुतरां व्यवस्थासिद्धिरित्याह-यदेति ॥ १०५ ॥
ब्रह्मचैतन्यरूपोऽपि विषयानुभवो भवेत् । जीवोपाधावभिव्यक्ततया तद्रप एव सः॥१०६॥ विषयानुभवस्य ब्रह्मचैतन्यरूपत्वेऽपि जीवोपाध्यन्तःकरणपरियामे विषयव्यापिन्यभिव्यक्तत्वाज्जीवचैतन्यरूपत्वमप्यविरुद्धमित्याहब्रह्मति ॥ १०६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #246
--------------------------------------------------------------------------
________________
२१४
प्रत्यक्तत्त्वचिन्तामा संसृष्टत्वेऽपि चिद्धातोब्रह्मणो मनसा सदा। ब्रह्मज्ञानं न जीवस्य तथा धीवृत्त्यभावतः ॥१०७॥
ननु तर्हि सदा जीवस्य ब्रह्मानुभवः स्यादित्यत आह--संसृष्टत्वेपीति । ब्रह्मयोऽन्तःकरणसंसृष्टत्वेऽपि ब्रह्माकारपरिणतान्तःकरणवृत्त्यभावान्न जीवस्य सदा ब्रह्मज्ञानप्रसङ्ग इत्यर्थः ॥ १०७ ॥
न धीस्वरूपमा स्याद् वस्त्वभिव्यञ्जकं स्वयम् । किन्त्वस्यास्तत्तदाकारपरिणामो धियस्तथा॥१०८॥ अन्यथा धीगतानां स्याद्धर्मादीनामपि ध्रुवम् । अभिव्यक्तिप्रसङ्गोऽतस्तत्सत्त्वं न प्रयोजकम् ॥१०॥ नन्वन्तःकरणमेव ब्रह्मचैतन्याभिव्यजकं किन्न स्यात् ? इत्यत आह-नेति। नह्यन्तःकरणस्वरूपमात्रं वस्त्वभिव्यजकं किन्तु तत्तदाकारपरिणामः, अन्यथाऽन्तःकरणगतानां धर्मादीनामप्यभिव्यक्तिप्रसङ्गः स्यादिति द्वयोरन्वयः ॥ १०८-१०६॥
जीवोऽपि जीवाकारावृत्त्या परिणते हृदि। अभिव्यज्यत आसुप्तवृत्त्यभावेन जीवधीः ॥११०॥ ननु तर्हि जीवचैतन्यस्याप्यन्तःकरणेऽभिव्यक्तिर्न स्यादित्यत आह-जीवेति। जीवाकाराईवृत्तिरूपेण परिणतेऽन्तःकरणे जीवोऽभिव्यज्यते, नान्तःकरणमात्रे सुषुप्तावहंवृत्त्यभावे जीवाप्रतीतेरित्यर्थः ॥ ११० ॥
तदित्यमन्तःकरणे प्रतिबिम्बस्य जीवता । यदि तर्हि व्यवस्थेयं सिद्धयत्येवं निराकुला॥१११॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #247
--------------------------------------------------------------------------
________________
पश्चमं प्रकरणम् ।
एतत्पक्षे फलितमाह - तदिति ॥ १११ ॥
२१५
अविद्योपाधिको यहि जीवः सर्वगता मतः । तदा वृत्तितिरोधायिधिया सिद्ध्येद् व्यवस्थिति: ११२
कार्य्यस्याप्यस्त्युपादानतिरोधायकता यतः । दृष्टा वृक्षादिकार्य्यस्य स्वोपादानतिरस्कृतिः ॥ ११३॥ मृत्स्वरूपं न वृक्षादौ प्रत्यभिज्ञायते क्वचित् । न वा वृश्चिकदेहेऽपि गोमयं ज्ञायते स्फुटम् ॥ ११४ ॥
विद्योपाधिकः सर्वगता जीव इत्यस्मिन् पक्षेऽपि व्यवस्थाया नानुपपत्तिरित्याह- अविद्यति । यदा चाविद्योपाधिकः सर्वगता जीवः, तदाप्यावरणतिरोधायकेनान्तः करणेन व्यवस्था सिद्ध्येत् । सम्भवति हि कार्य्यस्याप्युपादानतिरोधायकत्वम्, वृश्चिकवृक्षादिकार्य्यस्य गोमयमृदादिकारणस्वभावतिरोधायकत्वदर्शनात् । नहि वृश्चिकशरीरे गोमयं प्रत्यभिज्ञायते, वृक्षादौ वा मृत्स्वरूपमिति त्रयाणां योजना ।। ११२, ११३, ११४ ॥
तदेवं सर्वथा वेदमौलिवादिमतेऽञ्जमा । मात्रादिव्यवहारस्य सिद्धिर्नान्यमते नयैः ॥ ११५ ॥
फलितमुपसंहरति--तदेवमिति ॥ ११५ ॥
पूर्वपूर्वाहमुद्भूतप्रमातृत्वादिगेोचरैः । संस्कारैः सविकल्पे चिद्रूपेऽध्यासेाऽस्त्यहङ्कृतेः ११६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #248
--------------------------------------------------------------------------
________________
२१६
प्रत्यक्तत्त्वचिन्तामा __ नन्वेतत् सर्वमहङ्काराद्यध्यासाधीनं तस्य निर्विकल्पचैतन्येन सम्भव इति पूर्व शङ्कितं दत्तोत्तरमिति परिहरति-पूर्वेति । पूर्वपूर्वाहङ्कारादिकृतप्रमातृत्वादिसंस्कारेण सविकल्पके चैतन्ये सम्भवत्येव सविकल्पकाहङ्काराद्यध्यास इत्यर्थः ॥ ११६ ॥
अविद्यावृतचैतन्येऽध्यस्तं देहघटादिकम् । चिद्विवर्तः प्रपञ्चोऽतः सर्वप्रत्ययगोचरः ॥११७ ॥
अनाधनिर्वाच्याविद्यावृत्तचैतन्ये न कस्यापि व्यवहारस्याऽसम्भावना कार्येत्याह-अविद्येति ॥ ११७ ॥
एकमेवानि चैतन्यं देहे कुडये घटे वटे। प्रमात्रादिभिदा तस्मिन्नुपाधेरेव न स्वतः॥११॥ एकमेव चैतन्यमन्तःकरणाद्युपाधिभेदेन भिन्नमिव प्रतीयते, न स्वतस्तत्र भेद इत्याह-एकमिति ॥ ११८॥
न वा चिति विवर्त्तत्वे सर्वस्य विषयस्य च । चिताउतिरेकतोऽसत्वाद्विज्ञानमत मापतेत् ॥११॥ विज्ञानमतप्रवेशमाशक्य निराचष्टे-न वेति ॥ ११८ ।। किञ्चित्साम्यात् प्रवेशेऽन्यमते स्यात् सर्वमङ्करः । सर्वसाम्यन्तु नास्त्यस्मन्मते विज्ञानवादिना ॥१२०॥
किं विज्ञानमतप्रवेशो यत्किञ्चित्साम्येन ? सर्वसाम्येन वा ? इति विकल्प्याद्यमतिप्रसङ्गेन दूषयति-किञ्चिदिति । द्वितीयं निरस्यति-सर्वेति ॥ १२० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #249
--------------------------------------------------------------------------
________________
पश्चर्म प्रकरणम् ।
२१७ स क्षणिकान्यनेकानि विज्ञानानि च सौगतः। न तेभ्यो विषया भिन्ना इत्याह भ्रान्तचेतनः॥१२१॥ विज्ञानवादिमतं विवेचयति-स इति । इत्थं विज्ञानवादी मनुते
"सहोपलम्भनियमादभेदो नीलतद्धियोः । अन्यच्चत्संविदो नीलं न तद्भासेत संविदि ॥ १ ॥ भासते चेत्कुतः सर्व न भासेतैकसंविदि । नियामकं न सम्बन्धं पश्यामो नीलतद्धियोः ।। २॥"
( वि० प्र० सं० क्षणिकत्वनिरासप्र० पृ० ७५) इति तन्मतं स्वमताद् विविच्य दर्शयन्नाह–स इति ॥ १२१ ।। तत्त्वदर्शी तु विज्ञानं नित्यमद्वैतमक्षरम् । तवाऽध्यस्ताश्च विषयाः पृथगर्थक्रियाक्षमाः॥१२२॥ तन्मतात्स्वमतस्य वैलक्षण्यं दर्शयति-तत्त्वदर्शी त्विति । न ज्ञानं क्षणिकम, प्रतिक्षणं स्वरूपभेदानवभासात् । प्रतिसादृश्याद्भेदानवभास इति चेत्, न; विकल्पासहत्वात् । किं संविद्धर्मो ज्ञानान्तरगम्यश्च भेदः ? किं वा संवित्स्वरूपभूतस्तयैव संविदा वेद्यः ? प्राधेऽपि धर्मिप्रतियोगिभूतयोः संविदाः संविदन्तराविषयत्वे तयोर्मेंदग्रहो न सिद्ध्येत् । विषयत्वे वा धर्मिप्रतियोगिभेदाख्यत्रितयमपि भेदसंवेदने कल्पितं तदभिन्नञ्च स्यात् । द्वितीये संवित्स्वरूपभूतो भेदः साहश्यानावभासते इत्युक्ते संविदेव नावभासते इत्युक्तं स्यात् । ततो जगदान्ध्यप्रसङ्गः। अथापि संविदा सादृश्यनिर्वाहाय भेदोऽङ्गोक्रियत इति चेत्, न; सादृश्यस्य मानहीनत्वात्, ऐक्यावभासविरुद्धत्वाच्च, ऐक्यबोधिकायाः प्रत्यभिज्ञायाः प्रामाण्याच्चेति । तस्माद्विज्ञानं नित्यमेकमेवाद्वितीयम् । तत्र विज्ञाने विषयाः शब्दादयोऽध्यस्ता व्यवहारदशायां पृथक पृथगर्थक्रियासमर्था भवन्तीत्यर्थः ॥ १२२ ॥
२८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #250
--------------------------------------------------------------------------
________________
२१८
प्रत्यकूतत्त्वचिन्तामणी
व्यवहारदशायां ते स्थायिनः सत्यबाधिताः । इत्येवं वदति स्वस्थो महदन्तरमस्त्यतः ॥ १२३ ॥
स्वमते व्यवहारदशायां विषयाणां स्थायित्वमप्याह — व्यवहारेति । व्यवहारदशायां बाधाभावात्तेषां स्थायित्वं तत्त्वदर्शी तु इत्येवं वदति । तत्र हेतु: स्वस्थ इति । क्षणिकवादी भ्रान्तचेतस्तया वदतु प्रन्यथा । तत्वदर्शी तु स्वस्थचित्ततया यथार्थमेव वदतीत्यर्थः । श्रतस्तयोर्महदन्तरमस्तीति योजना ।। १२३ ।।
सर्वत्र प्रत्यभिज्ञानात् संविदेकाऽद्वितीयका । विषयोपाधिको भेदावभासस्तत्र न स्वतः ॥ १२४ ॥
एतदेव विशदयति — सर्वत्रेति । श्रद्वितीयं हि संवेदनं सर्वत्र प्रत्यभिज्ञानात् । घटसंवित्पटसंविदिति भेदावभासस्तु विषयोपाधिको न स्वाभाविक इत्यर्थः ॥ १२४॥
अद्वितीये मते संविन्नित्या साक्ष्यात्मिका चितिः । तथात्वं प्रत्यभिज्ञानाद्विशिष्टे संस्कृतिर्मता ॥ १२५ ॥ कर्म्मकर्तृ विरोधोऽपि न शङ्क्यः सर्वसम्मतेः
संविदा नित्यत्वं साधयति-- श्रद्वितीयेति । नन्वस्तु तस्या एकत्वम्, नित्यत्वन्तु कथम् ? इत्यत आह- तथात्वमिति । द्वितीयमते संविदा नित्यत्वश्च सोऽहमिति प्रत्यभिज्ञानात् । ननु नित्यस्वयंप्रकाशे विज्ञानात्मनि संस्कारजन्यज्ञानस्यासम्भवात्कथं प्रत्यभिज्ञा स्यात् ? इत्याशङ्क्याह - विशिष्ट इति । केवले चिदात्मनि जन्यज्ञानतत्संस्कारयोरसम्भवेऽप्यन्तःकरणविशिष्टे तत्सम्भवात् प्रत्यभिज्ञायाः सिद्धेः । न च विशिष्टस्य प्रत्यभिज्ञाविषयत्वे तस्यैव प्रत्यभिज्ञा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #251
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
२१६ तृत्वमपीति कर्मकर्तृविरोधः शक्य इत्याह-कर्मकर्तृविरोध इति । तत्र हेतुः-सर्वसम्मतेरिति । सर्ववादिना देहव्यतिरिक्ताद्यनुमानविषयतयाऽऽत्मनि कर्मकर्तभावस्य सम्प्रतिपन्नत्वादिति सार्द्धस्यार्थः ॥ १२५ ॥
न वैषम्यमिहाऽप्यस्त्युपाधिभेदाद्वयोर्भिदा॥१२६॥
अथ मतम्-नानुमानादी विषयस्य कर्मकारकत्वम्, अतीतादि. वस्त्वनुमाने विषयस्याविद्यमानस्य ज्ञानजनकत्वायोगाद् । विषयत्वन्तु अविद्यमानस्यापि कथञ्चित्सम्भविष्यति, ज्ञानस्य तदाकारत्वात् । ततोऽनुमानादा कर्तृत्वमेवात्मनः, प्रत्यक्ष तु विषयस्य ज्ञानजनकतया कर्मकारकत्वं ततो विरोधस्तदवस्थ इति तत्राह-न वैषम्यमिति । इह प्रत्यक्षस्थलेऽपि उपाधिभेदाद् द्वयोः कर्मकोंर्भिदाऽस्ति, ततो न वैषम्यमिति योजना। अन्तःकरणविशिष्टतयैवात्मनः प्रत्यभिज्ञातृत्वम्, पूर्वापरकालविशिष्टतया च प्रत्यभिज्ञेयत्वम्, इत्युपाधिभेदेन विरोधाभावाद्युक्तमेवोक्तम्-यत्संविदो नित्यत्वं प्रत्यभिज्ञानादित्यर्थः। तथा च स्वप्रकाशस्याऽद्वितीयस्य नित्यस्य संविद्रूपस्य विज्ञानस्य साक्षिणः स्वीकारान्नास्मन्मतं विज्ञानवादिमतं कटाक्षेणापि वीक्षितुं क्षमते इति भावः ॥ १२६ ॥
न संविद्विषयौ तत्राऽभिन्नौ वैरूप्यताश्रयौ। प्रत्यक्त्वादनुवृत्तत्वात् संविन्नित्या चिदद्वया ॥१२॥ पराक्त्वाद् विषया भिन्ना व्यावृत्ताश्चेति तद्भिदा।
एवं संविदा नित्यत्वं प्रसाध्य विषयसंविदोर्भेदमाह-नेति । वैरूप्यताश्रयावित्युक्तं तद्विवृणोति-प्रत्यक्त्वादिति। अस्मत्प्रत्ययगोचरतया सर्वान्तरत्वेन च विषयविरुद्धस्वभावत्वेन च संविदः प्रत्यक्त्वं तस्मा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #252
--------------------------------------------------------------------------
________________
२२०
प्रत्यक्तत्वचिन्तामा दनुवृत्तत्वाच्च घटसंवित, पटसंविदित्येकाकारेण परस्परव्यभिचारवत्सु अनुगतत्वात, नित्यत्वात्, चिद्रूपत्वात्, अद्वितीयत्वाच्च संविद्विषयेभ्यो भिन्नेत्यर्थः। ततो विरुद्धस्वभावत्वं विषयाणामित्याह-पराक्वादिति । युष्मत्प्रत्ययगोचरत्वात्, पहिःस्थत्वात्, जडत्वाच्च विषया भिन्नाः संविदः सकाशादिति शेषः। व्यावृत्ताः परस्पराननुगतत्वाद् व्यभिचारिण इत्यर्थः । इति तद्भिदा तयोः संविद्विषययोभिदा भेदो युक्तिसिद्ध इति सार्द्धस्य योजना ॥ १२७ ॥
तदेवं चित्यहङ्काराद्यध्यासेऽपि न मन्यते। मतान्तरस्य साङ्कर्यमिति सिद्धमबाधितम् ॥१२८॥
तथा सति कथं विज्ञानमतप्रवेश इति फलितमुपसंहरति-तदेवमिति । चिति चैतन्येऽहङ्कारादीनां कल्पितत्वेऽपि मन्मते मतान्तरस्य साङ्कर्य नास्तीति सिद्धमिति योजना ॥ १२८ ॥
तथा चोपाधिभेदेन प्रमात्रादिभिदा चितेः। तेनैव व्यवहारस्य सिद्धिरस्ति न वस्तुतः ॥१२८॥ परमप्रकृतमुपसंहरति-तथा चेति ।। १२ । घटादिविषयाणां हि प्रत्यक्षमपि चिद्वपुः। जातं नष्टमिति ज्ञानं वृत्तिरेव न तञ्चितिः॥१३०॥
ननु संविच्छब्देन चिद्रूपं ज्ञानमुच्यते ? उत वृत्तिरूपम् ? नाद्यः, तस्याऽजन्यस्य नित्यत्वान्नित्यमेव घटादिस्फुरणापत्तेः । न द्वितीयः, वृत्तेर्जडत्वाज्ज्ञानत्वानुपपत्तेरित्याशक्याह-घटादीति । घटादि. विषयाणां प्रत्यक्षप्रमाचैतन्यमेव, “यत्साक्षादपरोक्षाद् ब्रह्म' (बृ० ३ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #253
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
४ । १ ) इति श्रुतेः । तर्हि प्रत्यक्षप्रमाणरूपकरणजन्यत्वादनित्यत्वापत्तिरित्यत श्राह -- जातमिति । घटज्ञानं जातं नष्टचेति ज्ञानं वृत्तिरेव, तस्या एव जन्यत्वात् । न तज्ज्ञानं चितिश्चैतन्यम्, तस्या नित्यत्वेनाजन्यत्वादित्यर्थः ॥ १३० ॥
चितोऽभिव्यञ्जिका वृत्तिः स्वसामय्या प्रजायते । तद्विशिष्टा चिदप्यादिमतीवेति न वस्तुतः ॥१३१॥
२२१
ननु चचुरादेः करणत्वं प्रत्यक्षप्रमां प्रत्येव वक्तव्यम्, सा च प्रमा चैतन्यमेव तस्यानादित्वेनाऽजन्यत्वात् तथा च चैतन्यरूपप्रमाया नित्यसिद्धतया कथं चक्षुरादेस्तत्करणत्वेन प्रमाणत्वम् ? इत्याशङ्क्याह - चित इति । चैतन्यस्याऽनादित्वेऽपि तदभिव्यञ्जकान्तःकरणवृत्तिरिन्द्रियसन्निकर्षादिसामग्र्या प्रजायते इति तद्विशिष्टा चित् वृत्त्यवच्छिन्नं चैतन्यमपि प्रादिमदिवाच्यते, न तु वस्तुतस्तस्या आदिमत्त्वम् । तथा च चैतन्याभिव्यञ्जकवृत्तिजनकतया चचुरादेस्तत्करणत्वं युज्यते इत्यर्थः ।। १३१ ।।
7
ज्ञानावच्छेदकत्वात्तज्ज्ञानत्वमुपचर्यते । वृत्तौ साक्षान सा वृत्तिज्ञानं तस्या जडत्वतः ॥ १३२॥
ननु वृत्तिरेव ज्ञानं किन्न स्यात् ? तथा च तस्या एव प्रमात्वम्, कृतं चैतन्यस्य प्रमात्वकल्पनयेत्यत आह — ज्ञानेति । ज्ञानावच्छेदकत्वात्तस्य चिद्रूपस्यात्मना मुख्यं ज्ञानत्वं वृत्तावुपचर्यते, न साक्षात् IT वृत्तिरवच्छेकरूपा ज्ञानमित्यर्थः । कुत इत्यत आह-तम्या जडत्व इति । तथा च चैतन्यमेव मुख्यं ज्ञानं वृत्तौ तदवच्छेदकत्वाद् ज्ञानत्वोपचार इत्यर्थः ॥ १३२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #254
--------------------------------------------------------------------------
________________
२२२
प्रत्यक्तत्त्वचिन्तामणी वृत्तिज्ञानं मनोधर्मस्तथा कामादयः श्रुतेः। तदैक्याध्यासतश्चिद्गा भान्त्ययो दहतीतिवत्॥१३३॥
वृत्तिरूपज्ञानस्य मनोधर्मत्वं श्रुतिसिद्धमित्याह-वृत्तीति । 'कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्धा टरित्येतत्सर्व मन एव' ( पृ० १ । ५ । ३) इति श्रुतेः धीशब्दवाच्यस्य वृत्त्यात्मकज्ञानस्य कामादीनाञ्च मनोधर्मत्वम् । ननु कामादीनामहमित्या. द्यनुभवेनात्मधर्मत्वं किन्न स्यादिति तत्राह-तदैक्याध्यासत इति । तेनान्त:करणेनैकाध्यासादेवात्मनस्तद्धर्मा अपि कामादयश्चिद्गाश्चैतन्यनिष्ठतयाऽवभासन्ते । तत्र दृष्टान्तमाह-प्रय इति । अय:पिण्डस्य दग्धृत्वाभावेऽपि दग्धृत्वाश्रयवह्नितादात्म्याध्यासाद् यथा अयो दहतीति व्यवहारः, तथाऽऽत्मचैतन्यस्य सुखाद्याकारपरिणाम्यन्त:करणैक्याध्यासाद् 'अहं सुखी' इच्छामि, इत्यादिव्यवहारः, न तु वस्तुतः, तस्य निर्धर्मकत्वादित्यर्थः ॥ १३३ ॥
अतो निर्धर्मकत्वेऽपि व्यवहारस्थले चितः । प्रमातृत्वादयो धा स्वाविद्याकल्पिता अमी॥१३४
ननु निर्धर्मकस्यात्मनः कथं प्रमातृत्वादयो धर्माः प्रतीयन्ते ? न च तेऽप्यन्तःकरणस्य स्युरिति वाच्यम् , तस्य जडत्वात्प्रमातृत्वाद्यनुपपत्तेरित्याशक्याह-अत इति। यतश्चैतन्यस्याऽन्तःकरणेनैक्याध्यासात्तद्धांध्यासः, अतस्तस्य निर्धर्मकत्वेऽपि स्वाविद्याकल्पिता अमी सर्वलोकप्रसिद्धाः प्रमातृत्वादयो धस्तिदन्तःकरणैक्याध्यासादेव व्यवहारस्थले चितश्चैतन्यस्याऽवभासन्ते इत्यर्थः ॥ १३४ ॥
यावदज्ञानमेते स्युर्व्यवहारे ह्यबाधिताः। तथाऽध्यक्षादिमानानि तदुक्तं साम्प्रदायिकैः॥१३५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #255
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम्।
२२३ न चाऽऽविद्यकत्वादेतेषां प्रमातृत्वादीनां शुक्तिरजतादिवत्कथं प्रामाणिकव्यवहारसाधकत्वम् ? नहि मृगतृष्णाम्भसि स्नानादि. प्रामाणिकव्यवहारसिद्धिरित्याशक्याह-यावदिति । एते प्रसिद्धाः प्रमातृत्वादयो व्यवहारे ज्ञानपरिकल्पिते यावदज्ञानमज्ञानपर्यन्तमबाधिता अर्थक्रियासमर्थाः सन्ति । हीति लोकप्रसिद्धम् । भ्रान्तकाले भ्रान्तकार्यस्यार्थक्रियासमर्थलक्षणमबाधितत्वं स्वप्नादा दृष्टत्वात् नाऽनुपपन्नमिति भावः । तथैवाऽध्यक्षादिप्रमाणान्यपि अर्थक्रियासमर्थानि भवन्ति । न चैतत्स्वकपोलकल्पितमिति शक्यम्। साम्प्रदायिकत्वादित्याह-तदुक्तमिति । उक्तघटादिज्ञानप्रामाण्यमभियुक्तत्वेन प्रसिद्धरेतदेव साम्प्रदायिकैरप्युक्तमित्यर्थः ॥ १३५ ।।
देहात्मप्रत्ययो यद्वत्ममाणत्वेन कल्पितः। लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात् ॥१३६॥
साम्प्रदायिकवचनमेवोदाहरति-देहात्मेति। यथा देहात्मत्व. प्रत्ययः कल्पिता भ्रमोऽपि व्यवहाराङ्गतया प्रमाणत्वेनेष्यते वैदिकैः, तद्वल्लौकिकमध्यक्षादिकमात्मबोधावधिकव्यवहारकाले बाधाभावाद् व्यावहारिकं प्रमाणमिष्यताम् । वेदान्तानान्तु कालत्रयाबाध्यवस्तुबोधित्वात्तत्त्वावेदकप्रामाण्यमिति तु शब्दार्थः । आत्मनिश्चयाब्रह्मसाक्षाकारपर्यन्तमित्यर्थः । लौकिकमिति घटादिज्ञानमित्यर्थः ॥ १३६ ॥
घटादीनामुपाधीनां भेदेनैव चितो भिदा। उपाधीनां लये तस्माच्चैतन्यमवशिष्यते ॥१३॥
चैतन्यस्यैक्येऽपि विषयाशुपाधिभेदेनैव भेदो लौकिकव्यवहारविषयो ब्रह्मबोधे उपाधीनां बाधाच्चैतन्यमेवावशिष्यते इत्याह-घटादीनामिति ॥ १३७ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #256
--------------------------------------------------------------------------
________________
प्रत्यक्तस्त्वचिन्तामया
अतः औपाधिका भेदो यत्र याति लयं चितः । तत्राऽपरोक्षविज्ञानं जायते लौकिके स्फुटम् ॥ १३८ ॥
२२४
यत उपाधिकृतभेदविलये चैतन्यावशेषस्तस्माल्लौकिक घटादिज्ञानमपि तद्भेदविलये एव सिद्धातीत्याह त इति । यत्र घटादिविषये चितश्चैतन्यस्योपाधिको भेदा विलयं प्राप्नोति, तत्र घटादिविषयेऽपक्षज्ञानं लौकिके लोकव्यवहारेऽत एव जायते इति योजना || १३८ ॥
उपाध्यारेकदिकस्यत्वे योग्यत्वे सति चेष्यते । तथैककालिकत्वस्योपहिताऽभेदहेतुता ॥ १३८ ॥
-
नूपाधीनां विद्यमानदशायां कथं तदुपहितस्य चैतन्यस्याभेदः ! तत्राह — उपाध्योरिति । विभाजकयोरप्यन्तः करणवृत्तिघटादि विषययेोरेकदेशस्थत्वे सति, योग्यत्वे च सति, एककालिकत्वस्योपहिताभेदे हेतुत्वमिति योजना | पूर्वानुभूतसुखादिस्मृतावतिव्याप्तिवारया कालिकत्वमिति विशेषणम् । धर्मादावतिव्याप्तिवारणाय
योग्यत्वे इत्युक्तम् । तथा च तत्तदिन्द्रिययोग्य वर्त्तमान विषयावच्छिन्नचैतन्याभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् । एवोपहिताभेद एव सिद्धः सन् सर्वत्र ज्ञानज्ञेयादिव्यवहार हेतुरिति भावः ॥ १३६ ॥
ज्ञानस्येन्द्रियजन्यत्वं न साक्षात्वे प्रयोजकम् । ईशज्ञानस्य साक्षारवानापत्तेरजनेरपि ॥ १४० ॥
अत इन्द्रियजन्यत्वं न ज्ञानस्य लाक्षात्त्वे प्रयोजकमित्याहज्ञानस्येति । प्रजनेरिन्द्रियाद्यजन्यस्य नित्यस्येत्यर्थः ॥ १४० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #257
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
२२५ घटोऽयमिति चाऽध्यक्ष प्रमाणचित इष्यते। घटावच्छिन्नचैतन्याभेद एव प्रयोजकम् ॥१४१॥
तर्हि ज्ञानगतस्य प्रत्यक्षत्वस्य किं प्रयोजकमित्याकाङ्क्षायामाह-घट इति। प्रमाणचैतन्यस्य घटावच्छिन्नचैतन्याभेद एव घटोs. यमिति प्रत्यक्षे प्रयोजकमिष्यते इति योजना। योग्यविषयावच्छिन्नचैतन्यामिन्नत्वं प्रमाण चैतन्यस्य ज्ञानगतप्रत्यक्षत्वस्य प्रयोजकमित्यर्थः ॥ १४१ ॥
अतः प्रमात्रभिन्नत्वं प्रत्यक्षत्वं घटादिषु । मातृसत्ताऽतिरिक्ता नो सत्ताऽध्यस्तघटादिषु॥१४२॥
विषयगतस्य प्रत्यक्षत्वस्य प्रयोजकमाह-अत इति । यतश्चैतन्याभेद एव सर्वत्र ज्ञानादिव्यवहारे प्रयोजकम् , अतः प्रमातृचैत-. न्यामिन्नत्वं घटादिषु प्रत्यक्षत्वम् । ननु कथं घटादेरन्तःकरणावच्छिन्नचैतन्याभेदः ? 'अहमिमं पश्यामि' इति भेदानुभवविरोधादिति तत्राह-मातृसत्तेति। प्रमात्रभेदो नाम न तावदैक्यं किन्तु प्रमातृसत्तातिरिक्तसत्ताकत्वाभावः । तथा च अध्यस्तघटादिषु प्रमातृसत्तातिरिक्तसत्तैव नास्तीत्यर्थः ॥ १४२ ॥
स्वावच्छिन्नचिदध्यस्ततया कुम्भादिवस्तुनः। न ततो भिन्नसत्ताऽस्ति तथाऽनङ्गीकृतेरपि ॥१४३॥
एतदेव विवृणोति-स्वावच्छिन्नेति। घटाद्यवच्छिन्नचैतन्येऽध्यस्तत्वेन कुम्भादिवस्तुनस्ततः स्वावच्छिन्नचैतन्याद्भिन्ना सत्ता नास्ति । कुत इत्यत आह-तथाऽनङ्गोकतेरिति। अध्यस्तस्याऽधिष्ठानातिरितत्वानङ्गीकारादित्यर्थः ॥१४३ ॥
२६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #258
--------------------------------------------------------------------------
________________
२२६
प्रत्यक्तत्त्वचिन्तामणौ न वा विषयचैतन्यं प्रमातुर्भिद्यते चितः। उपाध्यारेकदिक्स्थत्वे का भेदं तत्र कल्पयेत्॥१४४॥ अतो घटायधिष्ठानतया सत्तात्मनश्चितः। घटादिसत्ता नान्येति सिद्धा तदपरोक्षता ॥ १४५ ॥
ननु घटाद्यवच्छिन्नब्रह्मचैतन्ये घटादेरध्यासात्तेन तस्याऽभेदोऽस्तु, न तु प्रमातृचैतन्येन तस्यान्त:करणावच्छिन्नतया ततो भेदादित्याशङ्क्याह-न वेति। विषयचैतन्यं पूर्वोक्तप्रकारेण न प्रमातृचैतन्याद्वि. लक्षणम्, किन्तु प्रमातृचैतन्यमेव। उपाध्योर्विभाजकयोरन्त:करणघटयोरेकदेशस्थत्वे तत्रोपहितचैतन्ययोर्विषयप्रमातृचैतन्ययो. मेंदं कः कल्पयेत् ? इति प्रमातृचैतन्यस्यैव घटाद्यधिष्ठानतया प्रमातृसत्तैव घटादिसत्ता नान्या, अधिष्ठानसत्तातिरिक्ताया आरोपितसत्ताया अनङ्गोकारादिति सिद्धं घटादेरपरोक्षत्वमिति द्वयोरन्वयः ॥ १४४-१४५ ॥
वृत्तेर्निर्गमनाभावादनुमित्यादिकस्थले। भेदकोपाधिसद्भावान्न तथात्वमपीरितम् ॥ १४६ ॥ ननु “पर्वतो वह्निमान्" इत्यादावपि वादेः प्रमातृसत्तातिरिक्तसत्ताकत्वाभावरूपलक्षणस्य सत्त्वात् प्रत्यतत्वापत्तिरित्याशक्य तत्रान्त:करणस्य वनादिदेशनिर्गमाभावेन वह्नावच्छिन्नचैतन्यस्य प्रमातृचैतन्यस्यानात्मकतया वह्ननादिसत्ता प्रमातृसत्तातो भिन्नेति नाऽतिव्याप्तिरित्याह-वृत्तेरिति ॥ १४६ ।।
वृत्तौ वृत्त्यन्तराभावेऽप्यस्ति लक्षणमक्षतम् । प्रमातचितिसत्तातोऽभिन्नसत्ताकतात्मकम् ॥१४७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #259
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
२२७ ननु वृत्तिविषयवृत्त्यन्तरानङ्गोकारेण तत्र स्वाकारवृत्त्युपहितत्वाभावादव्याप्तिरित्याशङ्क्याह-वृत्ताविति। अनवस्थाभिया वृत्तिगोचरवृत्त्यन्तरानङ्गीकारेऽपि वृत्तेः स्वविषयत्वाभ्युपगमेन स्वविषयवृत्त्युपहितप्रमातृचैतन्याभिन्नसत्ताकत्वस्य तत्रापि भावान्नाऽव्याप्तिरित्यर्थः॥१४७॥
तथान्तःकरणस्यापि तद्धर्माणाञ्च लक्ष्यता। तत्तदाकारवृत्तेः स्वीकारादेव भवेत्तथा ॥ १४॥
एवञ्चोक्तलक्षणस्य सर्वत्र सत्त्वान्नाऽव्याप्तिरित्याह-तथेति । अन्तःकरणस्य धर्मिणस्वस्य धर्मा ये कामादयस्तेषाञ्चास्मिन् लक्षणे लक्ष्यत्वमस्त्येव, कुतः ? इत्यत आह-तत्तदिति । सुगममन्यत् ॥ १४८॥
नहि वृत्ति विना साक्षिविषयत्वं मतञ्च नः । साक्षिमात्रैकवेद्यत्वं किन्त्वस्त्यन्यानपेक्षितम्॥१४८॥
यदिन्द्रियानुमानादिमानव्यापारमन्तरा। साक्षिमात्रैकवेद्यत्वं साक्षिगोचरताऽस्ति सा॥१५०॥
नन्वन्तःकरणतद्धर्मादीनां वृत्तिविषयत्वाभ्युपगमे केवलसाक्षिविषयत्वाभ्युपगमविरोधः स्यादिति तत्राह-नहीति। किन्त्विन्द्रियानुमानादिप्रमाणव्यापारमन्तरेण साक्षिविषयत्वं केवलासाक्षिवेद्यत्वमिति द्वयोर्योजना ॥ १४६-१५० ॥
अतोऽहङ्कारटीकायामाचारहमाकृतिः। अन्तःकरणवृत्तिः स्वीकृता साक्ष्यवभासने ॥१५१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #260
--------------------------------------------------------------------------
________________
२२८
प्रत्यक्तत्त्वचिन्तामणौ नेदं स्वकपोलकल्पितमिति पञ्चपाद्याः सम्मतिमाह-अत इति । यतोऽन्तःकरणादिवृत्तिविषयत्वाङ्गीकारेऽभ्युपगमाविरोधः, अतोऽहङ्कारटीकायामहंवृत्त्यवच्छिन्नमेवान्तःकरणं चैतन्यस्य विषयभावमापद्यते इत्यहङ्कारटीकाविवरणे इत्यर्थः। प्राचाय्यविवरणाचायरहमाकारान्तःकरणवृत्तिः स्वीकृता साक्षिवेद्यत्वविषये इत्यर्थः ॥१५१।।
अत एव मृषारूप्यस्थलेऽस्मत्साम्प्रदायिकैः । स्वीकृता रजताकाराऽविद्यावृत्तिम॑षात्मिका॥१५२॥
यथोक्तसाक्षिवेद्यत्वे साम्प्रदायिकत्वं दर्शयति-अत एवेति । प्रमाणव्यापारानपेक्षसातिविषयत्वादेव प्रातिभासिकरजतस्थले रजताकाराऽविद्यावृत्तिरनिर्वाच्या साम्प्रदायिकैरङ्गीकृता। तदङ्गोकारस्तु स्वगोचरवृत्त्युपहितचैतन्यभिन्नसत्वाकत्वाभावस्य विषयापरोक्षत्वसिद्धये। न च वृत्तिद्वयाङ्गीकारे गुरुमतप्रवेशः, वृत्तिद्वयप्रतिबिम्बितचैतन्यस्यैकस्य सत्यमिथ्यातादात्म्यावगाहित्वेन भ्रमत्वस्वीकारादिति तात्पर्य्यार्थः ।। १५२ ॥
तस्मात्स्वाध्यस्तमेवेदं विश्वं चितिरखण्डिता। मातृमानादिरूपेण साऽवभासयति स्वयम् ॥१५॥
ततः किमित्यत आह-तस्मादिति । यतो व्यावहारिके प्रातिभासिके च स्थलेऽवभास कत्वं चैतन्यस्यैव, तस्मात्स्वस्मिंश्चैतन्येऽध्यस्तं विश्वं कार्यकारणरूपमिदं प्रत्यक्षादिगोचरं साक्षिगोचरञ्च सा स्वप्रकाशतया श्रुतिस्मृतिविद्वदनुभवप्रसिद्धाऽखण्डिता चितिरखण्डचैतन्यब्रह्माभिधा संविद् मातृमानादिरूपेणावभासयति। स्वयं त्वतदुपहितत्वेन भासमानापि निरपेक्षतया प्रकाशयतीत्यर्थः ॥ १५३ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #261
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
२२६ ज्ञानावच्छेदिका वृत्तिस्तदभिव्यञ्चिका मता। तज्जनौ सन्निकर्षाणां योग्यानां विनियोगतः॥१५४॥
न चान्तःकरणवृत्तीनां विषयप्रकाशकत्वम्, जडत्वात्; किन्तु तदवच्छेदकत्वात् तदभिव्यजकमात्रेण तत्र ज्ञानत्वव्यवहार इत्याह-ज्ञानेति। तज्जनौ ज्ञानावच्छेदकवृत्त्युत्पत्तौ योग्यानां यथोचितानां सन्निकर्षाणां विनियोगतः “सार्वविभक्तिकस्तसिः” उपयोग इत्यर्थः ॥ १५४ ॥
तेऽपि संयोगसंयुक्ततादात्म्यप्रमुखा मताः। चितोऽभिव्यञ्जकात्पत्तौ विनियुक्तायथायथम् ॥१५॥
नन्विन्द्रियस्य तत्सन्निकर्षस्य च भवन्मते वैयर्थ्य चैतन्यरूपस्य घटादिज्ञानस्येन्द्रियसन्निकर्षाजन्यत्वादित्याशक्य तयोवृत्तिजनने विनियोगान्न वैयर्थ्यमित्युक्तमपि पुनस्तत्स्वरूपकथनेन द्रढयति-तेऽपीति । एवं घटादेः प्रत्यक्षत्वे संयोगसंयुक्ततादात्म्यसंयुक्ताभिन्नतादात्म्यानामिन्द्रियस्य च घटतद्गतरूपतद्धर्मरूपत्वाद्यवच्छिन्नचैतन्याभिव्यञ्जकवृत्तिजनने यथायोग्यं विनियोग इत्यर्थः ॥ १५५॥
सा च वृत्तिश्चतुर्धा स्यात संशयादिविभेदतः। मनोबुद्ध्यादिभेदेन वृत्तिमत्तच्चतुर्विधम् ॥ १५६ ॥
नन्वेवमपि चैतन्यस्यैव ज्ञानत्वात्तत्तत्सन्निकर्षस्य तत्रानुपयोगस्तदवस्थ इत्याशक्य यथैकमप्यन्तःकरणं चतुर्विधवृत्त्यवच्छिन्नं चतुर्विधमित्युच्यते, एवमजन्यमपि चैतन्यमिन्द्रियसन्निकर्षजन्यवृत्त्यवच्छिन्नं तज्जन्यमित्याशयेनाह-सा चेति । यद्यपि वृत्तिविशिष्टचैतन्यमादिमदित्यत्र विशिष्टचैतन्यस्येन्द्रियसन्निकर्षजन्यत्वमुक्तमेव, तथापि तस्यैव दृष्टान्तमुखेनाऽत्रोपादानान्न पौनरुक्ताम्; अन्यथा यथाश्रुते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #262
--------------------------------------------------------------------------
________________
२३०
प्रत्यक्तत्त्वचिन्तामणौ प्रत्यक्षनिरूपणप्रस्तावेऽन्तःकरणचातुर्विध्यनिरूपणमसङ्गतं तात्पर्य्य द्रष्टव्यम् ।। १५६ ॥
स्यादिति
मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे ॥१५७॥
उक्तेऽर्थेऽभियुक्तवचनं दर्शयति-मन इति ॥ १५७ ॥
तचाऽध्यक्षं द्विधा तत्र सविकल्पादिभेदतः। सविकल्पन्तु वैशिष्ट्यावगाहि ज्ञानमुच्यते ॥१५॥
एवं विषयप्रत्यक्षत्वे प्रयोजकान्तरनिरूपणात् तव्यावृत्तमपि ज्ञानस्य प्रत्यक्षत्वप्रयोजकं निर्दुष्टमित्युक्तम् , इदानीं तद्विभजते-तच्चेति। सकलवादिसम्मतत्वेन सर्वव्यवहारहेतुत्वेन प्रथमोद्दिष्टं सविकल्पकं प्रथमं निरूपयति-तत्र सविकल्पन्त्विति । तयोर्मध्ये वैशिष्टयावगाहीति न तु विशेषणज्ञानजन्यत्वमित्यर्थः । तजन्यत्वस्य प्रमाणाभावेनानभ्युपगमात् । वैशिष्टयावगाहित्वमिच्छादावप्यत आह-ज्ञानमिति । ज्ञानत्वञ्च निर्विकल्पकेऽप्यस्तोत्यत उक्तम्-वैशिष्टयावगाहीति ।। १५८ ॥
निर्विकल्पं हि संसर्गानवगाहि तदुच्यते। घटं वेमोति तत्राद्यं सोऽयमित्यादिचान्तिमम्॥१५॥
एवं तत्त्वमसीत्यादिवाक्यजन्यं भ्रमापहम् । स्यानिर्विकल्पकं ज्ञानं जीवब्रह्मक्यगोचरम् ॥१६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #263
--------------------------------------------------------------------------
________________
पश्चमं प्रकरणम् ।
२३१ निर्विकल्पकं लक्षयति-संसर्गाऽनवगाहीति । निर्विकल्पकलक्षणे उदाहरणाभावमाशङ्क्य लोकवेदयोः प्रत्यक्षसिद्धं तदित्याह-सोऽय. मिति । ननु सोऽयं देवदत्त इत्यैक्यप्रत्यभिज्ञयैव वाक्यप्रयोगाद्देशकालोपलक्षितदेवदत्तलक्षणाभेद विषयमिन्द्रियजन्यमप्यस्ति प्रत्यक्षम्, कथं शाब्दमेवादाहृतम् ? इति चेत्, सत्यम् ; अभेदविषयज्ञानमिन्द्रियजन्यमिति, तथापि न तनिर्विकल्पकम, सन्निकर्षवशादुपलक्षणदेशकालादेरपि भानसम्भवात् । शाब्दे ज्ञाने तु तात्पर्य्यविषयस्यैव भाननियमादभेदमात्रविषयत्वमित्यता निर्विकल्पकमिति भावः । प्रादिपदात् प्रकृष्टप्रकाशश्चन्द्र इति वाक्यजन्यज्ञानं ग्राह्यम् । अखण्डार्थविषयकं ज्ञानं निर्विकल्पकमित्याह-एवमिति। यथा सोऽयं देवदत्त इति वाक्यजन्यज्ञानस्य सन्निकृष्टविषयतया बहिनिःसृतान्तःकरणवृत्त्यभ्युपगमेन देवदत्तावच्छिन्न चैतन्यस्य प्रमातृवृत्त्यवच्छिन्नचैतन्यस्य चाऽभिन्नतया प्रत्यक्षत्वम्, एवं तत्त्वमसीति वाक्यजन्यज्ञानस्यापि; तत्र प्रमातुर्विषयतया तदुभयाभेदस्य सत्त्वादिति द्वयोस्तापार्थः ॥ १५६-१६० ॥
तत्र प्रमातुरेवास्य विषयत्वेन साक्षिणः । उभयोरप्यभेदस्य सत्त्वादैक्यममा भवेत् ॥ १६१ ॥ न तन्वं वाक्यजज्ञानविषयत्वे पदार्थगः। संसर्गः किन्तु तात्पर्यविषयत्वं प्रयोजकम् ॥ १६२॥
ननु वाक्यजन्यज्ञानस्य पदार्थसंसर्गावगाहितया कथं निर्विकल्पत्वम् ? इत्याशक्याह-नेति । वाक्यजन्यज्ञानविषयत्वे हि न पदार्थसंसर्गत्वं तन्त्रम्, अनभिमतसंसर्गस्यापि वाक्यजन्यज्ञानविषयत्वापत्तेः। तथा हि-भोजनप्रकरणे 'सैन्धवमानय' इत्यत्राऽनभिमतस्याऽश्वादिसंसर्गस्य, 'यष्टीः प्रवेशय' इत्यत्र दण्डसंसर्गस्य च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #264
--------------------------------------------------------------------------
________________
२३२
प्रत्यक्तत्त्वचिन्तामणौ शक्यजन्यज्ञानविषयत्वापत्तिः स्यादिति, किन्तु तात्पर्य विषयत्वं प्रयोजकमित्यर्थः ॥ १६१-१६२ ॥
प्रकृते च सदेवेत्याद्युपक्रम्योपसंहृतम् । तत्सत्यमिति वेदान्ते लिङ्गं तात्पर्यनिर्णये ॥१६३॥ उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्य्यनिर्णये ॥१६४ ॥
अद्वितीयब्रह्मण एव तात्पर्य्यविषयत्वम, वेदस्यापौरुषेयत्वेऽपि तात्पय॑निर्णायकषड्विधलिङ्गसत्त्वादित्याह-प्रकृते चेति द्वाभ्याम् । अद्वितीयं ब्रह्म वाक्यार्थ: "सदेव सोम्येदमग्र प्रासीदेकमेवाद्वितीयम्" (छा०६।२ । २) इत्युपक्रान्तस्य "ऐतदात्म्यमिदं सर्व तत्सत्यं स मात्मा तत्त्वमसि श्वेतकेतो" (छा० ६ । ७ । ४) इति तेनैकरूपेणोपसंहृत्य “ऐतदात्म्यमिदं सर्व तत्सत्यं स प्रात्मा तत्त्वमसि' (छा०६। ८, ९, १०, ११, १२, १३, १४, १५, १६) इति नवकृत्वोऽभ्यस्तस्य प्रमाणान्तरानवगतस्य "येनाश्रुतं श्रुतं भवति" (छा०६। १ । ३) इत्यादिवाक्यात्प्ररोचितस्य मृल्लोहतप्तपरशुग्रहणादिदृष्टान्तैरद्वितीयत्वेनोपपादितस्य ब्रह्मणो ज्ञानाद् "प्राचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्ये' (छा० ६ । १४ । २) इत्याचार्योपदेशजनितानिर्विचिकित्साद् निरतिशयानन्दलक्षणमोक्षफलस्यावगतेस्तस्यैव तात्पर्य्यविषयत्वादिति तात्पर्य्यार्थः। तस्मादुपक्रमादेस्तात्पर्यग्राहकत्वाभ्युपगमात् सिद्धं सत्याद्यवान्तरवाक्यजन्यस्य "तत्त्वमसि" (छा०६।८।७) "अयमात्मा ब्रह्म' (बृ० २ । ५। १६) "अहं ब्रह्मास्मि' (बृ० १ । ४ । १०) इत्यादि महावाक्य जन्यस्य च ज्ञानस्य निर्विकल्पकत्वमिति भावः ॥ १६३-१६४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #265
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
२३३ तत्त्वमस्यादिवाक्यानामखण्डार्थत्वमित्यदः। संसगसिङ्गिसम्यग्धीजनकत्वं यदेव तत् ॥ १६५॥
इदानीमखण्डार्थत्वप्रसिद्धिरपि निर्विकल्पकहेतुत्वेन प्रमाणमित्याह-तत्त्वमिति । यत्पदार्थसंसर्गानवगाहियथार्थज्ञानजनकत्वमिदमेव तत्त्वमस्यादिवाक्यानामखण्डार्थत्वम् । न तु निर्भदवस्तु. परत्वम् , तस्य भेदाभावविशिष्टवस्तुपरत्वस्य निर्घटभूतल मित्या दिवाक्यसाधारण्यात्; प्रकृते तदभावाच्च । नचाऽन्यदखण्डार्थत्वम् , तस्याऽनिर्वचनादिति भावः । राजपुरुष इत्यादा संसर्गपरे वाक्येऽतिव्याप्तिवारणायोक्तम्-संसर्गानवगाहीति। तत्रैवाऽभेदतात्पर्यभ्रमात् पदार्थसंसर्गानवगाहितदभेदभ्रमजनके तत्प्रसङ्गवारणाय यथार्थेति द्रष्टव्यम् ।। १६५ ॥
संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा तत्मातिपदिकार्थता ॥१६६॥
उक्तेऽर्थे चित्सुखाचार्यसम्मतिमाह-संसर्गेति । या संसर्गासङ्गिसम्यग्धीहेतुता, इयमखण्डार्थता उक्तति सम्बन्धः । लक्ष्य निर्दिशति-गिरामिति । कार्यकारणभावरहितद्रव्यविषयसमानाधिकरणापर्यायशब्दानामित्यर्थः । प्रातिपदिकार्थमात्रपरत्वमखण्डार्थत्वं वेत्यर्थः । यस्य वाक्यस्य यत्प्रातिपदिकार्थमात्रपरत्वं तस्य तत्राऽ. खण्डार्थत्वम् , अतो नान्यत्र तत्प्रसङ्गः। तत्पदघटितलक्षणाभिप्रायं तद्ग्रहणमिति द्रष्टव्यम् ॥ १६६ ॥
जीवसाक्षीशसाक्ष्येतत्प्रत्यक्षं द्विविधं पुनः । जीवश्चिद् बुद्ध्यवच्छिन्ना तत्साक्ष्युपहिताऽमुया१६७ ३०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #266
--------------------------------------------------------------------------
________________
२३४
प्रत्यक्तत्वचिन्तामणी __एवं सविकल्पकनिर्विकल्पकभेदाद् द्वैविध्येन निरूपितस्य प्रत्यक्षज्ञानस्य प्रकारान्तरेण द्वैविध्यमाह-जीवसाक्षीति । साक्षिपदं तज्जन्यपरम् । तथा च जीवसाक्षिजन्यमीश्वरसाक्षिजन्यमिति द्विविधमित्यर्थः । अत एव "साक्षिद्वैविध्यतः प्रोक्तं प्रत्यक्ष द्विविधं यतः" इत्युतरग्रन्थोऽपि सङ्गच्छते। न च सविकल्पकादिभेदेन, प्रत्यक्षज्ञाननिरूपणानन्तरं साक्षिज्ञानद्वैविध्यनिरूपणाधीनत्वादिति तन्निरूपयति-जीव इति । यद्यपि जीवस्वरूपं षष्ठे निरूपयिष्यते इति नेह तन्निरूपणं युक्तम् , तथापि जीवतत्साक्षिणार्भेदं निरूपयितु जीवस्वरूपकथनमित्यवधेयम् । तत्र जीवो नामाऽन्तःकरणावच्छिन्नं चैतन्यम् , तत्साक्षी तु अमुनाऽन्तःकरणेनोपहितं चैतन्यमित्यर्थः ।। १६७ ॥ विशेषणत्वोपाधित्वरूपेणाऽस्त्यनयोर्भिदा। जीवतत्साक्षिणोरन्तःकरणस्य द्वयोरपि ॥ १६॥ व्यावर्त्तकान्त:करणस्यैकत्वाजोवतत्साक्षिणार्भेदः किन्निबन्धनः ? इत्याशङ्क्याह-विशेषणत्वेति । विशेषणं कार्यान्वयि, अवच्छेद्यं यदन्वयि तदन्वयीति यावत् । तथा च कार्यान्वयित्वे सति व्यावर्त्तकत्वं विशेषणत्वं पर्यवस्यति । तेन घटपटी पश्यति देवदत्त इत्यत्र घटपटयोरेकदर्शनक्रियान्वयित्वेऽप्यव्यावर्त्तकत्वाद् न परस्परविशेषणत्वापत्तिरिति भावः । उपाधिश्च कार्यानन्वयी, व्यावतको वर्तमानश्च । यथा कर्णशष्कुल्यवच्छिन्न नभः श्रोत्रमित्यत्र कर्णशष्कुली उपाधिरित्यर्थः । रूपविशिष्टो घटो नित्य इत्यत्र रूपं विशेषणम् । तथा चान्तःकरणस्य विशेषणत्वरूपेण चैतन्यविषये प्रवेशे जीवत्वमुपाधित्वरूपेण तत्साक्षित्वमित्यनयोर्द्वयोर्भेद इत्यर्थः ॥ १६८ ।।
जडान्तःकरणस्याषभासकत्वाद्ययोगतः। जडभासकचैतन्योपाधित्वं स्वीकृतं ततः ॥ १६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #267
--------------------------------------------------------------------------
________________
पश्चमं प्रकरणम् ।
२३५
नन्वन्तःकरणस्यैव विषयावभासकत्वं किन्न स्यात् ? इत्याशङ्क्यान्तःकरणस्य जडतया विषयावभासकत्वायोगेन विषयावभासकचैतन्योपाधित्वमित्याह – जडेति । स्पष्टम् ।। १६८ ।
अन्तःकरणभेदेन जीवसाक्षी विभिद्यते । चैत्रेणाऽवगतं मैत्रो न वेत्तीति व्यवस्थथा ॥ १७० ॥
ननु जीवसाक्षिणो ब्रह्माभेदेन स्वप्रकाशत्वे तद्वदेव सर्वविषयानुसन्धातृत्वापत्तौ चैत्रावगते मैत्रस्याप्यनुसन्धातृत्वप्रसङ्ग इति चेत्, न किं चैत्रसाक्षिणो मैत्रावगत विषयानुसन्धातृत्वं स्वप्रकाशचैतन्याभेदादापायते ? सर्वगत्वादिविशिष्ट चैतन्याभेदाद्वा ! मैत्रोपहितचैतन्याभेदाद्वा ? न तावदाद्यः, तस्य निर्विकारत्वेन तदभेदस्य सर्वविषयानुसन्धानानापादकत्वात् । न द्वितीयः, अन्तःकर रहितस्य जीवसाक्षियः परमेश्वरेण मायाविशिष्टेन तदुपहितेन वाऽत्यन्ताभेदानभ्युचैत्रमैत्रान्तःकरणयोपगमात् । न तृतीय इत्याह- अन्तःकरणेति । भिन्नदेशस्थत्वेन तदुपहित चैतन्य येोरभेद शङ्कानवकाशादित्यर्थः ॥ १७० ॥
अविद्योपाधिको जीवसाक्ष्येक इति निर्णयः । कृतः पूर्वत्र सन्दर्भे तत्त्वैक्यप्रतिपत्तये ॥ १७१ ॥
ननु प्रथमप्रकरणे मद्दता प्रयत्नेन साक्ष्यैक्यं प्रसाध्येदानीं तन्नानाश्ववर्णने पूर्वापरविरोधः स्यादित्याशङ्क्याह — प्रविद्येति । अविद्योपाधेरेकत्वात् तदुपहिता जीवसाक्षी एक एवेति निर्णयस्तरवैक्यावबोधसिद्धये पूर्वत्र सन्दर्भे प्रथमप्रकरणे कृतः । तथा च तत्त्वज्ञानं यथा यथाऽधिकारिणामुत्पद्यते, तथा तथा प्रक्रियां निर्माय तत्वविद्भिर्यत्यते, न तु कस्याश्चित् प्रक्रियायामाग्रहस्तत्त्वविदाम् | तदुक्तम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #268
--------------------------------------------------------------------------
________________
२३६
प्रत्यक्तत्त्वचिन्तामा :: "यया यया भवेत् पुंसां व्युत्पत्ति: प्रत्यगात्मनि ।
सा सैव प्रक्रिया ज्ञेया साध्वीत्याचार्यभाषितम् ।" (वा०) इति ।
अतो न तत्त्वे विगानम्, अपि तु तद्बोधनप्रकारभेदो बोध्यपुरुषचित्तवैषम्यानुसारेणैव तत्र तत्र विद्वद्भिनिर्णीयते : मुख्यं श्रुतिम. तन्तु तत्त्वमद्वयं ब्रह्मैवेति भावः ॥ १७१ ।।
व्यवहारभिदामत्र बुद्ध्युपाधिकृताञ्चितः। स्वीकृत्य साक्षिभेदोक्तिन विरोधी मनागतः॥१७२॥
व्यवहारप्रयोजनकभेदमत्र प्रतिकर्मव्यवस्थास्थले चैतन्यस्य बुद्ध्युपाधिकृतमभ्युपगम्य साक्षिभेदोक्तिः, न तु वस्तुतः कश्चिदपि भेदलवो युक्तिपथमवतरतीति न पूर्वोत्तरविरोधो मनागपीत्यर्थः ॥ १७२ ॥
मायोपहितचैतन्यमीशमाक्षोति कथ्यते । एकत्वात्तदुपाधेश्च साक्षिणोऽप्यैक्यमेव हि ॥१७३॥
सर्वविश्वोपादानभूतमायाया अपि विशेषणत्वोपाधित्वाभ्यामी. शतत्साक्षिणोर्भेदहेतुत्वमस्तीत्याह-मायेति। तदुपाधरेकत्वान्न तत्सा. क्षिनानात्वमित्याह-एकत्वादिति । ईशसाक्षिण ऐक्यमेव । हीति श्रुतिस्मृतिन्यायप्रसिद्धियोतनार्थः ॥ १७३ ॥
मायान्तु प्रकृति विद्याद् मायिनन्तु महेश्वरम् । अजामेकामिति श्रौतवाक्येष्वेका विनिश्चिता ॥१७॥
ननु “इन्द्रो मायाभिः पुरुरूप ईयते" (बृ. २ । ५ । १६) इति श्रुतेर्मायाया अप्यनेकत्वं श्रूयते, अतः कथमुक्तं मायाया एकत्वम् ? इत्याशक्य मायागतशक्ति दविषयतया बहुवचनोपपत्तेर्न विरोधो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #269
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
मायैकत्वश्रुतिस्मृतीनामनेकत्वेन तद्विरोधाच्च साऽन्यपरेत्यभिप्रेत्याह
मायामिति ।। १७४ ॥
तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगीमायासमेयाय तस्मै विद्यात्मने नमः ॥ १७५ ॥
२३७
-
स्मृतिवचनमाह — तरतीति । निवृत्तिरेवाऽत्र तरणम्, 'तरति ब्रह्महत्याम्' इत्यादी निवृत्तौ तच्छब्दप्रयोगान्नद्यादेखि लङ्घनस्याभावात्, तथा च मायामविद्यां तरतीति सामानाधिकरण्येन ज्ञाननिवर्त्यत्वनिर्देशान्मायाविद्ययेार्भेदाभावस्तदेकत्वञ्च निश्चीयत इति भावः ॥ १७५॥
इत्येकवचनादेव लाघवानुगृहीततः । निश्चीयते तदेकत्वं साक्ष्येकत्वमता मतम् ॥ १७६ ॥
ननु श्रुतिस्मृत्यनेकत्वमात्राद् न मायैकत्वसिद्धिरेकेनापि बलवता बहूनां बाघदर्शनादित्याशङ्क्य लाघवानुग्रहादेकत्व श्रुतीनामेव प्रावल्यमित्याह — इत्येकेति । ततश्चोपाधिभूतमायाया एकत्वादीशसाक्ष्येकत्वं सिद्धमित्यर्थः ॥ १७६ ॥
-
मायावच्छिन्नचैतन्यं परमेश्वर ईरितः ।
तस्या विशेषणत्वेन परमेश्वरतेाच्यते ॥ १७७ ॥
साक्षित्वं तदुपाधित्वे तत्र भेदस्तु धर्म्मयोः विभेदो वस्तु नैव धर्मिणोरीश साक्षिणेाः ॥१७८॥
ईश्वरसाक्षिणः परमेश्वराद्भेदं दर्शयितुं तत्स्वरूपमाह – मायेति । तस्या मायाया विशेषणत्वेन प्रवेशे परमेश्वरत्वमुच्यते, तस्या उपाधित्वे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #270
--------------------------------------------------------------------------
________________
२३८
प्रत्यक्तत्त्वचिन्तामणी तत्साक्षित्वमिति । तत्र धर्मयोरीश्वरत्वसाक्षित्वयोरेव भेदो धर्मिणोरीशसाक्षियो व भेदो वस्तुतः स्वरूपादिति द्वयोर्योजना ॥१७७--१७८॥
साक्षिद्वैविध्यतः मोक्तं प्रत्यक्षं द्विविधं यतः। सामान्य लक्षणं चित्वं प्रत्यक्षस्य ततः स्मृतम् ॥१७८॥
एवं साक्षिद्वैविध्यनिरूपणाज्जीवेश्वरसाक्षिजन्यभेदेन प्रत्यक्षज्ञानस्य द्वैविध्यं सिद्धमित्याह-साक्षोति। नन्वेवमपि शुक्तिरूप्यादिभ्रमे प्रत्यक्षलक्षणस्यातिव्याप्तिरिति चेत्, न । न तावद्विषयप्रत्यक्षलक्षणस्य तद्विषयेऽतिव्याप्तिः, तस्य केवलसाक्षिवेद्यत्वाभ्युपगमात् । नाऽपि ज्ञप्तिगतप्रत्यक्षलक्षणस्य तत्रातिप्रसङ्गः, भ्रमस्यापि स्वांशे प्रत्यक्षप्रमाणतया सामान्यलक्षणे लक्ष्यत्वादित्यभिप्रेत्याह-सामान्यति । ज्ञप्तिगतप्रत्यक्षस्य सामान्यलक्षणं चित्त्वमेव यता हेतोस्तस्मात्तस्य च भ्रान्तिरूपप्रत्यक्षे नातिव्याप्तिः, भ्रमप्रमासाधारणप्रत्यक्षत्वसामान्यनिर्वचने तस्याऽपि लक्ष्यत्वादित्यर्थः ॥ १७६ ॥
अबाधितत्वाधिक्यं स्यात्प्रमायां व्यवहारतः । सा प्रत्यक्षादिभेदेन षोढा वेदान्त इष्यते ॥१८०॥
यदा तु प्रत्यक्षप्रमाया एव लक्षणं वक्तव्यम्, तदा पूर्वोक्तलक्षणे बाधितत्वं विषयविशेषणं देयम्, शुक्तिरूप्यादिभ्रमस्य संसारकालीनबाधविषयप्रातिभासिकरजतादिविषयकत्वादित्याशयेनाह - अबाधित. त्वेति । प्रत्यक्षप्रमाणनिरूपणाय तत्प्रमाया एवं लक्षणीयत्वादिति भावः। नन्वबाधितत्वं पारमार्थिकत्वमेव वाच्यं तस्य घटादावप्यभावेन तदघटितस्तक्षणस्य तत्प्रमायामव्याप्तिरित्याशङक्य संसारकालीनबाधविषयत्वस्य व्यावहारिकसत्त्वस्याऽबाधितपदेन विवक्षितत्वाद् मैवमित्याह-व्यवहारत इति । सा प्रमा प्रत्यक्षानुमित्युपमिति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #271
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
२३-८
शाब्दार्थापत्त्यभावभेदेन षोढा षट्प्रकारिका वेदान्तशास्त्रे इष्यते
विद्वद्भिरित्यर्थः ॥ १८० ॥
एतन्निरूपितं सम्यक् प्राचीनैर्बहु विस्तरात् । प्रसङ्गागतमत्रोक्तमित्यता ह्युपरम्यते ॥ १८१ ॥
तर्हि विस्तरेण निरूपणीया सेत्यत आह-- एतदिति । प्राचीनराचाय्यैर्धर्मराजदीक्षितादिभि: परिभाषादिग्रन्थेषु बहुविस्तरादेतत्सम्यनिरूपितमिति सम्बन्धः । ननु तर्हि तैरुक्तत्वात् किमर्थ त्वया संचेपेणाप्युक्तमिति तत्राह - प्रसङ्गागतमिति । प्रतिकर्मव्यवस्थाप्रसङ्गागततया अत्र संक्षेपेणेोक्तमिति । हि यतः अत उपरम्यते । लं विस्तरेणेत्यर्थः ॥ १५१ ॥
तस्माद्वेदान्तशास्त्रेऽस्मिन् युक्तिभिः श्रुतिभिस्तथा । प्रतिकर्म्मव्यवस्थापि निरवद्यैव सिद्ध्यति ॥ १८२ ॥
परमप्रकृतमुपसंदरति-तस्मादिति । निरवद्यैव सर्वदोषविवर्जितत्वान्निष्प्रत्यूहा प्रतिकर्म्मव्यवस्था सिद्धातीति सम्बन्धः ॥ १८२ ॥
नान्यस्मिन् वादिपक्षे सा व्यवस्था सम्भवेदतः । अनादृत्याऽन्यवाद्युक्ती राश्रयेद वैदिकं मतम् ॥१८३॥
मुमुत्तून्प्रमाणकुशलान् शिक्षयन्नन्य वादिमतेष्वनादरणीयत्तामाहनेति ॥ १८३ ॥
स्वमाध्यासिकं भेदं समाश्रित्य चिताऽखिलः । मातृमानप्रमेयादिव्यवहारो भवेदयम् ॥ १८४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #272
--------------------------------------------------------------------------
________________
२४०
प्रत्यकतत्त्वचिन्तामणी प्राविद्यकाध्यालकृत एव प्रमाणप्रमेयादिव्यवहार इति सिद्धमित्याह- एवमिति । तथा च तत्त्वज्ञानकनिवर्त्यतयाऽऽध्यासिकप्रमात्राद्यनर्थस्य निवृत्तेस्तत्त्वज्ञानमन्तरेण नान्यः कश्चिदुपायोऽस्तीति भावः ।। १८४॥
प्राध्यासिकी व्यवहृतिः सकला प्रतीचि
ब्रह्मात्मनीति विदितं मतमागमान्तः । अज्ञानहेतुकमनात्मचिदात्मनास्त
मध्यासमद्वयधिया विनिहत्य तिष्ठेत् ॥१८॥ एतदेवोपपादयन्मुमुक्षुकर्त्तव्यमुपदिशति-आध्यासिकीति । प्रतीचि प्रत्यगभिन्नब्रह्मात्मतत्त्वे सकला लौकिकी वैदिकी स्वाभाविकी व्यवहृतिर्व्यवहार प्राध्यासिकी आविद्यकप्रमातृत्वाद्यध्यासजन्या, न तु वस्तुत इति मतं गुरूपदिष्टर्वेदान्तैर्विदितं विद्वत्सु प्रथितम् । अतोऽज्ञान. हेतुकं चिदात्मानात्मनारध्यासं तं पूर्वोक्तलक्षणमद्वयधियाऽखण्डतत्त्वसाक्षात्कारेण विनिहत्य समूलमपबाध्य तिष्ठेत् कृतकृत्यतयेति शेषः ।१८५।।
संसारमाकरमशेषभयाधिदुःख
दोषश्रमस्य परमात्मसुखप्रमादात् । पोद्भूतमात्मधिषणामपहाय नान्य
च्छेत्तं ह्यपाय इति निश्चितधीर्मुमुक्षुः॥१८६॥
सकलानागारसंसारदोषोपशमने तत्त्वज्ञानं विना न कोऽप्युपायो - स्तीति दर्शयन्, वैराग्यदाढाय संसाररूपञ्च कीर्तयन्, मुमुक्षु लक्षयति-संसारमिति। संसारं छेत्तुं मूलबाधेन बाधितुमात्मधिषणामात्मतत्त्वावबोधमपहाय तमन्तरेणान्य उपायो नास्ति । “तमेव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #273
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
२४१
"
विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" ( श्वे० ६ । १५ ) इत्यादिश्रुतिप्रसिद्धिद्योतको हिशब्दः । इत्येवं निश्चिता धीर्यस्य स मुमुतुर्भवतीत्यन्वयः । मास्तु संसारोच्छेदः, किं तेनानिष्टमिति हेलनावारणाय संसारं विशिनष्टि — अशेषेति । शेषाणि भयानि तद्धेतू नि मृत्युप्रमुखाणि प्राधयो मानसदुःखानि कामादीनि, दुःखानि शारीरकाणि ज्वरादीनि, दोषा दोषकारणानि सवितादीनि कर्माणि बीभत्सितशरीरदायीनि कफवातपित्तानि च प्रशेषभयाधिदुःखदोषा एव श्रमस्तत्प्रयुक्तो वा श्रमः । यद्वा, प्रनेकधाप्रवृत्तिजनितश्रमस्तस्याSSकरं खनिं तदुद्भवस्थानमिति यावत् । तथा चाऽत्यन्तानिष्टस्वरूपतया महता प्रयत्नेनास्योच्छेदो विधेयो मुमुक्षुभिरिति भावः । ननु तत्वज्ञानेनाज्ञानमात्रं विरोधितया निवर्त्त्यम् ? तत्कथं संसारमुच्छेत्तुं क्षमं स्यात् ? इत्यत आह— परमात्मसुखप्रमादादिति । अपरिच्छिन्नपरमात्मसुखाज्ञानादावरणादिशक्तिमतोऽविद्यादिशब्दवाच्यादेव समुत्पन्नमिति । तथा च तत्तज्ज्ञानेनाऽज्ञाने बाधिते तत्कार्य्यस्य संसारस्याशेषतो विनिवृत्तिरर्थसिद्धा, उपादाननाशे कार्य्यस्थित्ययोगादित्यर्थः ॥ १८६ ॥
तत्राऽऽत्मबोधजनिरात्मविचारतः स्यात्
सेयस्ति वेदवचसां श्रवणादिभिश्च । तत्त्वं पदार्थ परिशोधन मिष्टमादौ
वाक्यार्थधी समुदयस्तत एव सिद्धयेत् ॥ १८७ ॥
एवं निश्चयवता मुमुक्षुणा यत्कर्त्तव्यं तदाह - तत्रेति । तत्त्वज्ञानेनाऽज्ञानबाधद्वारा संसारानर्थे ऽज्ञानहेतुके उच्छेत्तव्ये आत्मबोधजनिरात्मविचारात् सोऽप्यात्म विचारो वेदान्तवचसां तन्निर्णायकसूत्रभाष्यादिग्रन्थानाच्च गुरुमुखाच्छ्रवणमननादिभिरेव भवति । तत्र वेदान्तेषु तत्त्वंपदार्थशोधनं विना विचारस्वरूपमेव दुर्घटम् । तस्मादादा
३१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #274
--------------------------------------------------------------------------
________________
२४२
प्रत्यक तत्त्वचिन्तामय
तत्त्वंपदार्थयोः परिशोधनं तत्तदुपाधिनिरासेन शुद्धतत्त्वावधारणरूपविचार सिद्धये इष्टमत्यन्तेप्सितं भवति । कुत: ? यतस्तस्मात्पदार्थज्ञानादेव वाक्यार्थधीसमुदयोऽखण्डवाक्यार्थ बेोधादयः सिद्ध्येत्, पदार्थज्ञानाधीनत्वाद् वाक्यार्थज्ञानस्येत्यर्थः ॥ १८७ ॥
तस्मात्सुधीः श्रुतिनयानुभवेषु दर्श धीरं श्रयेद् गुरुमुदारगुणं मुमुक्षुः । तत्सेवनादिगुणसंयुत प्रात्मबोधं
प्राप्याशु मुच्यत इतेा भवपाशजालात्॥१८८॥
प्रकरणार्थमुपसंहरति — तस्मादिति । यस्मादाध्या सिक्येव प्रत्यगभिन्ने ब्रह्मणि सकला व्यवहृतिः, अध्यासश्चाज्ञानहेतुक:, तन्निवृत्तिर्न तत्त्वज्ञानमन्तरेण तस्मात्तत्त्वज्ञानसिद्धये श्रुतियुक्तानुभवेषु दक्षं पूर्वोत्तर. मीमांसापारगामितया स्वानुभवारूढं तत्त्वं शिष्यबुद्धारूढं कर्त्तुमत्यन्तकुशलम्, उदाराः शान्तिदान्त्यादिगुणा यस्मिंस्तम्, धीरं विषयैर क्षोभ्यम्, गुरुमाचाय्र्यमाश्रयेत् । तस्य गुरोः सेवनप्रणिपातादिगुणविशिष्टः सन्मुमुत्तुस्तत्प्रसादाल्लब्धेोपदेशेनात्मबोधं प्राप्याशु तत्प्राप्तिसमसमये इता - जाल त्वेनाऽनुभूयमानाद्भवपाशजालान्मुच्यते । अज्ञानतत्कार्यविनिर्मुक्ततया कृतकृत्यो भवतीत्यर्थः ॥ १८८ ॥
,
श्रुतिशिखरविचाराद् ब्रह्म सत्यं विशुद्धं
भ्रमतिमिरमशेषं नाशयित्वाऽऽशु वेत्ति । विरतिशमदमाढ्या यत्पदाम्भोजरागी
तमहममरवन्द्यं संश्रये श्री मुकुन्दम् ॥ १८ ॥
इति प्रत्यकूतत्त्वचिन्तामणैौ पञ्चमं प्रकरणं सम्पूर्णम् ॥ ५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #275
--------------------------------------------------------------------------
________________
पञ्चमं प्रकरणम् ।
- २४३ प्रकरणान्ते मङ्गलरूपं भगवन्तमनुसन्धत्ते-श्रुतीति। यत्पदाम्भोजानुरागवान् वैराग्यशमदमादिसम्पन्नः सन् वेदान्तविचारात्तज्ज. निततत्त्वज्ञानादाशु अशेष भ्रमतिमिरमज्ञानं सकार्य नाशयित्वा, सत्यं विशुद्धं ब्रह्म प्रत्यगभिन्नं वेत्ति-तत्स्वरूप एव भवति, तं ब्रह्मादिभिरशेषदेवैर्वन्दनीयं श्रीमन्मुकुन्दं संश्रये शरणं प्रपद्ये इति योजना ॥ १८६॥ यत्पादपद्मयुगले मतिचञ्चरीकी
लग्ना न वेत्ति भवमृत्युभयाम्बुराशेः । दुःखादिचक्रमतिदुःसहमान्ध्यमूलं
भक्तमा प्रणैामि तमहं ब्रजराजसूनुम् ॥१॥ इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्दविद्वस्कृतायां प्रत्यक्तत्त्वचिन्तामणिव्याख्यायां स्वप्रभाभिधायां प्रतिकर्मव्यवस्थामयूखाभिधं पञ्चमं
प्रकरणं समाप्तिमगमत् ॥ ५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #276
--------------------------------------------------------------------------
________________
अथ षष्ठं प्रकरणम् यच्चिद्विलासपरिभावितमेतदाशु
प्रोद्भतिमद् व्यवहृतो क्षमतेऽनृतं सत् । तं सच्चिदद्वयसुखात्मकमादिदेवं
श्रीमन्मुकुन्दमनिशं शरणं व्रजामि ॥१॥ आध्यात्मिकादिमल्ल विभ्रमशान्तिहेतु
मज्ञानबाधचतुरैककटाक्षपातम् । शान्तं समस्तगुणसारकलानिषेव्यं
वन्दे मुकुन्दमहमान्तरभक्तिसिद्ध्यै ॥ १ ॥ व्योमादिविश्वमखिलं रचयत्यकर्ता
स्वानन्दलेशकलयाऽवति नैति सङ्गम् । योऽन्ते हरत्यपि न लिप्यत एतदंशै
स्तं नौम्यहं यदुकुलाब्धिहिमांशुमीशम् ॥ २ ॥
पञ्चमप्रकरणे "तत्राऽऽत्मबोधजनिरात्मविचारतः स्यात्सोऽप्यस्ति वेदवचसा श्रवणादिभिश्च । तत्त्वंपदार्थपरिशोधनमिष्टमादा वाक्यार्थधीसमुदयस्तत एव सिद्धयेत्' इत्युक्तम् । तत्र तत्त्वंपदार्थज्ञानाधीनत्वाद्वाक्यार्थज्ञानस्य तदर्थ तत्त्वंपदार्थपरिशोधनमावश्यकं तद्विचारप्रकरणमारभमाणस्तन्निर्विनसमाप्त्यादिसिद्धये भगवन्तं स्वरूपतटस्थलक्षणाभ्यामनुसन्धत्ते-यदिति। तं श्रीमन्मुकुन्दमादिदेवमनिशं शरणं व्रजामीत्यन्वयः। सच्चिदद्वयसुखात्मकमिति स्वरूपलक्षणम् , यश्चिद्विखासेत्यादि तटस्थलक्षणम् , यस्य चिद्विलासश्चिच्चमत्कारो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #277
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
२४५ मायायां स्वप्रतिबिम्बदानेन तत्सामीपादनलक्षणस्तेन परिभावितमेतत्प्रत्यक्षादिगोचरं जगदनिर्वाच्यं सृष्टिकाले परिभावितं "तदैक्षत बहु स्याम्" ( छा० ६ । २ । ३) इतीक्षणमात्रेणोत्पादितम् , प्राशु ईक्षणसमसमयेऽनृतम् , सपदि व्यवहृतो स्थितिसमये व्यवहारदशायां प्रोद्भूतिमत् प्रकर्षणोत्पत्तिमदिव क्षमते-अर्थक्रियासमर्थ भवति तमिति सम्बन्धः ॥१॥ यं द्वैतशून्यमपि सर्वमयं वदन्ति
त्यो गिरो निरभिधं सकलाभिधञ्च । मायातिगं सकलशक्तियुतं तमन्तः
स्वानन्दमेव कलये सततं मुकुन्दम् ॥२॥
एवं तत्पदार्थ स्वरूपतटस्थल क्षणाभ्यामनुसन्धायेदानीमखण्डवाक्यार्थ ब्रह्मैक्यम् "अध्यारोपापवादाभ्यां निष्प्रपन्चं प्रपञ्च्यते" इति न्यायेन साक्षाद्वक्तुमशक्यतया सर्वव्यवहारानास्पदमपि मायाद्यधिष्ठानत्वेन सर्वव्यवहारास्पदं सर्वाविरुद्धस्वरूपं भगवन्तमनुसन्धत्तेयमिति । तं मुकुन्दं तत्पदलक्ष्यम्, स्वानन्दं त्वंपदलक्ष्यम्, सततं नैरन्तयेणान्तरेव स्वस्वरूपमेव प्रत्यगभिन्नमखण्डं ब्रह्मैव कलये इत्यन्वयः । तं कमित्याकाङ्क्षायामाह-यमिति । स्वयंज्योतिष्ट्वेन प्रसिद्ध यं द्वैतशून्यमपि सन्तं श्रौत्यो गिर: "सर्व खल्विदं ब्रह्म' ( छा० ३। १४।१ ) इत्याधाः "सर्वमयं सर्वाकारम्" "यतो वाचो निवर्तन्ते" (तै० २। ४) इति श्रुत्या निरभिधं शब्दातीतत्वेनावाच्यमपि सन्तं सकलाभिधं सर्वशब्दवाच्यं वदन्ति मायातीतमपि सन्तं यं सकलशक्तियुतम् , “एष वशी" ( कठ० ५। १२) “एष सर्वस्येशानः" (बृ०५।६।१)इत्याद्या वदन्ति तं कलय इति सम्बन्धः । तथा च परमार्थता नामरूपकलातीते सर्वव्यवहारानास्पदे ब्रह्मणि मायिकदृष्ट्या नाम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #278
--------------------------------------------------------------------------
________________
२४६
प्रत्यक्तत्त्वचिन्तामणी रूपकलाद्यारोप्य ब्रह्मैक्यतत्त्वबोधाय श्रुतयस्तदेवाद्वितीयं ब्रह्मतत्त्वं प्रतिपादयन्तीति भावः ॥ २ ॥ तत्त्वंपदार्थधिषणोत्थपरैक्यबोधः
स्वाज्ञानबाधकरणं अतिजन्यभावात् । आदी तयाः श्रुतिभिरीडितलक्षणाभ्यां निर्णीयते द्वयसुखैकवपुस्तदर्थः ॥३॥
एवं शास्त्रार्थ सङ्कपेण प्रदर्श्य विस्तरेण इममेवार्थ वक्तुकाम: कर्तव्यं प्रतिजानीते-तत्त्वमिति। तत्त्वंपदार्थविषयिणी या धिषणा ज्ञानं तदुत्थस्तदधीनसिद्धिकः परैक्यस्य ब्रह्मात्मैक्यस्य बोधः श्रुतिप्रमाणजन्यत्वात् स्वात्माज्ञानस्य यो बाध उपमर्दस्तस्य करणं साक्षादे॒तुर्भवति । अत आदी तयोस्तत्त्वंपदार्थयोर्मध्येऽभ्यर्हितत्वात्तत्पदार्थः अद्वयानन्दस्वरूपी वेदान्तवाक्यैस्तदुक्तलक्षणाभ्यां निर्णीयते जगजन्मादिहेतुत्वेन सच्चिदानन्दस्वरूपत्वेन विविच्यत इत्यर्थः ॥ ३ ॥
तत्र स्वरूपमपि लक्षणमुच्यतेऽस्य ।
सत्यादिभिः श्रुतिपदैरभिगीतमेव । धादिभाव इह कल्पित इष्यतेऽतः
स्वस्यापि लक्षणमिदं स्वयमात्मतत्त्वम् ॥४॥
तत्राभ्यर्हितत्वाच्छानतात्पर्य्यविषयत्वाच्च "सत्यं ज्ञानमनन्तं ब्रह्म" ( तै० २ । १ । १) इति श्रुतिसिद्धं स्वरूपलक्षणं दर्शयति-तत्रेति । तटस्थस्वरूपलक्षणयोर्मध्येऽस्य तत्पदार्थस्य स्वरूपलक्षणं सत्यादिभिः सत्यज्ञानानन्तरूपैः श्रुतिपदैः श्रुतेः “सत्यं ज्ञानमनन्तं ब्रह्म" ( तै० २।१।१) इत्यस्याः पदैरभिगीतमेवोच्यते इत्यन्वयः । ननु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #279
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम्।
२४७ स्वस्य स्ववृत्तित्वाभावात्कथं स्वरूपमेव लक्षणं स्यात् ? इति तत्राहधादिभाव इति । इहोपदेशसमये स्वस्यैव स्वापेक्षया धर्मधर्मिभावकल्पनया लक्षणत्वसम्भवादत इदं नित्यापरोक्षरूपमात्मतत्त्वं स्वयमेव स्वस्य लक्षणं भवतीत्यर्थः। तत्र सत्यं बाध्यविलक्षणं ज्ञानं जडविलक्षणमनन्तं त्रिविधपरिच्छेदशून्यं स्वरूपलक्षणं स एव तत्पदलक्ष्यार्थ इति दर्शितम्। न च स्वरूपे धर्मधर्मिभावकल्पनाऽसाम्प्रदायिकीति शक्यम् । यत उक्तञ्चास्मत्साम्प्रदायिकैः पद्मपादाचार्यैः"आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्मा अपृथकत्वेऽपि चैतन्यात् पृथगिवाऽवभासन्ते” इति ॥ ४ ॥ व्यावर्तक यद्ध्यनवस्थितत्वे
सत्यस्ति यावनिजलक्ष्यकालम् । तल्लक्षणं नाम तटस्थमाहु
र्यथा पृथिव्याः खलु गन्धवत्त्वम् ॥ ५॥ एवं स्वरूपलक्षणमुक्ता तटस्थलक्षणमाह-व्यावर्त्तकमिति । यावन्निजलक्ष्यकालमनवस्थितत्वे सति यद्व्यावर्तकमस्ति, तल्लक्षणं तटस्थं नामेति सम्बन्धः। यथा गन्धवत्त्वं पृथिव्याः लक्षणमाहुः खलु नैयायिकादय इति योजना ॥ ५॥ यया न गन्धः प्रलयेऽणुषु स्या
दुत्पत्तिकाले न घटादिनिष्ठः। तथा जगज्जन्मलयस्थितीनां
हेतुत्वमद्वैतचिदात्मनोऽपि ॥ ६ ॥ एतदेवोक्तं दृष्टान्तेन द्रढयति-यथेति। महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावात् तथा प्रकृतेऽपि जगजन्मस्थिति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #280
--------------------------------------------------------------------------
________________
प्रत्यक तत्वचिन्तामणी
लयानामद्वैतचिदात्मनोऽपि हेतुत्वं यावल्लक्ष्य कालं नास्तीत्यर्थः । "यता वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति” ( तै० ३ । १ । १ ) इति श्रुतेः, "जन्माद्यस्य यतः " ( ब्र० सू० १ । १ । २ ) इति न्यायाच्च तटस्थलक्षणं तत्पदार्थस्य सिद्धं स एव तत्पदवाच्यार्थ इत्यर्थः || ६ ||
२४८
यः सर्वविनिखिलकारणमीश्वरोऽस्माद् विश्वं समुद्भवति नाम विकाररूपम् । सच्चित्सुखाद्वयवपुर्जगदेकहेतु
मायाश्रयेऽप्यविकृतिः सकलस्य हेतुः ॥७॥
।
एतदेव विवृणोति — य इति । "य: सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नञ्च जायते” ( मु० १ । १ । ८ ) इत्यादिश्रुतिसिद्धनिखिल कारणत्वेनेश्वरो "मायान्तु प्रकृति विद्यान्मायिनन्तु महेश्वरम् " ( श्वे० ४ । १० ) इति श्रुतिसिद्धमहेश्वरपदवाच्यो यः सर्वविद् भवति, अस्मान्मायाशबलाद् ब्रह्मणोभिन्ननिमित्तोपादानाद् विश्वं कृत्स्नं स्थूलसूक्ष्ममूर्त्तामूर्त्तरूपं हिरण्यगर्भादिचतुर्विधभूतप्रामान्तं जगत्सर्गकाले व्योम्नो गन्धर्वनगर मिवा.' त्यन्तासम्भावितमपि समुद्भवति नाम हिरण्यगर्भादिविकाररूपञ्चतुमुखादि स एव परमेश्वरः सच्चिदानन्दाद्वैतवपुरेव सन् जगदाकारेण परिणममानमायाधिष्ठानत्वेन सकलस्य हेतुर्भवति । अत एवाविकृति: परिणामादिविकारशून्यतया नित्यकूटस्थ इत्यर्थः ॥ ७ ॥
प्रध्वस्तमद्वयसुखात्मनि चित्स्वरूपे
विश्वं ततस्त्रिविधरूपतया विभाति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #281
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
२४६ अस्ति प्रियं स्फुरति सर्वमिति प्रतीचोऽ
धिष्ठानतोऽपृथगिदं विकृतञ्च नाम ॥८॥ एतादृशमेवोपादानत्वमभिप्रेस “इदं सर्व यदयमात्मा” ( बृ० २ । ४ । ६) "सच्च त्यच्चाभवद्" "बहु स्यां प्रजायेय" (छा० ६ । २। ३) इत्यादिषु श्रुतिषु ब्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेश इत्याशयेनाह-अध्यस्तेति। अद्वयानन्दात्मनि चैतन्ये यतो विश्वमध्यस्त ततोऽधिष्ठानानतिरिक्तत्वात् त्रिविधरूपतया विभाति, अस्ति भाति प्रियमिति सर्वमपि प्रत्यगभिन्नब्रह्मणोऽधिष्ठानतः सकाशाद् यत इदमपृथङनामरूपात्मकं जगत्तस्मात् सच्चिदानन्दरूपब्रह्मैक्याध्यासाद् घटः सन्, घटो भाति, घट इष्ट इत्यादिलौकिकव्यपदेशोऽपि सङ्गच्छते इत्यर्थः । जगति नामरूपद्वयव्यवहारस्तु अविद्यापरिणामात्मकनामरूपसम्बन्धात् । तदुक्तम्
"अस्ति भाति प्रियं रूपं नाम चेत्यशपञ्चकम् ।
आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥" इति द्रष्टव्यम् ॥ ८॥
मायामयं विविधनामविकारजातं
सत्यं सुखाद्यपदं सकलावधित्वात् । नाध्यस्तमण्वपि पृथग्भजते स्वसत्तां
ब्रह्माद्वयादिति च बोधयितुं प्रपञ्चः ॥६॥
ननु ब्रह्मणो जगदुपादानत्ववर्णनेन तस्य सप्रपञ्चत्वं स्यात, तस्य चानिष्टत्वात; तथावर्णनमनुचितमित्याशङ्क्याह-मायामयमिति । विविधनामविकारजातं मायामयं मिथ्यैव भवति, रज्जुसर्पादिवत् कल्पितत्वात् । सुखमद्वैतं ब्रह्मैव सत्यं भवति, सकलकार्यकारण
३२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #282
--------------------------------------------------------------------------
________________
प्रत्यकूतत्त्वचिन्तामयौ
प्रपञ्चस्यावधित्वात् प्रधिष्ठानत्वात् । तस्माद् ब्रह्माद्वयात् स्वाधिष्ठानभूतादिदं जगदध्यस्तमण्वपि ईषदपि पृथक् स्वसर्त्ता न भजते, कालत्रयेऽप्यत्यन्ताभावप्रतियोगित्वादिति बोधयितुं सम्यग् ज्ञापयितुं
२५०
प्रपञ्चः, तथावर्णनं सङ्गच्छते । नाध्यस्त प्रपञ्चाधिष्ठानत्वमात्रेण
ब्रह्मणः सप्रपञ्चत्वं शङ्कितुमपि शक्यम्, न ह्यध्यस्तजलेन मरुस्थलं पङ्को क्रियते, न वा नीलिम्ना व्योम रूपवद्भवतीति भावः ॥ ८ ॥
निरवधिपदमेकं सत्यमेवाद्वितीयं
श्रुतिशिखरवचोभिः प्रोक्तमेतज्जनेः प्राक् । अघटितघटनायां दक्षिणामात्ममाया
मुपगतमभवत्तद् ब्रह्म सर्वेश्वरं सत् ॥ १० ॥
जगज्जन्मादिकारणत्वं ब्रह्मणस्तटस्थं लचणमुक्तम्, तत्कथं ततेा जगज्जन्मादि स्यात् ? इत्याकाङ्क्षायां सप्रकारं जगज्जन्मादि ब्रह्मणः सकाशादुपपादयिष्यन्नादैा तत्स्वरूप कीर्त्तनपुरःसरं सप्रमाणकं तद्वक्तुमुपक्रमते — निरवधीति । "सदेव सौम्येदमग्र आसीत् ' ( छा० ६ । २ । १ ) “एकमेवाद्वितीयम्” (छा० ६ । २ । १) " आत्मैवेदमग्र आसीत् " ( बृ०१ | ४ । १) "ब्रह्म वेदमग्र आसीत् " ( बृ० १ । ४ । १० ) इत्यादिवेदान्तवाक्यैरेतस्य जगतेा व्याकृतस्य नामरूपात्मकस्य जनेः सृष्टेः पूर्व सत्यमबाध्यम्, निरवधि पदमपरिच्छिन्नस्वरूपम् एकं सजातीय भेदशून्यमेवं स्वगतभेदशून्यम्, अद्वितीयं विजातीयभेदशून्य ं ब्रह्मैवासीदिति प्रोक्तम्, तद् ब्रह्म प्रघटितस्यात्यन्तासम्भावितस्य घटना रचना तस्यां दक्षिणामत्यन्तचतुरां मायाँ प्रकृत्यादिशब्दवाच्यामुपगतं चित्प्रतिबिम्बरूपगर्भाधानद्वारा पुमान् योषितमिवात्यन्तसन्निधिं प्राप्तं सत् सर्वेश्वरमभवदिति योजना ॥ १० ॥
1
शबलमपि तदेवाद्वैतमच्छं स्वशक्त्या विविधरसविचित्रां सृष्टिमाधातुमैच्छत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #283
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
तदनु सकलकर्म्मज्ञानकामानुरोधात् बहुभवनवतीच्छा स्यामहञ्चेत्युदेति ॥ ११ ॥
"
एतदेव विवृणोति शबलमिति । तद्वस्तुतोऽच्छं स्वच्छ मद्वैतमेव स्वशक्त्या मायादेव्या शबलमपि विविधा नानाप्रकारका ये विद्याकामकर्मादिपरिपाकरूपरसास्तैर्विचित्रामनन्त भेदवतीं सृष्टि रचनामाधातुं सम्यक् कर्त्तुमैच्छत् । तदनु जीवादृष्टरूपाणि कर्माणि धर्माधर्मात्मकानि ज्ञानानि तत्तदुपासनात्मकानि कामा इच्छाभेद: तत्संस्काराश्च तेषामनुरोधाद् बहुभवनवती या इच्छा " बहु स्यां प्रजायेय" ( छा० ६ । २ । ३ ) इति चोदेति तस्मिन्नेव ब्रह्मणीति योजना । एतदुक्तं भवति - सर्गाद्यकाले परमेश्वर: सृज्यमानप्रपञ्चवैचित्र्य हेतु प्राणि कर्मादिसहकृतापरिमितानिरूपितशक्ति विशेषमायासहितः सन् नामरूपात्मकनिखिल प्रपञ्च ं बुद्धाकलय्येदं करियामीति सङ्कल्पयति " तदैक्षत बहु स्यां प्रजायेय " ( छा० ६ । २ । ३) इति " सोऽकामयत बहु स्यां प्रजायेय" ( तै० २ । ६ ) इत्यादिश्रुतेरिति । तत प्रकाशादीन्यपञ्चीकृतानि पञ्चमहाभूतानि तन्मात्रपदप्रतिपाद्यान्युत्पद्यन्ते इति ॥ ११ ॥
गगनपवनतेजावार्भुवश्चिद्विवर्त्ता
"
-
२५१
स्तदपि निगमवाक्यैरुच्यते बोधसिद्ध्यै । कथमिति तदिदानीं वर्ण्यतेऽध्यस्तविश्वं
क्रमश इतरवादध्वान्तविध्वंसनाय ॥ १२ ॥
श्राकाशादीनां ब्रह्मविवर्त्तत्वमितरवादिमतान्धकारनिरास फलकं प्रदर्शयन्नत्यन्तासम्भावितप्रपञ्चरचनाया मायावादमन्तरेण न कथव्चिदसम्भव इति श्रुतिसिद्धान्तविवर्त्तवाद एव श्रेयानित्याह-गग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #284
--------------------------------------------------------------------------
________________
२५२
प्रत्यकूतत्त्वचिन्तामणौ
नेति । गगनादीनां चिद्विवर्त्तत्वं यत् तदपि निगमवाक्यैः "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः वायोरग्निः प्रग्नेराप:, अद्द्भ्यः पृथिवी" ( तै० २ । १ । १ ) इत्यादिश्रुतिवचनैर्बोधोऽद्वैततत्त्वावबोधस्तत्सिद्धये उच्यते । कथं निशिछद्राद्वह्मणः छिद्ररूपाकाशोत्पत्तिः ? आकाशादस्पर्शाचलरूपाद्वायोरुत्पत्तिः, वायोरूपादप्रकाशाऽनुष्णादिस्वभावात्तद्विरुद्धस्वभावस्य अग्ने, अग्ने - रशीताद्रवारसादिस्वभावात्तद्विरुद्धस्वभावस्य जलस्य, जलादगन्धाकठिनादिस्वभावात्तद्विरुद्ध स्वभावायाः पृथिव्या उत्पत्तिः इति कथं सम्भावनापथमवतरेत् ? प्रखण्डैकरसस्वभावाद्ब्रह्मणः कथमित्थं विचित्रभूतात्पत्ति: १ इत्याकाङ्क्षायामाह — अध्यस्त विश्वमिति । यस्य यत्रात्यन्तासम्भवः, तस्य तत्र भानमध्यासः । नीरूपेऽपि गगने रूपविशेषनीलिमाद्यध्यासः, रज्जौ सर्पादेः, स्वप्नद्रष्टरि सर्वासम्भावित - स्वशिरश्च्छेदादिविरुद्धकल्पनाद्यध्यासेो दृष्टचरः; अतो मायाशबले ब्रह्मणि वस्तुतो निश्च्छिद्रादिस्वभावेऽपि सर्वव्यवहारानास्पदे कार्य्यकारणभावविनिर्मुक्तेऽपि सर्वमत्यन्तासम्भावितमपि मायैव दर्शयति । न ह्यघटितघटनापटीयसीं मायां स्वीकुर्वतामिदं दूषणं यद्युक्त्य सहत्वम्, किन्तु भूषणमेव; इतरेषां वादिनामेवेदं दूषणं युक्तिमात्रैकशरणानाम्, "नैषा तर्केण मतिरापनेया" ( क० २ । ८ ) इति श्रुतेः; " तर्काप्रति - ष्ठानात्” ( ब्र० सू० २ । १ । ११ ) इति न्यायात्, “प्रचिन्त्याः खलु ये भावा न तस्तिर्केण योजयेत्" इति महाभारतवचनाच्च; "नाऽप्रतिष्ठिततर्केण गम्भीरार्थस्य निश्चयः" इति पुराणान्तराच्च । सर्वतार्किका विरुद्धमिति तदिदमध्यस्तं क्रमेण वर्ण्यते श्रुत्या किमर्थ - मित्यत्राह — इतरेति । इतरेषां तार्किकादीनां श्रुतिविरुद्धाकाशादिनित्यत्वादिवाद एव ध्वान्तं तमः श्रुत्यर्थज्ञानप्रतिबन्धक साम्यात् तद्विध्वंसनाय तद्वादविध्वंसने सति श्रुतिशिखर सिद्धान्ते सुखेन मुमुक्षूणां प्रवेशः स्यात् । तद्वादान्धकारनिरास प्रकारस्तु सम्यगद्वै ततत्त्वस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #285
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
२५३ जगज्जन्माद्यभिन्ननिमित्तोपादानत्वप्रतिपादनपरे नवमे प्रकरणे वक्ष्यते इति भावः ॥ १२ ॥ विभुरपि परमात्मा माययाऽधिष्ठितामा
सृजति गगनमादा शब्दतन्मात्ररूपम् । द्विविधमपि ख इष्टं रूपमैशं सदान्ध्यं
ह्यनृतमिति गिरांस्थाद्धतुराधार आद्यः॥१३॥ प्रतिज्ञातमाकाशादिजन्मक्रमं दर्शयति । तत्र "आत्मन आकाश: सम्भूतः” ( तै० २ । १ । १) इति श्रुतेरंशस्यार्थमाह-विभुरिति । परिपूर्णतया निजमहिम्नि स्थितोऽपि परमात्मा परमेश्वरोऽसौ मायया स्वाधीनशक्त्याधिष्ठितोऽधिष्ठानत्वेन स्वीकृतः सन् तस्यां मायायां स्वप्रतिबिम्बदानेनादा गगनं सूक्ष्मत्वालिप्तत्वादिधम्मै रुपलक्षितं प्रथम कार्य शब्दतन्मात्ररूपं सृजति-स्वसत्तास्फूर्तिभ्यामाविर्भावयति । तस्मिन्गगने रूपद्वैविध्यं दर्शयति-द्विविधमिति । खे आकाशे रूपं द्विविधमिष्टं भवति। तदेवाह-सदिति। आकाशोऽस्ति, तस्मिन् सत्तारूपमैशमीशसम्बन्धि प्रान्ध्यमज्ञानकृतमनृतमिति । सत्तात: पृथक्कृते आकाशो नास्तीत्याकाशस्यानिर्वाच्यं रूपं मायिकम्, एवं सर्वत्र वाय्वादावपि द्रष्टव्यम् । आकाशकार्यमाह-गिरामिति । शब्दगुणत्वादाकाश एव सर्वेषां शब्दानां कारणमाधारश्च सर्वभूतभौतिकानामवकाशदानेन आद्यः वाच्याद्यपेक्षया प्रथमो विकार ईदृशगुणविशिष्टमाकाशं परमेश्वरः सृजतीति सम्बन्धः ।। १३ ॥ गगनयुतपरेशः स्पर्शमानं समीर
सृजति गतिमुखानां हेतुमाकाशवासम् । गगनपवनयुक्तो रूपमात्रञ्च तेजः
सृजति विविधरूपोद्भूतिहेतुप्रकाशम् ॥१४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #286
--------------------------------------------------------------------------
________________
२५४
प्रत्यक्तत्त्वचिन्तामणौ "आकाशाद्वायुः” इत्यंशस्यार्थमाह-गगनेति । गगनभावमापन्नः परेशो मायावी शब्देन संयुतं स्पर्शतन्मात्ररूपं समीरं सृजति । आकाशे वासो यस्य तं तत्कार्यमाह-गतिमुखानामिति। गतिश्वलनं तदादीनां सर्वेषां वायुधर्माणां हेतुम् । वायोरग्नि रित्यस्यार्थमाह-गगनेति । एवं शब्दस्पर्श गुणद्वयात्मकं वायु सृष्ट्वा गगनपवनभावमापन्नः परशस्तद्गुणशब्दस्पर्शविशिष्टं रूपमात्रञ्च तेजोऽग्नि सृजति; तत्कार्यमाह-विविधेति । विविवरूपाणामुद्भतिरुत्पत्तिस्तस्या हेतुः कारणं प्रकाशं प्रकाशस्वरूपमित्यर्थः ॥ १४ ॥
तदनु रसगुणाम्भः सृज्यमीशः ससर्ज
क्षितिमखिलभवस्याधारभूतां ससर्ज। सकलगुणकलाढ्यां शक्तिमाश्रित्य मायां
सृजति हरिरशेषं विश्वमध्यस्तमाशु ॥ १५ ॥
अग्नेराप इत्यस्यार्थमाह-तदिति । तदनु शब्दस्पर्शरूपगुणविशिष्टं तेजः सृष्ट्वा शब्दस्पर्शरूपरसगुणमम्भः सृज्यं प्राणिनामाप्यायनकरत्वादत्यन्तं स्रष्टुं योग्यम् ; यद्वा, तत्स्वरूपकीर्तनमीश: ससर्ज । तत्कार्यमप्यत्राप्यायनक्लेदनादिरूपं बोध्यम् । अद्भ्यः पृथिवीत्यस्यार्थमाह-क्षितिमिति । पूर्वोक्तचतुर्गुण विशिष्टां गन्धगुणां पृथिवीं ससर्ज; तत्कार्यमाह-अखिलस्य भवस्याधारभूतामिति । एवं पञ्चभूतसृष्टिमुक्ता भौतिकसृष्टिं वदन् तत्रासम्भावनां वारयन्नाह-सकलमिति। हरियां शक्तिं सकला गुणाः सत्त्वाद्याः कला नियमनाद्याः शक्तयस्तदाढयामाश्रित्याशेष विश्वं ब्रह्माण्डं तदन्तर्वति सर्व भौतिकं जगदाशु सत्यसङ्कल्पत्वात् सृजतीति न क्वाप्यसम्भावना कायेति भावः ॥ १५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #287
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् । ___२५५ सत्त्वं रजस्तम इति प्रकृतेः स्वरूपं
तत्कार्यभूतखमरुत्मभृतीनि तद्वत् । तेभ्यः समुद्भवति सूक्ष्मशरीरजातं
सूक्ष्मेभ्य आलयमिदं व्यवहारहेतुः ॥ १६ ॥ एवं सक्षेपेण भूतभौतिकसृष्टिमभिधायेदानों भौतिकसृष्टिं विस्तरेण वक्तु कामो मायायास्त्रिगुणात्मकत्वात् तत्कार्याण्याकाशादीन्यपि त्रिगुणात्मकानीति वदन तेभ्यः सूक्ष्मशरीरोत्पत्तिमाहसत्त्वमिति । सत्त्वं रजस्तम इति प्रकृतेर्मायाया स्वरूपम् , न तु गुण. गुणिभावो विवक्षितः। अत एव तत्कार्याणि भूतानि प्राकाशमरुत्प्रभृतीनि तद्वत् सत्त्वरजस्तमोगुणात्मकानि तेभ्य एतेभ्यः सूक्ष्मभूतेभ्योऽपञ्चीकृतेभ्यः सूक्ष्मशरीरजातं सप्तदशावयवात्मकं समुद्भवति । इदं सूक्ष्मशरीरमालयं मोक्षपर्यन्तं व्यवहारहेतुः, इहलोकपरलोकयात्रानिर्वाहकत्वात्तत्त्वज्ञानमन्तरेणानुच्छेद्यत्वात् सुषुप्तौ प्रलये च संस्काररूपणावस्थितत्वाच्च सर्वसंसारव्यवहारकारणमिदमेवास्तीत्यर्थः ॥१६॥
व्योमादिसात्विकलवेभ्य उदेति बुद्धि
स्तद्वन्मनोऽपि मिलितेभ्य इतः पृथक्वात् । ज्ञानेन्द्रियाण्यपि भवन्ति ततो रजोऽशैः
कर्मेन्द्रियाण्यसवामिलितैःरजेशैः॥१७॥
तदुत्पत्तिप्रकारमेव दर्शयति-व्योमादीति। पाकाशादिसात्त्विकांशेभ्यो मिलितेभ्यो बुद्धिनिश्चयात्मिकाऽन्तःकरणवृत्तिस्तद्वदेव मन: सङ्कल्पविकल्पात्मिकाऽन्तःकरणवृत्तिरुदेति । इतः पृथत्वात् एतेभ्य आकाशादिसात्त्विकांशेभ्यो व्यस्तेभ्यो ज्ञानेन्द्रियाण्यपि श्रोत्रादीनि भवन्त्युत्पद्यन्ते । तथाहि-माकाशसात्त्विकांशाच्छ्रोत्रमुत्पद्यते, वायोः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #288
--------------------------------------------------------------------------
________________
२५६
प्रत्यक्तत्त्वचिन्तामणी सात्त्विकांशात्त्वगिन्द्रियम् , तेजसः सात्त्विकांशाञ्चक्षुः, अपां सात्त्विकांशाद्रसनम्, पृथिवीसात्त्विकाशाद्माणमिति, "श्रोत्रमाकाशः" इत्यादि. श्रुतेः। ततस्तेभ्य एव आकाशादिभ्यो रजेोऽशैः कर्मेन्द्रियाणि वागादीन्युत्पद्यन्ते तत्क्रमस्तु-आकाशराजसाशाद्वागिन्द्रियमुत्पद्यते, वायो राजसाशाद् हस्ता, तेजसो राजसांशात्पादी, अपां राजसाशादुपस्थः, पृथिवीराजसांशात् पायुरिति, "तेषां क्रमेण" इत्यादि श्रुतेः । आमिलितै रजेोऽशैस्तेभ्य आकाशादिराजांशेभ्य प्रासमन्तान्मिलितेभ्योऽसवः प्राणा उत्पद्यन्ते । एकोऽपि प्राणो वृत्तिभेदेन पञ्चविधः । तथा हि-प्राग्गमनवान् नासास्थानवर्ती प्राणः, अवाग्गमनवान् पाय्वादिस्थानवर्ती अपानः, विष्वग्गमनवान् सर्वशरीरवर्ती व्यानः, उर्वगमनवान् कण्ठस्थानवर्ती उद्दानः, अशितपीतान्नपानादिसमीकरणकरोऽखिलशरीरवर्ती समान इति ॥ १७ ॥
दिग्वातसूर्यवरुणाखिचतुर्मुखेन्दु
वहीन्द्रविष्णुमृतिका इति देवताः स्युः। श्रोत्रत्वगक्षिरसनाक्षितिधीमनावाग
हस्ताज्रिपायुजननेन्द्रियवर्गनिष्ठाः ॥१८॥
एवं सप्तदशावयवात्मकलिङ्गशरीरसृष्टिप्रकारमुक्ताऽधुना इन्द्रियाणां बुद्धिमनसाश्वाधिष्ठातृदेवता दर्शयति-दिगिति । अत्र यत्क्रमणेन्द्रियायुक्तिः उत्तरार्द्ध, पूर्वार्द्ध तत्क्रमेणाधिष्ठातृदेवतोक्तिरिति बोध्यम् । क्षितिशब्देन तत्कार्यत्वात् तद्गुणगन्धग्राहकं घ्राणेन्द्रियमुच्यते, कारणवाचकशब्दस्य कार्ये बहुधा प्रयोगोपलम्भात् । “गोभिः श्रोणीत मत्सरम्" इतिवद् “धान्यमसि'इतिवच्च द्रष्टव्यम् । क इति प्रजापतिरित्यर्थः । उभयत्रेतरेतरद्वन्द्वः ॥ १८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #289
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
तत्राद्यकारणशरीरसमष्टिरीशोपाधिर्नृणां पृथगुपाधिरथैकदेशः । प्राज्ञेशभेदक इतः पृथगस्ति सूक्ष्मापाधिश्च सप्तदशभिः करणैर्द्विधैव ॥ १८ ॥
इदानों समष्टिव्यष्टिभेदेन कारणादिशरीरत्रिकस्य तदभिमानित्रिकस्य च द्वैविध्यमुपपादयितुमादौ कारणशरीरं तदभिमानिद्वै विध्यं दर्शयति — तत्रेति । सूक्ष्मशरीरोपपादनप्रसङ्गेन स्मृते कारणोपाधी
धं कारणशरीरं रजस्तमाभ्यामनभिभूतसत्त्वं मायाशक्तिरूपं सर्वोपादानतया समष्टिरित्युच्यते । ईशोपाधिस्तदुपहितचैतन्यमीश्वरः । स च ज्ञानशक्त्युपद्दितस्वरूपेण जगत्कर्त्ता, विक्षेपादिशक्तिमदज्ञानापहितस्वरूपेण जगदुपादानमिति द्रष्टव्यम् । नृणां जीवानां पृथगुपाधिर्व्यष्टिरूपः रजस्तमाभ्यामनभिभूतसत्त्वमविद्याख्यम् । अथवा एकदेशोऽन्तःकरणं तदुपाधिः " कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः" इति वचनात्, अविद्योपाधिरन्तःकरणोपाधिर्वा जीवः प्राज्ञ इत्युच्यते । शुद्धस्तत्त्वप्रधानमायोपाधिरीश्वर इति विभागहेतुः । कारणकार्य्यरूपेण समष्टिव्यष्टिरूपेण वा एकैव मूलप्रकृतिरिति द्रष्टव्यम् । एवं कारणशरीरद्वैविध्यमभिधाय सूक्ष्मशरीर द्वैविध्यमाह — इत इति । इतः कारणशरीरात् तत्त्वज्ञानेक निवत्यात् पृथक् सूक्ष्मोपाधिर्लिङ्गशरीरं सप्तदशभिः करणैर्जीवमोक्षपर्यन्तं भोगसाधनैरवयवैः समष्टिव्यष्टिभेदेन द्विप्रकारकमित्यर्थः ॥ १८ ॥
३३
२५७
सूत्रात्मतैजसभिदाप्यमुतः समष्टि
व्यष्टद्युद्भवा व्यवहृतौ परजीवयाः स्यात् । ज्ञानक्रियाकरणशक्तियुतं हि सूक्ष्मकाशत्रयात्मकमिदं जनिमृत्युहेतुः ॥ २० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #290
--------------------------------------------------------------------------
________________
२५८
प्रत्यक्तत्वचिन्तामणौ ___ एतदेव विवृणोति--सूत्रेति । अमुतोऽप्यमुख्यलिङ्गशरीरसमष्टिव्यष्ट्युद्भवा सूत्रात्मतैजसभिदा परमात्मजीवयोर्व्यवहारे स्यादिति योजना अयमर्थः-अपञ्चोकृतपञ्चमहाभूततत्कायंसप्तदशलिङ्ग समष्टिरित्युच्यते । एतदुपहितं चैतन्यं सर्वानुस्यूतत्वात् सूत्रात्मा, ज्ञानशक्तिमदन्तःकरणोपहितत्वाद्धिरण्यगर्भः, क्रियाशक्तिमदधिदैवतप्राणरूपत्वात्प्राण इति चोच्यते । केचित्तु-पूर्वोक्तापञ्चोकृतेभ्यो भूतेभ्यः सर्वव्यापकं लिङ्गशरीरं पृथगेवोत्पन्नं तदेव समष्टिरित्युच्यते। समष्टित्वन्नाम जात्यादिवत्सर्वव्यष्टिष्वनुस्यूतत्वम् । तदुक्तं___ "तेभ्यः समभवत् सूत्रं लिङ्ग सर्वात्मकं महत्"-इत्याहुः । अपरे वनवलिङ्गशरीरसमुदायः समष्टिः, प्रत्येकं लिङ्गशरीरं व्यष्टिरिति वदन्ति । व्यष्टित्वं नाम व्यक्तिवव्यावृत्तत्वम् । एतदुपहितं चैतन्य तैजस इत्युच्यते, तेजोमयान्त:करणोपहितत्वात् । सामान्यविशेषयोरिव जातिव्यक्त्योरिव च समष्टिव्यष्टयोस्तादात्म्याभ्युपगमात्तदुपहितयोस्तैजससूत्रात्मनोरपि तादात्म्यमिति । उक्तस्य सूक्ष्मशरीरस्य सूक्ष्मकोशत्रयात्मकत्वमपीत्याह-ज्ञानेति । इदं सूक्ष्मकोशत्रयात्मकं ज्ञानक्रियाकरणशक्तित्रययुतं भवति । क्रियाशक्तिमान् कम्र्मेन्द्रियैः सहितः प्राणः प्राणमयः कोशः, करणशक्तिमान् कर्मेन्द्रियैः सहितं मनो मनोमयः कोशः, ज्ञानशक्तिमान् ज्ञानेन्द्रियैः सहिता बुद्धिर्विज्ञानमयः कोश इति कोशत्रयात्मकं लिङ्गम विद्याकामकर्मविशिष्टं जन्ममृत्युप्रवाहसंसारहेतुः, तत्त्वज्ञानमन्तरेणानुच्छेद्यत्वादित्यर्थः ॥ २० ॥
एतैरपञ्चीकृतभूतवर्ग___स्तमोगुणाढ्यैः प्रकृतेर्विकारैः। पञ्चीकृतानीशकटाक्षतः स्यु
स्तेभ्योऽण्डमुत्पद्यत ईशसृज्यम् ॥ २१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #291
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम्।
२५६ एवं सूक्ष्मशरीरोत्पत्तिं सपरिकरां निरूप्य स्थूलशरीरोत्पत्तिं सप्रकारमाह-एतैरिति । एतैः पूर्वोक्तैरपञ्चीकृतैर्भूतवगैस्तमोगुणसम्पन्नर्मायाविकारैरीशकटाक्षतस्तदीक्षणमात्रेण पञ्चोकृतानि स्थूलभूतानि स्युरुत्पद्यन्ते-इति योजना। पञ्चीकरणन्तु पूर्वोक्तानामाकाशादीनां मध्ये एकैकं द्विधा समं विभज्य, तत्रैकं चतुर्धा विभज्य, स्वांशं परित्यज्य इतरांशेषु योजनम् । “त्रिवृतं त्रिवृतमेकैकां करवाणि" (छा० ६ । ३ । ३) इति त्रिवृतकरणतेः पञ्चोकरणस्याप्युपलक्षणत्वात् पञ्चीकरणं प्रामाणिकमेव । “वैशेष्यात्तद्वादस्तद्वादः' इति न्यायेन खांशाधिक्यात् तद्विशेषत्र्यपदेशोऽपि सम्भवतीत्यर्थः । तेभ्यः पञ्चीकृतेभ्योऽण्डं ब्रह्माण्डमीशसृज्यमीशकर्तृकमुत्पद्यते इत्यर्थः ।। २१ ।। शक्तयाऽजया सृजति सर्वविदीश एष
भूम्यन्तरिक्षसुरलोकमहर्जनादीन् । लोकाँश्चतुर्दश तदन्तरनेकदेहान्
देवासुरोरगमनुष्यमुखाभिधानान् ॥ २२ ॥ एवं पञ्चीकृतस्थूलभूतोत्पत्तिं तेभ्यो ब्रह्माण्डोत्पत्तिमभिधाय, अधुना तदन्तश्चतुर्दशभुवनोत्पत्तिं तदन्तरनेकदेवादिदेहोत्पत्तिञ्च दर्शयतिशक्त्येति। भूर्भुवःस्वमहर्जनस्तपःसत्यमित्यूद्धर्व सप्तलोकान्, अतलवितलसुतलतलातलमहातलपाताल रसातलाभिधानानधः सप्तलोकान्, तदन्तश्चतुर्दशविधान देवादिनामधेयान् देहान्, एष सर्ववित् तत्पदार्थो महेश्वरोऽजया मायया शक्तया सृजत्याविर्भावयतीत्यर्थः ।। २२ ।। एतत्समष्टिरपि सर्वगतेश्वरस्य
व्यष्टिनरस्य वपुरल्पगता पृथक्त्वात्। विश्खो विराडपि समानविशेषभावा
दैक्यं तयोरभिमतं वनवृक्षवच्च ॥ २३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #292
--------------------------------------------------------------------------
________________
२६०
प्रत्यक्तत्त्वचिन्तामणौ स्थूलशरीरद्वैविध्यं दर्शयति-एतदिति। एतत्पञ्चोकृतपञ्चमहाभूततत्काय ब्रह्माण्डं तदन्तवर्त्तिसर्वकार्यजातं समष्टिरित्युच्यते । अथवा व्यक्तिषु गोत्वादिवत्सर्वव्यष्टिध्वनुस्यूतं पञ्चोकृतभूतकार्य ब्रह्माण्डात्मकं व्यापकं समष्टिः, वनवत् सकल शरीरसमुदायो वा समष्टिरित्युच्यते। ईश्वरस्योपाधिः सर्वगतेत्यर्थः। एतदुपहितं चैतन्य विविधं राजमानत्वाद् विराडिति, सर्वनराभिमानत्वाद् वैश्वानर इति चोच्यते। व्यष्टिर्वपुः शरीरं प्रत्येकं पृथक्ताद् व्यक्तिवद् भिन्नत्वादल्पगता वृक्षवत् स्वल्पदेशगता। परिच्छिन्नमिति यावत् । नरस्य जीवस्योपाधिरित्यर्थः। तथा प्रत्येकं स्थूलशरीरं गवादिव्यक्तिवद् व्यावृत्तं व्यष्टिरित्युच्यते, तदुपहितं चैतन्यं विश्व इत्युच्यते। सूक्ष्ममपरित्यज्य स्थूलशरीरं प्रविष्टत्वाद् अनयो: समष्टिव्यष्टयोः सामान्यविशेषयोरिव तादात्म्याभ्युपगमादेतदुपहितयोरपि विश्ववैश्वानरयोरैक्यं तादात्म्यं वनवृक्षयोस्तदवच्छिन्नाकाशयोरिवेत्यर्थः ।। २३ ।।
जीवात्मना प्रविशतीवर एष सर्व
देहेषु नात इतरा चिदियं महेशात् । सर्व जगच्च परमेश्वर एव तस्माद्
वेदान्तवाग्भिरिति धीरपवर्गहेतुः ॥ २४ ॥ एवं भूतभौतिकसृष्टिमभिधाय, अधुना "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि' (छा०६।३ । २) इति श्रुतेरीश्वरस्यैव सर्वजीवात्मना प्रवेशश्रवणात्तयोर्भेदगन्धोऽपि नास्तीति दर्शयतिजीवात्मनेति । एष स्वयंप्रकाशतया स्वतो नित्यसिद्ध ईश्वरः स्वसृष्टेषु सर्वदेवनरतिर्यगादिषु जीवात्मना जीवरूपेण प्रविशति। ततः किमित्यत्राह-नेति । अतो हेतोरियं चिदपरोक्षं जीवचैतन्यं महेशाज. गदाकारपरिणममानमायाधिष्ठानाद् ब्रह्मण इतरा न भवति, भेदानिरू
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #293
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम्।
२६१ पणात्ततोऽपि किं तत्राह-तस्मादिति । यस्माद् ब्रह्मैव जीवरूपेणापि देहेषु प्रविष्टं तस्माद्वेदान्तवाग्भिः 'तत्त्वमसि' (छा०६।८।७) "अयमात्मा ब्रह्म' (बृ० २ । ५। १६) “सर्व खल्विदं ब्रह्म' (छा० ३ । १४। १)"पुरुष एवेदं सर्वम्।' "नारायण एवेदं सर्वम्।" "आत्मैवेदं सर्वम्" (छा ७ । २५ । २) इत्यादिरूपाभिः सर्व जगत्कार्यमानं जडत्वेन भासमानमपि चात्कारणमप्यज्ञानादिशब्दवाच्यं परमेश्वर एवेति धीस्तत्त्वज्ञानमपवर्गहेतुः, सर्व कार्यकारणबाधोपलक्षितनिरतिशयानन्दाविर्भावलक्षणे मोक्षस्तस्य हेतुरित्यर्थः । तथा च दृश्यात्यन्ताभावोपलक्षितप्रत्यगभिन्नब्रह्मात्मतत्त्वबोधे मुमुक्षभिर्यतितव्यमिति भावः ॥ २४ ॥
स्वानन्दलेशत इदं जगदीश्वरोऽसौ
पाति स्थिती विविधशक्तिरखण्डबोधः । साक्षीशजीववपुषा स्थिरजङ्गमेषु
तिष्ठन्न चेषदपि लिप्यत आत्मतन्त्रः ॥२५॥ एवं तत्पदार्थस्य जगजन्महेतुत्वं प्रदर्श्य स्थितिहेतुत्वमपि दर्शयति-स्वानन्देति । असावीश्वर इदं जगद् ब्रह्मादिस्थावरान्तं स्थितिसमये स्वानन्दलेशेन पालयति, "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' (बृ. ४ । ३ । १३) इति श्रुतेः; "फलमत उपपत्तेः” ( ब्र० सू० ३।२। ३८) इति न्यायाच्च। सर्वस्यापि जगतो युगपद्विरुद्धानेकफलदातृत्वे हेतुगर्भ विशेषणं-विविधशक्तिरिति । अनन्तशक्तित्वादचिन्त्यमाहात्म्याच्च सर्व सङ्गच्छते इत्यर्थः। तस्य सार्वात्म्यमाह-साक्षीति। साक्षो कूटस्थचैतन्यम, ईशोऽन्तर्यामिचैतन्यम, जीवोऽन्तःकरणप्रतिबिम्बितचैतन्यम्, एतस्त्रितयवपुषा सर्वात्मरूपेण स्थिरजङ्गमात्मकेषु देहेषु तिष्ठन्निवसन्न चेष
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat
Page #294
--------------------------------------------------------------------------
________________
२६२
प्रत्यक्तत्त्वचिन्तामणौ दपि मनागपि न लिप्यते तच्छरीरविकारैरसंस्पृष्टतया नित्यकूटस्थ इत्यर्थः "असङ्गो ह्ययं पुरुषः (बृ० ४ । ३ । १५) असङ्गो नहि सज्जते" (बृ० ४ । ४ । २२) इति श्रुतेः। तत्र हेतुगर्भ विशेषणम्-आत्मतन्त्र इति। सदा स्वानन्दतृप्तत्वेन नित्यस्वतन्त्र इत्यर्थः। नहि स्वतन्त्रस्यान्यसंसर्गरूपपारतन्त्र्यमस्तीति भावः । तत्रापि हेतुः-अखण्डबोध इति । देशादित्रिविधपरिच्छेदशून्यत्वादखण्डबोधस्वरूप इत्यर्थः । “सत्यं ज्ञानमनन्तं ब्रह्म" ( तै० २ । १ । १) इति । नहि अखण्डबोधस्य कदापि स्वातन्त्र्यव्याहतिरिति भावः ॥ २५ ॥
सुप्तौ लयं व्रजति विश्वमिदं स्वहेतो ____संस्काररूपत इतः पुनरप्युदेति । स्वाविद्यया न तु समूलमुपैति नाशं
तस्मान्नृणां स्मरणमुख्यमपीक्ष्यतेऽत्र ॥२६ ॥ एवं स्थितिहेतुत्वमभिधायेदानी प्रलय हेतुत्वं तस्य प्रदर्शयितुं चतुर्विधप्रलयं निरूपयिष्यन्नादौ नित्यप्रलयं सुषुप्तिरूपं सप्रकारं निरूपयति--सुप्ताविति । सुषुप्तिर्नित्यप्रलयः, तत्रेदं सकलं विश्वं कार्य लयं व्रजति । ननु तहि तत्कार्यमात्रविलये धर्माधर्मादिविलयात् सुप्तोत्थितस्य सुखदुःखाद्यनुपपत्तिरित्याशक्य धर्माधर्मयो: पूर्वसंस्काराणाञ्च तदा सुषुप्तौ कारणात्मनाऽवस्थानान्मैवमित्याह-वहेताविति । तथा च कारणसद्भावात् सुप्तोत्थितस्य न सुखदुःखाद्यनुपपत्तिरित्यर्थः । तदेव विवृणोति-इत इति। इतो धर्माधर्मादे: संस्कारात्मनाऽस्थानात् स्वाविद्यया इदं विश्वं पुनरपि जागरादावाविर्भवतीत्यर्थः। यतो न तु समूलं नाशमुपैति, तस्मान्नृणां जीवानामत्र जागरे स्मरणादिरपीक्ष्यते इत्यर्थः ॥ २६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #295
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
२६३ शक्तिद्वयं मनस इष्यत प्राविमोक्षं
ज्ञानात्मिका लयमुपैति सुषुप्तिकाले। शिष्टा क्रिया तत इदं हि शरीरभानं
यद्वान्यदृष्टित इदं भ्रमजं विभाति ॥२७॥ ननु सुप्तावन्त:करणस्यापि विलये तदधीनप्राणादिक्रियाया अनुपपत्तिरित्याशङ्क्याह-शक्तिद्वयमिति। मनसोऽन्तःकरणस्य द्वे शक्तो—ज्ञानशक्तिः, क्रियाशक्तिश्चेति। प्राविमोक्षमोक्षपर्यन्तं संसारान्यथानुपपत्त्या इष्यते इत्यर्थः । तत्र ज्ञानशक्तिविशिष्टान्तःकरणं सुषुप्तिकाले लयमुपैति । क्रियाशक्तिविशिष्टान्तःकरणं तत्र शिष्यते । तत एवेदं हि लोकप्रसिद्धं प्राणाद्यवस्थानपूर्वकं शरीरभानं सङ्गच्छते । प्रकारान्तरेण समाधानमाह-यदेति। वस्तुतः सुप्तपुंसः स्वदृष्टया श्वासाद्यभावेऽप्यन्यदृष्टितस्तदिदं भ्रमजं प्राणादिक्रियासहितं शरीरादि विभाति । तथा च तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् सुषुप्तशरीरोपलम्भवन्न तेनानुपपत्तिः शडक्येति भावः ॥ २७ ॥ सुप्तो न कञ्चन यदा परिपश्यतीति
श्रौतं वचो भवति मानमतः सुषुप्ता। साम्यं गतोऽपि परमात्मपदेन जीवः
__ स्वाज्ञानशेषत उपैति पुनर्धमाब्धिम् ॥२८॥ नित्यप्रलयः सुषुप्तिरित्यत्राऽप्रमाणशङ्काव्युदासाय “यत्रतत्पुरुषः सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन प्राण एवैकधा भवति तदैनं वाक सर्वैर्नामभिः सहाप्येति" ( कौ० ३ । ३) “सता सोम्य तदा सम्पन्नो भवति स्वमपीता भवति" (छा०६।८।१) इत्यादिश्रुति सुषुप्तौ प्रमाणत्वेनार्थतः पठति-सुप्त इति । मषुप्ति प्राप्तः पुरुषो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #296
--------------------------------------------------------------------------
________________
२६४
प्रत्यक्तत्त्वचिन्तामणौ जाग्रत्स्वप्नवृत्चिद्वयविनिर्मुक्तो भवति। सर्व स्थूलसूक्ष्मशरीरद्वयं तत्र न पश्यति । सर्वव्यापारोपरमे परमात्मपदेन श्रुतौ सच्छब्दितेन जीवोऽयं साम्यं गतो भवति । अविद्याकामकर्मवासनावशेषसद्भावात् पुनर्जाग्रत्स्वप्नरूपप्रपञ्चभ्रमावर्त्त दुःखसमुद्रमुपैतीति तात्पर्यार्थः ॥ २८॥
सुप्तौ यतः सकलमेति लयं जगत्तद् ___जाग्रत्युदेति पुनरात्मपदासबोधात् । नित्योऽयमस्ति विलयः श्रुतिवाक्यसिद्धः
प्राज्ञत्वमेति खलु यत्र स विश्वसंज्ञः॥२६॥
नित्यं प्रलयं सप्रमाणकमुपसंहरति-सुप्ताविति । “सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति" ( कै० १।१३) "प्रानन्द भुक् प्राज्ञः" इत्यादिश्रुतिसिद्धसुषुप्तिरूपनित्यप्रलये सकलसंसारविलयः प्रामाणिकोऽस्तीति पुनरप्यज्ञानवशात् सकलं भूतभौतिकप्रपञ्च जाग्रदादौ प्रातिभासिकमेव व्यावहारिक्यां दशायां सत्यवदनुभवतीत्यर्थः ॥ २६ ॥
कार्यब्रह्मविनाशहेतुक इति मोक्तो लयः प्राकृतो
भूतानीह तदुत्यभौतिकगणा ब्रह्माण्डमेतद् गृहम् । सर्व तत्प्रकृती प्रयाति विलयं मायाभिधायां यतस्तत्त्वज्ञानमृते लयो न परमे ब्रह्माद्वये सम्भवेत्॥३०॥
द्वितीयं प्राकृताख्यं प्रलयं निरूपयति–कार्यब्रह्मेति । द्विपरार्द्धान्ते कार्यब्रह्मणो यो विनाशस्तन्निमित्तकः सकलकार्यविनाशः प्राकृतो लय: प्रोक्त इति सम्बन्धः । यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #297
--------------------------------------------------------------------------
________________
२६५
षष्ठं प्रकरणम् । कार्यब्रह्मणः "सहसिद्धं चतुष्टयम्" इति शास्त्राद् ब्रह्माण्डाधिकारलक्षणप्रारब्धकर्मसमाप्तौ विदेहकैवल्यात्मिका परममुक्तिस्तदा तल्लोकवासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह विदेहकैवल्यम् ,
"ब्रह्मणा सह ते सर्वे सम्प्राप्त प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ।" इति श्रुतेः। एवं स्वलोकवासिभिः सह इह कार्यब्रह्मणि मुच्यमाने भूतानि वियदादीनि तेभ्यो भूतेभ्य उत्तिष्ठन्तीति तदुत्था भौतिकगणाः स्थावरजङ्गमात्मका देहास्तदाधाराश्चतुर्दश लोका एतेषां सर्वेषां तदधिष्ठातुश्च ब्रह्मणो गृहं ब्रह्माण्डम् , एतत्सर्व प्रकृतौ मायाविद्यादिशब्दवाच्यायां विलयं प्रयाति, न तु ब्रह्मणि, यतस्तत्त्वज्ञानं विना परमे ब्रह्माद्वये लयो न सम्भवेत, बाधरूपविनाशस्यैव ब्रह्मनिष्ठत्वात् । अतोऽयं लयः प्राकृत इत्युच्यते इत्यर्थः । तदुक्तं पुराणे
"द्विपरार्द्ध त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्प्यन्ते प्रलयाय हि ॥
एष प्राकृतिको राजन् ! प्रलयो यत्र लीयते।” इति ॥ ३० ॥ कार्यब्रह्मदिनावसानविलयः प्रोक्तः स नैमित्तिको
ब्रह्माहस्तु सहस्रमत्र मुनिभिः प्रोक्तं युगानां खलु । तावत्येव हिरण्यगर्भरजनी यावत्प्रमाणं दिनं यत्रोत्पद्य विलीयते त्रिभुवनं सोऽयं लयोऽवान्तरः॥३१॥
नैमित्तिकप्रलयं तृतीयं दर्शयति-कार्येति। कार्यब्रह्मणो दिवसावसाननिमित्तकस्बैलोक्यमात्रप्रलयो नैमित्तिकप्रलयः । ब्रह्मदिवसश्चतुर्युगसहस्रपरिमितकालः। “चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।" इत्येवं मुनिभिः प्रोक्तम् । प्रलयकालोऽपि दिवस
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #298
--------------------------------------------------------------------------
________________
२६६
प्रत्यक्तत्त्वचिन्तामणौ काल परिमितः, रात्रिकालस्य दिवसकालतुल्यत्वादित्याह–तावतीति । एषोऽयमवान्तरो नैमित्तिक इति। तदुक्तम्
"एष नैमित्तिकः प्रोक्तः प्रल यो यत्र विश्वसृक। शेतेऽनन्तासने नित्यमात्मसात्कृत्य चात्मभूः ॥” इति ॥३१॥
ब्रह्मज्ञाननिमित्तकः प्रविलयोऽस्त्यात्यन्तिकस्तुर्यको
नानाजीवमते क्रमेण स भवेन्मोक्षः स्वरूपस्थितिः। एकाज्ञानिमते भवेत्स युगपन्मोक्षोऽप्यविद्याक्षये तवं प्रलया महेश्वरकृताः कर्मोपरामादिभिः॥३२॥
क्रमप्राप्तं तुरीयं प्रलयमाह-ब्रह्मज्ञानेति। तुरीयप्रलयो ब्रह्मसाक्षात्कारनिमित्त प्रात्यन्तिकः । स च मोक्षस्वरूपो नानाजीवादेः क्रमेण भवति, “सर्वे एकीभवन्ति" इत्यादिश्रुतेः । एकाज्ञानिमते एकजीववादे सर्वमोक्षा युगपदेवाविद्याया बाधे तत्कार्यबाधादन्यानवशेषादिति । तत्र प्राद्यास्त्रयोऽपि प्रलयाः कर्मोपरमनिमित्ता: । तुरीयस्तु ज्ञानोदयनिमित्तो लयो ज्ञानेन स हैवेति शेषः ।। ३२ ।।
सृष्टिक्रमात्प्रविलयोऽब्धिपरीत इष्टे
हेतुक्षये स्थितिमिदं लभते न कार्य्यम् । स्वादृष्टनाशत उपैति लयं स्वहेतो
सर्वक्षये परमकारणतां प्रयाति ॥३३॥ एवं चतुर्विधप्रलयं निरूप्य तस्येदानी क्रम निरूपयति-सृष्टोति । भूतानां भौतिकानाञ्च कारणलयक्रमेण लयोऽयुक्तः, कारणलयसमये कार्याणामाश्रयान्तराभावेनावस्थानानुपपत्तेः । किन्तु सृष्टिक्रमाद्विपरीतक्रमेण प्रविलय इष्टोऽस्ति । स्वादृष्टनाशतः कार्य स्वहेता लयमुपैति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #299
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
२६७ तथा च तत्तत्कार्यनाशे वत्तज्जनका दृष्टनाशस्यैव प्रयोजकतया उपादाननाशस्याप्रयोजकत्वात् । अन्यथा न्यायमतेऽपि महाप्रलये पृथिवी - परमाणुगत रूपरसादेरविनाशापत्तेरिति भावः । अतः सर्वक्षये सति कार्यमात्रं कारणता कारणस्वरूपेणावस्थानं प्रयातीत्यर्थः ।। ३३ ।।
पृथ्व्यपसु तेजसि जलं लयमेति वाया तेजा मरुत्तु गगने खमहङ्कृतौ च । साऽहङ्कृतिर्महति याति लयं महांश्च
मायामय: स्वप्रकृतौ विलयं प्रयाति ॥ ३४॥
-
विपरीतक्रमं दर्शयति — पृथिवी प्रप्सु, प्रापस्तेजसि, तेजा वाया, वायुर्गगने, गगनमहङ्कृतौ, साऽहङ्कृतिरहङ्कारो महति महत्तत्त्वे, हिरण्यगर्भाहङ्कारेण महत्तत्त्वच मायाविकारत्वात् स्वप्रकृतौ मायायां विलयं प्रयातीति योजना । तदुक्तं
" जगत्प्रतिष्ठा देवर्षे ! पृथिव्यत्सु प्रलीयते ! तेजस्यापः प्रलीयन्ते तेजेा वाया प्रलीयते || वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन् ! निष्कले सम्प्रलीयते ॥” इति ॥ ३४ ॥
विश्वोद्भवस्थितिलयै क कर त्वमेव
स्याल्लक्षणं भगवतेाऽस्य तटस्थमेतत् । अध्यस्तमेव परमात्मनि कार्य्यजातं
तस्मिन्निषिद्धमिदमद्वयमेव सिद्धम् ॥ ३५ ॥
एवं जगज्जन्मस्थितिप्रलयहेतुत्वं ब्रह्मणस्तटस्थ लक्षणं सिद्धमित्याहविश्वाद्भवेति । तटस्थलक्षणनिरूपणेन यत्फलितं तदाह — अध्यस्त - मिति ।। ३५ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #300
--------------------------------------------------------------------------
________________
२६८
प्रत्यकूतत्त्व चिन्तामणौ
सृष्ट्यादिवाक्यमपि तत्परमद्वितीये
ह्यारोप्य तत्र सकलं प्रतिषिध्यतेऽदः । तेनापि सच्चिदमितात्मपदं विशुद्धं
सिद्धयेदखण्डमिति वेदशिरो मतं सत् ॥ ३६ ॥
ननु वेदान्तैर्ब्रह्मणि जगत्कारणत्वेन प्रतिपाद्यमाने सति ब्रह्म सप्रपच स्यात् । अन्यथा सृष्टिवाक्यानामप्रामाण्यापत्तेरित्याशङ्क्य नहि सृष्टिवाक्यानां सृष्टौ तात्पर्य्यम्, किन्तु द्वितीये ब्रह्मण्येव तत्प्रतिपत्तौ कथं सृष्टेरुपयोगः ? इत्थं यदि सृष्टिमनुपन्यस्य निषेधा ब्रह्मणि प्रतिपाद्येत, तदा ब्रह्मणि प्रतिषिद्धस्य प्रपञ्चस्य वाया प्रतिषिद्धस्य रूपस्येव ब्रह्मणोऽन्यत्रावस्थानशङ्कया न निर्विचिकित्समद्वितीयत्वं प्रतिपादितं स्यात् । ततः सृष्टिवाक्याद् ब्रह्मोपादेयत्वज्ञाने सति उपादानं विना कार्यस्यान्यत्र सद्भावशङ्कायां निरस्तायां "नेति नेति' ( वृ० २६/६ ) इत्यादिनापि ब्रह्मण्यपि तस्यासत्त्वोपपादने प्रपञ्चस्य तुच्छत्वावगमे निरस्त निखिल द्वैतविभ्रममखण्डं सच्चिदानन्दैकरसं ब्रह्म सिद्धयतीति परम्परया सृष्टिवाक्यानामप्यद्वितीये ब्रह्मण्येव तात्पर्यमित्याशयेन समाधत्ते — सृष्ट्यादिवाक्यमिति || ३६ ||
एवं तटस्थनिजरूपसुलक्षणाभ्यां
संलक्षितं भवति तत्पदवाच्यमच्छम् । चैतन्यमीश्वरपदास्पदमात्मशक्ति
मायाश्रितं निजमहिम्नि सदा स्थितं तत् ॥ ३७ ॥
तदेवं स्वरूपतटस्थ लक्षणलक्षितं तत्पदार्थ निरूपणमुपसंहरतिएवमिति । तत्पदवाच्यं चैतन्यमीश्वरपदास्पदं मायाशक्त्याश्रितं तट -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
----
www.umaragyanbhandar.com
Page #301
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् । स्थलक्षणलक्षितं निजमहिम्नि स्थितं तदेवाच्छं तत्पदलक्ष्यं स्वरूपलक्षणलक्षितमिति विवेकः ॥ ३० ॥
केचित्त मायाप्रतिबिम्बमीश्वरं
वदन्ति तेषामयमाशयो भवेत् । जीवेशसाधारणचिद्घनं पदं
बिम्ब विशुद्धात्मतया पृथस्थितम् ॥३८॥ एवं वेदान्तवेद्यं ब्रह्मैकमेवाद्वितीयमिति प्रसाध्य, तदैक्यबोधसिद्धये तत्त्वंपदार्थोपदेशसरणयो नानाविधास्तत्त्वविद्भिनिरूपिताः, तेषु पक्षेषु काँश्चित्पक्षानिह दर्शयति-केचित्त्विति । तत्पदवाच्यमीश्वरचैतन्यं मायायां प्रतिबिम्बरूपं वदन्ति । तेषामयमाशयो भवति जीवपरमेश्वरसाधारणं चैतन्यमानं विम्बं विशुद्धात्मतया पृथकस्थितम् भवतीत्यर्थः ।। ३८ ॥
मायाशक्तौ प्रतिफलमिदं हीशचैतन्यमिष्टं
कार्योपाधी मनसि फलजाज्जीवचैतन्यमेतत् । एतत्पक्ष प्रतिफलचितोर्बुद्ध्यविद्यास्थयाः स्या
दैक्यं पायोनिधिघटजलस्थावत्सम्मतञ्च ॥३८॥ एतदेव विवृणोति-मायेति । ब्रह्मचैतन्यबिम्बभूतस्य मायाशक्ती प्रतिफलं प्रतिबिम्बमीश्वरचैतन्यमिष्टं भवति । कार्योपाधावन्तःकरणे प्रतिबिम्बनाच्चैतन्य जीवचैतन्यं भवति, "कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः" इति वचनात् । एतन्मते जलाशयगतघटशरावादिजलगतसूर्यप्रतिबिम्बयोरिव जीवपरमेश्वरयोर्बुद्धवविद्यास्थयोः कार्यकार. योपाधिप्रतिबिम्बचैतन्ययोरैक्यं सम्मतं स्यादित्यर्थः ॥ ३६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #302
--------------------------------------------------------------------------
________________
२७०
प्रत्यक्तत्त्वचिन्तामणौ स्याद् व्याएकापाधितयेश्वरस्याऽ
पि व्यापकत्वं प्रकृतेश्च हेताः। बुद्धः परिच्छिन्नतयाऽल्पकत्वं
जीवस्य लोके तदुपाधिकस्य ॥ ४० ॥
तयोर्व्यापकत्वपरिच्छिन्नत्वभेदोऽपि तत्तदुपाधिकृत इत्याहस्यादिति । प्रकृतेरुपादानस्य हेतीनिमित्तस्य जगजन्मादेरभिन्ननिमित्तोपादानरूपस्येश्वरस्य व्यापकत्वं व्यापकोऽपरिच्छिन्नो मायाख्य उपाधिर्यस्य तस्य भावस्तत्ता तया बुद्धेः परिच्छिन्नतया तदुपाधिकस्य जीवस्यापि लोके व्यवहारदशायामल्पकत्व परिच्छिन्नमिति योजना ॥४०॥
एतन्मते जीव इवेखरेऽप्य
विद्याकृता देोषगुणा भवेयुः। उपाधिधर्मः प्रतिबिम्बगः स्या
दितोऽस्ति बिम्बः परमेश्वरोऽसौ ॥४१॥
एतस्मिन्पक्षे बहुविरोध इत्याह-एतन्मत इति । अविद्याकृता दोषा जीवे इव परमेश्वरेऽपि स्युरुपाधेः प्रतिबिम्बपक्षपातित्वादित्यस्वरसाद्विम्बचैतन्यमेवासौ परमेश्वर इति योजना ।। ४१ ॥
बिम्बत्वाक्रान्तमेकं निरवधि
वपुषाऽस्तीशचैतन्यमच्छ छायात्वाक्रान्तमेतन्निजपद
विमुखं जीवचैतन्य मिष्टम।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #303
--------------------------------------------------------------------------
________________
२७१
षष्ठं प्रकरणम् । बिम्बाद्याभासहेतुः प्रकृति
रियमिहोपाधिरेकात्मवादे नानाजीवात्मवादे मन इति
कथितो बिम्बनादा उपाधिः॥४२॥
इमं पक्षं विवृणोति-बिम्बत्वाक्रान्तमिति । एकमेव चैतन्य बिम्बस्वाक्रान्तमीश्वरचैतन्यमपरिच्छिन्नस्वरूपेणाऽत्यन्तनिर्मलं प्रतिबिम्बत्वाक्रान्तञ्च जीवचैतन्यं स्वस्वरूपावरणेन संसाराभिमुखत्वमेव स्वस्माद्वैमुख्यं तस्येत्यर्थः । बिम्बप्रतिबिम्बकल्पनोपाधिश्च एकजीववादे अविद्या प्रकृतिशब्दवाच्या, अनेकजीववादे मन इति-अन्तःकरणान्येव। अविद्यान्तःकरणोपाधिप्रयुक्तो जीवपरभेद इत्यर्थः ॥ ४२ ॥
स्वाधीनीकृत्य मायां परम
सुखवपुः सर्ववित्सर्वशक्ति ब्रह्माद्वैतं विशुद्धं व्यवहृति
विषये सर्वकर्तीशभावम् । माप्तं चैतन्यमन्तःकरणगत
मगाज्जीवभावं स्वशक्तया भेदस्त्वौपाधिकाऽस्त्यद्वय
सुखवपुषाः प्रत्यगात्मेशयोहि ॥४३॥ अयं पक्षो युक्तियुक्त इति प्रदर्शयितुं तद्व्यवस्थामाह-स्वाधीनी
अयं पक्षो युक्तियुक्त कृत्येति। ब्रह्मचैतन्यं परमसुखवपुरद्वयानन्दस्वरूपं मायां स्वाधीनीकृत्येशभाव प्राप्तम्, अत एव व्यवहारदशायां सर्वकर्बपि विशुद्धमद्वैतमेव, सर्ववित्त्वात्सर्वशक्तित्वादोश्वरत्व तस्य। तदेव चैतन्यमन्त:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #304
--------------------------------------------------------------------------
________________
२७२
प्रत्यक्तत्त्वचिन्तामणौ करणगतं जीवभावमगात् प्राप्तम् । स्वशक्तया मायया कार्यकारणरूपया भेदोऽद्वयसुखस्वरूपयो: प्रत्यगात्मपरमेश्वरयाहि श्रुतिस्मृतिविद्वज्जनप्रसिद्ध औपाधिकोऽस्तीत्यर्थः ॥ ४३ ॥
औपाधिको दोषगणाऽस्ति जीवे
भ्रान्त्येह बुद्धिप्रतिबिम्ब एव। न बिम्बभूते परमेश्वरे स्या
दुपाधिपक्षः प्रतिबिम्ब एव ॥४४॥ पुनरस्य पक्षस्य निर्दुष्टत्वं द्रढयति-औपाधिक इति। उपाधेः प्रतिबिम्बपक्षपातित्वाजोवे एवौपाधिको दोषगणो न बिम्बभूते परमेश्वरे तेषां प्रवेश इत्यर्थः ।। ४४ ॥
एतन्मते व्योमगभास्करस्य
जलस्थभानारिव चास्त्यभेदः। प्रत्यकचिदद्वैतसुखात्मनाहि
श्रीताऽप्यखण्डैकरसस्वभावात् ॥ ४५॥
एतन्मते जीवपरयोरैक्यप्रकारमाह-एतन्मते इति। एतदुक्तं भवति विभेदजनके ज्ञाने नाशमात्यन्तिकं गते आत्मनो ब्रह्मणो भेद. मसन्तं कः करिष्यतीति स्मृत्या एकस्यैवाज्ञानस्य जीवेश्वरविभागोपा. धित्वप्रतिपादनाद्विम्बप्रतिबिम्बभावेन जीवेश्वरयोविभागः नोभयो. रपि प्रतिबिम्बमावेन उपाधिद्वयमन्तरेयोभयोः प्रतिबिम्बत्वायोगात् । तत्रापि प्रतिबिम्बो जीवः, बिम्बस्थानीय ईश्वरः, तथा सत्येव लौकिकबिम्बप्रतिबिम्बदृष्टान्तेन स्वातन्त्र्यमीश्वरस्य तत्पारतन्न्यं जीवस्य च युज्यते "प्रतिबिम्बगताः पश्यन्नृजुवक्रादिविक्रियाः । पुमान क्रोडेद्यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #305
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
२७३ ब्रह्म तथा जीवस्थविक्रियाः" इति कल्पतरूक्तरीत्या "लोकवत्तु लीलाकैवल्यम्' (ब्र० सू० २ । १ । ३३ ) इति सूत्रमपि सङ्गच्छते इति । तथा चाज्ञानप्रतिबिम्बितस्य जीवस्यान्तःकरणरूपोऽज्ञानपरिणामभेदो विशेषाभिव्यक्तिस्थानं सर्वतः प्रसृतस्य सवितृप्रकाशस्य दर्पण इव, अतस्तस्य तदुपाधिकत्वव्याहारोऽपि,न तावताऽज्ञानोपाधिपरित्यागः, अन्तःकरणोपाधिपरिच्छिन्नस्यैव चैतन्यस्य जीवत्वे योगिन: कायव्यूहाधिष्ठानत्वानुपपत्तेः । न च योगप्रभावाद्योगिनोऽन्तःकरणं कायव्यूहाभिव्यक्तियोग्यं वैपुल्यं प्राप्नोतीति तदवच्छिन्नस्य कायव्यूहाधिष्ठानत्वं युज्यत इति वाच्यम्। “प्रदीपवदावेशस्तथाहि दर्शयति' (ब० ४।४।१५) इति शास्त्रोपान्त्याधिकरणभाष्यादिषु कायव्यूहे प्रतिदेहमन्तःकरणस्य चक्षुरादिवद्भिन्नभिन्नस्यैव योगप्रभावात् सृष्टरुपवर्णनात् । प्रतिबिम्बे बिम्बाखूदमात्रस्याध्यस्तत्वेन स्वरूपेण तस्य सत्यत्वान्न प्रतिबिम्बरूपजीवस्य मुक्त्यन्वयासम्भव इति न तदतिरेकेण मुक्त्यन्वयावच्छिन्नरूपं जीवान्तरं वा प्रतिबिम्बजीवातिरिक्तं जीवेश्वर विलक्षणं कूटस्थशब्दितं चैतन्यान्तरं वा कल्पनीयम् । “अविनाशी वा अरेऽयमात्मा" (बृ० ४ । ५। १४) इति श्रवणं जीवस्य तदुपाधिनिवृत्तौ प्रतिबिम्बभावापगमेऽपि स्वरूपं न विनश्यतीत्येतत्परम् , न तदतिरिक्तं कूटस्थं नाम चैतन्यान्तरमितिपरम् , जीवापाधिनान्त:करणादिनावच्छिन्नं चैतन्यं बिम्बभूत ईश्वर एव । "यो विज्ञाने तिष्ठन्' (बृ० ३ । ७ । २२ ) इत्यादिश्रुत्या ईश्वरस्यैव जीवसन्निधानेन तदन्तर्यामिभावेन विकारान्तरवस्थानश्रवणादिति समस्तप्रघट्टकतात्पर्य्यार्थः ॥ ४५ ॥ व्योम्नाऽप्यरूपस्य जलाद्यपाधी
प्रत्यक्षदृष्टः प्रतिबिम्बभावः । तथास्त्वरूपस्य चिदद्वयस्य
मायाद्युपाधी प्रतिबिम्बभावः ॥ ४६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #306
--------------------------------------------------------------------------
________________
२७४
प्रत्यक्तत्त्वचिन्तामणौ ___ननु न नीरूपस्य ब्रह्मणः प्रतिबिम्बभावः प्रमाणपथमवतरति, यतो रूपवत एव तथात्वं दृश्यते, इत्याशङ्क्याह-व्योम्नोऽपीति । “यथा ह्ययं ज्योतिरात्मा विवश्वानपी भिन्ना बहुधैकोऽनुगच्छन् उपाधिना क्रियते भेदरूपो देवः क्षेत्रष्वेवमजोऽयमात्मा" ( उ० नि. ) "आभास एव च" (ब्र० सू० २ । ३ । ५० ) “अत एव चोपमा सूर्यकादिवत्' (ब्र० सू० ३ । २ । १८) इति श्रुतिसूत्राभ्यां ब्रह्मणः प्रतिबिम्बभावः प्रामाणिकः। नीरूपस्याप्याकाशस्य जलादा प्रतिबिम्बो दृष्टः, अन्यथा जानुदघ्नजलेऽत्यगाधत्वप्रतीतिर्न स्यादिति तात्पर्यार्थः ।। ४६ ॥
शुद्धं स्वतो ब्रह्म निजप्रमादा.
ज्जीवत्वमासाद्य भवं प्रयाति। यथा हि कुन्तीसुत एव को
राधेय इत्थं प्रथितिं मयातः॥४७॥ केचित्-कौन्तेयस्यैव राधेयत्ववदविकृतस्यैव ब्रह्मण एवाविद्यया जीवभावो व्याधकुलसंवर्द्धितराजकुमारदृष्टान्तेन "ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया विमुच्यते", इति बृहदारण्यकभाष्ये प्रतिपादनाद् राजसूनाः स्मृतिप्राप्तौ व्याधभावो निवर्त्तते, “यथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यत:'-इति वार्तिकोक्तेश्च । एवञ्च स्वाविद्यया जीवभावमापन्नस्यैव ब्रह्मणः सर्वप्रपञ्चकल्पकत्वादीश्वरोऽपि सह सर्वज्ञत्वादिकारणत्वादिधम्मैः स्वप्नोपलब्धदेवतावज्जीवकल्पितः—इत्याहुः, इत्यभिप्रेत्य पक्षान्तरं दर्शयति-शुद्धमिति ॥४७ ॥
स चाप्यवस्थात्रयवांश्च जाग्रत्
स्वप्नः सुषुप्तिस्त्विति ता अवस्थाः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #307
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
तत्रेन्द्रियद्वारत एव बोधा
वस्था भवेज्जाग्रदविद्ययोत्था ॥ ४८ ॥
एवं जीवेश्वरस्वरूपनिरूपणपरान् कांश्चित्पक्षान् प्रदश्येदानीं त्वंपदार्थ सपरिकरं निरूपयति स चेति 1 स जीवोऽवस्थात्रयवान् भवति । ता अवस्थास्तु जाग्रत्स्वप्न सुषुप्तिरूपा: । तत्र जाग्रल्लक्षणमाहइन्द्रियेति । इन्द्रियजन्यज्ञानावस्था जाग्रदिति । सावस्था स्वाज्ञानोत्था जीवस्येति स्वरूप कीर्त्तनमित्यर्थः ॥ ४८ ॥
स्वप्नाद्यवस्थान्तर इन्द्रियाणामभावतो लक्षणमस्त्यदुष्टम् । ज्ञानं भवेदिन्द्रियजन्यमत्र
वृत्त्यात्मकेाऽन्तःकरणस्य भागः ॥ ४८ ॥
तत्रातिव्याप्तिशङ्कां परिहरति — स्वप्नादिति । प्रवस्थान्तरे स्वप्नसुषुप्त्योरिन्द्रियाभावान्नातिव्याप्तिरित्यर्थः । इन्द्रियजन्यज्ञानश्वाऽन्तःकरणवृत्तिः स्वरूपज्ञानस्यानादित्वेनाजन्यत्वादित्यर्थः ॥ ४८ ॥
अनिन्द्रियेत्या विषयास्पदा धियोsपराक्षवृत्तिः प्रतिभासरूपिणी । स्वप्नाभिधा सा न सुषुप्रिजाग्रता
२७५.
रतिप्रसङ्गो निजलक्षणस्य वा ॥ ५० ॥
जामद्धोगप्रदकम्मों पर मे सति जाग्रदनुभवजन्यसंस्काराद्भूत विषयतज्ज्ञानावस्थारूपां स्वप्नावस्थां लक्षयति-मनिन्द्रियोत्येति । इन्द्रियाजन्यविषयगोचराऽपरोक्षान्त:करणवृत्त्यवस्था स्वप्नावस्थेति लक्षणस
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #308
--------------------------------------------------------------------------
________________
२७६
प्रत्यक्तत्त्वचिन्तामणौ मुदितार्थः । जाग्रदवस्थाव्यावृत्त्यर्थम्-इन्द्रियाजन्येति। अविद्यावृत्तिमत्यां सुषुप्तावतिव्याप्तिवारणाय-अन्तःकरणवृत्तीति हृदि निधायाहनेति ॥ ५० ॥ सुप्तिस्त्वविद्याविषयाऽतिसूक्ष्माऽ
विद्यात्मिका वृत्तिरितीष्यतेऽतः। जाग्रत्यविद्याकृतिवृत्तिरन्या
स्वप्ने तथान्तःकरणस्य वृत्तिः॥५१॥ जाग्रत्स्वप्नोभयभोगप्रदकोपरमे सति विशेषविज्ञानोपरमात्मिकां कारणात्मनावस्थितिरूपां सुषुप्तिं लक्षयति-सुप्तिरिति । सुषुप्तिर्नाम अविद्यागोचराऽविद्यावृत्त्यवस्थेति। जाग्रत्स्वप्नयोरविद्याकारावृत्तेरन्तःकरणवृत्तित्वान्न तत्रातिव्याप्तिरित्यर्थः ॥ ५१ ॥ अव केचिन्मृतिमूर्छयायो
राहुहवस्थान्तरतां विपश्चितः। सुप्तौ तथान्तर्गततामपोतरे
न तद्विचारे फलमत्र किञ्चन ॥ ५२ ॥ मुद्गरप्रहारादिजनित विषादेन विशेषज्ञानोपरमावस्था मूर्छावस्था। तदुक्तम्- "मुग्धेऽर्द्धसम्पत्ति: परिशेषात्” (ब्र० ३ । २ । १०) इति । एतच्छरीरभोगप्रापककोपरमेण संपिण्डितकरणमामावस्था भावि. शरीरप्राप्तिपर्यन्तावस्था मरणावस्थेति लक्षणमभिप्रेत्याह-अत्रैवेति । अत्र जीवावस्थाविचारे केचिच्छास्त्रविदो मृतिमूर्च्छयोयोरवास्थन्तरतामाहुः कथयन्ति । हि लोकप्रसिद्ध्येति । इतरे सुषुप्तावेवान्तर्भावमाहुः। तत्र तयोरवस्थात्रयान्तर्भावबहिर्भावयोरत्र त्वंपदार्थे निरूपणे उपयोगाभावान्न प्रयत्यते इति तात्पर्य्यार्थः ॥ ५२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #309
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
२७७ भ्रमत्यवस्थात्रयसंयुतो भवे
स्वाविद्ययाऽनात्मनि तत्त्वधीजनः। अनाद्यविद्यैव चिदद्वयात्मनि
प्रपञ्चभानस्य हि कारणं मतम् ॥ ५३॥ एवमवस्थात्रयं सप्रकारं निरूप्येदानीमविद्याका-वस्थात्रयाध्यासवशेन जीवः संसरति। तत्र चाविद्यैव सर्वसंसारानर्थभावस्य कारणमित्याह-भ्रमतीति ॥ ५३ ।। यद्यप्युपादानतयाऽखिलस्या
विद्या मता या परमात्मनिष्ठा। साक्षात्मवक्तं न च शक्यते सा
तथापि कार्यात्मतयोच्यतेऽत्र ॥ ५४॥
अविद्यैव सर्वानर्थनिदानमित्युक्ते कासावविद्येत्यपेक्षायां साक्षानिर्देष्टुमशक्यतया कार्याकारेण परिणता सा निर्दिश्यते इत्याहयद्यपीति। अत्र वेदान्तशास्त्रे इत्यर्थः ॥ ५४॥ सत्यं सुखं चिद्धनमद्वयं परं
सन्तं ययाऽऽत्मानमयं प्रपद्यते। संसार्यहं जीव इति प्रतीतितः
साउनर्थधामास्ति विकल्पदायिनी ॥ ५५॥
असङ्गोदासीनस्वभावे प्रत्यगभिन्ने ब्रह्मणि संसारसम्बन्धप्रतीत्यन्यथानुपपत्त्याऽत्यन्तासम्भावितप्रदर्शिनी तत्त्वज्ञानमात्रैकनिवर्त्या मायादिशब्दवाच्याऽविद्या कल्प्यते इत्यभिप्रेत्याह-सत्यमिति । सच्चिदान
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #310
--------------------------------------------------------------------------
________________
२७८
प्रत्यक्तत्त्वचिन्तामणौ न्तानन्दाद्वयमात्मानं सन्तमयं पुरुषो यया सर्वानर्थनिदानभूतया व्यामोहकशक्त्या वृतः सन् संसारी जीवोऽहमिति मिथ्याज्ञानात् प्रपद्यते, सा साक्षिगम्या अविद्यास्तीति योजना ।। ५५ ॥
अध्यासतो ब्रह्मणि चिद्धने परे
जीवत्वमाभाति भवाब्धिमज्जनम् । जाग्रन्मुखा भ्रान्तिकृता दशा इमाः
कूटस्थ आत्मन्यभिमन्यते मृषा ॥५६ ॥ अविद्याप्रयुक्ताध्यासादेव ब्रह्मस्वरूप प्रत्यगात्मनि जीवत्वं जाग्रदाद्या दशाश्चावभासन्ते इत्याह-अध्यासत इति। भवाब्धौ मज्जनं यस्मात्तज्जीवत्वमध्यासत: प्रत्यगभिन्ने ब्रह्मणि आभातीत्यन्वयः । भ्रान्तिकृता मिथ्याज्ञानप्रयुक्ता इमा जाग्रदाद्या दशाः कूटस्थे तुरीये प्रात्मनि मृषैवाभिमन्यते इति योजना ।। ५६ ॥
तवाभिमानेन निविष्टबुद्धिर्वि
स्मृत्य तत्त्वं परमेश्वरं स्वम् । स्रगादिभागेषु निबद्धतृष्णः
संसारजाले पततीतरः सन् ॥ ५७॥ एवं स्वस्वरूपाज्ञानेन प्रत्यगात्मनो जीवभावं प्रदर्थेदानी तत्प्रयुक्तबाह्यविषयाभिलाषनिगडबद्धस्य संसारसिन्धुपातोऽवश्यम्भावीत्याहतत्रेति । जाग्रदाद्यवस्थावति लिङ्गदेहे तदालये स्थूलशरीरे चाभिमानेन जीवः अहं कर्ता, भोक्ता, मनुष्यो, ब्राह्मणोऽहम्, इत्याद्यात्मकेन निविष्टा नितरां प्रविष्टा बुद्धिर्निश्चयात्मिका चेतावृत्तिर्यस्य सः, स्वं स्वात्मतत्त्वं परमेश्वराभिन्नं विस्मृत्य तद्विस्मरणेन स्रगादिभोगेषु निबद्धा तृष्णा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #311
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम्।
२७६ यस्य स संसारजाले सूत्रकृते जाले मत्स्य इव इतरो वस्तुतस्तद्विलक्षणत्वात् संसारसम्बन्धशून्योऽपि पततीति योजना ।। ५७ ॥ यस्तत्पदार्यः परमेश्वरो हि तद्
भत्तया विशुद्ध्या मतिरस्य शुद्ध्यति । न तां विना तत्त्वधियः समुद्भवो
न तां विना मोक्षमुपैति कश्चन ॥५८॥ एवमध्यासकृतानर्थप्राप्तिं प्रदर्येदानों तन्निवृत्तये परमपुरुषार्थसाधनभूमिः भगवद्भक्तिरेव मुमुक्षुभिरादर्तव्येत्याह-य इति। यः जगजन्मादिहेतुरपि सत्यज्ञानानन्दानन्तस्वरूपस्तत्पदार्थो भगवान् वासुदेवः परमेश्वरशब्दवाच्यो ब्रह्माद्यैर्जगदीश्वरैः पूज्यपादाम्भोजः । हीति श्रुतिस्मृतिपुराणेतिहासादिप्रसिद्धिद्योतकः। तस्य भक्तिर्भजन तत्परत्वलक्षणं तया विशुद्ध्या फलाभिलाषादिकलङ्कशून्यया अस्य मुमुक्षोर्मतिः शुद्ध्यति । शुद्धिजनितविवेकादिसम्पन्नतया शुद्धवस्तुप्रवेशयोग्या भवतीत्यर्थः। एतदेव व्यतिरेकमुखेन द्रढयति-न तामिति । तादृशशुद्धिहेतुभगवद्भक्ति विना तत्त्वज्ञानजन्म नास्ति, न तत्त्वज्ञानमन्तरेण कश्चनापि मोक्षमुपैति । "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्या विद्यतेऽयनाय' (श्वे० ६।१५ ) इति श्रुते रित्यर्थः ॥ ५८॥ त्रेधास्त्यशुद्धिस्त्वम प्रात्ममोहिनी
स्वाज्ञानविक्षेपमलाख्यभेदतः। तत्रान्तिमा शुद्धिरघाभिधा धियो
यज्ञादिभिर्नश्यति वेदचोदितैः ॥ ५८ ॥ एवं भगवद्भक्तिरेव सकलाशुद्धिविध्वंसनपूर्वकतत्त्वज्ञानहेतुरित्युक्तम् । तत्र त्वंपदार्थस्याशुद्धिस्त्रिविधा। सा त्रेधा भत्त्या विनश्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #312
--------------------------------------------------------------------------
________________
२८०
प्रत्यक्तत्त्वचिन्तामणौ तीत्युपपादयितुं काण्डत्रयात्मकं शास्त्रं त्रिविधाशुद्धिनिरास हेतुभगवद्भक्त्यवबोधनद्वारा भगवद्वासुदेवे एव पर्यवसन्नमिति सूचयन्नादा त्वंपदार्थस्याशुद्धस्वैविध्यं तन्निरासोपायञ्च दर्शयति-त्रेधेत्यादिपद्यचतुष्टयेन । त्वमस्त्वंपदार्थस्य आत्ममोहिनी स्वस्वरूपव्यामोहकी अशुद्धिस्टेधाऽस्तीति सम्बन्धः । तत्रैविध्यमेवाह-स्वाज्ञानेत्यादिना । स्वाज्ञानं स्वस्वरूपानवबोध एकाऽशुद्धिः, सकस्ताशुद्धिनिदानत्वात् प्रथमोपात्ता सा चतुर्विधा। अनित्ये ब्रह्मलोकादिसंसारफले नित्यत्वबुद्धिरेका विद्या द्रष्टव्या। अशुचिषु स्वशरीरपुत्रभार्यादिशरीरेषु शुचित्वबुद्धिरपरा, दुःखेषु दुःखसाधनेषु च सुखतत्साधनबुद्धिरन्या, अनात्मनि देहादावहमित्यात्मबुद्धिरितरा चेति । तदुक्तम्- "अनि. त्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर विद्या"। इति तद्धेतुका द्वितीया विक्षेपात्मिका । सा अनेकविधा, रागद्वेषाभिनिवेशाद्यनन्तभेदवत्त्वात् । तद्धतुका तृतीया मलं पापाद्यपरपर्यायं तद्रूपा निषिद्धाचरणजन्या अनन्तजन्मसञ्चिता तत्त्वज्ञानप्रतिबन्धिका। एवमशुद्धित्रयं प्रदर्श्य तन्निरासोपायं वदन्नादौ साक्षादनर्थरूपपापाख्याशुद्धनिरासोपायं दर्शयति-तत्रेत्यादिसाढेन । तत्र तिसृषु मध्येऽन्तिमा:शुद्धिरघाभिधा पापनाम्नी धियस्तदुपाधिकस्य जीवस्य वेदचोदितैः श्रुतिस्मृतिबोधितैः “तमेतं ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेन" (बृ० ४।४।२२) इत्यादिश्रुतिवाक्यैः कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्त्तते” इत्यादिस्मृतिवाक्यैर्विहितैर्यज्ञादिभिर्विनश्यतीत्यर्थः ॥ ५६॥
यज्ञस्तपादानमहङ्कृति विना
. गोविन्दपादाब्जसमर्पितं कृतम् । अनेकजन्मार्जितपापसञ्चयं
निहन्ति भक्तिं जनयत्यधोक्षजे ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #313
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
२८१ एतदेव विवृणोति-यज्ञ इति। यज्ञो देवताद्देशेन द्रव्यत्यागात्मकः, तपः शास्त्रानुरोधेन शरोरेन्द्रियादेः शोषणम् , शारीरादिकं भगवदुक्तं त्रिविधं वा, दानन्यायार्जितस्य वित्तस्य स्वस्वत्वत्यागपूर्वकपरस्वत्वापादनम्, तच्च पात्रेषु; एतत्त्रयोपादानं वेदानुवचनदेवार्चनादेरप्युपलक्षणम्। तत्सर्वमहङ्करोमीत्यहङ्कति विना गोविन्दपादाब्जसमर्पितं यथा स्यातथा कृतं सत्, अनेकजन्मार्जितं पापसञ्चयं भगवद्भक्तितत्त्वज्ञानप्रतिबन्धकं भगवत्समर्पणबलेन झटित्येव निहन्त्युच्छिनत्तीत्यर्थः। सकलप्रतिबन्धकपापोच्छेदः सिद्ध इति कथं ज्ञायतेत्याद्यपेक्षायामाहभक्तिमिति। भगवति समग्रैश्वर्यादिसम्पन्ने धोक्षेषु प्रत्याहृतेष्विन्द्रियेषु सत्सु जायते हृदये प्रादुर्भवतीत्यधोक्षजः श्रीकृष्णस्तस्मिन् भक्तिमनुरागलक्षणा जनयत्युत्पादयति। तथा च भगवद्भक्तिप्रादुर्भावेनैव पापोच्छेदसिद्धिलक्षणीया, नहि सकलप्रतिबन्धकपापाच्छेदिपुण्य. पुखमन्तरेण भगवति भक्तिरुत्पद्यते इति भावः ॥ ६० ॥
विक्षोपहानिर्भगवत्पदाम्बुज
ध्यानेन सिद्ध्यत्यचलेन सर्वदा। शान्तिः स्थिरा लभ्यत ईश्वरे ततो
विहाय कामानखिलान् सदास्थितिः॥६१॥ एवं भगवदर्चनलक्षणयज्ञदानाद्यनुष्ठानेन पापाख्याशुद्धिनिरासं तत्फलं भगवद्भक्तिञ्चाभिधाय,विक्षेपाख्याशुद्धिनिरासोपायं भगवद्धवानं तत्फल्नञ्च दर्शयति-विक्षेपहानिरिति । सर्वदा निरन्तरमित्युपलक्षणं दीर्घकालादरादेरपि। भगवत्पदाम्बुजध्यानेनाचलेन विनैरनभिभाव्यतया स्थिरेण विक्षेपस्य रागद्वेषादिदोषजालहेतुभूतचित्तचाञ्चल्यस्य हानिर्निवृत्तिर्भवति । ततः शान्तिः रागादिनिवृत्त्युपलक्षिता चित्तविश्रान्तिः स्थिरा दीर्घकालानुवर्तिनी लभ्यते । ततः किमिति तत्राह--.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #314
--------------------------------------------------------------------------
________________
२८२
प्रत्यक्तत्त्वचिन्तामणौ ईश्वरे इति । ततश्चित्तविश्रान्तिरूपशान्त्युदयानन्तरं ईश्वरे भगवत्तत्त्वे - खिलान् कामानिच्छाभेदान्विहाय परित्यज्याऽनायासेन सदास्थितिनैरन्तर्येण पर्यवसानं लभ्यते इत्यर्थः ।। ६१ ॥ मुकुन्दपादाम्बुजभक्तिवैभव
प्रोद्भूतवेदान्तविचारणा दूढा। तदुत्यबोधेन निहन्त्यशेषतोड
प्यशुद्धिमज्ञानमयों विविक्तधीः ॥ ६॥ एवं विक्षेपनिवृत्तिमभिधायाज्ञानाख्याशुद्धिनिरासोपायं दर्शयतिमुकुन्देति । "मुक्तिमिच्छेजनार्दनात्" इत्यादौ मुक्तिदातृत्वेन प्रसिद्धस्य श्रीमन्मुकुन्दस्य पादावेव सौन्दर्यमाधुर्यसौष्ठवमार्दवादिगुणैरम्बुज. रूपौ तत्रानुरागरूपा भक्तिस्तस्या वैभवमुत्तरोत्तरोत्कर्षजनितप्रेमदायरूपमैश्वर्य्य तेन प्रकर्षणाचार्यद्वारोद्भूता या वेदान्तविचारणा दृढा प्रमाणप्रमेयगतासम्भावनोच्छेदकत्वेनाऽतिनिश्चला तदुत्थबोधेन तयाऽऽविर्भूतजाग्रदाद्यवस्थाविनिर्मुक्तसाक्षितत्त्वबोधेन विविक्ते देहादिभ्यः स्वत एव पृथक्कृते साक्षितत्त्वे धीनिश्चयात्मिका चेतावृत्तिर्यस्य सोऽज्ञानमयों चतुर्विधामविद्याख्यामशेषतः सकारणां सविलासा निहन्ति नाशयतीत्यर्थः ॥ ६२ ॥ एवं त्वमर्थ परिशोधितेऽञ्जसा
स्यात्तत्पदार्थेन विशुद्धवस्तुना। सहैक्यबोधः श्रुतिमौलिवाक्यतः
प्रत्यकचितो ह्याशु ततो विमुच्यते ॥६३॥ ननु साक्षितत्त्वज्ञानमात्रेण कथं समस्ताविद्यानाशः ? कथं वा मुक्तिः १ यता वेदान्तानां ब्रह्मात्मैक्यमेव विषयः, वद्ज्ञानमेव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #315
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
1
२८३ प्रज्ञानबाधद्वारा मोक्षसाधनमित्याशङ्क्याह - एवमिति । एवं पूर्वोक्तरीत्या त्रिविधाशुद्धिनिरासेन त्वंपदार्थे परिशोधिते सति तत्पदार्थेन विशुद्धवस्तुना सच्चिदानन्दानन्ताद्वय रूपेण सहैक्य बोधोऽभेदज्ञानं प्रत्यक् चैतन्यस्य श्रुतिमौलिवाक्यं तत्त्वमस्यादि प्रमाणमूर्द्धन्यं तज्जन्योSrastयासेन स्वत एव स्यात् सिद्ध्यतीत्यर्थः । साकल्येन पुरुषापराधविनिवृत्तौ सिद्धायां स्वत एव सिद्धे ब्रह्मात्मैक्यबोधे न तदर्थं पुनः पृथक् प्रयासोऽपेक्ष्यते इति भावः । तदुक्तं सङ्क्षेपशारीरकाचाय्यै:"पुरुषापराधविनिवृत्तिफल: सकलो विचार इति वेदविदः । अनपेक्षतामनुपरुध्य गिरः फलवद्भवेत्प्रकरणं तदतः ॥ पुरुषापराधशतसङ्कुलता विनिवर्त्यते प्रकरणेन गिरः । स्वयमेव वेदशिरसो वचनादथ बुद्धिरुद्भवति मुक्तिफला ॥" ( सं० शा ० १ । १६ – १७ ) तथा च पूर्वोक्तत्रिविधोपायेन पुरुषापराधे त्रिविधाशुद्धिलक्षणे ऽपसारिते सति अनन्तरं मुक्तिफला बुद्धिर्वेद शिरसा वचनात् स्वयमेवोद्भवति, न विचारस्य वाक्यप्रमित्युत्पत्तावप्युपयोग इति तात्पर्यम् । स्तस्माद् ब्रह्मैक्यज्ञानादाशु तदुदयसमसमये विमुच्यते कृतकृत्यो भवतीत्यर्थः ।। ६३ ॥
तत
व्योमादिकर्त्तृत्वमपीश्वरेऽर्पितं स्वमायया नित्यनिवृत्तयेक्षया । तथा परोक्षत्वमुखा गुणा विभा प्रकल्पितास्तच सदद्वयेऽक्षरे ॥ ६४ ॥
--
वस्तुत एकमेवाद्वितीयं चैतन्यं तत्र मायाविद्योपाधिपरिकल्पिता जीवब्रह्म विभागस्तत्तदुपाधिनिरासेन स्वत एव ब्रह्मैक्यं सिद्धमित्यसकृदुक्तमेवार्थं पुनर्द्रढयति — व्योमादीति । ईश्वरे मायोपचित चैतन्ये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #316
--------------------------------------------------------------------------
________________
२८४
प्रत्यक्तत्त्वचिन्तामणी व्योमादिकर्तृत्वमपि स्वाधीनभूतमाययाऽर्पितम्, नहि जीवे इव स्वरूपावरणेन तत्रार्पितम् , किन्तु स्वत: सिद्धा या ईक्षा निरावरणस्वरूपावबो. धस्तया नित्यनिवृत्तरूपया। तथा परोक्षत्वादयो गुणा नित्यापरोक्षस्वरूपेऽपि जीवव्यामोहार्थ तत्र सदद्वयेऽक्षरे परब्रह्मणि विभौ परिपूर्णस्वभावे आरोपिता इत्यर्थः ।। ६४ ।।
त्वमर्थमात्मन्यपि जायदादयः
कर्तृत्वभोक्तृत्वमुखाः प्रकल्पिताः। स्वाविद्यया साक्षिणि निर्विकल्पके
तुरीयतत्त्वेऽनुभवात्मनीति च ॥६५॥ एवं तत्पदार्थे आरोपप्रकार प्रदर्श्य त्वंपदार्थेऽपि दर्शयति-त्वमिति । त्वंपदार्थे आत्मन्यपि वस्तुतो निर्विकल्पकस्वरूपे तुरीयतत्त्वेऽनुभवात्मनि अविद्यातत्का>साक्षिण्यपि स्वाविद्यया स्वस्वरूपावरणेन जाप्रदादयोऽवस्थाः, कर्तृत्वादयो गुणा दोषरूपा: प्रकाल्पता: । इति चेति निपातसमुदायेनैकस्मिन्नेव चैतन्ये नानाविरुद्धधर्मा अविद्यया मायया च परिकल्पिता इति सूच्यते इत्यर्थः ॥ ६५ ॥ विशुद्धस्वत्त्वात्मतया महीश्वरो
पाधिन तत्रावृतिषिभ्रमप्रदः । सार्वज्ञय मुख्यास्तदुपाधिना गुणाः
समर्पिताः प्रत्युत दोषबाधकाः ॥६६ ॥ धर्माणामुभयत्र कल्पितत्वसाम्येऽपि उपाधितारतम्यात्तयोर्विशेषमाह-विशुद्धेति। यद्वा, विद्याया ऐक्येऽपि तदुपहितचैतन्यस्याप्यैक्ये सत्त्वशुद्ध्यविशुद्धिभ्यां तया महद् वैषम्यं सम्पादितमित्याह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #317
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
२८५ विशुद्धेति । विशुद्धसत्त्वात्मतया शुद्धसत्त्वप्राधान्येन महेश्वरस्य तत्पदार्थस्योपाधिर्माया तत्र तत्पदार्थे परमात्मनि आवृतिरावरणं विभ्रमो विशेोऽन्यथाभानलक्षणस्तदुभयप्रदो न भवति । प्रत्युत दोषबाधकास्तत्स्वरूपानुसन्धातृणां पुंसामिति शेषः। सार्वयमुख्या गुणा निर्दुष्टास्तदुपाधिना मायया समर्पिता इति योजना ।। ६६ ।।
रजस्तमामिश्रितसत्त्वमावृते
निधानमज्ञानमशेषदुःखदम्। . प्रत्यञ्चमानन्दमपीदमावृणा
त्युपाधिरामेक्षिमनादिभावतः ॥ ६ ॥ तस्मिन्नेव चैतन्ये त्वंपदार्थे मलिनसत्त्वप्रधाननाज्ञानेन वैपरीत्यमध्यस्तमित्याह--रज इति । अज्ञानं रजस्तमोभ्यामभिभूतसत्त्वमावृतेर्निधानमावरणशक्तिकमशेषदुःखमन्यथाभानलक्षणं विक्षेपरूपं च ददातीति । तथा प्रत्यञ्चं परमप्रेमास्पदतयाऽऽनन्दस्वभावमप्यावृणोति-तमाच्छाद्य बहिर्मुखं करोतीत्यर्थः। तच्चाज्ञानं तत्त्वज्ञानमन्तरेण दुरुच्छेदमित्याहउपाधिरिति । अनादिभावरूपोऽयमुपाधिर्मोक्षपर्यन्तं तिष्ठति तत्त्वसाक्षात्कारमन्तरेण न विनश्यतीत्यर्थः ॥ ६७ ॥
उपाधियुग्मं परिहत्य बाधितं
तदर्पितान् धर्मगणान् विहाय च । विशुद्धचैतन्यमखण्डमद्वयं
द्वयाः स्वरूपं निगमेन बाध्यते ॥६॥
उपाधिद्वयपरित्यागेन स्वयमेवाखण्डवाक्यार्थसिद्धिरित्याहउपाधियुग्ममिति । मायाविद्यारूपमुपाधिद्वयं बाधितं स्वत एव बोध
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #318
--------------------------------------------------------------------------
________________
२८६
प्रत्यक्तत्वचिन्तामणी स्वरूपमहिम्ना निवृत्तं परिहृत्य नास्तीति विनिश्चित्य, तदर्पितान ताभ्यां मायाविद्याभ्यां परिकल्पितान् परोक्षत्वापरोक्षत्वादीन विरुद्धधर्मगणान् विहाय शुद्धस्वरूपनिधर्मकब्रह्मचैतन्यमहिम्नैव न सन्तीति निश्चित्य, विशुद्धचैतन्यमखण्डाद्वैततत्त्वं तत्त्वंपदार्थयो: स्वरूपं निगमेन तत्त्वमस्यादिवाक्येन बोध्यते इत्यर्थः । तथा च ब्रह्मात्मैक्यमविद्यातत्कार्यसकलप्रपञ्चस्य नित्यनिवृत्तत्वञ्च सिद्धमेव श्रुया बोध्यते इति भावः । तदुक्तं
"नित्यबोधपरिपीडितं जगद्विभ्रमं नुदति वाक्यजा मतिः । वासुदेवनिहत धनन्जयो हन्ति कौरवकुलं यथा पुनः" ।। ६८॥
विज्ञाय चैतन्यमखण्डमद्वयं
प्रत्यञ्चमानन्दमशेषसाक्षिणम् । विमुच्यते शेषविकल्पकारणं
निहत्य माहं भवपजरात् सुधीः ॥ ६८ ॥ अविद्यानिवर्तकतत्त्वसाक्षात्कारे सिद्धे “विमुक्तश्च विमुच्यते" (क० २ । ५।१ ) "निवृत्तश्च निवर्त्तते'' इति श्रुतेः स्वत एव दृश्यात्यन्ताभावोपलक्षितस्वरूपावस्थानलक्षणा मुक्ति: सिद्ध्यति । अखण्डबोधफलं वदन्नुपसंहरति-विज्ञायेति । अशेषसाक्षिणं प्रत्यञ्च चैतन्यमखण्डवाक्यार्थ विज्ञाय साक्षात्कृत्याशेषविकल्पकारणं मोइमज्ञानं निःशेष निहत्यापबाध्य सुधीस्तत्त्वज्ञो भवपजराद् विमुच्यते इति योजना ॥६६॥
लब्ध्वाऽतिदुर्लभमिदं नरजन्म मेक्षि
द्वारं यतेत निगमान्तगिरां विचारे। त्यक्त्वाऽऽसुरीमतिमशेषत आत्मपातां
भोगस्पृहां जडजनाभिमतां विवेकी ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #319
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
२८७ एतावदेव सर्वशास्त्रविचारफलं सर्वप्रयत्नेन सम्पाद्यम् , तत्सम्पा. दनञ्च विषयवैराग्यभगवद्भक्तिभ्यामेव नान्यथेति वदन मुमुक्षून शिक्षयति-लब्ध्वेति । अतिदुर्लभमनन्तसुकृतपरिपाकं विना दुष्प्रापं नरजन्माधिकारि शरीरमिदं क्षणभङ्गुरतयानुभूयमानं मोक्षद्वारत्वादेवातिदुर्लभं लब्ध्वा प्राप्य भोगस्पृहामासुरीम्-असून प्राणेन्द्रियाणि रमयन्ति तर्पयन्तीत्यसुरास्तत्सम्बन्धिनी मतिम् , अत एव जडजनाभिमतां देहाद्यभिमानिमूढजनाभीष्टाम् , अत एवात्मनः पात: संसारान्धकूपे यया तामशेषत:प्रामनुष्यादाविरिन्च्यं साकल्येन त्यक्त्वा दृष्टानुश्रविकवैतृष्ण्यं प्राप्येत्यर्थः। तत्र हेतु:-विवेकीति । नित्यानित्यवस्तुविवेकवान् साधनचतुष्टयसम्पन्नः सन्निगमान्तविचारे तत्त्वमस्यादिवेदान्तवाक्यविचारे यतेत तत्त्वसाक्षात्कारपर्यन्तं प्रयत्नं कुर्यादित्यर्थः ॥ ७० ॥
वैराग्यमेव विषयेभ्य उदारभक्त्या
जातां मुमुक्षुमपवर्ग्यपथे युनक्ति। विष्णोर्गणश्रवणकीर्तनसंस्मृतिभ्यो
भक्तिर्भवेद्भगवतीश्वर आत्मनाथे ॥ ७१॥ तत्त्वज्ञानस्य पुष्कलं साधनं वैराग्यमेव, तच्च भगवद्भक्त्यधीनमित्याह-वैराग्यमिति । उदारस्य भगवतो वासुदेवस्य भक्त्या विषयेभ्यो वैराग्यमेव जातं सत् मुमुक्षुमपवर्यपथे पवर्गहितत्वात्तत्त्वज्ञानमपवयं तस्य पन्थास्तत्प्राप्तिमार्ग: श्रवणादिरूपस्तत्र युनक्ति योजयति । ननु भगवद्भक्तिर्जाता चेद्वैराग्यं जनयिष्यति तस्या एव कुतो जन्मेत्यत आह-विष्णोरिति । व्यापनशीलस्य भगवतो वासुदेवस्य गुणानुवादश्रवणकीर्तनसंस्मृतिभ्यो भगवति भजनीयगुण भक्तिर्भवेदित्यावश्यक तद्भजनं जीवानामिति बोधयितुम् 'ईश्वरे' इति, स्वामिप्रसादसिद्धये भृत्यैर्नित्यं यतितव्यमिति बोधयितुम् 'प्रात्मनाथे' इत्युक्तम् ॥ ७१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #320
--------------------------------------------------------------------------
________________
२८८
प्रत्यक्तत्त्वचिन्तामणौ वैराग्यभक्तियुत आत्मविचारमार्गे __सम्यग भवेदधिकृतो विमलान्तरात्मा। तत्वंपदार्थपरिशीलनतो विपश्चित्
प्राप्नोति बोधममलं ह्यपवर्गनिष्ठम् ॥७२॥
भक्तिवैराग्यसम्पन्नस्यैव वेदान्ततत्त्वविचारेऽधिकारी नान्यस्येत्याहवैराग्येति । तथा च भगवन्नामश्रवणकीर्तनस्मरणादिभिरुपायैर्भगवति वासुदेवे प्रेमभक्तिः सम्पाद्या। तत्प्रसादादैहिकामुष्किफलभोगेभ्यो वैराग्यं भगवदैश्वर्यंभूतं पुरुषधौरेयाणां स्वत एव सिद्ध्यतीति भावः ॥ ७२ ॥
न त्वंपदार्थमविविच्य कदापि बोधं
प्राप्नोति कश्चन मुमुक्षुरखण्डनिष्ठम् । तस्मात्त्वमर्थमभियुक्तनिरूक्तरीत्या
सम्यग्विविच्य तत आत्मपदं भजेत ॥७३॥
ननु भक्तिवैराग्याभ्यामेव तत्त्वज्ञाने सिद्ध कृतं त्वंपदार्थविचारेणेत्याशक्य भक्तिवैराग्याभ्यामपि त्वंपदार्थविचारद्वारैव तत्त्वज्ञानं जन्यत इत्याशयेनाह-नेति। त्वंपदार्थ साक्षितत्त्वं देहादिभ्योऽविविच्य तस्याः कर्तभोक्तस्वभावत्वेन विवेचनमकृत्वा कश्चनापि मुमुक्षुः कदापि अखण्डवस्तुनिष्ठं बोधं न प्राप्नोति । तस्मादभियुक्तः सूत्रकारभाष्यकारादिभिर्भगवद्वादरायणभगवत्पादादिभिर्निरुक्ता या रीतिनिर्णयप्रकारस्तया त्वंपदार्थ सम्यग विविच्य तत आत्मपदं वेदान्तप्रतिपाद्यमखण्डबोधरूपं ब्रह्मात्मैक्यं भजेत प्राप्नुयादित्यर्थः ॥ ७३ ॥
देहादिवर्गगतनैजमतिं विहाय
प्रत्यञ्चमेकमजडं जडसाक्षिणं स्वम् । ५..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #321
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
२८६ ईक्षेत नित्यमचलं रहसि स्थितः सन्
ध्यात्वा तमेवमपरोक्षतया विभातम् ॥७४॥ तस्मात्त्वंपदार्थविचारोऽत्यावश्यकः, तं मुमुक्षुर्नित्यमेव कुर्यादित्यभिप्रेत्याह-देहादिवर्गेति। देहादिजडवर्गगता याऽऽध्यासिकी नैजमति: स्वात्मत्वबुद्धिस्तां विहाय त्यक्ता तेभ्योऽनात्मरूपेभ्यो विलक्षणं प्रत्यञ्चमीक्षेत । प्रत्यक्वमेवाह-एकमिति । अनेकेषु देहादिष्वनुगतम्, अजडं चैतन्यम्, अत एव स्वस्मिन् कलितस्य जडस्य देहादेः साक्षिणं साक्षाद्रष्टारम्, नित्यं सत्यमबाध्यमिति यावत्, अचलं नित्यकौटस्थ्यादक्रियम्, स्वप्रकाशत्वान्नित्यापरोक्षतया विभातं स्वत एव स्वप्रकाशमानम्, स्वं स्वात्मानं रहसि विविक्तदेशे स्थितः सन् तमेवमुक्तस्वरूपं ध्यात्वा श्रुतं मतञ्च निदिन्यास्य ईक्षेत साक्षात्कुर्यादित्यर्थः ।। ७४ ।।
श्रुत्वा श्रुतिभ्य उदितं गुरुणात्मतत्त्वं
युक्त्यावगम्य नितरां परमात्मनिष्ठः । ध्यायंस्तमेवमनिशं निजतत्त्वबोधं
साक्षात्करोति भवबन्धलयस्ततः स्यात्॥७॥
उक्तमेवार्थ पुनर्द्रढयति-श्रुत्वेति । आदौ गुरुणादितं श्रुतिभ्यस्तत्त्वमस्यादिवाक्येभ्य आत्मतत्त्वं श्रुत्वा सम्यगवधार्य पुनर्नितरामतिशयेन परमात्मनिष्ठो मुमुक्षुर्युक्त्या श्रुत्यनुकूलतकैरवगम्य सम्भावितमेवमनिशं नित्यं ध्यात्वा निदिध्यास्य निजतत्त्वं ज्ञानघनं साक्षात्करोति, तत: स्वत एव भवपाशहानिर्भवतीति योजना ।। ७५ ॥
ख्यमनिरस्य विकल्पजालं न स्यात्त्वमर्थपरिशोधनमैक्ययोग्यम् ।
३७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #322
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणी तस्माद्विविच्य निजतत्त्वधिया निरस्येत्
कर्तृत्वमुख्यमिह कल्पितमात्मतत्त्वे ॥७६॥ एवं तत्त्वंपदार्थज्ञानं तदैक्यज्ञानच्च कर्त्तव्यत्वेन सङ्क्षेपेण निरूप्य तदेव पुनर्विस्तरण वक्ष्यमाणं सप्तमप्रकरणे तदर्थ वक्ष्यमाणप्रमेयं सूत्रयति- कर्तृत्वमुख्यमिति। अध्यस्तकर्तृत्वादिविकल्पजालनिरासमन्तरेण त्वंपदार्थस्य शुद्धेरभावादखण्डवाक्यार्थबोधनयोग्यता न स्यात् । तस्मात्प्रत्यगात्मविवेचनेन कर्तत्वादिविकल्पं निरस्य ब्रह्मक्यसाक्षात्कारं कुर्यादिति तात्पर्यार्थः ॥ ७६ ।।
कूटस्थमद्वयसुखं भ्रमभेदशून्यं
बुद्ध्वा त्यजेत्सकलसानमात्मनिष्ठः। जीवन्विमुक्त इह तिष्ठति नित्यतुष्टो
नैनं तपेदपि कृताकृतवह्नितापः ॥ ७ ॥
वेदान्तजन्यसाक्षात्कारवतः कृतकृत्यत्वमनुवदंस्तस्य सकलानर्थनिवृत्ति दर्शयति-कूटस्थमिति । कूटस्थं त्वंपदलक्ष्यम् , अद्वयसुखं तत्पदलक्ष्यम् , भ्रमभेदशून्यं भ्रान्तिप्रयुक्तो यो भेदस्तेन रहितमखण्डवाक्यार्थ बुद्ध्वा अयमहमस्मीति साक्षात्कृत्यात्मन्येव निष्ठा परिसमाप्तियस्य स च ब्रह्मवित्सकलसाधनं प्रवृत्तिनिवृत्तिकाण्डप्रतिपादितं त्यजेत्, कृतकृत्यत्वात् सर्वत्रोदासीनतां भजेत् । “मुमुक्षोरुपदेशाय लिङः प्रयोगः ।" अत एव जीवन जीवनहेतुव्यापारं कुर्वन्नपि विमुक्त एव इह स्वमहिम्ति नित्येन निजानन्देन तुष्टः संस्तिष्ठति । कृतं पापमकृतश्च पुण्यं ते एव वह्नितापः स चैनं तत्त्वविदं न तपेत् सतापं न जनयेदित्यर्थः । "नैनं कृताकृते तपतः” इति तेः ॥ ७७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #323
--------------------------------------------------------------------------
________________
षष्ठं प्रकरणम् ।
२६१ सकलसुखनिधानं सर्वविद्यावभासं
भ्रमतिमिरविहीनं शान्तमूर्ति विशुद्धम् । हृदि गतमभिरामं सर्ववेदान्तभूमि
यदुपतिमभिवन्दे कृष्णमीशानमन्तः ॥७८॥ • इति प्रत्यकतत्त्वचिन्तामणौ षष्ठं प्रकरणं सम्पूर्णम् ॥ ६ ॥
प्रकरणमुपसंहरन मङ्गल मूर्ति भगवन्तं वासुदेवं नमस्यति-सकलसुखनिधानमिति । मानुषानन्दमारभ्यहैरण्यगर्भानन्दपर्यन्तं सकलसुखलवानां निधानं निरतिशयसुखस्वरूपम् , सर्वविद्यावभासं सकलज्ञानप्रकाशस्वरूपम्, अविद्यावरणरहितम्, अत एव शान्तमूर्त्तिम् अविद्यातकार्यबाधोपलक्षिता मूर्तिर्यस्य, अत एव विशुद्धम् , हृदि गतं प्रत्यगभिनम, अभिरामं सर्वसौन्दर्यसारसर्वस्वम्, सर्ववेदान्तपर्यवसानभूमिम्, यदुवंशपालकम् , ईशानं सर्वविश्वनियन्तारम् , अन्तः सर्वान्तरत्वेन श्रुतिस्मृतिविद्वजनप्रसिद्धं कृष्णं स्वेष्टदैवतं भगवन्तं वासुदेवमभिवन्दे मनसा कर्मणा वाचा प्रणमामीति योजना । ७८ ॥ श्राह्लादिनी सुमनसान्तमसः परं वं
प्रत्यञ्चमद्वयसुखं वितरत्यमोघा । शान्ति तनोति भवदुःखभयस्य साक्षाद्
भक्तिहरेर्विजयते सहसान्ध्यनाशात् ॥ १ ॥ नन्दनन्दनपादाब्जमकरन्दे मतिर्मम । षट्पदीव रतिं लब्ध्वा तत्रैव रमतां सदा ॥२॥ इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्दविद. स्कृतायां प्रत्यक्तत्त्वचिन्तामणिव्याख्यायां स्वप्रभाभि
धायां तत्त्वंपदार्थविचारमयूखाभिधं षष्ठं
प्रकरणं समाप्तिमगमत् ॥ ६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #324
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #325
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामण्टिीकायां प्रसङ्गादुद्धृतानां श्रुत्यादीनामकारादिवर्णानुक्रमेण
सूचीपत्रम्
प्रचिन्त्याः खलु ये भावाः
पृ० ५० [६४-- | २५२-१६ २६४---८ २५२-१६ २७४--५ १४८-१७
अत एव चोपमा सूर्यकादिवच्च अतोऽन्यदार्तम्
७०-१०
अत्रायं पुरुषः स्वयञ्ज्योतिः
। । ।
। ।
१०१११
अथातो ब्रह्मजिज्ञासा
।
अधस्तात्समिधम् अध्यस्यते खपुष्पत्वम्
! २०-१७ । २१-१७ । १५२-७ १०४-११
३८ -४
२२--७ ।१५८--४
अध्यारोपापवादाभ्याम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #326
--------------------------------------------------------------------------
________________
२-६४
अनित्याशुचिदुःखानात्मसु अनीशया शोचति मुहयमानः अनेन जीवेनात्मनानुप्रविश्य
प्रन्यदेव विदितात्
अपूर्वानपरं ब्रह्म
अप्राणो ह्यमनाः शुभ्रः
अयमात्मा ब्रह्म
प्रत्यकूतत्त्वचिन्तामयौ
अविनाशी वा परे अयमात्मा
अविद्यायाः परम्पारं तारयितुम्
प्रशब्दम स्पर्शमरूपमव्ययम्
शरीरं वाव सन्तम् शरीरं शरीरेषु
सङ्गो नहि सज्जते
सङ्गोऽयं पुरुषः
प्रसन्नेव स भवति असत्यस्मि जगन्नाथे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
पृ० प० २८० - १०
१३२—३
२६० - १८
१३३—६
१७७-२
५५–१२
१५८–३
२३२-२१
. २६१-- ३
५१ - १६
५८-१०
[ २७३ – १५
८३ – १८ १६६–२१
६ -- १
४७–२१
५५ – १०
५८-१०
. २६२—–२
५५--१०
५८-१०
१५६–१६
२६२---
१२१-१७
५२–१०
www.umaragyanbhandar.com
Page #327
--------------------------------------------------------------------------
________________
वर्णानुक्रमेण श्रुत्यादिसूची
अस्ति भाति प्रियं रूपम् अस्थूलम्...... अहं ब्रह्मास्मि
२६५ पृ० १० २४६-१३
६-२१ १४८-२० [२३२-२२
अहमात्मा गुडाकेश !
श्रा
आकाशाद्वायुः
प्राचार्यवान पुरुषो वेद
प्राचार्या वव विदिता प्रात्मक्रोड आत्मरतिः आत्मन आकाशः सम्भूतः प्रात्मनस्तु कामाय सर्वम् प्रात्मनि खल्वरे दृष्टे श्रुते
२५४--१ ( ३२-११ ११०६-१६ (२३२-१६
३२-१२ ११०--६ २५३--७ ६०-१६
---५ ८५-६
प्रात्मा वा अरे द्रष्टव्यः
८६-१६ ६१-१२
प्रात्मैवेदं सर्वम् आत्मैवेदमग्र आसीत् आनन्दभुक प्राज्ञः प्रानन्दादयः प्रधानस्य
(१०७-११ (२६१--५ ११७७-२२ २५०-१५ २६४-१२
५-१०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #328
--------------------------------------------------------------------------
________________
२९६
प्रत्यक्तत्त्वचिन्तामणौ
पृ० ५०
अानन्दरूपममृतं यद्विभाति
प्रानन्दो ब्रह्मेति व्यजानात्
प्रानन्दो विषयानुभवो आभास एव च प्राभोण्ये णमुल प्राश्रयत्वविषयत्वभागिनी
। ५२--१ २४७-८ २७४--५
१५-२२ १५४---३
इ
इच्छाद्वेषसमुत्थेन इच्छा द्वेषः सुखं दुःखं इदं सर्व यदयमात्मा इन्द्रो मायाभिः पुरुरूप ईयते
. २४६--३
१७५-११ २३६-१६
ईश्वरः सर्वभूतानां ईश्वराज्ज्ञानमन्विच्छेत्
२५--१ २६-८
to be
उपरि देवेभ्यो धारयति
१०४-१२
एकमेवाद्वितीयम् एको देवः सर्वभूतेषु गूढः एको वशी
[१५६--२ १२५०-१५
६४-११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #329
--------------------------------------------------------------------------
________________
वर्णानुक्रमेय श्रुत्या दिसूची
एतस्यैवानन्दस्यान्यानि भूतानि
एतावदरे खल्वमृतत्वम् एष नैमित्तिकः प्रोक्त: एष वशी
एष सर्वस्येशानः
एष एव साधु कर्म कारयति
ऐतदात्म्यमिदं सर्वम्
ऐन्द्राग्नो द्वादशकपालः पुरोडाश:
कर्त्तारभ्व क्रियाञ्चैव
कर्त्ता शास्त्रार्थवत्त्वात्
कषाये कर्मभिः पक्वे
कामः सङ्कल्पो विचिकित्सा
कार्योपाधिरयं जीव:
किमज्ञानस्य दुष्करम्
को वान्यात् कः प्राण्यात् क्षेत्रज्ञवापि मां विद्धि
गोभिः शृणोत मत्सरम्
से
क
ग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२८७
पृ०
प०
€४–१६
१८३ – ११
२६१ - १७
६१- - ६
२६६—३
२४५–२२
११-२
२४५-२२
२४-२१
२३२–१०
३१-२२
५७-१२
५० - १६
५२–१६
२०-२३
-१
२२२
-४
२५७-- १३
१७५ – १४
-२३
२५६२१
www.umaragyanbhandar.com
Page #330
--------------------------------------------------------------------------
________________
२६८
चतुर्युगसहस्राणि
जगत्प्रतिष्ठा देवर्षे !
तत्केन कं पश्येत्
तत्तेजोऽसृजत तत्त्वमस्यादिवाक्योत्थ
प्रत्यकतत्त्वचिन्तामणी
जन्माद्यस्य यत:
जाग्रतः स्वपता वापि
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा
त
तत्वमसि
तदधिगमे उत्तरपूर्वाध्याययाः तदनन्यत्वमारम्भणशब्दादिभ्यः
तदितर इतरं पश्यति
तदैक्षत बहु स्याम्
ज
तद्गुणसारत्वात्तु तद्व्यपदेश
तद्देवा ज्योतिषां ज्योतिः
तद्यथा सोम्य वयांसि तद्विज्ञानार्थ समित्पाणिः
तद्विज्ञानार्थ स गुरुमेव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
पृ० प०
२६५-२२
२६७-१३
१५५ - १३
२४८-३
१८६
19
४४- ७
६५ – १२
१५६ – १७
४४-२१
१४८ - १९
२३२-२०
२६१–२
४४-१०
१७७-२४
६५- -८
२४५—२
२५१-१३
५२-२०
५- १६
४६-१६
३२–१४
३५-२५
www.umaragyanbhandar.com
Page #331
--------------------------------------------------------------------------
________________
वर्णानुक्रमेण श्रुत्यादिसूची
तद्विद्धि प्रणिपातेन तद्विष्णोः परमं पदम् तद्विजिज्ञासख तन्त्वोपनिषदं पुरुषं पृच्छामि तन्मनोऽसृजत तपःप्रभावाद्देवप्रसादाच्च तमव्यामोहयन्त्यन्यव्यामोहहेतु
२९६ पृ० प० ३२-१५
८--५ १०६-१६ १२७ --३ २०१-२० २६--७ १५४--७
तमेव विदित्वातिमृत्युमेति नान्यः
तमेतं ब्राह्मणः तमेनं वेदानुवचनेन
तरति शोकमात्मवित्
८३-१७ २४०-२२ २७६-१६ २८०-१८ १६१-११ [ ८३-१३ । १५०-१२ । १५३ --३ [१६०-१०
१५४-१५ [ ६४--७ १ २५२-१८
५१-२४ [१५७-१७ । २५२--१ १०५-११ १९४--१
तरत्यविद्या वितताम् तर्काप्रतिष्ठानात् तस्माद्वा एतस्माद्विज्ञानमयात् तस्माद्वा एतस्मादात्मनः तस्माद् ब्राह्मणः पाण्डित्यं निर्विध तस्मात्स्थाणुः पुरुषो वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #332
--------------------------------------------------------------------------
________________
३००
तस्य भासा सर्वमिदं विभाति ताभ्यामेततमग्नीषोमीयम् तावब्रूतामग्नीषोमावाज्यस्यैव तावत्कर्माणि कुर्वीत
तिस्रो रात्रीतं चरेत्
तेभ्यः समभवत् सूत्रम् तेषामेवानुकम्पार्थ
तेषां क्रमेण
त्रिवृतं त्रिवृतमेकैकां करवाणि
प्रत्यकतत्त्वचिन्तामयी
ददामि बुद्धियोगं तम् दर्शनविधाने हि प्रकृतिप्रत्ययौ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत
दूरमेते विपरीते विषूची
देवी ह्येषा गुणमयी द्विपरार्द्धे त्वतिक्रान्ते
धर्मो नित्यः सुखदुःखे त्वनित्ये धान्यमसि
न खल्वानन्दवित्त्वादयः
न तत्र सूर्यो भाति
न तत्र रथा न रथयोगा:
न तद्भासयते सूर्यो न
न तु तद् द्वितीयमस्ति
ध
न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
पृ० प०
५- १७
३०–२२
३१-२१
२०–४
१०४ - १८
२५८-६
६-१६
-६
२५६
२५८
४–१६
१०३ - १५
३०-१६
६५--२
२५—५
२६५–१३
२८--८
२५६—२२
१८५-२४
१२३-४
१७०-२४
१२३—–८
४६-२२
www.umaragyanbhandar.com
Page #333
--------------------------------------------------------------------------
________________
वर्णानुक्रमेण श्रुत्यादि सूची
न निरोधो न चोत्पत्तिः ननु देवदत्तोऽयम
न स पुनरावर्त्त
नहि द्रष्टुष्टेर्विपरिलोपो विद्यते
नान्यदन्यद् भवेद् यस्मात् नान्योऽतोऽस्ति द्रष्टा
नाप्रतिष्ठिततर्के
नारायण एवेदं सर्वम्
नित्यबोधपरिपीडितं जगत् नित्यवीप्सयोः
निवृत्तश्च निवर्त्तते
नीहारेण प्रावृता
नेति नेति
नेह नानास्ति किश्वन
नैव वाचा न मनसा
नैषा तर्केण मतिरापनेया
ક
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३०१
पृ० प०
१६४-१६
१८६—–५
११३- -६
· ५८-
| १६४–२०
८१-२१
६४–१३
६४–६
| २५२ – २१
२६१- -४
( १७७ – २१
२८६
-७
१५–२३
७५—६
| २८६–१४
१३५-६
----
६- २१ २६८-१२
६४ – १४
१४८ - १७
१६८- ――
(
६-२५
६४—–६
२५२-१८
www.umaragyanbhandar.com
Page #334
--------------------------------------------------------------------------
________________
३०२
प्रत्यक्तत्त्वचिन्तामणौ
पृ० ५०
पञ्च पञ्चनखा भक्ष्याः पराभिध्यानात्तु तिरोहितम् पुरुष एवेदं सर्वम् पुरुषापराधविनिवृत्तिफलः पुरुषापराधशतसंकुलता प्रतिजीवम विद्याभेदमङ्गीकृत्य प्रदीपवदादेशस्तथाहि दर्शयति प्रदीप्तशिरा इव जलराशिम् प्रमाणप्रमेयसंशय......
६७--२
२५----७ २६१-४ २८३--८ २८३-१० १५४-२० २७३-६ २१-१२ ७८-१६
फलमत उपपत्तेः
। २५-८ १२६१-१८
बहु स्या प्रजायेय बीजान्यग्न्युपदग्धानि बुद्धेर्गुणेनात्मगुणेन चैव बुद्धिश्च नेङ्गते तत्र परमात्ममश्नुते बुद्धिश्च न विचेष्टते तामाहुः ब्रह्मणा सह ते सर्वे ब्रह्मविदाप्नोति परम् ब्रह्म वेद ब्रह्मैव भवति
२५१-८ ४४-६ ५०-२२ ५०-२४ ५०-२४ २६५-४
८३-१४ ।१६०-१२ २५०-१६ १५९-४
ब्रह्म वा इदमय पासीत् ब्रह्मवेदं विश्वम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #335
--------------------------------------------------------------------------
________________
ब्रह्मैव सन् ब्रह्माप्नोति ब्राह्मणेन निष्कारणो धर्मः
वर्णानुक्रमेण श्रुत्यादिसूची
भक्तानां भक्तिसिद्धार्थम्
भासते चेत् कुतः सर्वम् भिद्यते हृदयग्रन्थिरिच्छद्यन्ते
भीष्माद्वातः पवते
मत्तः स्मृतिज्ञानमपोहनं च
मायान्तु प्रकृतिं विद्यात्
मा विद्या च हरेः प्रोक्ता मुग्धेऽर्द्धसम्पत्तिः परिशेषात्
यक्षानुरूप बलिः
यत्करोषि यदश्नासि यज्ञं तनुते कर्माणि तनुते
यतो वा इमानि भूतानि
यतः सर्वाणि भूतानि
भ
य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३०३
पृ० प०
८३–१५
६०-- -१
७
२१७--६
८३ – १६ ११-२
२५---४
२२-२०
१६६-१७
. २४८-- १२
११३ – १७ २७६–१७
७३ - १५
१३८- ४
५०--१३
८६ - १०
१५५ – १२ १५५-१६
१५७ - १७
१७७- ४
२४८ २ १५५—१२
www.umaragyanbhandar.com
Page #336
--------------------------------------------------------------------------
________________
३०४
प्रत्यक्तत्त्वचिन्तामणौ
(
पृ० ५० ६-२२
यतो वाचो निवर्तन्ते
(२४५-१६
६५-१० ११३-६
यत्र त्वस्य सर्वमात्मैवाभूत यत्र नान्यत् पश्यति यत्र यदध्यासस्तत्कृतेन यत्र हि द्वैतमिव भवति यत्रैतत्पुरुषः सुप्तः स्वप्नं न कञ्चन पश्यति यत्रोभयोः समो दोषः परिहारश्च यत्साक्षादपरोक्षाद् ब्रह्म यथा खल्वभिज्ञायां यथा सतोर्जनिनँवमसतोऽपि यथा ह्ययं ज्योतिरात्मा यथैषीकातूलमग्नौ प्रोतम् यदाग्नेयोऽष्टाकपालः यदा चर्मवदाकाशं वेष्टयिष्यन्ति यदा सुप्तः स्वप्नन कञ्चन पश्यति
६५--६ २६३--१६ १०४-२१ २२०-२१ १८६--१ १७४-१६ २७४--२ ४४----४ ३०-२१ ४०-१० १६५-१५
यद्वाचानभ्युदितम् यन्मनसा न मनुते यमेष वृणुते तेन लभ्यः यया यया भवेत् पुंसाम्
१११-१६ १११-१५ १८०-१७ २३६--१ ( २६--७ र ३२-१३ (१८०-१६
यस्य देवे परा भक्तिः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #337
--------------------------------------------------------------------------
________________
यस्यामतं तस्य मतं मतम् येनाश्रुतं श्रुतं भवति
योग्यं योग्येन सम्बद्धते
यो ब्रह्माणं विदधाति
यो विज्ञाने तिष्ठन्
वर्णानुक्रमेण श्रुत्या दिसूची
यो वै भूमा तत्सुखम्
यः सर्वज्ञः सर्ववित्
लोकवत्तु लीलाकैवल्यम्
वायुश्च लीयते व्योम्नि
वासुदेवः सर्वम्
विज्ञातारमरे केन विजानीयात्
विज्ञानमानन्दं ब्रह्म
विज्ञानं ब्रह्म चेद्वेद विज्ञानं यज्ञं तनुते
विज्ञानं यज्ञं तनु
विमुक्तश्च विमुच्यते
व
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३०५
पृ० प०
११--१५
२३२—१४
J ५३ – १६
| १७१ – २१
१०-१८
५२-२
7 २७३ - १८
411
११३ – ११
२४८-१०
२७३--१
२६७--१५
१७७-२३
४६-११
- ११
-IO
४८-१०
4011
५०८
५२-१२
७५—-५
८३-१४
. २८६-१३
www.umaragyanbhandar.com
Page #338
--------------------------------------------------------------------------
________________
३०६
प्रत्यक्तत्त्वचिन्तामणौ
विविदिषन्ति यज्ञेन दानेन तपसा विश्वं शतं सहस्रं च सर्वमक्षय्यवाचकम् वेदान्तविज्ञानसुनिश्चितार्थाः वैचिन्यश्च समस्य न वैशेष्यात् तद्वादस्तद्वादः
पृ० ५० १०४-६ १६०-१८ १५९-२०
२५६--८
शान्तो दान्त उपासीत शास्त्रफलं प्रयोक्तरि
शिवमद्वैतं चतुर्थ मन्यन्ते श्रवणं कीर्तनं विष्णोः श्रोत्रमाकाशः
१६१-१२ । ५०-१४ । ५२-२३ । ३६-१५ । ५८-२०
३०--८ २५६--२
सच्च त्यच्चाभवद् सता सोम्य तदा सम्पन्नो भवति
सत्यं ज्ञानमनन्तं ब्रह्म
सत्यं प्रत्यगात्मा
२४६--४ २६३-२१ (२४६-१८ ।२६२--७
१८५-१३ (१५७-१६
२३२-६ (२५०-१४
५५-११ ५६--८ १६५-१४
सदेव सोम्येदमग्र आसीत्
सपर्यगाच्छुक्रमकायमत्रणम् स यत्तत्र किञ्चित् स यदा प्रतिबुध्यते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #339
--------------------------------------------------------------------------
________________
वर्णानुक्रमेण श्रुत्यादिसूची
३०७ पृ० प० (२६१---३ । १७७-२१
६७--२ २४५-१६ १२७--५ १६२--१ २६६-११ ४६-२१
सर्व खल्विदं ब्रह्म सर्व मन एव सर्वमयं सर्वाकारम् सर्व विशेषणं सावधारणम् सर्वाणि शास्त्राणि विधिनिषेधपराणि सर्वे एकीभवन्ति सलिल एको द्रष्टाऽद्वैतो भवति स वा अयं पुरुषः सहकार्यन्तरविधिः पक्षण सहसिद्धं चतुष्टयम् स हि कर्ता साक्षो चेता केवलो निर्गुणश्च सहोपलम्भनियमात् सार्वविभक्तिकस्तसिः सुखमहमखाप्सम् सुषुप्तिकाले सकले विल्लीने सेतुं दृष्ट्वा समुद्रस्य सोऽकामयत बहु स्यां प्रजायेय स्वर्गकामो यजेत स्वार्थार्पणप्रणाड्या च खाश्रयव्यामोहहेतुरविद्या
२६५--१ ५०-१६ ४६-१६ २१७--४ १३१-१६ ५८-१३
४६-२० १२६४-१० १५६-२५ २५१--१४
।१६१-१६
५-२३ १५४--७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #340
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणिश्लोकानामकारादि
क्रमेणानुक्रमणिका
श्लो० पृ०
अकार्य आत्माऽयमनन्त इष्टो प्रखण्डमद्वैतमसङ्गमच्छम् प्रखण्डमात्मानमुदारबोधम् अचिन्त्यरूपाय वचोतिगाय अज्ञानजन्यावरणं प्रतीचि प्रत औपाधिको भेदो प्रतः प्रतीच्यात्मनि कल्पितस्य अत: प्रमात्रभिन्नत्वम् प्रतः संसारोऽयं भवति परमार्थस्त्वितरथा अतः स्वयंज्यौतिष आत्मनस्तत् अतस्तज्ज्ञा ज्ञानं परमपदमजं शुद्धममृतम् अतो घटाधवच्छिन्नचैतन्यवारणं तमः अतो निर्धर्मकत्वेऽपि व्यवहारस्थ ले चित: अतो ब्रह्मज्ञानाच्छ्रवणमनन० अतो विरुद्धानुभवावगाह्यः अतोऽविद्याध्यस्तं जगदिदम् अतो व्योमादीनां प्रकृतिविकृतीनां अतोऽहमात्मानमितिप्रतीतिः अतोऽहङ्कारटीकायाम्
८-११६ ४२-१६७
३-११४ १-१११ ३२-१२५ १३८-२२४
४३-१२८ १४२-२२५ १०-१४४ ४५-१२६ ५६-१७८ ५६-२०४ १३४-२२२ ५६-१७६ ५३-१३२ ५२-१७५ ४५-१७१ ५८-१३४ १५१-२२७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #341
--------------------------------------------------------------------------
________________
वर्णानुक्रमेण श्लोकसूची
३०६
श्लो० पृ०
४७-१०१ ५२-२७६ ३५-१६४ ८३-२०८ २०-१६० २६-१२ ८८-२१० ८५-२०६ ५६-१०३ ५५-१७७ १८-१४६
अत्र सर्वपदेनोक्तं यागाद्युत्थमदृष्टकम् अत्रैव केचिन्मृतिमूर्च्छयोईया: अत्रोच्यते समीचीनम् अथ जीवे परिच्छिन्ने अथ ज्ञानाश्रयस्यात्मवस्तुनः अथ संयुज्यते ज्ञानाधारेणैवात्मना अथ सर्वगतो जीवो अथान्तःकरणोपाधेः अथापूर्वविधिस्तत्र अधिष्ठानाद भिन्नं कचिदपि अधीतस्वाध्यायैर्विदितपद० अध्यस्तमज्ञानकृतं प्रतीचि अध्यस्तमद्वयसुखात्मनि चित्स्वरूपे अध्यस्तसत्ता पृथगात्मनो ना० अध्यस्तान्ध्यं भवभयगृहम् अध्यस्तेऽस्मिन् जगति अध्यासतो ब्रह्मणि चिहने परे अध्यासोऽयं परिमिततना अध्यासोऽहं ममेत्येवम् अनाद्यविद्यावरणावृतोऽसौ अनिर्वाच्या विद्या सकल. अन्त:करणभेदेन अन्यथा धीगतानां स्यात् अन्यथा निगमान्तानाम् अन्त्ये निराकर्तुरिहात्मभावात्
८-२४८ ६१-१३५ ६६-७५ ६३-७३ ५६-२७८ ३१-३६
५-१८६ ६२-१३६ ३८-१६५ १००-२३५ १०६-२१४ ४१-६६ २३-१२१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #342
--------------------------------------------------------------------------
________________
३१०
प्रत्यक्तत्त्वचिन्तामणौ
श्लो० पृ०
अपूर्वः परिसंख्यानम् अबाधितत्वाधिक्यं स्यात् अभिचारक्रियात्वेन अभिचारक्रिया यद्वत् अविद्याकार्यत्वात् अविद्याकार्येऽस्मिन् अविद्याच्छादितत्वेन अविद्याधिष्ठानम् अविद्याध्यस्तोऽयम् अविद्यायां सत्याम् अविद्यायोनित्वं वदसि अविद्यावृतचैतन्ये अविद्योपाधिको जीव अविद्योपाधिको यहि असंगोदासीनं सुखघन०
१८०-२३८ २८-१६२ २६-१६२ ५३-१७६ ३६-१६७ ८९-२१० ३६-१६५ २१-१५१ २९-१६१ ४७-१७२ ११७-२१६ १७१-२३५ ११२-२१५ २५-१५६
प्रा
आत्मज्ञोऽसौ तरति च शुचम् आत्मदर्शनकामेन आत्मनोऽपरिणामित्वात् आत्मातिरिक्तसर्वस्मात् आत्मानुभूतिद्वयगोचरत्वात् आत्माविद्याविवाऽयम् आत्माविद्योद्भवं बन्धं आत्मा स्वसत्तासमये स्वकीयम् आत्मैकत्वे निखिलवपुषाम्
७८-८३ ७१-१०७ ६४-२०५
७-६० ४६-१३१ ७४-१०८ ७३-१०७ २०-१२०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #343
--------------------------------------------------------------------------
________________
वर्णानुक्रमेण श्लोकसूची
द्येप्रमाणेऽपि तदास्ति वाच्यम् प्राध्यासिकी व्यवहृतिः आवृत्यभिभवस्तत्र
इति प्राप्ते ब्रूमः इति प्राप्ते ब्रूमो न भवति
इत्यतः श्रुतिरध्यात्म० इत्यप्यसाम्प्रतं भाति
इत्येकवचनादेव
इत्येवं प्रत्यवायं चेत्
उपक्रमोपसंहारा०
उपाधियुग्म परिहृत्य बाधितम् उपाध्योरेकदिकस्थत्वे
एकमेवात्र चैतन्यम् एको योगी विविधतनुषु एतत्समष्टिरपि सर्वगतेश्वरस्य
एतन्निरूपितं सम्यक्
एतन्मते जीव इवेश्वरे ऽप्य०
एतन्मते व्योमगभास्करस्य
एतैरपञ्चीकृतभूतवगैः
एवमाध्यासिकं भेदं
एवमेवाहनीयाः स्युः
एवं तटस्थनिजरूपसुलक्षणाभ्याम्
इ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३११
लो० पृ०
१०- ११७
१८५-२४०
६१-२०४
११- १४५
३८-१६६
२८–६६
८२-२१०
१७६-२३७
४८-१०१
१६४-२३२
६८-२८५
१३८-२२४
१८- २१६
६०–७०
२५-२५६
१८१-२३६
४१-२७०
४५-२७२
२१-२५८
१८४-२३६
३३-१८३
३७-२६८
www.umaragyanbhandar.com
Page #344
--------------------------------------------------------------------------
________________
प्रत्यक्तत्त्वचिन्तामणौ
एवं तत्त्वमसीत्यादि० एवं त्वमर्थे परिशोधिते असा एवं रूपावशेषस्तु
श्लो० पृ० १६०-२३० ६३-२८२ २७-६६
औ
औपाधिकत्वेऽपि ज्ञानम् औपाधिको दोषगणोऽस्ति जीवे
२३-१६१ ४४-२७२
कः स्तोतुं श्रीपतिमतिगुणम् कथं घटोऽज्ञात इति प्रतीतिः कथञ्चित्तत्त्वबोधस्या० कथन्तदात्मा श्रुतिमात्रगम्य: कर्ता देहगतोऽस्य भाग उदिती कर्त्ता भोक्ता परिमिततया कर्तृत्वमुख्यमनिरस्य विकल्पजालम् कल्पकं यदि यागीया. कश्चिद् धीरो विषयविरतिम् कश्चित्पुण्यप्रकृतिरना कार्यब्रह्मदिनावसानविलयः कार्यब्रह्मविनाशहेतुक इति कार्यस्याप्यस्त्युपादान० किञ्च प्रमाणं किमिहात्मनीत्थम् किञ्च प्रमाणं सति गोचरे वा किञ्चात्मनोऽसत्त्वमति: स्वमेव किचात्मनोऽसत्त्वमनात्मना किम् किञ्चित्साम्यात्प्रवेशे
५–१२ ३५-१२५ ४०-६६ ३८-१२६ ५३-२०२ ४०--५० ७६-२८६ ४५-१०० ३२-४० १६-२४ ३१-२६५ ३०-२६४ ११३-२१५ २८-१२३ २४-१२१ २२-१२१ १६-१२० १२०-२१६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #345
--------------------------------------------------------------------------
________________
वर्णानुक्रमेण श्लोकसूची
किन्तर्हि स्वान्तवृत्त्या किमुत्कृष्टपुमर्थस्य
कूटस्थमद्वयसुखं भ्रमभेदशून्यम् केचित्तु मायाप्रतिबिम्बमीश्वरम्
कोऽहं कस्य प्रचुरभयदा क्रियात्वे तस्य वाय्वादि०
गगनपवनतेजोवा० गगनयुत परेश:
गुणा ये ज्ञानाद्याः
घटादिविश्वं परमात्मनीशे
घटादिविषयाणां हि
घटादीनामुपाधीनाम् घटाद्यधिष्ठानतया चिदात्मा
घनुभूयते यर्हि
घटोऽयमिति चाध्यक्षे
चक्षुरादेरपि स्वोत्थ०
चतुष्कोणतया तद्वत् चार्वाकाणामतिजडधियाम्
चिकित्साशास्त्रवत् प्राप्त ० चितोऽभिव्यञ्जिका वृत्तिः
चिदभिव्यक्तियुक्तो ऽत्रा०
चिदंश: कर्त्रवच्छिन्न:
ग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३१३
लो० पृ०
६८-२०५
४४-१००
७७-२८०
३८-२६६
२७-३३
१६-१८०
१२-२५१
१४-२५३
१२-१४५
६०-१३५
१३०-२२०
१३७-२२३
३६-१२६
६७-२०५
१४१-२२५
१७- १८०
४६-२००
३७--४६
३६—८८
१३१-२२१
६४-२०५
५५-२०३
www.umaragyanbhandar.com
Page #346
--------------------------------------------------------------------------
________________
३१४
प्रत्यक् तत्त्वचिन्तामणौ
चिद्योगादेव तद्भानम् चैतन्यमेवानुगतं विशुद्धम्
जगज्जयत्काले विविध०
जगत्कार्य हेतुः
जगदिदं खमरुच्छुचिवारिभू० जगन्मिथ्यात्वे तु श्रुतिशत०
जडान्तः करगास्याव०
जड़े स्वतोऽप्यावृतरूपभावाद् जानामि मामित्यनुभूतिरेषा
जीवचैतन्यमन्यत्रा०
जीवसाक्षीशसाक्ष्येतत्
ज
जीवात्मना प्रविशतीश्वर एष सर्व०
ज्ञातस्तथाज्ञात इति प्रतीति:
ज्ञानस्य न गुणत्वेऽपि
ज्ञानं ज्ञेयं युगपदितर: ज्ञानादूर्ध्वमपीयं चेत्
ज्ञानावच्छेदकत्वात्त० ज्ञानावच्छेदिका वृत्तिः
तच्चाध्यक्षं द्विधा तत्र तच्चान्तःकरणं तथा परिणतम् तच्छ्रुतेर्गीरनारभ्या०
तटस्थमन्यव्यावृत्त्या
तटाकस्थं जलं सेतु०
त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
श्लो० पृ०
८१-२०८
४३-१६८
३३-१६४
५४-१७०
३–८६
२८-१६०
१६८-२३४
३३-१२५
५३-१३३
€४-२११
१६७-२३३
२४-२६०
५४-१३३
१८- १६०
४५-५७
३२- १८३
१३२ - २२१
१५४-२२८
१५८ - २३०
५२-२०२
६६-१०५
१८८३
४८-२००
www.umaragyanbhandar.com
Page #347
--------------------------------------------------------------------------
________________
वर्णानुक्रमेण श्लोकसूची
ततः प्राणेन्द्रियादीनाम् ततः शुद्धाद्वैतात् ततः सर्वाङ्गनिष्ठस्य ततश्च जाग्रत्समयेऽस्ति भाती० ततश्चारब्धव्यम् तत्कथं शृणु वेदान्त० सत्कथं सर्वजन्तूनाम् तत्त्वज्ञानादुचिततपसा तत्त्वज्ञानान्निजसुखगता० तत्त्वज्ञाने समुत्पन्ने तत्त्वदर्शी तु विज्ञानम् तत्त्वम्पदार्थधिषणोत्थ० तत्त्वमस्यादिवाक्यानाम् तत्पार्वेऽसौ विजितकरणो तत्र तावच्छुतिप्रोक्तम् तत्र प्रमातुरेवास्य तत्र साधनसम्पन्नः तत्र स्थितोऽन्तःकरणं शरीरे तत्र स्वरूपमपि लक्षणमुच्यतेऽस्य तत्रात्मबोधजनिरात्मविचारत: स्यात् तत्रात्मविद्याधिपतिर्महेशो तत्राद्यकारणशरीरसमष्टिरीशो तत्रापि हन्यमानेन तत्राप्यादा गुरुवदनत: तत्राभिमानेन निविष्टबुद्धिः
३१५ श्लो० पृ०
७५-१०८ ४६-१७२ २०-६४ ३०-१२४
५-१४१ ३७-१६५ ७०-२०६ ७०-७७ ७६-८३
७७-१०६ १२२-२१७
३-२४६ १६५-२३३ २६-३३ १४-६२ १६१-२३१ ७६-१०६ ४७-२००
४-२४६ १८७-२४१ ४०-१६६ १६-२५७ २७-१६२ २८-३५ ५७-२७८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #348
--------------------------------------------------------------------------
________________
३१६
प्रत्यक्तत्त्वचिन्तामणौ
तत्स्वप्रकाशं किलयन्न केना० तथा च मातुः स्वत एव चित्त्वात् तथा च सर्वैरपि यः प्रमाणैः तथा चाज्ञातेऽस्मिन् तथा चासङ्गिन: साक्षि० तथा चोपाधिभेदेन तथान्त:करणस्यापि तथान्या प्राणादेरनिशमवदत् तथाप्युपाधिसंसृष्ट० तथा सत्यपि जीवस्य तथैव श्रुतितात्पर्यम् तदनुसरणगुणाम्भः तदभिव्यक्तचैतन्य० तदा न कश्चिदप्येवम् तदित्थमन्त:करणे तदेवं चित्यहंकारा० तदेवं सर्वथा वेद० तद्वाराहङ्कतिरपि जडा तद्विशेषणभूतस्य तमेव भान्तं ह्यनुभाति सर्वम् तरत्यविद्यां वितताम् तसिंगितयोपाधा० तस्माच्छ्रुतिस्मृतिन्याय. तस्मात्तव मतेऽपीयम् तस्मात् सर्वा व्यवहृतिभिदा
श्लो० पृ० ५०-१३१ १८-१२० ३७-१२६ ५८-१७६ १०४-२१३ १२६-२२० १४८-२२७
३५-१६५ ८६-२०६ ८४-२०६ १२-६१ १५-२५४ ७२-२०६
२१-१६१ १११-२१४ १२८-२२० ११५-२१५
३०-३७ ६०-१०३ २७-१२२ १७५-२३७ ७६-२०७ ७०-१०७ ६३-२१० ५७-६८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #349
--------------------------------------------------------------------------
________________
तस्मात् सुधीः श्रुतिनयानुभवेषु दक्षम्
तस्मात् स्वतः सिद्धमखण्डतत्त्वम् तस्मात् स्वविज्ञानघनस्वभाव०
तस्मात् स्वाध्यस्तमेवेदम्
तस्मादध्यास मूलस्वा०
वर्णानुक्रमेण श्लोकसूची
तस्मादुपाध्यसम्बन्धात् तस्माद्धीरोऽपरिमितपदप्राप्तये
तस्माद्बन्धोजनिमृतिमयो
तस्माद्ब्रह्माद्वयसुखनिधिः
तस्माद्वेदान्तशास्त्रेऽस्मिन् तस्मान्नास्ति विधिः कश्चित्
तस्मान्मातृप्रमाणादि०
तस्याश्च द्रष्टृभूतस्तु तस्यां या चिदभिव्यक्ति:
तस्याः परम्परायास्तु तार्किकाभिमतेऽप्येवम्
तावद् दृष्टफलस्यापि तिस्रो रात्रीतं कुर्यात्
तूलाज्ञाने विनष्टेऽपि
तृणाद्यदाहकत्वेऽपि
तेऽपि संयोगसंयुक्त० त्यक्ता चिन्तां भवभयफलाम्
त्रिकालाबाध्यं यत्
त्रिविधविश्वमिदं परमेशितुः
त्रेधा निष्ठा श्रुतिभिरुदिता
४१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३१७
श्लो० पृ०
१८८-२४२
६३–१३६
४७-१३०
१५३-२२८
७८-१०८
८२-२०८
८०-८४
६४–७३
७७–८२
१८२-२३६
४२-१००
३४-१८३
२३—६४
२१–८४
३१-१८३
१३-१८६
४३-१००
६३-१०४
६२-२०४
१०३ - २१३
१५५-२२८
१०- १८
५०-१७४
४४-१६८
११-१८
www.umaragyanbhandar.com
Page #350
--------------------------------------------------------------------------
________________
३१८
प्रत्यक्तत्त्वचिन्तामणौ
बंधा भक्तिर्निगमगदिता वेधास्त्यशुद्धिस्त्वम आत्ममोहिनी त्वमर्थमात्मन्यपि जाग्रदादय:
लो० पृ० २१-२८ ५६-२७६ ६५-२८४
दिग्वातसूर्यवरुणाश्विचतुर्मुखेन्दु० दूरस्थितेन्दुगुरुशुक्रबुधध्रुवादि० दृढे बोधे जाते दृष्टे श्रुते मते ज्ञाते देहात्मप्रत्ययो यद्वत् देहादिवर्गगतनैजमतिं विहाय देहादीन्योऽनृतजडमयान् देहाध्यासे सति कथमहो देहावच्छिन्न एवात्म० द्रव्यादीनां नयमतधिया द्वितीयेऽपि प्रमाण्याख्य.
१८-२५६ ५१-२०१ २०-१५०
६-६१ १३६--२२३
७४-२८८ ४७-५६ ३३-४१ २२-१६१ ७१-७८ ११-१८८
धर्माच्छुद्धिः भवति विहितात् धीधर्माणां भ्रमजनिधियाम् धृतेनाङ्गुलिमात्रेण ध्यायं ध्यायं नवघनरुचिम्
२०-२७ ४४-५५ ६०-२१० ७-१५
न च भाष्यविरोधोऽपि न चाज्ञातः कुम्भः कथमिति न चासत्युपरागे चित्० न चेप्रमाणं परमात्मनीष्टम्
५७-१०३ ४२-१६६ १००-२१२
५-११५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #351
--------------------------------------------------------------------------
________________
न चेद्वस्तुत्वं स्याज्जगति
न ज्ञानकर्म्मत्वमयं चिदात्मा
न तत्र प्रामाण्यं निगमशिरसाम्
न तंत्र मायाकृतदोष ईषत्
न तन्त्रं वाक्यजज्ञान०
वर्णानुक्रमेण श्लोकसूची
न तु प्रत्यग्बो
न त्वं पदार्थमविविच्य कदापि बोधम्
न त्वेवं भासयत्यद्धा
न द्वितीयो यतस्तत्त्व ०
न धीस्वरूपमात्रं स्यात्
ननु प्रत्यक्तत्त्वे जनिमृतिमयी
ननु ब्रह्मात्मतत्त्वस्य ननु भ्रान्तिज्ञानाज्जगदनुभवे
ननु सम्बन्धशून्येऽपि
ननु सर्वगतत्वाच्चिद्० ननूक्तरूपे परमात्मतत्त्वे
नूपपद्यते नैवम्
ननूपायापरिज्ञानात् नन्वन्तःकरणेन चेत्
नन्वस्त्येव प्रतिवपुरयम् नन्वागमोद्भूतधिया निवर्त्या ०
नन्वेवं भासमानेऽस्मिन्
नन्वेष आत्मा न तथा यथोक्तः
न प्रमातृप्रमाणादि ०
न मातृत्वादिसंयुक्त०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३१६
श्लो० पृ०
४-१४१
५६-१३३
२६ - १५७
४१-१८७
१६२-२३१
४३-१६६
७३-२८८
१०२-२१२
३५——६८
१०८-२१४
३-१४०
५१-१०२
३६-१६६
२५-१८२
६५-२०५
४-११४
२८६६
३३- ८७
६०-२०४
४८–६०
४०-१२७
६- १८७
४८ - १३०
८-१८८
७- १८७
www.umaragyanbhandar.com
Page #352
--------------------------------------------------------------------------
________________
३२०
प्रत्यकृतत्त्वचिन्तामणौ
न यावच्छास्त्रं तत्त्वमसिमुख० न वा चितिविवर्त्तत्वे न वाऽध्यक्षादीनाम् न वा पूर्वाहमुत्थेन न वा विषयचैतन्य न वा श्रौतज्ञानं कथमपि न वा सत्युपरागेऽपि न वा सर्वगतस्तस्य न वेद्मि मामित्यनुभूतियोगाद् न वेद्मि मामित्यनुभूतिरेषा न वैषम्यमिहाप्यस्ति न व्यवस्थापरिच्छिन्नम् न सत्यः संसारा न सत्यस्यासत्ये न संविद्विषयौ तत्रा० न सोऽपरज्यतेऽन्यत्र न स्यन्दते मन इदं जलवक्रमेण नहि द्रष्टुईष्टेरपि नहि प्रमाणं खलु साधकं सत् नहि वृत्तिं विना साक्षि० नहि सत्यपि वेदान्त० नोकवस्तुन्यनुभूतिरेषा नानाजन्मार्जितसुकृततः नान्त्यो नियमजादृष्ट० नान्यस्मिन् वादिपक्षे
श्लो० पृ०
१५-१४७ ११६-२१६ १७-१४६
८-१८७ १४४-२२६
८-१४३ ८०-२०८ ७३-२०६ ५१-१३१ ५७-१३४ १२६-२१६ ७१-२०६
६-१४४ ५१-१७५ १२७-२१६ ६६-२११ ५०-२०१ ३४-१६४ १३-११८ १४६-२२७ ३६-६६ ५२-१३२ ३४-४२ ३८-६८ १८३-२३६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #353
--------------------------------------------------------------------------
________________
वर्णानुक्रमेण श्लोकसूची
३२१ श्लो० पृ० ४६-१२६ ३१-१६२ ७३-८०
४-८९ ५०-१०१
नापेक्षतेऽसावितरप्रकाशम् निजाज्ञानं देहाद्यखिल. नित्यज्ञानं सुखमपि तथा नित्यस्वाध्यायविधिना नित्यं कर्म परित्यज्य निदिध्यासनमैकाग्र्यम् नियामिकाऽस्तु तत्रेयम् निरवधिपदमेकं सत्यमेवाद्वितीयम् निर्विकल्पं हि संसर्गा० नेयं भ्रान्तिर्निखिलजनता० नैवं श्रौते निरवधिपदे
३०-१६२
१०-२५० १५९-२३० ४६-६१ ५२-६३
१६-१५० ३०-१६२ ६८-१०६
परन्त्वात्मज्ञानम् परे द्वैतं युक्त्याप्यखिलमिद० पाण्डित्यबाल्ययोरर्थः पाण्डित्यं ब्राह्मणस्तस्माद् पुरातत्त्वज्ञानान्न च जगति पूर्वपूर्वाहमुद्भूत० पृथ्व्यप्सु तेजसि जलं लयमेति वायौ प्रकृतिविकृतिभावं बाध्यमेवापबाध्य प्रकृते च सदेवेत्या० प्रतिकर्मनयैस्तस्मात् प्रतीत्या केवलं सिद्धम् प्रतीयते चेदिदमात्मतत्त्वम् प्रत्यक्तत्त्वे परसुखवपु०
७-१४३ ११६-२१५ ३४-२६७ ६५-१३७ १६३-२३२
७५-२०७ २५-६५
६-११६ ८२-८५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #354
--------------------------------------------------------------------------
________________
३२२
प्रत्यक्तत्त्वचिन्तामणौ
श्लो८ पृ.
प्रत्यक्षेण त्वमहमिति यन्ना० प्रत्यगब्रह्मैक्यरूपा या प्रपञ्चो व्योमादिस्त्वयमनृत प्रभाकरोऽयं तमसावृतोऽस्ति प्रमाणत्वेनैवाभिमतकरणानाम् प्रमातृत्वं विना तेन प्रसिद्ध वैद्यशास्त्रादि० प्राधान्यं मननादस्मिन् प्राधान्यात् प्रत्ययार्थस्य प्रेमास्पदत्वात् सुखमेव नित्यम्
२२-६४ २३-१५३ ४२-१२८ ४१-१६८ १२-१८८ ३२-६७ १८-६३ ५९-१०३ २६-१२३
फलोपकारकाङ्गं स्यात्
सम
१७-६३
२४-१६१ ४२-२७१
बाह्यात्मदेशसंयुक्त० बिम्बत्वाकान्तमेकं निरवधि० बुद्धधर्माः सुखकृतिमुखाः बुद्धर्भेदाद् व्यवहृतिभिदा ब्रह्मचैतन्यरूपोऽपि ब्रह्मज्ञाननिमित्तकः प्रविलयो० ब्रह्मण: सर्वगस्यान्त:० ब्रह्मदर्शनमुद्दिश्य प्रधानफलभावत: ब्रह्मेवाग्रे परमममृतम्
१०६-२१३ ३२-२६६ ८७-२०६ ६१-१०३ १३-२१
भक्तिं प्रोक्तामथ कृतवतः भवेत्तवोक्तं यदि मानशून्य.
२४-३१ ६-११५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #355
--------------------------------------------------------------------------
________________
वर्णानुक्रमेण श्लोकसूची
भागत्रयेऽप्यनुगता भिन्नो जीव: स्वत इह विभो० भेदाभेदी पृथगधिगता भोगासक्तिं परिहृतवतो भ्रमत्यवस्थात्रयसंयुतो भवे भ्रमव्यावृत्तत्वं न च जगति भ्रमात्पूर्व सर्पो न भवति
३२३ श्लो० पृ. ५७-२०३ ७५-८१ ५३-६४ १६-२७ ५३-२७७ ४०-१६८ ३७-१६६
मननध्यानरूपाभ्याम् मनो बुद्धिरहङ्कारः मानप्रवृत्तेः स पुरा चिदद्वयः मानातिगायानुभवैकधाम्ने मानान्तराङ्गीकृतितः प्रमाणे मायान्तु प्रकृतिं विद्यात् मायामयं विविधनामविकारजातम् मायावच्छिन्नचैतन्यम् मायाशक्तिर्निखिलकलनाम् मायाशक्तौ प्रतिफलमिदम् मायोपहितचैतन्यम् मिथ्याभेदं स्थिरचरवपुः मुकुन्दपादाम्बुजभक्तिवैभव० मृत्स्वरूपं न वृक्षादौ मृषात्वं विश्वस्य श्रुतिरपि मेघश्याम निरवधिरसम् मैवं चितो नहि ब्रूमः
११-६१ १५७-२३० १५-११८
२-११२ ११-११७ १७४-२३६
६-२४६ १७७-२३७ ६२-७२ ३६-२६६ १७३-२३६ ५८-६६ ६२-२८२ ११४-२१५ १६-१४८
.६८-२०५.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #356
--------------------------------------------------------------------------
________________
३२४
मैवं चिदानन्दविशुद्धपूर्ण ● मैवं यथावघाते स्ति
यच्चद्विलासपरिभावितमेतदाशु यज्ञस्तपादानमहङ्कृतिं विना यज्ञेनेत्यादिवाक्येऽपि
यतो वेति श्रम्
यत्पादाब्जस्मृतिरभयदा
यथा रज्जुर्भ्रान्त्या भुजगवपुषा यथा सर्वगता जाति०
यथा स्वप्ने भ्रान्त्येन्द्रियगणकृता० यदज्ञातं विश्वं स्थिरचरमिवा० यदन्तःकरणाभासो
यदा बुद्धं ब्रह्मामृतमज० यदि द्वैतं सत्यं भवति
प्रत्यकूतत्त्वचिन्तामणौ
यदिन्द्रियानुमानादि० यदि सर्वगता जाति:
यद्ब्रह्माण्डाद् बहिरपि
यद्ययेषा निरaft
यद्यर्हार्थतया तव्य०
यद्यस्ति भानं सत एव
यद्यापाततस्तत्र
यद्यप्युपादानतयाऽखिलस्य यद् वीक्ष्यासौ जनिमृतिभया० यस्तत्पदार्थः परमेश्वरो हि
य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
लो० ० पृ०
३८-१२७
५२-१०२
१-२४४
६०-२८०
६२-१०४
२४-१५५
२
-16
५७-१७८
८५-२११
४४-१७०
१-१३८
१०५-२१३
६-१४२
२७-१५८
१५०-२२७.
१७-२११
७४-८०
६७–७५
६४-१०५
२६-१२२
६७-१०५
५४-२७७
८-१८
५८-२७६
www.umaragyanbhandar.com
Page #357
--------------------------------------------------------------------------
________________
वर्णानुक्रमेण श्लोकसूची
यस्तु योगं समभ्यस्य यस्य ज्ञानस्य यद्धेतुः यं द्वैतशून्यमपि सर्वमयं
यः सर्वविन्निखिलकारणं यावत्कृष्णे परिचितमतिः
यावदज्ञानमेते स्युः
यावदात्मगतं ज्ञानम्
येनात्मना मानमुखप्रपञ्चः योगाचारा: क्षणिककलया
Sarita द्विजेो वेदान्
यो ब्रह्माणं सृजति जगताम् यो यत्र धत्तेऽतिशयं स तस्य arsi carsaarsमयो
रज्जोर्यथा ज्ञानजसर्पभान ० रजस्तमोमिश्रितसत्त्वमावृते
ल
लब्ध्वातिदुर्लभमिदं नरजन्म मोक्ष ०
वाग्देवी यन्मुखसर सिजे विक्षेपहानिर्भगवत्पदाम्बुज ०
विचारस्य विचार्यार्थ ० विज्ञाय चैतन्यमखण्डमद्वयम्
विधातव्यस्मृतेर्वाक्य ०
४२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३२५
श्लो० पृ०
७६-२०७
१६- १८६
२-२४५
७-२४८
१७–२६
१३५-२२२
१४-१८६
१७- ११६
६६७६
४८-१०१
४-१०
३४-१२५
४२-५३
३१-१२४
६७-२८५
७०-२८६
३--८
६१-२८१
३४–६७
६६-२८६
६८-१०६
www.umaragyanbhandar.com
Page #358
--------------------------------------------------------------------------
________________
३२६
प्रत्यक्तत्त्वचिन्तामणी
विभुत्वादात्मायं क्वचिदपि विभुरपि परमात्मा विशुद्धसत्त्वात्मतया विशेषणत्वोपाधित्वरूपण विश्वोद्भवस्थितिलयैक० विषये योग्यताभावावच्छिन्नः विष्णोरञ्जी हृदि धृतवतः विष्णोर्नाम्नां श्रवणमनिशम् वृत्तिज्ञानं मनोधर्मः वृत्तेर्निगमनाभावात् वृत्तौ वृत्त्यन्तराभावे वेदान्तश्रवणादीनाम् वेदान्तिसांख्ययोः पक्षे वेदोऽनादिर्न तु पुरुषधीः वैराग्यभक्तियुत आत्मविचारमार्गे वैराग्यमेव विषयेभ्य उदारभक्तया व्यङ्ग्यव्यञ्जकयोः व्यवहारदशायां ते व्यवहारभिदामन व्यावर्त्तकं यद्ध्यनवस्थितत्वे व्योमादिकर्तृत्वमपीश्वरेऽर्पितम् व्योमादिसात्त्विक० व्योम्नोऽप्यरूपस्य जलाधुपाधी व्रीहिमात्रसमाकार: ब्रोहीनित्यत्र शास्त्रक०
श्लो० पृ० १३-१४६ १३-२५३ ६६-२८४ १६८-२३४ ३५-२६७ ५६-२०३ २५-३२ २३-३० १३३-२२२ १४६-२२६ १४७-२२६ ३१-६७ १०-१८८ ८१-८५ ७२-२८८ ७१-२८७ ५८-२०३ १२३-२१८ १७२-२३६
५-२४७ ६४-२८३ १७-२५५ ४६-२७३ ५५-१०२ ५३-१०२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #359
--------------------------------------------------------------------------
________________
वर्णानुक्रमेण श्लोकसूची
'शक्तिद्वयं मनस इष्यत शक्तूयाऽजया सृजति सर्व० शबलमपि तदेवाद्वैत ०
शान्तो दान्तो
शान्त्यागारे भ्रमहरपदे
शास्त्रं नानाविधफलपरम्
शुद्धं वस्त्वद्वयमविदितम् शुद्धं स्वतो ब्रह्म निज प्रमादात्
शुद्धस्वान्ताः शून्यं वस्त्वेतदखिलमिह
श्रवणमनन सिद्धब्रह्म ० श्रवणविधिबलेनाद्वैततत्त्वं
श्रवणं ह्यागमाचार्य०
श्रुतिशिखर विचाराद्
श्रुतीनां तात्पर्याप
श्रुतीनां प्रामाण्यादवगत ०
श्रुत्वा श्रुतिभ्य उदितं गुरुणात्मतत्त्वं
श्रोतव्यो गुरुमाश्रित्य
श्रोतव्यः श्रुतिवाक्येभ्यः
श्रौतं तत्त्वं शृणु
स एवायं कुम्भस्तदिद० सकलकारणकार्य विलक्षणम्
सकलगा चितिरात्मपदाभिधा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३२७
लो० पृ०
२७-२६३
२२-२५८
११-२५०
६५–७४
१८-२६
५१-६३
६-१३
४७-२७४
१२-२०
६८-७६
७६- १०८
८४-८६
३७-१८
१८८-२४२
४८-१७३
२२-१५२
७५-२८६
०२-१०७
१३-८२
२६-३६
३२- १६३
१-८८
४५-१€€
www.umaragyanbhandar.com
Page #360
--------------------------------------------------------------------------
________________
३२८
प्रत्यकूतत्त्वचिन्तामणौ
सकल सुखनिदानं सर्वविद्यावभासम्
स क्षणिकान्यनेकानि
सति ज्ञानविधाने हि
सत्त्वं रजस्तम इति प्रकृतेः स्वरूपम्
सदानन्दाम्भोध सत्यं तथैवास्ति
सत्येव चेत्तर्हि न वस्तुसत्ता
समस्तादृष्टजन्यत्वम्
स युगपज्जगत् सर्वम्
सर्वत्र प्रत्यभिज्ञानात्
सर्व प्रियं भवत्यात्म०
सर्ववेदान्तवाक्यानाम् सर्वस्य मातरमिदं प्रमाण ० सर्वोपादानभावेन
स वेदान्तगोत्कृष्ट ०
संसर्गासङ्गिसम्यग्धी०
संसारमाकर मशेष० संसाराब्धौ प्रचुरभयदे
संसृष्टत्वेऽपि चिद्धातोः
साक्षात्कारो यदि भगवतः
साक्षित्वं तदुपाधित्वे साक्षित्वेनाखिलजनधियां
साचिद्वैविध्यतः प्रोक्तं
सा च वृत्तिश्चतुर्धा स्यात्
सारात्सारं निगमजलधेः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
लो०
पृ०
७८-२६१
१२१-२१७
५८-१०३
१६- २५५
२-१४०
४१-१२८
२५-१२२
४६-१००
७७-२०७
१२४-२१८
६–६०
१५-८२
१६-११६
१०१-२१२
५-६०
१६६-२३३
१८६ - २४०
१५—२३
१०७-२१४
३५–४३
१७८ - २३७
५६–६७
१७६-२३८
१५६-२२८
८-१६
www.umaragyanbhandar.com
Page #361
--------------------------------------------------------------------------
________________
वर्णानुक्रमेण श्लोकसूची
३२६ श्लो० पृ० ३६-१६४ ६८-२११
२-८८ १५-१८६ ६६-२०५ ५१-२७६ २८-२६३ २६-२६४ २६-२६२
सा वेदान्तिमते सम्यक सा हि रूपरसस्पर्श० सुखघनं निरवद्यमशेषगम् सुखदुःखात्मको भोगो सुखदुःखादिकं पुंसाम् सुप्तिस्त्वविद्याविषयातिसूक्ष्मा सुप्तौ न कञ्चन यदा सुप्तौ यत: सकलमेति सुप्तौ लयं व्रजति सुप्तौ सर्व व्रजति सूक्ष्म: सुप्तौ व्रजति विलयम् सूत्रात्मतेजसभिदा० सृष्टिक्रमात् प्रविलयोन्धिपरीत इष्टः सृष्ट्यादिवाक्यमपि सेयं परस्परमतिर्बहुधात्मविद्भिः स्याद् व्यापकोपाधि० स्वज्योतिरात्मनि समानविशेषभाव. स्वयं तस्यामभिव्यक्तः स्वयंप्रकाशस्य न चास्त्यपेक्षा स्वयंप्रकाशात्मनि बोधजन्या स्वरूपलाभाय किमात्मनो वा स्वाज्ञानकल्पितमखण्डसुखावबोधे स्वात्मनाऽज्ञानतत्कार्यम् स्वात्मानन्दादमितपदतो स्वाधीनीकृत्य मायाँ परम०
४३-५४ २०-२५७ ३३-२६६ ३६-२६८
३-१८४ ४०-२७०
४-१८५ २४-६५ १२-११७ ४४-१२६
७-११५ २-१८३ २६---६५ १४-२३ ४३-२७१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #362
--------------------------------------------------------------------------
________________
३३०
प्रत्यकूतत्त्वचिन्तामणौ
स्वान्तोपाधेर्भवति विकलो स्वावच्छिन्नचिदध्यस्त ०
हन्ताऽस्य विश्वस्य
he
Shree Sudharmaswami Gyanbhandar-Umara, Surat
श्लो० पृ०
७६ – ८२
१४३-२२५
१४-११८
www.umaragyanbhandar.com
Page #363
--------------------------------------------------------------------------
________________
शुद्धिपत्रम्
अशुद्धम्
शुद्धम्
पं० पृ० प्रतिकूलभूताविद्यात प्रतिकूलभूताविद्यातकार्यबन्ध०
१७--
कार्यबन्ध० प्राहीभावेन
प्रतीभावेन तदैक्यत्वञ्च
तदेकत्वञ्च
१--१४ एकैवनिष्ठा
एकैव निष्ठा
१८-१६ खच्छोऽत्यन्त
स्वच्छोऽत्यन्तनिर्मल:
निर्मलः प्रत्यकतत्व०
प्रत्यकतत्त्व०
१४-२१ मात्रादिहेतु
मात्रादिहेतुः
२४-२१ च्छिन्न पदा
च्छिन्नपदा
१०-२३ एष.......निनीषते "एष......निनीषते" परं
पदं
२१-२६ रनुतिष्ठितस्य
रनुष्ठितस्य
१०-२८ किं स्वरूपः
किंस्वरूपः
१६-३४ त्वं पदार्थ त्वम्पदार्थ
३-३६ तथा च वृथा शास्त्रारम्भोपदे. तथा च वृथा शास्त्रारम्भोपशादि०
देशः स्यादि० २४-४० प्रतिष्ठापरिसमाप्ति
प्रतिष्ठा परिसमाप्ति० १२-४१ सत्वा०
सत्त्वा० ०फलाच्च
फलत्वाञ्च ०वत्वात
०वत्त्वात्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #364
--------------------------------------------------------------------------
________________
पं० पृ० २३-५१ १६-५२ २०-५३ १५-५५ १२-६०
प्रशुद्धम् यस्य स ०वत्वात् ०तया निर्वा० न हि नोको
तत्त्वेशुष्क० तर्का प्रतिष्ठानात् सर्वाषु ०घुप्रक्रम्य प्राज्ञमन्यः जीव निधि प्रत्य०
१३-६४
शुद्धम् यस्य सः ०वत्त्वात्
तयाऽनिर्वा० नहि नोको.
तत्त्वे शुष्क० तर्काप्रतिष्ठानात् सर्वासु ०धुपक्रम्य प्राज्ञम्मन्यैः जीवः निधिप्रत्य० (०निधिः प्रत्य०१) सिन्धुप्रत्यगात्म० तारयितुम् तस्या निवर्तकं वाऽव्यतिरेकतः तदा श्रवणे०
तत्वेन विधिर्निर्दुष्टः ब्रह्म बुभूषुः प्रपञ्च प्रत्य० ०वकाश इति सत्ता साहसं
सिन्धु प्रत्यगात्म० तारयितु तस्यानिवर्त्तकं वा व्यतिरेकतः तदाश्रवणे०
तत्त्वेन विधिनिर्दुष्टः ब्रह्मबुभूषुः प्रपञ्चप्रत्य. ०वकाशइति सत्तासासह
१७-१२
१-८३ १८-८३
t-६५ १६-१७ १४-१०१
६-१०५ १४-१०५ १५-१०५ १४-११४ १५-११५ १३-११६ ई-११८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #365
--------------------------------------------------------------------------
________________
अशुद्धम् अनात्मनो ज्ञातृतया विवादम् नामित्यविषयत्वम् प्रात्मनो ज्ञात निवृति० वाथ वेति प्रावृत्ताः कल्पितेस्तः मूल बाधेन यवान् प्रसङ्गदा० स्तवमते नेहनाना०
नाधिगता तु शब्द वाद्यानुपघातात भवेत्भ्रान्ति अन्तकरणा० ०वृत्तत्त्वं
शुद्धम्
पं० पृ० अनात्मनोऽज्ञातृतया ८-१२० नाम्
१८-१२३ विषयत्वमित्यविवादम् १६-१२३ प्रात्मनोऽज्ञात
३-१२४ निवृत्ति
१८-१२६ ०वाऽथवेति
२-१३० प्रावृताः कल्पिते स्तः
१६-१३५ मूलबाधेन
२०-१४० यद्धवान्
१६-१४४ प्रसङ्गादा०
७-१४५ स्तव मते नेह नाना०
१७-१४८ ०ऽनधिगता
४-१५१ तुशब्दः
२०-१५३ वाघानुपघातात् ३-१६० भवेद्धान्ति०
२१-१६२ अन्तःकरणा०
४-१६५ ०वृत्तत्व
१-१६८ दात
२-१६८ चन्द्राग्न्याधव०
३-१७० देशे काले
१३-१७४ अज्ञातत्व० निर्विकल्पे
२१-१८६ प्रविजानीते
१४-२०४
०दात
चन्द्राग्नाधव० देशेकाले अज्ञातत्त्व० निविकल्प प्रति जानीते
४३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #366
--------------------------------------------------------------------------
________________ [ प्रशुद्धम् प्रतः झपाय 4 ] शुद्धम् प्रत युपाय बुद्धावाकलय्येदं महङ्कति० सार्वझ्यमुख्या० पं. पृ० 1-224 18-240 12-251 22-280 18-284 बुद्धाकलय्येदं महङ्कृतिक सार्वज्ञय मुख्या० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com