________________
R
प्रत्यक्तत्वचिन्तामणी भोगप्रदकर्मणो हेतुत्वम् , कर्मणाश्चानन्त्याद्भोगदानं विना नाशासम्भवात् । तथा च कथं संसारतापशान्तिः ? कथं वा विषयभोगवैराग्यम् ? इति शङ्कते-देहाध्यास इति । अहो यदुक्तं त्वया तदाश्चर्य दुर्घटमित्यर्थः। दुर्घटत्वमेवोपपादयति-देहेति । देहादावात्मबुद्धया भोक्तृत्वमित्यविवादम् । तथा च भोगेभ्य ऐहिकेभ्यः स्रकचन्दनवनितादिभ्य आमुष्मिकेभ्योऽमृताप्सरादिभ्यो वैराग्यं वैतृ. पुण्यं तस्य सिद्धिर्भोक्तु वस्य प्राप्तिः कथं स्यात् ? न कथमपीत्यर्थः। नहि भोगाः स्वत एव ग्रहीतुं हातुं वा शक्याः। किन्तु धर्मोऽदृष्टशब्दवाच्यस्तस्माद्भोगा: पुरुषमायान्ति । तथा च धर्मादेः स्वफलं दातुं शक्तिरप्यस्त्येव । यत एवं ततः कथं भोगवैराग्यसिद्धिरिति सम्बन्धः। किञ्च, कर्मशब्दवाच्यं धर्माधर्मरूपमदृष्टं तद्यदि परिमितं स्यात्तर्हि स्यात्कदाचिन्मोक्षं प्रत्याशा । तदपि नास्तीत्याहकर्मेति । कर्मणामप्यानन्त्यात्तत्फलभूतो भवनिधिः संसारसमुद्रो दुस्तरः प्रसिद्ध एवास्ति । किञ्च, सर्वस्य कर्मादेरपि बीजभूत: कामस्तेन भीष्मोऽत्यन्तभयङ्करः। तथा च कामकर्मादिमूलोच्छेदं विना स च कथं तर्तुं शक्यः, न कथमपीत्यर्थः। इति चेदिति शङ्कायां समाधिः समाधानमुच्यते त्वदुक्तशङ्कानिरासायेत्यर्थः ।। ३३ ॥ नानाजन्मार्जितसुकृततः प्रेमभक्तिर्मुकुन्दे
सम्यग्जाता विषयविरतिं साधयत्याशु तीव्राम् । ब्रह्मात्मैक्यं निगमविषयं ज्ञातुमिच्छुर्विरक्तो भूत्वा तत्त्वश्रवणमननध्याननिष्ठः स तिष्ठेत् ॥३४॥
भगवदिमुखानामध्यासप्राबल्याद्रागादिसत्त्वेऽपि श्रीमन्मुकुन्दपदारविन्दमकरन्दासक्तचित्तानान्तु तदैश्वर्यभूतविषयवैराग्यं तत्प्रसादादेव सुलभम्, तथा तत्त्वज्ञानमपि सकलकामकर्मादिबीजभूताज्ञानोच्छे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com