________________
४९
प्रत्यक्तत्त्वचिन्तामा विगलति विलयं प्राप्नोतीति योजना। ततः किमित्यत आह-तनिष्ठात इति। तस्याः स्थूलदेहानहङ्कृतेर्निष्ठातो दृढाभ्यासस्थितेः स्थूलादेहादहं पृथगिति ज्ञानमादृत्य यथार्थरूपतयाऽऽदरेण स्वीकृत्य धीरो विवेकादिविशिष्टो मुमुक्षुः प्रत्यक्तत्त्वं त्वंपदार्थस्वरूपं धिया शान्त्यादिगुणवत्या चेतोवृत्त्या आचार्योपदिष्टवेदान्तवाक्यैदेहादिभ्यः पृथगात्मतत्त्वप्रतिपादकैरुपनिषदचोभिर्विमृशति विचारयतीत्यर्थः ॥३८॥
सूक्ष्मः प्राणेन्द्रियमतिहृदां सङ्घ एषोऽप्युपाधि
र्नानारूपोऽप्यतिचलगतिभौतिकत्वाज्जडत्वात् । दृश्यत्वाचिन्नभस इतरो भ्रान्तिकायेऽत्यनों
नैवात्मायं त्रिगुणजनितो याति नाशं सुषुप्तौ॥३८॥ विचारे क्रियमाणे यथा स्थूलदेहात्त्वंपदार्थस्य पृथक्त्वं विनिश्चित तथैव सूक्ष्मादपि पृथकत्वं तस्य सिद्धातीत्यतो लिङ्गदेहादपि त्वंपदार्थ विवेचयति-सूक्ष्म इति । प्राणा: प्राणापानादिभेदेन पञ्चधा, इन्द्रियाणि दश ज्ञानकर्मसाधनानि, मतिर्निश्चयात्मिकाऽन्तःकरणवृत्तिबुद्धिः, हृत् सङ्कल्पात्मिकान्त:करणवृत्तिर्मन:, एते सप्तदश तेषां समुदाय: सूक्ष्मो लिङ्गदेहः । एषोऽप्युपाधिरात्मन इति शेषः । न त्वात्मेत्यर्थः । आत्मन एकरूपत्व' श्रुतिस्मृतिन्यायानुभवसिद्धम्, अयन्तु न तथा, यतो नानारूपः । नह्य कस्मिन्देहे बहूनामात्मनामैकमत्यं सम्भाव्यते, न वा तेषामेक प्रयोजनवशादैकमत्यम्, विरुद्धनानाप्रयोजनानामपि कदाचित्प्रसक्तेरवर्जनात्। गुणप्रधानाभावे च विनिगमकाभावात् । उपभोक्तुरन्यस्यानभ्युपगमेन सांख्यमते गुणानामिवैकमत्याभावात् । न चैकसार्थान्तर्गतपुरुषाणामिवैऽकमत्योपपत्तिरिति वाच्यम्, तत्रानियमात् । न चैकसार्थान्तर्गतपुरुषाणामपि यावजोवमैकमत्यनियमो मेलननियमो वास्ति, प्रयोजनभेदे वैमत्यविश्लेषादिदर्शनात् । न वा तेषां सप्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com