SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । ४३ दनक्षमं सपरिकरं तत्कृपाकटाक्षेणैव सुलभम् । तथा च संसारतापापशमः सांसारिकसुख रत्यभावश्च भगवद्भक्तानां सिद्धपत्यवेत्यभिप्रेत्याहनानंति ! अनेकजन्मसुसञ्चितं सुकृतं भगवत्प्रसादानुकूलं यत्तस्मात्तत्फलं प्रेमभक्तिरनुरागात्मिका चेतावृत्तिर्मुकुन्दे मुक्तिफलदे सम्यगप्रतिबन्धेनाव्यभिचारिणी उद्भूता सती ऐहिकामुष्मिकफलभोगवैतृष्ण्य. मत्यन्ततीव्रल्या तत्त्वज्ञानपुष्कलसाधनं वैराग्यं झटित्येवोत्पादयति । ततो विरक्तो ब्रह्मात्मैक्यं तत्त्वंपदार्थयोरैक्यं प्रत्यगभिन्न ब्रह्माखण्डैकरसं ज्ञातुमिच्छुः साक्षात्कर्तुमुद्यत: श्रवणं सकलवेदान्तानां समन्वयोक्तरील्या ब्रह्मणि शक्तितात्पर्यावधारणलक्षणम् . मननं श्रुतार्थस्य श्रुत्यनुग्राहकतकः पुनः पुनश्चिन्तनम् , ध्यानं विजातीयदेहादिप्रत्ययतिरस्कारपूर्वकं सजातीयात्मैक्यप्रत्ययप्रवाहीकरणं निदिध्यासनसज्ञम्, तत्त्वस्य ब्रह्मैक्यस्य श्रवणमननध्यानानि तनिष्ठस्तत्रैकतत्परो भूत्वा स विरक्तो मुमुक्षुस्तिष्ठेत्-यावत्तत्त्वसाक्षात्कारं नैश्वल्येनावस्थानं कुर्यादित्यर्थः ॥ ३४ ॥ साक्षात्कारी यदि भगवतः प्रत्यगानन्दभूम्नः सिद्धस्तहि व्रजति विलयं कर्मजालं समूलम् । कतत्वाद्या सकलकलना तत्क्षणे नाशमेति ध्वस्ते मोहे भवजलनिधिर्नास्ति कालत्रयेऽपि॥३५॥ तत्त्वसाक्षात्कार सिद्धे कि फलं स्यात् ? इत्यत आह-साक्षात्कार इति । यदि यस्मिन् काले भगवतः स्वत एवानावृतस्वरूपानन्दस्य प्रत्यगानन्दभूम्न: सर्वान्तरत्वात्प्रत्यगेव परप्रेमास्पदतया सुखस्वरूप: स एव भूमा पूर्ण ब्रह्म तद्रूपस्य साक्षात्कारोऽयमहमस्मोति निश्चयरूप: सिद्धः नैश्चल्यं प्राप्तस्तहि तस्मिन्नेव समये समूलं मूलेनाज्ञानतत्कार्यभूतकामादिना सह वर्तते समूलं कर्मजालं जालवद्वन्धकं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy