SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । २५ "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि भायया ।" (गी० १८ । ६१ ) "मत्त स्मृतिर्ज्ञानमपाहनञ्च' । (गी० १५ । १५) "दैवी ह्यषा गुणमयी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते !" (गी० ७ १ १४ ) “पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययो' (ब्र० सू० ३ । २ । ५) “फलमत उपपत्तेः' (७० सू० ३ : २ । ३८ ) इत्यादिश्रुतिस्मृतिन्यायकदम्बैभगव मुख्य. मेव सर्वानर्थरूपाज्ञानतत्कार्यकर्मादिबन्धहेतुः, तदाभिमुख्यमेव सर्वा नर्थनिवृत्त्युपलज्ञितस्वस्वरूपानन्दाविर्भावमोक्षहेतुः, तदाभिमुख्यन्तु महापुण्यै ना दुर्लभम् । मनुष्याणां सहस्रवपि कश्चिदेव पुरुषधौरेयो भगवद्भक्तिर सिको जायते । तथा च परमपुरुषार्थसिद्धये भगवान कृष्ण एव परमप्रेमास्पदत्वेनाश्रयशोय इत्यभिप्रेत्याह--कश्चिदिति। मनुष्याणां सहस्रेष्वपि दुर्लभ: पुण्यैकस्वभावोऽत एवानघ: पापाचरणरहितो वेदं स्वाध्यायशब्दवाच स्वशाखाध्ययनरूपं वेदाध्ययनं कृत्वा यथाव ब्रह्मचर्या दिवतपुरःसरं गुरुप्रसादादस्य वेदस्यार्थ धर्मब्रह्मरूपं बुद्धवा आपाततोऽनुष्ठयत्वेन रूपेण ज्ञात्वा-असावधिकारी तदुदितं वेदोक्तं स्ववर्णाश्रमादिप्रयुक्तधर्म निष्कामकर्मरूपमीश्वराराधनलक्षणं कुर्वन्नाचरन्नि कामधर्मस्वाभाव्यादेव कृष्णे भगवद्वासुदेवे भक्तियोगेन प्रवणा प्रवाहीकृता धिषणा बुद्धिवृत्तिर्यस्य स तत्फलभूतभगवत्प्रेम्णाविष्टो ग्रहा. विष्टवद्विस्मृतदेहाभिमानस्ततोऽवर्जनीयतया सुमतिः शोभना भगवत्प्रसादलब्धा मतिब्रह्मात्मैक्याकारा बुद्धिवृत्तिर्यस्य ! स च बौद्धं वैभवं प्राप्य तत्त्वज्ञानात्मक मैश्वर्य स्वसाम्राज्याभिषेकरूपं लब्ध्वा जयति सर्वोपरि वरीवति । यद्वा, जयति संसारमिति शेषः। तथा च भग. वद्भक्तानां वैराग्यादिपुरःसरतत्त्वज्ञानलाभोऽनायासेनैव सिद्ध्यतीत्यतो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy