________________
४६
प्रत्यक्तत्त्वचिन्तामणा त्वमित्यविवादम् । तथा च अहमिति प्रत्ययगोचरतां कथमपि नाहतीत्यर्थः । कदाचित् सुखित्वेन कदाचिद् दुःखित्वेनानुभव एकस्मिन्नपि देहे दृश्यते तत्कस्य हेतोः ? तस्मिन्पुण्यपापातिरिक्तहेत्वसम्भवात् । तयो. श्चास्मिन् जन्मनि क्रियमाणयोः पश्चाद्भावात् पूर्वजन्मसंबन्ध्यात्मावश्यक इत्याशयेनाह-कर्मवश्य इति । कर्म धर्माधर्मरूपं तदृश्यस्तदधीन इत्यर्थः । स्थौल्यगौरताचैतन्यादेः सामानाधिकरण्यानुभवस्तु अन्योन्याध्यासाद् 'अयो दहति' 'रक्तः स्फटिक' इति प्रत्ययवद् भ्रान्तिरेव । न च बाधाभावः, प्रदीपघटयोरिव प्रकाश्यप्रकाशकयोधर्मधर्मिभावानुपपत्तिलक्षणयौक्तिकबाधसत्वात, जातिस्मराणां तत्त्वज्ञानानाञ्च प्रत्यक्षणात्मनि देहातिरेकानुभवात्, ग्रहावेशेनाभिभूतस्य व्यवहरतोऽपि प्रत्यभिज्ञाद्यदर्शनाच्चातिरिक्तात्मसिद्धिरिति बोध्यम् । नानासंज्ञा बालः, युवा, वृद्ध इत्यादिव्यभिचारिव्यवहारगोचरत्वेन लोक उदित: स च नियमेनाहमिति प्रत्ययस्य कथं गोचराहः स्यादिति सम्बन्धः। यत्तुक्तं
चैतन्यस्य देह एवोपलम्भाद् देहधर्मत्वमिति तदसदित्याह-काष्ठलोष्ठादिवद्योऽचिद्रूप इति । मृतस्य देहस्य काष्ठादितुल्यत्वेन तदानीं ज्ञानाभावे किं कारणं देहाकारपरिणतभूतानां तदानीमपि सत्वाज्ज्ञानप्रसक्तेर्दुर्वारत्वात् । तथा च तादृशस्थले व्यभिचारान्न देहाकारपरिणतेर्ज्ञानहेतुतेति भावः ॥ ३६ ।।
चार्वाकाणामतिजडधियां कामुकानामकानां
रागन्धानां विषमविषयेऽत्याग्रहाणां गृहाणाम् । बद्धास्थानामनृतवपुषि व्याकुलानां कुलाना त्यक्त्वा पक्षं भज सुमनसांसज्जनानां जनानाम्॥३॥
न केवलं युक्तिशून्यत्वादेव चार्वाकपक्षोऽनुपादेयोऽपि तु नष्फल्याद्विपरीतफलाञ्च सर्वथा हेय एवेत्यभिप्रेत्याह--चार्वाकाणामिति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com