SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामणी सन्तापशैत्यादिवद्, इत्यनुमानसिद्धमर्थमभिप्रेत्याह-बद्ध इति । कश्चिद्बद्धः संसारी, कश्चिन्मुक्त: स्वरूपावस्थितिमान, कश्चित्कुमतिः पापाचरणशीलः, कश्चिदनघः सर्वदोषविनिमुक्तः धर्माचरणशीलः, कश्चिद् दुःखी पापफलभोक्ता, कश्चिददुःखी धर्मफलभोक्त्यादि. भेदप्रतिभासः कथञ्चनापि तव मते सातिभेदं विना अद्धा साक्षाधु . क्तियुक्ततया न सिदित्यर्थः ।। ४६ ॥ आत्मैकत्वे निखिलवपुषां व्यापृतेः संकरः स्याद् नह्ये केनावगत इतरो वेत्ति भुङक्तेऽन्यभुक्तम् । नान्योऽन्यन्ते विविधमतिगाज्ञातुमन्तः समर्था धर्मान् जीवास्तत इह कथं सम्मतन्ते तदैक्यम् ॥५०॥ सर्वशरीराणामेकचेतनाधिष्ठेयत्वे सति अशेषशरीरगतसुखदुःखाद्यनुसन्धानप्रसंगः, न च तथा दृश्यते । ततश्चान्योन्यभोक्तनुसन्धानमन्तरेण प्रतिशरीरं व्यवस्थितसुखदुःखादिभोगोऽनुपपद्यमानो भोक्तभेदं कल्पयतीत्यर्थापत्तिरप्यात्मभेदं साधयतीत्याहआत्मेति । आत्मन एकत्वे निखिलदेहानां तत्स्थजीवानां व्यवहारस्य संकरोऽव्यवस्थितिरेव स्यात् । न चैतद् दृष्टम् । ना केन देवदत्तेनावगते वस्तुनि इतरश्चैत्रस्तद्वस्तु वेत्ति । अन्येन विष्णुशर्मणा भुक्तं वाऽन्यश्चन्द्रशर्मा भुङ्क्त। ते जीवा देवदत्तादयोऽन्योऽन्य विविधमतिगान् परस्परं बुद्धिनिष्ठान धर्मान् सुखदुःखादीन ज्ञातुमन्तः साक्षात्कत्तुं समर्था नहि भवन्ति । ततो भेदव्यव. हारान्यथानुपपत्त्या विरोधात्तदैक्यं साक्षिण एकत्वं तवेह शास्त्रार्थनिर्णये कथं केन प्रकारेण कया युक्त्या सम्मतम ? इति वदेति शेषः ॥५०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy