SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ४५ प्रथम प्रकरणम्। स्थूलो देहो जनिमृतियुतो भौतिका नायमात्मा गौरश्यामप्रभृतिकलनासंश्रयः कर्मवश्यः । नानासंज्ञाविषय उदिनः काष्ठलोष्ठादिवद्योऽचिद्रूपाऽसावहमिति मतेर्गोचराहः कथं स्यात् ॥३६॥ एवं सफलं ससाधनं तत्त्वज्ञानं भगवत्प्रसादाद्भगवद्भक्तानामनायासेन भवतीति प्रदर्येदानों मोक्षस्य वाक्यार्थज्ञानाधीनत्वात्, तस्य च पदार्थज्ञानाधीनत्वात्, तदर्थ त्वंपदार्थशोधनमारभते । तत्र तावद्देहात्मवादिना मन्यन्ते--अहमित्यनुभवे देह एव प्रथते, न देहान्तर्वर्त्यन्यः, कुण्ड इव बदराणि, अत एव स्थूलो गारो गच्छामीच्छामि जानामि विभेमीत्यापण्डितपामरं स्थौल्यगौरतेच्छाज्ञानादेः सामानाधिकरण्यानुभवः । नहि धर्मिभेदे धर्माणां सामानाधिकरण्यानुभवः । नहि भवति मधुरं कुण्ड कम्बुग्रावा दिमन्ति बदराणीति। लोहितः स्फटिक इति धीस्तु स्फटिकलोहितद्रव्ययोः पृथककरणे बाध्यते । न च 'नाहं मनुष्यः' इति कस्यचिद्बाध्यप्रत्ययोऽस्ति, विदुषामपि गच्छामि तिष्ठामि ब्राह्मणोऽहं मनुष्याऽहमित्याद्यनुभवात् । यद्यपि समस्तेषु व्यस्तेषु पृथिव्यादिषु न चैतन्यं दृष्टम, तथापि कायाकारपरिणतेषु भविष्यति मदिराकारपरिणतेष्विव किण्वादिषु मदशक्तिः । खदिरचूर्णादिसंवलितताम्बूले इव च रागादयः ! देहाधीनोपलम्भनियमाञ्च ज्ञानाईदेहधर्मत्वम् । तथा चाहुः 'चैतन्यविशिष्टः काय: पुरुषः' इति तेषामन्यधर्मत्वे दृष्टहानिरदृष्टकल्पना च स्यादिति देह एवात्मेति तान् द्वाभ्यां निराकरिष्यन्नादौ जडत्वादिभितुभिर्देहेऽहंप्रत्ययायोग्यताञ्च प्रदर्शयन् स्थूलदेहात्वंपदार्थ विवेचयति-स्थूल इति । जनिमृतियुत इति । प्रागभावप्रध्वंसयो: प्रतियोगी भूतविकारोऽयं प्रत्यक्षमानसिद्धः स्थूलो देह आत्मा न भवति, गौरश्यामादिकलनासंश्रयत्वात् । जन्मारभ्य गौरत्वादे नापरिणामोपलम्भात् न स्थायि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy