SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रकरणम् । १६८ यस्माज्जगदज्ञानविकृतिरूपमत्यन्त जडतयाऽज्ञातं नास्ति, तस्याऽऽवृतैकरूपस्य पुनर विज्ञानविषयत्वलचणाज्ञातत्वकल्पने प्रयोजनाभावादित्यर्थः । विदितपदार्थो यस्मात्प्रमाणानां विषयोऽभिमतेाऽस्ति । तच्चाविदितत्त्वमधिष्ठाने प्रत्यकूतत्त्वे विश्रान्तमित्यर्थः ॥ ४१ ॥ न चाज्ञातः कुम्भः कथमिति तदेयं व्यवहृतिः स साक्षिण्यध्यस्ता घटपटमुखा ज्ञानसहितः । नहि ज्ञानाज्ञाने जडविषयमाश्रित्य सफले स्वयंभानार्हेऽस्मिन्द्वयमपि कृतार्थं व्यवहृतौ ॥४२॥ घटादी जडवर्गेऽज्ञातत्वादिव्यवहारोऽप्यन्यथासिद्ध इत्याह - न चेति । 'अज्ञातो घट:' इत्यादिप्रतीत्युपपत्तिस्त्वज्ञानेन सह साक्षिचैतन्ये घटादेरण्यासादिति स्वयंभासमानेऽस्मिन् साचिचैतन्ये ज्ञानाज्ञाने सफले, न तु जडे, तत्र तयोर्निष्फलत्वादिति समुदायार्थः ॥ ४२ ॥ न तु प्रत्यग्बोधे प्रविशति कदापीन्द्रियगणा न नीरूपे शब्दे विगतगुणतत्कार्य्यकलने । प्रवेशो वा योगो भवति करणानां प्रमहसि भ्रमे सत्ये वैषां गतिरपि यथा स्वाप्नजगति ॥ ४३ ॥ अस्तु तर्हीन्द्रियाणामात्मविषयत्वेनैव प्रामाण्यमित्यत आहनत्विति । प्रत्यग्बोधे विषयविषयिभावविनिर्मुक्ततया सर्वान्तरात्मनि ज्ञानघने कदापि कथञ्चिदपि चक्षुरादीन्द्रियगणेो न प्रविशति प्रवेशयोयत नैवाप्नोतीत्यर्थः । प्रवेशयोग्यतामेवाह — नेति । नीरूपे रूप रहिते, अशब्दे शब्दातीते । एतदुपलचणमस्पर्शादेरपि, "प्रशब्दमस्पर्शमरूपमव्ययम्” (क० १ । ३ । १५ ) इत्यादिश्रुतेः । तत्र हेतुगर्भ २२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy