SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ षष्ठं प्रकरणम्। २५६ एवं सूक्ष्मशरीरोत्पत्तिं सपरिकरां निरूप्य स्थूलशरीरोत्पत्तिं सप्रकारमाह-एतैरिति । एतैः पूर्वोक्तैरपञ्चीकृतैर्भूतवगैस्तमोगुणसम्पन्नर्मायाविकारैरीशकटाक्षतस्तदीक्षणमात्रेण पञ्चोकृतानि स्थूलभूतानि स्युरुत्पद्यन्ते-इति योजना। पञ्चीकरणन्तु पूर्वोक्तानामाकाशादीनां मध्ये एकैकं द्विधा समं विभज्य, तत्रैकं चतुर्धा विभज्य, स्वांशं परित्यज्य इतरांशेषु योजनम् । “त्रिवृतं त्रिवृतमेकैकां करवाणि" (छा० ६ । ३ । ३) इति त्रिवृतकरणतेः पञ्चोकरणस्याप्युपलक्षणत्वात् पञ्चीकरणं प्रामाणिकमेव । “वैशेष्यात्तद्वादस्तद्वादः' इति न्यायेन खांशाधिक्यात् तद्विशेषत्र्यपदेशोऽपि सम्भवतीत्यर्थः । तेभ्यः पञ्चीकृतेभ्योऽण्डं ब्रह्माण्डमीशसृज्यमीशकर्तृकमुत्पद्यते इत्यर्थः ।। २१ ।। शक्तयाऽजया सृजति सर्वविदीश एष भूम्यन्तरिक्षसुरलोकमहर्जनादीन् । लोकाँश्चतुर्दश तदन्तरनेकदेहान् देवासुरोरगमनुष्यमुखाभिधानान् ॥ २२ ॥ एवं पञ्चीकृतस्थूलभूतोत्पत्तिं तेभ्यो ब्रह्माण्डोत्पत्तिमभिधाय, अधुना तदन्तश्चतुर्दशभुवनोत्पत्तिं तदन्तरनेकदेवादिदेहोत्पत्तिञ्च दर्शयतिशक्त्येति। भूर्भुवःस्वमहर्जनस्तपःसत्यमित्यूद्धर्व सप्तलोकान्, अतलवितलसुतलतलातलमहातलपाताल रसातलाभिधानानधः सप्तलोकान्, तदन्तश्चतुर्दशविधान देवादिनामधेयान् देहान्, एष सर्ववित् तत्पदार्थो महेश्वरोऽजया मायया शक्तया सृजत्याविर्भावयतीत्यर्थः ।। २२ ।। एतत्समष्टिरपि सर्वगतेश्वरस्य व्यष्टिनरस्य वपुरल्पगता पृथक्त्वात्। विश्खो विराडपि समानविशेषभावा दैक्यं तयोरभिमतं वनवृक्षवच्च ॥ २३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy