SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । २३ भूतैव सिद्ध्यतीति न तत्कृतेन जगत्कारणत्वेन ब्रह्मणो विकारित्वम् । तथा च भाष्यम् – यत्र हि यदध्यासस्तद्गतेन गुणेन दोषेण वा अणुमा - त्रेणापि न स सम्बध्यत इति ।। १३ ।। स्वात्मानन्दादमितपदतो ब्रह्मणो निर्विकारादात्माविद्यावृतमतितया प्रच्युताः स्वप्नदृग्वत् । जीवाः कर्माद्यमितनिगडा देहमात्राभिमाना मायाबद्धा जनिमृतिसृतो विभ्रमन्त्याकुलाङ्गाः ॥१४॥ इदानीं जीवानां ब्रह्मपदात्प्रच्युतिरेव सर्वानर्थहेतुरिति वदन् वैराग्यादिसिद्धये स्वात्माज्ञानहेतुकं संसृतिसिन्धुपातं संप्रकारं वर्णयति — स्वात्मानन्दादिति द्वाभ्याम् । स्वस्वरूपानन्दादपरिच्छिन्न पदात्कूटस्थाद्ब्रह्मणः स्वात्माज्ञानेनाच्छादित विवेकदृष्टितया स्वप्नदृष्टिवद् जीवाः प्रच्युताः सन्तो जनिमृतिसृती संसरणमार्गे संसारसिन्धुचक्रे विभ्रमन्तीत्यन्वयः | अत्यन्तपारवश्यं दर्शयति – मायाबद्धा इति । अत एव देहमात्राभिमानाः परिच्छिन्नदेहादावयमहमस्मीत्यहङ्कारिय इत्यर्थः । बन्धनसामग्री दर्शयति — कर्माद्यमिति । कर्माणि सञ्चितादीनि, आदिपदात्कामद्वेषाभिनिवेशादियहणम्, तैरमितास्तत्त्वज्ञानं विना कालापरिच्छेद्या निगडा बन्धका नानादेहभावना येषान्ते । यद्वा, कर्मादीन्येवामितानि बन्धनानि येषान्ते । ननु शास्त्रादीनां तत्त्वज्ञानसाधनानामपि संसारे सत्त्वात्तान्यादाय कथं ते बन्धमोक्षखोपायमनुतिष्ठन्तीत्याशङ्क्याह - प्राकुलाङ्गा इति । प्राकुलानि तत्तन्मनेोरथादिभिरङ्गानि बुद्धिमनः प्राणेन्द्रियादीनि येषान्ते तथा । शास्त्रार्थत्रह्म क्यविचार क्षणमप्यवकाशं न लभन्त इत्यर्थः ॥ १४ ॥ संसाराब्धौ प्रचुरभयदे कामकर्माद्यगाधे भ्रान्त्यावर्ते जडरतिजले जन्ममृत्युप्रवाहे । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy