SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । मानामात्माविद्यां स्वस्वरूपावरणहेतुभूतां तन्महिम्ना तस्यात्मतत्त्वस्यानावृतस्वप्रकाशप्रभावेण नित्यमेव निवृत्तां बुद्ध्वा, अविद्या सह कार्येण नासीदस्ति भविष्यतीति निश्चित्य धीरस्तत्त्ववित् सैन्धवघनवत् सुखैकरसपदे पदनीये स्वस्वरूपे तिष्ठति-तद्रूप एव सन् विराजते । एष मुक्तः नित्यमुक्त एव सन्मुक्तोऽयमित्युपचर्यते, “विमुक्तश्च विमुच्यते" ( कठ २ । ५ । १) "निवृत्तश्च निवर्त्तते," इति श्रुतेः ।। ६५ ।। अध्यस्तान्ध्यं भवभयगृहं ब्रह्मबोधेन सर्व बाधित्वाऽद्धा द्वयसुख पदावस्थितिर्मुक्तिरेवम् । प्रादुर्भता स्वयमतिशयभ्रान्तिशून्या विशुद्धा तद्रूपोऽयं जयति सुजनो नष्टमायोऽनपायः ॥६६॥ एतदेव विवृणोति-अध्यस्त इति। आत्मनि कल्पितमन्धत्वहेतुभूतमज्ञानं भवरूपभयस्य गृहं तत्कारणत्वादास्पदं सर्व सकार्य ब्रह्मबोधेन बाधित्वा अद्धा साक्षादद्वयसुखपदावस्थितिः परिपूर्णानन्दरूपेणावस्थानलक्षणा मुक्तिरेवं श्रुत्युक्तरीत्या प्रादुर्भूता स्वयम्, न तु साधनसाध्या। अत एवातिशयो गुणाधानादिलक्षणस्तत्सम्बन्धिनी भ्रान्तिस्तच्छून्या, अत एव विशुद्धा दोषापनयनलक्षणातिशयशून्या । तद्रूपोऽय सुजनः मुक्तिस्वरूप एव सन् जयति सर्वोपरि विराजते; यता नष्टा स्वरूपसाक्षात्कारेण बाधिता माया यस्य अत एव पुनरावृत्तिलक्षणोपायो नाशस्तद्रहितस्तद्धेतुक्लेशशून्यतया सदैकरस इत्यर्थः।।६६॥ यद्यप्येषा निरवधिपदावस्थितिर्मुक्तिरिष्टा तत्त्वज्ञानां श्रुतिनयविदां सा कुतस्तथापि । प्राज्ञम्मन्यैरिह बहुविधा कल्पिता तन्निरासाद् निर्णतव्या निगमवचसां सम्मता सत्स्वरूपा॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy