________________
प्रत्यक्तत्त्वचिन्तामणी तुमशक्यतयात्यन्तदुःसहं सत्यत्वप्रतीतिविषयतया वाऽत्यन्तदृढं भवं देवतिर्यनरादिदेहग्रहणपरित्यागरूपं संसृतिचक्र प्रापयति । अविद्यमानमपि सत्यतया प्रत्याययतीत्यर्थः । तथा च कामकर्मादीनां वैचित्र्यात् संसृतिवैचित्र्यमप्यध्यासकार्य्यमेवेति भावः ।
ननु कदाचिदेतस्य संसृतिचक्रस्य स्वयमेवोपरमः स्थात, तदनुपरमेऽपि जीवानां क्वचिनिरतिशय सुखं संसारेऽपि स्यात्, तथा च किं तत्त्वज्ञानोत्पादकाद्वैतशास्त्रविचारेण ? इत्याशङ्क्य सत्यज्ञानेऽध्यासो दुर्वारः, तस्मिँश्च सति कामकर्मादोनामप्यवश्यंभावात्। तथा च संसारोपरमस्तत्त्वज्ञानमन्तरेणात्यन्तासम्भावितः ।
"यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति' (श्वे०६।२०) इत्यादिवचनाच्च देहाभिमानिनां देवादीनामपि सुखगन्धोऽपि दुर्लभ इत्यभिप्रेत्याह-तद्वश्या इति। .अध्यासव्याप्तास्ते जीवा: पुन: पुनरपि भूयो भूयो भ्रान्तिमूलामज्ञानभ्रान्तिनिदानां संसृतिं तत्त्वज्ञानमात्रैकनिवां प्राप्य स्वाज्ञानेन स्वोकृत्य अनादावस्मिन्संसृतिप्रवाहे क्वचिदपि देशे वा काले वा सुखं निरतिशयं नैव प्राप्नुवन्तीत्यर्थः । तस्मात्तन्निवर्तकतत्त्वज्ञानसिद्धये तशास्त्रसिद्धान्तविचारोऽत्यन्तावश्य - क इति भावः ।। ३१ ॥
कश्चिद्धीरो विषयविरतिं शुद्धबुद्धिः समेत्य
श्रुत्योदिष्टं विजितकरणो वीक्ष्य तत्वं यथावत् । स्वात्मानन्दं श्रयति सकलानन्दलेशप्रतिष्ठं विद्याध्वस्ताखिलजडरतिः शान्तसंसारताप:३२
ननु तर्हि सर्वेषामपि जीवानामध्यासप्रयुक्तकर्मादिसत्त्वे कस्यापि संसृतेर्मोक्षो न स्यात, तथा च वृथा शास्त्रारम्भोपदेशादित्याशङक्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com