________________
२६४
प्रत्यक्तत्त्वचिन्तामणौ जाग्रत्स्वप्नवृत्चिद्वयविनिर्मुक्तो भवति। सर्व स्थूलसूक्ष्मशरीरद्वयं तत्र न पश्यति । सर्वव्यापारोपरमे परमात्मपदेन श्रुतौ सच्छब्दितेन जीवोऽयं साम्यं गतो भवति । अविद्याकामकर्मवासनावशेषसद्भावात् पुनर्जाग्रत्स्वप्नरूपप्रपञ्चभ्रमावर्त्त दुःखसमुद्रमुपैतीति तात्पर्यार्थः ॥ २८॥
सुप्तौ यतः सकलमेति लयं जगत्तद् ___जाग्रत्युदेति पुनरात्मपदासबोधात् । नित्योऽयमस्ति विलयः श्रुतिवाक्यसिद्धः
प्राज्ञत्वमेति खलु यत्र स विश्वसंज्ञः॥२६॥
नित्यं प्रलयं सप्रमाणकमुपसंहरति-सुप्ताविति । “सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति" ( कै० १।१३) "प्रानन्द भुक् प्राज्ञः" इत्यादिश्रुतिसिद्धसुषुप्तिरूपनित्यप्रलये सकलसंसारविलयः प्रामाणिकोऽस्तीति पुनरप्यज्ञानवशात् सकलं भूतभौतिकप्रपञ्च जाग्रदादौ प्रातिभासिकमेव व्यावहारिक्यां दशायां सत्यवदनुभवतीत्यर्थः ॥ २६ ॥
कार्यब्रह्मविनाशहेतुक इति मोक्तो लयः प्राकृतो
भूतानीह तदुत्यभौतिकगणा ब्रह्माण्डमेतद् गृहम् । सर्व तत्प्रकृती प्रयाति विलयं मायाभिधायां यतस्तत्त्वज्ञानमृते लयो न परमे ब्रह्माद्वये सम्भवेत्॥३०॥
द्वितीयं प्राकृताख्यं प्रलयं निरूपयति–कार्यब्रह्मेति । द्विपरार्द्धान्ते कार्यब्रह्मणो यो विनाशस्तन्निमित्तकः सकलकार्यविनाशः प्राकृतो लय: प्रोक्त इति सम्बन्धः । यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com