________________
४४
प्रत्यकूतत्त्वचिन्तामणैौ
कर्म्ममात्रं विलयं मूलोच्छेदेनोच्छेदं प्राप्नोतीत्यर्थः । ननु तत्त्वज्ञानात्पूर्वं कृतं कर्म ज्ञानेन विनश्यतु, तथापि क्रियमा कम्मैव संसारफलकं किन्न स्यात् ? इत्याशङ्क्य तन्मूलभूतकर्तृत्वादिबाधेन कर्ममात्रं विनश्यति, "यथेषीकातूलमग्नौ प्रोतं प्रदूयंतैवं हाऽस्य सर्वे पाप्मान: प्रदूयन्ते" ( छा० ५ । २४ । ३ ) इति " न कर्मणा वर्द्धते नो कनीयान् ” ( बृ० ४ । ४ । २३ ) इत्यादिश्रुतेः,
"ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा । "
( गी० ४ । ३७ )
बीजान्यग्न्युपदग्धानि नारोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैः नात्मा सम्पद्यते पुनः || इत्यादिस्मृतेश्व "तदधिगमे उत्तरपूर्वोत्तराघयारश्लेषविनाश
1
तद्व्यपदेशात्”—( ब्र० ४ । १ । १३ ) इति न्यायाच्च ज्ञानिनः सर्वकर्मदाह श्रवणान्न तस्य पुनः संसारप्राप्तिशङ्काऽवकाशं लभते इत्यभिप्रेत्याह — कर्तृत्वाद्येति । तत्क्षणे तत्त्वज्ञानादयसमसमये समग्रापि कर्तृत्वाद्या कलना संसारबीजत्वेनाभिमता नाशं समूलोन्मूलतामेति प्राप्नोति ।
ननु तथापि संसार: स्वभावादेव बन्धकः स्यादनिच्छता) पि गन्धादिज्ञानवदित्यत आह-- ध्वस्त इति । सकार्याज्ञाने ध्वस्ते ज्ञानेन बाधिते सति भवजलनिधिः संसारसिन्धुः कालत्रयेऽपि नास्ति स्वाप्नसिन्धुरिव प्रबोधे सति, नासीदस्ति भविष्यतीत्यर्थः । तथा चाहुरत्र भवन्तो वार्तिककारा:
"तत्त्वमस्यादिवाक्योत्थसम्यग्धी जन्ममात्रतः ।
विद्या सह कार्येण नासीदस्ति भविष्यति ॥” इति ।
(सं० वा० १८३ )
तथा च गगनारविन्दसुगन्धवत् संसारस्वभावो ह्यज्ञानमन्तरेण न निरूपणपथमवतरतीति भावः ॥ ३५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com