________________
२६०
प्रत्यक्तत्त्वचिन्तामणौ स्थूलशरीरद्वैविध्यं दर्शयति-एतदिति। एतत्पञ्चोकृतपञ्चमहाभूततत्काय ब्रह्माण्डं तदन्तवर्त्तिसर्वकार्यजातं समष्टिरित्युच्यते । अथवा व्यक्तिषु गोत्वादिवत्सर्वव्यष्टिध्वनुस्यूतं पञ्चोकृतभूतकार्य ब्रह्माण्डात्मकं व्यापकं समष्टिः, वनवत् सकल शरीरसमुदायो वा समष्टिरित्युच्यते। ईश्वरस्योपाधिः सर्वगतेत्यर्थः। एतदुपहितं चैतन्य विविधं राजमानत्वाद् विराडिति, सर्वनराभिमानत्वाद् वैश्वानर इति चोच्यते। व्यष्टिर्वपुः शरीरं प्रत्येकं पृथक्ताद् व्यक्तिवद् भिन्नत्वादल्पगता वृक्षवत् स्वल्पदेशगता। परिच्छिन्नमिति यावत् । नरस्य जीवस्योपाधिरित्यर्थः। तथा प्रत्येकं स्थूलशरीरं गवादिव्यक्तिवद् व्यावृत्तं व्यष्टिरित्युच्यते, तदुपहितं चैतन्यं विश्व इत्युच्यते। सूक्ष्ममपरित्यज्य स्थूलशरीरं प्रविष्टत्वाद् अनयो: समष्टिव्यष्टयोः सामान्यविशेषयोरिव तादात्म्याभ्युपगमादेतदुपहितयोरपि विश्ववैश्वानरयोरैक्यं तादात्म्यं वनवृक्षयोस्तदवच्छिन्नाकाशयोरिवेत्यर्थः ।। २३ ।।
जीवात्मना प्रविशतीवर एष सर्व
देहेषु नात इतरा चिदियं महेशात् । सर्व जगच्च परमेश्वर एव तस्माद्
वेदान्तवाग्भिरिति धीरपवर्गहेतुः ॥ २४ ॥ एवं भूतभौतिकसृष्टिमभिधाय, अधुना "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि' (छा०६।३ । २) इति श्रुतेरीश्वरस्यैव सर्वजीवात्मना प्रवेशश्रवणात्तयोर्भेदगन्धोऽपि नास्तीति दर्शयतिजीवात्मनेति । एष स्वयंप्रकाशतया स्वतो नित्यसिद्ध ईश्वरः स्वसृष्टेषु सर्वदेवनरतिर्यगादिषु जीवात्मना जीवरूपेण प्रविशति। ततः किमित्यत्राह-नेति । अतो हेतोरियं चिदपरोक्षं जीवचैतन्यं महेशाज. गदाकारपरिणममानमायाधिष्ठानाद् ब्रह्मण इतरा न भवति, भेदानिरू
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com