SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १७० प्रत्यकतत्त्वचिन्तामया विशेषणं - विगतगुणतत्काय्र्यकलने इति । विगताः स्वत एव निरस्ता गुणानां सत्त्वरजस्तमसां तत्कार्य्यपञ्चमहाभूतानाञ्च कलना सम्बन्धो यस्य तस्मिन् प्रमद्दसि सर्वोत्कृष्ट तेजः स्वरूपे सूर्य्यचन्द्राग्नाद्यवभास के करणानां सूर्य्यादिप्रकाश्यान चक्षुरादीनां प्रवेशो योगः सम्बन्धो वा नास्तीत्यर्थः । तर्हीन्द्रियाणां प्रामाण्ये का गतिरित्यपेचायामाह - भ्रम इति । भ्रमे देहाद्यध्यासे सत्येव भ्रान्तिदशायामेषामिन्द्रियाणां गतिर्यथा स्वप्ने कल्पितवस्तुजातविषये तथा जागरेऽपि बोद्धयमित्यर्थः । अयं भावः - स्वप्नावस्थायां स्वाप्नदेहवत्, विषयवच्चेन्द्रियाणामपि प्रातिभासिकी सृष्टिर्न शक्यते वक्तुम्, प्रातिभासिकस्याऽज्ञातसत्त्वाभावात् । इन्द्रियाणाञ्चातीन्द्रियाणां स्वप्नेऽज्ञातसत्त्वस्य वाच्यत्वान्नापि व्यवहारि - काणामेवेन्द्रियाणां स्वस्वगोलकेभ्यो निष्क्रम्य स्वाप्न देहमाश्रित्य स्वस्वविषयग्राहकत्वं वक्तुं शक्यते, स्वप्नसमये तेषां व्यापार राहित्य रूपोपरतिश्रवणात् । तथा सत्येव "अत्रायं पुरुष: स्वयंज्योति” (बृ० ४ । ३। १४ ) इति श्रुतिः सङ्गच्छते । जागरे आदित्यादिज्योतिर्व्यतिकराचन्तुरादिवृत्तिस वाराहुर्विवेचमात्मनः स्वयं ज्योतिष्टुमिति स्वप्नावस्थायामधिकृत्य तत्रात्मन: स्वयंज्योतिष्टं प्रतिपादयति । तत्रापि तथा सति दुर्विवेचं स्यात् । तथा च स्वप्ने यथा भ्रान्त्यैवेन्द्रियान्वयव्यतिरेकानुविधाय भानं तथा जाग्रत्यपि द्रष्टव्यमिति ||४३|| यथा स्वप्ने भ्रान्त्येन्द्रियगणकृताऽपि व्यवहृति स्तथाजाग्रद्दृश्ये व्यवहृतिरियं भ्रान्तिकलिता । अविद्याकार्याणां व्यवहृतिरिहाऽध्यस्तकरणैः प्रमात्वे हेतुत्वं न च करणजन्यस्य भवति ॥ ४४ ॥ 1 यथा स्वाप्नजगतीत्युक्तं विवृणोति — यथेति । यथा स्वप्नावस्थायां भ्रान्त्यैवेन्द्रियगणकृतापि व्यवहृतिरस्ति, "न तत्र रथा न रथयेोगाः " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy