SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । भासको नास्ति, येनाद्वितीय एव स्यात, तेन चाद्वैतहानिर्न स्यात् । किञ्च, साक्ष्यैक्यवादी प्रत्यक्षानुमानागमविरुद्धं साक्ष्येकत्वं कथं स्वीकरोति ? यतो नोऽस्माकं प्रत्यक्षेण सर्वदेहेषु भिन्नोऽयमात्मा भाति, सकलमतित: सर्वप्राणिनां पृथक पृथग्विनिश्चयात्; शास्त्रत: नानाधिकारसाधनादिप्रतिपादकवेदादपि; युक्तित एकस्मिन् सर्वदेहसाक्षिणि चैत्रावगते वस्तुनि सर्वजोवानामवगतिः स्यादित्याद्यनुपपत्तिरूपान्नयादिति योजना ॥ ४८ ॥ नेयं भ्रान्तिर्निखिलजनताव्याहतप्रत्ययत्वाद् धर्माधर्मावगतिकरणौतवाक्यप्रसिद्धः । बद्धो मुक्तः कुमतिरनघो दुःख्यदुःखीति भानं सिद्ध येदेतत्कथमपि न ते साक्षिभेदं विनाद्धा॥४८॥ ननु शास्त्रकसमधिगम्ये साक्षिणि भेदप्रतिभासा भ्रम एव स्यादित्याशक्य कारणदोषबाधकप्रत्ययानुपलम्भान्मैवमित्याह-नेयमिति । इयं सातिभेदप्रतीतिर्न भ्रान्तिः, कुता निखिलजनताव्याहतप्रत्ययत्वात्---जनानां शास्त्राधिकारियों समूहो जनता निखिला या जनता तस्या अव्याहतप्रत्ययत्वाद्, अबाधितप्रतीतिभावात् । किञ्च, धर्माधर्मयोरवगतिर्ज्ञानमात्मज्ञानञ्च तत्करणानि औतवाक्यानि तेषु प्रसिद्धः । तथा च शास्त्रेऽपि नानाधिकारिकनानासाधनाद्युपदेशके सातिभेदः सिद्ध इति न तत्प्रत्ययो भ्रम इत्यर्थः। अपि चात्रानुमानेनाप्यात्मभेदमवगच्छामः। तथा हि-प्रतिवादिशरीरं वादिशरीरगतात्मनो भोगायतनं न भवति, वादिशरीरादन्यशरीरत्वात्, गतप्राणशरीरवत् । तथा विमतानि शरीराणि स्वसंख्यासंख्येयात्मभिरात्मवन्ति, शरीरव्यक्तित्वातू, प्रतिवादिशरीरवदिति । तथा देवतिर्यङ्मनुष्यागतानि सुखदुःखादीनि भिन्नाश्रयाणि, युगपद्वर्तमानविरुद्धानेकधर्मत्वात्, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy