SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । -- " दशानी समुदाय एवात्मेत्यपि साधुः, चक्षुरादिष्वेकैकोपघातेऽपि तद्घटितसमुदाय भङ्गेनात्मापघातादन्धा मूकाश्च म्रियेरन, न जीवेयुः । समुदायोऽपि समुदायिभ्योऽन्योऽनन्यो वेत्यादिविकल्पासहत्वेन निरूपयितुमशक्य इति भावः । किञ्च, मनः प्रधानं हि लिङ्गशरीरं तस्य च चाञ्चल्य लोकप्रसिद्धं नातिचलगतेरात्मत्वं युक्तम्, प्रक्रियस्यैवात्मत्वप्रसिद्धेः तोऽपि सूक्ष्मो नात्मेत्याह — अतिचलगतिरिति । अपि च "शब्दमस्पर्शमरूपमव्ययम्" (का० १ । ३) इति शास्त्रादात्मा पञ्चभूत विकारादन्यो विनिश्चितः । अयन्तु न तथेत्याह-- भौतिकत्वादिति । भूतविकारत्वादित्यर्थः । चिद्रपो ह्यात्मा, "विज्ञानमानन्द ं ब्रह्म" ( वृ० ३ । ६ । २८ ) इति श्रुते: । प्रयन्तु न तथेत्याह -- जडत्वादिति । आत्मा द्रष्टा, “ विज्ञातार मरे केन विजानीयात् " ( बृ० ४ | ५ | १५ ) इत्यादिश्रुतेः । अयन्तु तद्विपरीत इत्याह-दृश्यत्वादिति । अतश्चिन्नभसश्चिद्रपादात्मनः सकाशादित भ्रान्तिकार्यतया जडदुःखमिथ्यात्मकः । अत एवात्यनर्थरूपकामाद्याश्रयतयाऽत्यनर्थो दुःखैकमूलत्वात् सर्वानर्थनिविड इत्यर्थः । आत्मा हि निर्गुणः, “साक्षी चेता केवलो निर्गुणश्च" ( श्वे० ६ । ११ ) इत्यादिश्रुतेः । प्रयन्तु तद्विपरीत इत्याहत्रिगुणेति । त्रिगुणात्मकाज्ञानेन सूक्ष्मभूतात्पत्तिद्वारा जनित उत्पादित इत्यर्थ: । " तद्यथा सोम्य वयांसि वासो वृक्ष सम्प्रतिष्ठन्ते एवं 'वै तत्सर्वं परे आत्मनि सम्प्रतिष्ठते" ( प्र० ४ । ७ ) इति " सुषुप्तिकाले सकले विलीने" "सलिल एको द्रष्टाऽद्वैता भवति" ( बृ० ४ । ३ । ३२ ) " न तु तद् द्वितीयमस्ति ततोऽन्यद्विभक्तम्" ( बृ० ४ । ३ । २६) इत्यादिश्रुतिभिः सर्वकार्यविलयप्रतिपादनादपि नायं सूक्ष्मदेह श्रात्मेत्याह -- यातीति । सुषुप्त्यवस्थायां नाशं स्वकारणे प्राज्ञे संस्कारमात्रावशेषेण विलय प्राप्नोति । तथा च तत्र दर्शनादप्यस्य नात्मत्वमित्यर्थः ॥ ३८ ॥ T Shree Sudharmaswami Gyanbhandar-Umara, Surat ४-६ www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy