________________
२६२
प्रत्यक्तत्त्वचिन्तामणौ दपि मनागपि न लिप्यते तच्छरीरविकारैरसंस्पृष्टतया नित्यकूटस्थ इत्यर्थः "असङ्गो ह्ययं पुरुषः (बृ० ४ । ३ । १५) असङ्गो नहि सज्जते" (बृ० ४ । ४ । २२) इति श्रुतेः। तत्र हेतुगर्भ विशेषणम्-आत्मतन्त्र इति। सदा स्वानन्दतृप्तत्वेन नित्यस्वतन्त्र इत्यर्थः। नहि स्वतन्त्रस्यान्यसंसर्गरूपपारतन्त्र्यमस्तीति भावः । तत्रापि हेतुः-अखण्डबोध इति । देशादित्रिविधपरिच्छेदशून्यत्वादखण्डबोधस्वरूप इत्यर्थः । “सत्यं ज्ञानमनन्तं ब्रह्म" ( तै० २ । १ । १) इति । नहि अखण्डबोधस्य कदापि स्वातन्त्र्यव्याहतिरिति भावः ॥ २५ ॥
सुप्तौ लयं व्रजति विश्वमिदं स्वहेतो ____संस्काररूपत इतः पुनरप्युदेति । स्वाविद्यया न तु समूलमुपैति नाशं
तस्मान्नृणां स्मरणमुख्यमपीक्ष्यतेऽत्र ॥२६ ॥ एवं स्थितिहेतुत्वमभिधायेदानी प्रलय हेतुत्वं तस्य प्रदर्शयितुं चतुर्विधप्रलयं निरूपयिष्यन्नादौ नित्यप्रलयं सुषुप्तिरूपं सप्रकारं निरूपयति--सुप्ताविति । सुषुप्तिर्नित्यप्रलयः, तत्रेदं सकलं विश्वं कार्य लयं व्रजति । ननु तहि तत्कार्यमात्रविलये धर्माधर्मादिविलयात् सुप्तोत्थितस्य सुखदुःखाद्यनुपपत्तिरित्याशक्य धर्माधर्मयो: पूर्वसंस्काराणाञ्च तदा सुषुप्तौ कारणात्मनाऽवस्थानान्मैवमित्याह-वहेताविति । तथा च कारणसद्भावात् सुप्तोत्थितस्य न सुखदुःखाद्यनुपपत्तिरित्यर्थः । तदेव विवृणोति-इत इति। इतो धर्माधर्मादे: संस्कारात्मनाऽस्थानात् स्वाविद्यया इदं विश्वं पुनरपि जागरादावाविर्भवतीत्यर्थः। यतो न तु समूलं नाशमुपैति, तस्मान्नृणां जीवानामत्र जागरे स्मरणादिरपीक्ष्यते इत्यर्थः ॥ २६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com