SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १२२ प्रत्यक्तत्त्वचिन्तामणी तदा प्रमाणं क्षमते नृशृङ्गं सामर्थ्यवसाधयितुं मते ते ॥२४॥ प्रमाणाधीना वस्तुसत्तेति कोऽर्थः ? किं सति प्रमाणे वस्तुसाचा जायते १ ज्ञायते वा ? तत्राद्य निराकर्तुं विकल्पयति-किञ्चेति। तत्र द्वेधा विकल्प्यान्त्यमतिप्रसङ्गेन दृषयति-तदेति॥ २४ ॥ सत्येव चेत्तर्हि न वस्तुसत्ता प्रमाणसाध्या स्वत एव सिद्धा। प्रमेयसत्ताऽभ्युपगम्यते हि मानप्रवृत्तः स्वत एव पूर्वम् ॥२५॥ आधं प्रत्याह-सत्येवेति ॥ २५ ॥ यद्यस्ति भानं सत एव माना यत्तं मतं वस्तुन एतदस्तु । अभानरूपे जडवस्तुनीत्थं न भानरूपे स्वयमात्मनीह ॥ २६ ॥ । . वस्तुसत्ता सति प्रमाणे ज्ञायते इति पक्षे समाधानमाह-यदीति । सत एव वस्तुनो भानं मानाधीनं यदि तेऽभिमतम, तदाऽभानरूपे जडवस्तुनि एतदस्तु। इह स्वयंभानरूपे प्रात्मनि नेत्यं-कथमेवं स्यादित्यर्थः ॥ २६ ॥ तमेव भान्तं ह्यनुभाति सर्व तस्यैव भासा सकलं विभाति। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy