SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २५८ प्रत्यक्तत्वचिन्तामणौ ___ एतदेव विवृणोति--सूत्रेति । अमुतोऽप्यमुख्यलिङ्गशरीरसमष्टिव्यष्ट्युद्भवा सूत्रात्मतैजसभिदा परमात्मजीवयोर्व्यवहारे स्यादिति योजना अयमर्थः-अपञ्चोकृतपञ्चमहाभूततत्कायंसप्तदशलिङ्ग समष्टिरित्युच्यते । एतदुपहितं चैतन्यं सर्वानुस्यूतत्वात् सूत्रात्मा, ज्ञानशक्तिमदन्तःकरणोपहितत्वाद्धिरण्यगर्भः, क्रियाशक्तिमदधिदैवतप्राणरूपत्वात्प्राण इति चोच्यते । केचित्तु-पूर्वोक्तापञ्चोकृतेभ्यो भूतेभ्यः सर्वव्यापकं लिङ्गशरीरं पृथगेवोत्पन्नं तदेव समष्टिरित्युच्यते। समष्टित्वन्नाम जात्यादिवत्सर्वव्यष्टिष्वनुस्यूतत्वम् । तदुक्तं___ "तेभ्यः समभवत् सूत्रं लिङ्ग सर्वात्मकं महत्"-इत्याहुः । अपरे वनवलिङ्गशरीरसमुदायः समष्टिः, प्रत्येकं लिङ्गशरीरं व्यष्टिरिति वदन्ति । व्यष्टित्वं नाम व्यक्तिवव्यावृत्तत्वम् । एतदुपहितं चैतन्य तैजस इत्युच्यते, तेजोमयान्त:करणोपहितत्वात् । सामान्यविशेषयोरिव जातिव्यक्त्योरिव च समष्टिव्यष्टयोस्तादात्म्याभ्युपगमात्तदुपहितयोस्तैजससूत्रात्मनोरपि तादात्म्यमिति । उक्तस्य सूक्ष्मशरीरस्य सूक्ष्मकोशत्रयात्मकत्वमपीत्याह-ज्ञानेति । इदं सूक्ष्मकोशत्रयात्मकं ज्ञानक्रियाकरणशक्तित्रययुतं भवति । क्रियाशक्तिमान् कम्र्मेन्द्रियैः सहितः प्राणः प्राणमयः कोशः, करणशक्तिमान् कर्मेन्द्रियैः सहितं मनो मनोमयः कोशः, ज्ञानशक्तिमान् ज्ञानेन्द्रियैः सहिता बुद्धिर्विज्ञानमयः कोश इति कोशत्रयात्मकं लिङ्गम विद्याकामकर्मविशिष्टं जन्ममृत्युप्रवाहसंसारहेतुः, तत्त्वज्ञानमन्तरेणानुच्छेद्यत्वादित्यर्थः ॥ २० ॥ एतैरपञ्चीकृतभूतवर्ग___स्तमोगुणाढ्यैः प्रकृतेर्विकारैः। पञ्चीकृतानीशकटाक्षतः स्यु स्तेभ्योऽण्डमुत्पद्यत ईशसृज्यम् ॥ २१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy