________________
२६६
प्रत्यक्तत्त्वचिन्तामणौ काल परिमितः, रात्रिकालस्य दिवसकालतुल्यत्वादित्याह–तावतीति । एषोऽयमवान्तरो नैमित्तिक इति। तदुक्तम्
"एष नैमित्तिकः प्रोक्तः प्रल यो यत्र विश्वसृक। शेतेऽनन्तासने नित्यमात्मसात्कृत्य चात्मभूः ॥” इति ॥३१॥
ब्रह्मज्ञाननिमित्तकः प्रविलयोऽस्त्यात्यन्तिकस्तुर्यको
नानाजीवमते क्रमेण स भवेन्मोक्षः स्वरूपस्थितिः। एकाज्ञानिमते भवेत्स युगपन्मोक्षोऽप्यविद्याक्षये तवं प्रलया महेश्वरकृताः कर्मोपरामादिभिः॥३२॥
क्रमप्राप्तं तुरीयं प्रलयमाह-ब्रह्मज्ञानेति। तुरीयप्रलयो ब्रह्मसाक्षात्कारनिमित्त प्रात्यन्तिकः । स च मोक्षस्वरूपो नानाजीवादेः क्रमेण भवति, “सर्वे एकीभवन्ति" इत्यादिश्रुतेः । एकाज्ञानिमते एकजीववादे सर्वमोक्षा युगपदेवाविद्याया बाधे तत्कार्यबाधादन्यानवशेषादिति । तत्र प्राद्यास्त्रयोऽपि प्रलयाः कर्मोपरमनिमित्ता: । तुरीयस्तु ज्ञानोदयनिमित्तो लयो ज्ञानेन स हैवेति शेषः ।। ३२ ।।
सृष्टिक्रमात्प्रविलयोऽब्धिपरीत इष्टे
हेतुक्षये स्थितिमिदं लभते न कार्य्यम् । स्वादृष्टनाशत उपैति लयं स्वहेतो
सर्वक्षये परमकारणतां प्रयाति ॥३३॥ एवं चतुर्विधप्रलयं निरूप्य तस्येदानी क्रम निरूपयति-सृष्टोति । भूतानां भौतिकानाञ्च कारणलयक्रमेण लयोऽयुक्तः, कारणलयसमये कार्याणामाश्रयान्तराभावेनावस्थानानुपपत्तेः । किन्तु सृष्टिक्रमाद्विपरीतक्रमेण प्रविलय इष्टोऽस्ति । स्वादृष्टनाशतः कार्य स्वहेता लयमुपैति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com