________________
२६५
षष्ठं प्रकरणम् । कार्यब्रह्मणः "सहसिद्धं चतुष्टयम्" इति शास्त्राद् ब्रह्माण्डाधिकारलक्षणप्रारब्धकर्मसमाप्तौ विदेहकैवल्यात्मिका परममुक्तिस्तदा तल्लोकवासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह विदेहकैवल्यम् ,
"ब्रह्मणा सह ते सर्वे सम्प्राप्त प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ।" इति श्रुतेः। एवं स्वलोकवासिभिः सह इह कार्यब्रह्मणि मुच्यमाने भूतानि वियदादीनि तेभ्यो भूतेभ्य उत्तिष्ठन्तीति तदुत्था भौतिकगणाः स्थावरजङ्गमात्मका देहास्तदाधाराश्चतुर्दश लोका एतेषां सर्वेषां तदधिष्ठातुश्च ब्रह्मणो गृहं ब्रह्माण्डम् , एतत्सर्व प्रकृतौ मायाविद्यादिशब्दवाच्यायां विलयं प्रयाति, न तु ब्रह्मणि, यतस्तत्त्वज्ञानं विना परमे ब्रह्माद्वये लयो न सम्भवेत, बाधरूपविनाशस्यैव ब्रह्मनिष्ठत्वात् । अतोऽयं लयः प्राकृत इत्युच्यते इत्यर्थः । तदुक्तं पुराणे
"द्विपरार्द्ध त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्प्यन्ते प्रलयाय हि ॥
एष प्राकृतिको राजन् ! प्रलयो यत्र लीयते।” इति ॥ ३० ॥ कार्यब्रह्मदिनावसानविलयः प्रोक्तः स नैमित्तिको
ब्रह्माहस्तु सहस्रमत्र मुनिभिः प्रोक्तं युगानां खलु । तावत्येव हिरण्यगर्भरजनी यावत्प्रमाणं दिनं यत्रोत्पद्य विलीयते त्रिभुवनं सोऽयं लयोऽवान्तरः॥३१॥
नैमित्तिकप्रलयं तृतीयं दर्शयति-कार्येति। कार्यब्रह्मणो दिवसावसाननिमित्तकस्बैलोक्यमात्रप्रलयो नैमित्तिकप्रलयः । ब्रह्मदिवसश्चतुर्युगसहस्रपरिमितकालः। “चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।" इत्येवं मुनिभिः प्रोक्तम् । प्रलयकालोऽपि दिवस
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com