________________
प्रत्यक्तत्त्वचिन्तामणी तृष्णाग्राहे नरकगहने द्वेषरागादिन मिथ्याध्यासादिह निपतिता नैव शान्ति लभन्ते॥१५॥
संसारं सिन्धुरूपकेण वर्णयंस्तत्र निरूपिताना विश्रान्त्यभावमाह-संसाराब्धाविति। प्रलयसिन्धुवत्प्रचुरभयदेऽत्यन्तदुःसहयातनादिभयदायके, कामकर्मादिभिरत्यन्तागाधे, भ्रान्तिर्मिथ्याज्ञानमधऊर्ध्वभ्रमणहेतुतया आवर्तो यस्मिन् । जडेषु देहादिष्वहङ्कारास्पदेषु पुत्रकलत्रवित्तगृहादिषु ममत्वास्पदेषु रति: स्नेहादिरूपैव जलं यस्मिन् । जन्ममृत्युपरम्परैव प्रवाहो यस्मिन् । तृष्णैव लोभादिशब्दवाच्या प्रा. होऽधाकर्षकत्वसाम्याद्यस्मिन् । नरक एव गहनं संकटप्रदस्थानं यस्मिन् । द्वेष: परानिष्टचिन्तनं, रागः विषयेष्वासक्तिः, आदिपदेने
ादयो गृह्यन्ते, त एव नका: संसृतिसिन्धौ निमज्जनहेतवा यस्मिन् । इत्थंभूते संसाराब्धौ अनिर्वाच्यदेहाद्यात्मत्वाध्यासानिपतिता: निमजनोन्मजनादिभिर्धमन्तो नैव विश्रान्तिसुखं क्षणमपि लभन्त इत्यर्थः ॥ १५ ॥
कश्चित्पुण्यप्रकृतिरनघोऽधीत्य वेदं यथावद्
बुध्वास्यार्थ तदुदितममौ धर्ममीशार्चनाख्यम् । कुर्वन्कृष्णे प्रवणधिषणा भक्तियोगेन नित्यं प्रेम्णाविष्टो जयति सुमतिर्वैभवं प्राप्य बौद्धम् ॥१६॥
संसाराब्धिपातहेतुरात्माज्ञानमित्युक्तं तत्राज्ञानं तत्कार्यभूतं कर्मादि च जडत्वात्परतन्त्रं तदाश्रया जीवा अप्यज्ञतया ततोऽपि परतन्त्रतरास्तन्नियामकः सर्वज्ञः सर्वशक्तिः परमेश्वरः। एष ह्यवे साधु कर्म कारयति । तं यमेभ्यो लोकेभ्य उन्निनीषते, एष एवासाधु कर्म कारयति । तं यमेभ्यो लोकभ्योऽधो निनीषते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com