SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । शास्त्रं नानाविधफल परं बोधयेत् कर्म भिन्नं नात्मैकत्वे फलति विविधानेककर्त्त स्थमेवम् । प्रत्यक्षाद्यैरवगतमिमं नात्मभेदं प्रमा सामर्थ्यन्ते श्रुतिरपि तथा नात्मतत्वैकनिष्ठा ॥५१ ६३ किव विरुद्धानेकफलोद्देशेनैक कालानुष्ठेयानेकसाधनविधायि शास्त्र' न नियोज्यभेदमन्तरेणावकल्पते । नहि चेतनादन्यस्य नियोज्यत्वमस्ति । ततश्च श्रुतार्थापत्तिरपि चेतनभेदं गमयतीत्याह-शास्त्रमिति । नानाविधफल परमनेकाधिकारिणां पृथक् पृथक् कर्म अनेकप्रकारफलकमुपदिशच्छास्त्रं वेदस्तन्मूलकस्मृत्यादिरूपश्च विविध कामनाभेदेनाने के धिकारिणस्तत्रस्थं तेषु बोधकतया तिष्ठतीति तथा । शास्त्रमात्मन एकत्वे न फलति फलवन्न भवति । तथा चाध्ययनविधिविरोधादपि साच्येकत्वमभ्युपगन्तु न युक्तमित्यर्थः । तदेवं प्रत्यचानुमानार्थापत्तिभिः प्रतिशरीरमात्मभेदा निश्चित इत्याह- प्रत्यक्षाचैरिति । इमं प्रत्यक्षादिप्रमाणावगतमात्मभेदं प्रमार्टुमपह्नोतुं तव प्रमाणकुशलस्यापि न सामर्थ्यम् । नहि प्रमाणकुशलाः प्रमाणविरुद्धं प्रतिपादयितुं शक्नुवन्ति, अन्यथा प्रमाणकुशलत्वव्याघातादिति भावः । न हि वयं स्वकपोल कल्पनया साक्ष्येकत्वं प्रतिपादयामः, किन्तु यथा शास्त्रमिति कथं तत्र तवानुपत्तिः ? इति तत्राह - श्रुतिरपीति । एकात्म्य प्रतिपादकं शास्त्रमपि प्रत्यक्षादिप्रमाणविरोधात् अपापश्लोकश्रवणवदर्थवाद इति न त्वैक्यपरमित्यर्थः ॥ ५१ ॥ नैवं श्रौते निरवधिपदे प्रत्यगात्मैक्यतत्त्वे शुष्कैस्तर्केः कथमपि भिदा नैव सिद्धभेदभिन्ने । ear देवोऽखिलमतिपतिर्गुढ एवाद्वितीयो नान्योऽस्तीत्यपि निगमवागात्मभेदं निराह ५२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy