SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ षष्ठं प्रकरणम्। २६१ पणात्ततोऽपि किं तत्राह-तस्मादिति । यस्माद् ब्रह्मैव जीवरूपेणापि देहेषु प्रविष्टं तस्माद्वेदान्तवाग्भिः 'तत्त्वमसि' (छा०६।८।७) "अयमात्मा ब्रह्म' (बृ० २ । ५। १६) “सर्व खल्विदं ब्रह्म' (छा० ३ । १४। १)"पुरुष एवेदं सर्वम्।' "नारायण एवेदं सर्वम्।" "आत्मैवेदं सर्वम्" (छा ७ । २५ । २) इत्यादिरूपाभिः सर्व जगत्कार्यमानं जडत्वेन भासमानमपि चात्कारणमप्यज्ञानादिशब्दवाच्यं परमेश्वर एवेति धीस्तत्त्वज्ञानमपवर्गहेतुः, सर्व कार्यकारणबाधोपलक्षितनिरतिशयानन्दाविर्भावलक्षणे मोक्षस्तस्य हेतुरित्यर्थः । तथा च दृश्यात्यन्ताभावोपलक्षितप्रत्यगभिन्नब्रह्मात्मतत्त्वबोधे मुमुक्षभिर्यतितव्यमिति भावः ॥ २४ ॥ स्वानन्दलेशत इदं जगदीश्वरोऽसौ पाति स्थिती विविधशक्तिरखण्डबोधः । साक्षीशजीववपुषा स्थिरजङ्गमेषु तिष्ठन्न चेषदपि लिप्यत आत्मतन्त्रः ॥२५॥ एवं तत्पदार्थस्य जगजन्महेतुत्वं प्रदर्श्य स्थितिहेतुत्वमपि दर्शयति-स्वानन्देति । असावीश्वर इदं जगद् ब्रह्मादिस्थावरान्तं स्थितिसमये स्वानन्दलेशेन पालयति, "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' (बृ. ४ । ३ । १३) इति श्रुतेः; "फलमत उपपत्तेः” ( ब्र० सू० ३।२। ३८) इति न्यायाच्च। सर्वस्यापि जगतो युगपद्विरुद्धानेकफलदातृत्वे हेतुगर्भ विशेषणं-विविधशक्तिरिति । अनन्तशक्तित्वादचिन्त्यमाहात्म्याच्च सर्व सङ्गच्छते इत्यर्थः। तस्य सार्वात्म्यमाह-साक्षीति। साक्षो कूटस्थचैतन्यम, ईशोऽन्तर्यामिचैतन्यम, जीवोऽन्तःकरणप्रतिबिम्बितचैतन्यम्, एतस्त्रितयवपुषा सर्वात्मरूपेण स्थिरजङ्गमात्मकेषु देहेषु तिष्ठन्निवसन्न चेष www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy