________________
षष्ठं प्रकरणम् ।
२६३ शक्तिद्वयं मनस इष्यत प्राविमोक्षं
ज्ञानात्मिका लयमुपैति सुषुप्तिकाले। शिष्टा क्रिया तत इदं हि शरीरभानं
यद्वान्यदृष्टित इदं भ्रमजं विभाति ॥२७॥ ननु सुप्तावन्त:करणस्यापि विलये तदधीनप्राणादिक्रियाया अनुपपत्तिरित्याशङ्क्याह-शक्तिद्वयमिति। मनसोऽन्तःकरणस्य द्वे शक्तो—ज्ञानशक्तिः, क्रियाशक्तिश्चेति। प्राविमोक्षमोक्षपर्यन्तं संसारान्यथानुपपत्त्या इष्यते इत्यर्थः । तत्र ज्ञानशक्तिविशिष्टान्तःकरणं सुषुप्तिकाले लयमुपैति । क्रियाशक्तिविशिष्टान्तःकरणं तत्र शिष्यते । तत एवेदं हि लोकप्रसिद्धं प्राणाद्यवस्थानपूर्वकं शरीरभानं सङ्गच्छते । प्रकारान्तरेण समाधानमाह-यदेति। वस्तुतः सुप्तपुंसः स्वदृष्टया श्वासाद्यभावेऽप्यन्यदृष्टितस्तदिदं भ्रमजं प्राणादिक्रियासहितं शरीरादि विभाति । तथा च तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् सुषुप्तशरीरोपलम्भवन्न तेनानुपपत्तिः शडक्येति भावः ॥ २७ ॥ सुप्तो न कञ्चन यदा परिपश्यतीति
श्रौतं वचो भवति मानमतः सुषुप्ता। साम्यं गतोऽपि परमात्मपदेन जीवः
__ स्वाज्ञानशेषत उपैति पुनर्धमाब्धिम् ॥२८॥ नित्यप्रलयः सुषुप्तिरित्यत्राऽप्रमाणशङ्काव्युदासाय “यत्रतत्पुरुषः सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन प्राण एवैकधा भवति तदैनं वाक सर्वैर्नामभिः सहाप्येति" ( कौ० ३ । ३) “सता सोम्य तदा सम्पन्नो भवति स्वमपीता भवति" (छा०६।८।१) इत्यादिश्रुति सुषुप्तौ प्रमाणत्वेनार्थतः पठति-सुप्त इति । मषुप्ति प्राप्तः पुरुषो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com