SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामण स्वप्रकाशे इतरनिरपेक्षप्रकाशे मानप्रवृत्तः प्राकृतत्साधकत्वेन प्रकाशमाने इति यावत् स्वस्वरूपपरिच्छित्तिं प्रति कथं प्रमाणापेक्षेति योजना। अयं भाव:--अन्तःकरणवृत्तिप्रतिबिम्बितं हि चैतन्यं प्रमाणम्, वृत्तिमदन्तःकरणप्रतिविम्बितं प्रमातृ, तदुभयं प्रमेयावभाससमये नानवभासमानं भवति। तथा सति प्रमेयस्यैव स्वत: स्फुरणशङ्कापातादिदोषप्रसङ्गात् । तदवभासश्च न प्रमात्रन्तरात् प्रमाणान्तराद्वा भवति, अनवस्थाप्रसङ्गादनुपपत्तेश्च। इत्यत: स्वप्रकाशतयैव प्रमातृप्रमाणप्रमेयानामवभासकस्यात्मनः सिद्धिरिति स्वप्रकाशे साक्षिणि किं प्रमाणमिति प्रश्न एव दुर्घट इति। तस्मादन्तः सर्वान्तरत्वेन सकलबुद्धिवृत्तिसाक्षितया चिदात्माऽसौ त्वंपदार्थो ज्ञातव्य इत्यर्थः ॥ ४७ ॥ नन्वस्त्वेवं प्रतिवपुरयं साक्ष्यतोऽद्वतहानि नोकोऽयं सकलवपुषां भासकोऽस्त्यद्वितीयः । प्रत्यक्षेण त्वमहमिति नः सर्वदेहेषु भिन्नो भात्यात्माऽयं सकलमतितः शास्त्रता युक्तितोऽपि ४८ सकल विश्वगतप्रमात्रादीनामवभासक: साक्षी एक एवेत्युक्तम्, 'अखिलहदि गतः' इति । अत्र देहादिव्यतिरिक्तसाक्षिस्वरूपमङ्गीकृत्य तदैक्यमाक्षिपति-नन्विति । अस्त्वेवं देहादिभ्यो व्यतिरिक्तसाक्षिसिद्धिर्भवतु, न तत्र विवदामहे । सर्वस्मि जगति साक्षिण ऐक्यन्तु सर्वलोकशास्त्रविरुद्धं कथं स्वीकृतम् ? यतः प्रतिवपुः प्रतिशरीरमयं लोकबुद्धिगत: साक्षो भिन्न एवावभासते । किं ततस्तत्राह-प्रत इति । अद्वैत इति च्छेदः । अतः साक्षिभेदादद्वैतहानिः स्यात् । ननु कथमद्वैतहानिरेकस्यैव साक्षिण: सर्वावभासकस्य स्वीकारादित्याशक्य तथा स्वीकार एव दुर्घट इत्याह-नहीति । एकोऽयमस्मदादिबुद्धिगतः सकलवपुषां सकलस्थूलसूक्ष्मदेहाना ब्रह्मादिस्तम्बपर्यन्तानां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy