SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ७४ प्रत्यक्तत्त्वचिन्तामणौ गात्मनि कल्पित एवास्ति । अघटितस्यात्यन्तासम्भावितस्य घटना या रचना तत्र दक्षिणाऽत्यन्तचतुरा माया तत्वज्ञाननिवर्त्यत्वेनाविद्याशब्दवाच्या, सर्वप्रपञ्चोपादानत्वेन प्रकृतिः, आत्मतत्त्वाऽऽवरकत्वेन तिमिरम् , ज्ञानविरोधित्वेनाज्ञानमित्यादिशब्दरभिधातुं योग्या व्यवहारदशायामेषा साक्षिप्रत्यक्षगम्या तत्राविरुद्ध सर्वाध्यस्तवस्तुनः सत्तास्फूतिप्रदत्वेन सर्वानुग्राहकतया विरोधशून्येऽधिष्ठाने ब्रह्मण्यात्मतत्त्वे कल्पितबन्धस्य हेतुः कारणमिति योजना। तन्निवृत्तौ तस्या बन्धनहेतुभूताया मायायाः सका या निवृत्तौ बाधलक्षणायां तद्विषयाधिष्ठानात्मतत्त्वगोचरा धिषणा वेदान्तवाक्यविचारजन्या प्रमारूपाऽन्तःकरणवृत्तिः समर्था पटोयसीत्यर्थः ॥ ६४ ॥ शान्तो दान्तो भगवति हरौ भक्तिमान् शुद्धबुद्धिः प्राप्याचार्य श्रवणमननध्याननिष्ठाप्तबोधः । आत्माविद्यां सपदि सकलां तन्महिम्ना निवृत्तां बुद्धवा धीरः सुखघनपदे तिष्ठतीत्येष मुक्तः॥६५॥ एवं विस्तरेण शास्त्रार्थ निरूप्य, श्रोतबुद्धिसौकर्यार्थमुक्तमेवार्थ सङ. क्षिप्य निरूपयति-शान्त इत्यादिद्वाभ्याम् । आदी ईश्वराराधनलक्षणधर्मानुष्ठानाच्छुद्धबुद्धिः, तदनु भगवति निरङ्कुशसमप्रैश्वर्यादिसम्पन्ने हरौ शरणागतसंसारार्तिहरणैकदक्षत्वेन प्रसिद्ध भक्तवत्सले वासुदेवे भक्तिमान् नित्यदृढानुरागसम्पन्नः, तत्प्रसादाच्छान्त: निवृत्तसर्वैषणतया निश्चलान्तःकरणोऽत एव दान्तः विजितबाह्यकरणः । यथोक्तसाधनसम्पन्नोऽधिकारी आचार्य श्रोत्रिय ब्रह्मनिष्ठं गुरुं प्राप्यासाद्य तत्प्रसादलब्धवेदान्तश्रवणमननध्यानरूपसाधनेषु या निष्ठा तत्परत्वरूपा तया आप्त: सम्यग्लब्धो बोधो ब्रह्मात्मैक्यसाक्षात्काररूपो येन स च सपदि ज्ञानोदयसमये सकलां कलाभिः कार्यवर्गरूपाभिः सह वर्त्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy