SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । ४७ चार्वाकाणां देहात्मदृष्टानामतिशयेन जडा मन्दा स्थूला च धीर्येषाम्, कामुकानां केवलैहिकस्रकचन्दनवनितादिविषयभोगलम्पटानाम, अत एवाकानां तत्सम्पादनासमर्थतया तत्रैवात्यन्तव्यग्रचेतस्तया न विद्यते के सुखं येषाम् , रागेण विषयासक्तिरूपेणान्धानां शास्त्रजन्यदृष्टिशून्या. नाम्, अत एव विषमविषये महताऽपि प्रयत्नेन सम्पादयितुमशक्येऽपि सर्वापेक्षोत्कर्षादिरूपे अतिशयेन य अाग्रहोऽभिनिवेशस्तस्य बहुत्व तत्तद्विषयभेदेन तद्गृहाणामाग्रहमात्रैकशरणानाम् ,अनृतवपुषि स्वप्नदेहवन्मिथ्याभूते शरीर बद्वा आस्था उत्कटजीवनेच्छा येषाम् . अत एवनानोपायव्यग्रतया व्याकुलाना विक्षिप्तचित्तानां कुलानाम, तेषां बहूनामपि सहस्रान्धानामिद मूर्खाणां पक्षं स्वकपोल कल्पितं भोगलाम्पट्य. प्रत्युक्तवेदद्वेषमूलत्वाच्चाप्रमाणं देहात्मवादं त्यक्त्वा सुमनसां शास्त्रीयधर्माराधितेश्वरत्वाच्छुद्धान्त:करणानां व्यासादीनां महर्षीणाम् , सज्जनानां परमार्थ सदस्तुनिष्ठानाम् , जनानां सफलजन्मनां पुरुषधीरेयाणाम्। पक्षमिति काकाक्षिन्यायेनोभयत्र सम्बध्यते । तं भज सेव्यत्वेन समाश्रयस्व तेनैव कृतकृत्या भविष्यसीत्यर्थः ।। ३७ ॥ स्थूले देहे अतिनयबलानिश्चितेनात्मभावात् स्वस्माद्भिन्ने विगलति जडेऽहकृतिर्धान्तिसिद्धा। तनिष्ठातः पृथगहमिति ज्ञानमादृत्य धीरः प्रत्यक्तत्त्वं विमृशतिधियाऽऽचार्यवेदान्तवाक्यैः॥३८॥ एवं स्थूलदेहाद्विवेचिते त्वंपदार्थे फलितमाह-स्थूल इति । श्रुतिनयबलात् श्रुति: "अशरीरं शरीरेषु” ( कठ० २ । २१ ) इत्यादिरूपा, नय उक्तलक्षणः, तद्बलान् तदनुसारेणानात्मभावादनात्मत्वादेव स्वस्माद्भिन्नेऽत्यन्तविलक्षणे स्थूलदेहे उक्तरीत्या निश्चिते सति तत्र भ्रान्तिसिद्धाऽनाद्यध्यासोत्पादिताऽहङकृतिरयमहमस्मीति प्रत्ययो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy