SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । ४१ कर्मादीनां वैचित्र्यादेव केषाञ्चित्पुरुषधौरेयाणां भगवत्प्रसादलब्धसाधनचतुष्टयतया तत्त्वजिज्ञासासम्भवात्तेषां शास्त्रोपदेशेन तत्त्वसाक्षात्कारे जाते संसारोपरमोपलक्षितानन्दस्वरूपात्मावस्थानलक्षणा मोक्षः स्यादेवेति न वैयर्थ्य शास्त्रारम्भोपदेशादेरित्यभिप्रेत्याह-कश्चिदिति । मनुष्यसहस्रेषु दुर्लभो धारोऽक्षप्राबल्येऽपि विषयसन्निधानेऽप्यविकृतचित्तः, तत्र हेतु: --- विषयविरतिं समेत्य सम्यग्वैतृष्ण्यं प्राप्य, तत्रापि हेतु:-शुद्धबुद्धिरिति । भगवदाराधनलक्षणाद्धर्माच्छुद्धा विषयैरकलुषिताऽन्तःकरणवृत्तिर्यस्य सः। अत एव विजितकरणो जितेन्द्रियः । इत्थंभूतोऽधिकारी श्रुत्या तत्त्वमस्यादिवाक्येनोद्दिष्टं गुरुणोपदिष्टं तत्त्वं ब्रह्मैक्यं वीक्ष्य साक्षात्कृत्य यथावदसन्दिग्धाविपर्यस्तस्वानुभवारूढं यथा स्यातथा तत्फलं स्वात्मानन्दं सकलानन्दलेशप्रतिष्ठमामनुष्यादाविरिकच्यं सकलविषयानन्दलेशानां प्रतिष्ठापरिसमाप्तियस्मिन्, यमपेक्ष्य लोके आनन्दलवोऽपि नास्ति, तादृशं स्वस्वरूपभूतभूमानन्दशब्दवाच्यमानन्दं तदवस्थानलक्षणं मोक्षं श्रयति आश्रयति । दृश्य जालं परित्यज्य तद्र पेणावस्थितो भवतीत्यर्थः । तद्रपणावस्थितस्य लक्षणमाह विद्येति । विद्यया स्वरूपसाक्षात्कारेण ध्वस्ता मिथ्यात्वेन बाधिता अखिलजडेषु भोग्यभोगालयभोगभूमितत्साधनेषु रतिरासक्तिर्यस्य सः। अत एव शान्तो मूलोच्छेदेनोच्छिन्नः संसारताप आध्यात्मिकादिलक्षणो यस्य स तथेत्यर्थः ।। ३२ ॥ देहाध्यासे सति कयमहो भोगवैराग्यसिद्धि धर्मादीनां फलमपि यतो द तुमस्त्येव शक्तिः। कर्मानन्त्यादपि भवनिधिदुस्तरः काम्भीष्मः स्ततुं शक्यः स कमिति चेदुच्यते तत्समाधिः॥३३॥ स्यादेतद्, यदि वैराग्यं सिद्धत्; तदेव दुर्घटम् । देहाद्यध्यासे सति विषयेषु रागोऽवश्यंभावी, तस्य विषयसौन्दर्याध्यासजन्यत्वात् । तत्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy